आनन्दकन्दĀnandakanda

ĀK, 1, 21

20 of 35 · 222 verses

Select a line for its word-by-word analysis.

1.1१.१

योगसिद्धिदकुटीनिर्माणविधिःश्रीभैरवी । (१।१)

yogasiddhidakuṭīnirmāṇavidhiḥśrībhairavī |

1.2१.२

कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी । (१।२)

kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī |

1.3१.३

तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो ॥ (१।३)

tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho ||

2.1२.१

श्रीभैरवः । (२।१)

śrībhairavaḥ |

2.2२.२

वक्ष्यामि तां कुटीं सम्यक् शृणु त्रिपुरसुन्दरि । (२।२)

vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari |

2.3२.३

मेदिनीम् उन्नतीकृत्य पुनस्तां सुहृदं प्रिये ॥ (२।३)

medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye ||

3.1३.१

स्तंभांश्च क्रमशः षट् षट् पङ्क्तिशः स्थापयेदृजून् । (३।१)

staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn |

3.2३.२

तुला उपरि चारोप्य दारूणि सुदृढानि च ॥ (३।२)

tulā upari cāropya dārūṇi sudṛḍhāni ca ||

4.1४.१

स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् । (४।१)

sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet |

4.2४.२

परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभाम् ॥ (४।२)

parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām ||

5.1५.१

कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः । (५।१)

kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ |

5.2५.२

निखनेच्चतुरश्रं च दशप्रादेशमात्रकम् ॥ (५।२)

nikhaneccaturaśraṃ ca daśaprādeśamātrakam ||

6.1६.१

पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः । (६।१)

pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ |

6.2६.२

एवं दशवितस्त्याभिर् अचिन्त्यां तां मनोहराम् ॥ (६।२)

evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām ||

7.1७.१

प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे । (७।१)

prāgdvāraṃ bāhyavalaye dvitīye valaye śive |

7.2७.२

याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते ॥ (७।२)

yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate ||

8.1८.१

द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते । (८।१)

dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate |

8.2८.२

सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितम् ॥ (८।२)

sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam ||

9.1९.१

सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलम् । (९।१)

sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam |

9.2९.२

दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयम् ॥ (९।२)

dakṣiṇe cottare caiva kuṭyantarvedikādvayam ||

10.1१०.१

सार्धत्रयं वितस्तीनां विशालं चायतं दश । (१०।१)

sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa |

10.2१०.२

प्रादेशमात्रम् उत्सेधं मध्यं प्रादेशिकत्रयम् ॥ (१०।२)

prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam ||

11.1११.१

तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितम् । (११।१)

tatra gomayasambhūtaṃ bhasma vastreṇa gālitam |

11.2११.२

पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरम् ॥ (११।२)

pūrayecca kuṭībhittau citraṃ bahu suvistaram ||

12.1१२.१

भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहम् । (१२।१)

bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham |

12.2१२.२

फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितम् ॥ (१२।२)

phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam ||

13.1१३.१

नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनम् । (१३।१)

nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam |

13.2१३.२

दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहम् ॥ (१३।२)

digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham ||

14.1१४.१

हारकेयूरकटकमुद्रिकादिविभूषितम् । (१४।१)

hārakeyūrakaṭakamudrikādivibhūṣitam |

14.2१४.२

दशहस्तं च डमरुमङ्कुशं खड्गशूलकम् ॥ (१४।२)

daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam ||

15.1१५.१

वरदं सव्यहस्ताब्जैर् नागं पाशं च घण्टिकाम् । (१५।१)

varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām |

15.2१५.२

मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः ॥ (१५।२)

madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ ||

16.1१६.१

कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनम् । (१६।१)

kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam |

16.2१६.२

व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनम् ॥ (१६।२)

vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam ||

17.1१७.१

ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये । (१७।१)

tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye |

17.2१७.२

पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितम् ॥ (१७।२)

pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam ||

18.1१८.१

किङ्किणीमालया बद्धकर्णनूपुरशोभितम् । (१८।१)

kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam |

18.2१८.२

बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणम् ॥ (१८।२)

bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam ||

19.1१९.१

श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः । (१९।१)

śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ |

19.2१९.२

दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनम् ॥ (१९।२)

daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam ||

20.1२०.१

मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् । (२०।१)

māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret |

20.2२०.२

आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयम् ॥ (२०।२)

āpaduddhāraṇāyeti likhetpañcākṣaradvayam ||

21.1२१.१

वटुकायेति मायां च वटुकस्य मनुः स्मृतः । (२१।१)

vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ |

21.2२१.२

मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते ॥ (२१।२)

mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite ||

22.1२२.१

मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् । (२२।१)

mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet |

22.2२२.२

रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात् ॥ (२२।२)

ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt ||

23.1२३.१

कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितम् । (२३।१)

karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam |

23.2२३.२

अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके ॥ (२३।२)

aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake ||

24.1२४.१

बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् । (२४।१)

bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān |

24.2२४.२

द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान् ॥ (२४।२)

dvātriṃśaddalake kādisāntadvātriṃśadakṣarān ||

25.1२५.१

अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः । (२५।१)

anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ |

25.2२५.२

आपदुद्धारणं यन्त्रमपमृत्युनिवारणम् ॥ (२५।२)

āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam ||

26.1२६.१

रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि । (२६।१)

rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi |

26.2२६.२

स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकम् ॥ (२६।२)

strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam ||

27.1२७.१

नानासिद्धिप्रदं नित्यं सर्वरोगविषापहम् । (२७।१)

nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham |

27.2२७.२

हारकेयूररुचिरं कान्त्या विश्वविमोहनम् ॥ (२७।२)

hārakeyūraruciraṃ kāntyā viśvavimohanam ||

28.1२८.१

महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् । (२८।१)

mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet |

28.2२८.२

एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च ॥ (२८।२)

evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca ||

29.1२९.१

स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः । (२९।१)

svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ |

29.2२९.२

रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः ॥ (२९।२)

rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ ||

30.1३०.१

प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् । (३०।१)

pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet |

30.2३०.२

तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत् ॥ (३०।२)

tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet ||

31.1३१.१

आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् । (३१।१)

āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet |

31.2३१.२

बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत् ॥ (३१।२)

bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet ||

32.1३२.१

चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकम् । (३२।१)

catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam |

32.2३२.२

अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनम् ॥ (३२।२)

apamṛtyujvaravyādhikṣvelamohavināśanam ||

33.1३३.१

तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् । (३३।१)

tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet |

33.2३३.२

नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननम् ॥ (३३।२)

nīlapravālaruciraṃ triṇetraṃ rucirānanam ||

34.1३४.१

पाशारुणोत्पलं वामे दक्षे शूलकपालकौ । (३४।१)

pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau |

34.2३४.२

दधानम् इन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरम् ॥ (३४।२)

dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram ||

35.1३५.१

वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः । (३५।१)

vahniprathamavargādiṣamarephāḥ kramāttataḥ |

35.2३५.२

प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः ॥ (३५।२)

prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ ||

36.1३६.१

इदं चिन्तामणेर् मन्त्रं चिन्तितार्थप्रदं शुभम् । (३६।१)

idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham |

36.2३६.२

षोडशस्वरसंवीतं चिन्तामणिमभीष्टदम् ॥ (३६।२)

ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam ||

37.1३७.१

ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहम् । (३७।१)

ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham |

37.2३७.२

ततश्च शारदादेवीम् आलिखेत् सिद्धिदायिनीम् ॥ (३७।२)

tataśca śāradādevīm ālikhet siddhidāyinīm ||

38.1३८.१

शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधराम् । (३८।१)

śaṅkhakundendudhavalāṃ makuṭendukalādharām |

38.2३८.२

सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः ॥ (३८।२)

sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ ||

39.1३९.१

बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलाम् । (३९।१)

bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām |

39.2३९.२

वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः ॥ (३९।२)

vāgbījaṃ bhuvaneśīṃ ca vadavākyadvayaṃ tataḥ ||

40.1४०.१

वाग्वादिनीं ससम्बुद्धिम् अग्निपत्नीं समुच्चरेत् । (४०।१)

vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret |

40.2४०.२

एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः ॥ (४०।२)

eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ ||

41.1४१.१

आदिबीजद्वयं हित्वा शेषं पूर्ववद् उच्चरेत् । (४१।१)

ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret |

41.2४१.२

दशार्णशारदामन्त्रो वाग्विलासप्रदायकः ॥ (४१।२)

daśārṇaśāradāmantro vāgvilāsapradāyakaḥ ||

42.1४२.१

वियद्वर्णसुकारं च सद्यान्तं सविसर्गकम् । (४२।१)

viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam |

42.2४२.२

कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि ॥ (४२।२)

karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi ||

43.1४३.१

अष्टच्छदेष्व् अष्टवर्गान्य् अशहाद्यैः परैस्त्रिभिः । (४३।१)

aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ |

43.2४३.२

काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः ॥ (४३।२)

kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ ||

44.1४४.१

लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् । (४४।१)

likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset |

44.2४४.२

इदं हि मातृकायन्त्रं विषमृत्युगदापहम् ॥ (४४।२)

idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham ||

45.1४५.१

अघोरं विलिखेद्देवि नीलजीमूतसन्निभम् । (४५।१)

aghoraṃ vilikheddevi nīlajīmūtasannibham |

45.2४५.२

क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितम् ॥ (४५।२)

krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam ||

46.1४६.१

रक्ताङ्गरागवसनं रक्तमालाविराजितम् । (४६।१)

raktāṅgarāgavasanaṃ raktamālāvirājitam |

46.2४६.२

परश्वथुं च डमरुं खड्गं खेटम् इषुं धनुः ॥ (४६।२)

paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ ||

47.1४७.१

त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः । (४७।१)

triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ |

47.2४७.२

भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितम् ॥ (४७।२)

bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam ||

48.1४८.१

घोरं ततोऽघोरतरं तनुरूपं चटद्वयम् । (४८।१)

ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam |

48.2४८.२

प्रकटद्विगुणं चैव कहशब्दयुगं ततः ॥ (४८।२)

prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ ||

49.1४९.१

वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितम् । (४९।१)

vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam |

49.2४९.२

घातयद्वितयं देवि कवचं च फडन्तकम् ॥ (४९।२)

ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam ||

50.1५०.१

एकोत्तरोऽयं पञ्चाशदर्णो ऽघोरः स्मृतो मनुः । (५०।१)

ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ |

50.2५०.२

वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतम् ॥ (५०।२)

vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam ||

51.1५१.१

मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहम् । (५१।१)

muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham |

51.2५१.२

सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये ॥ (५१।२)

sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye ||

52.1५२.१

मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतम् । (५२।१)

māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam |

52.2५२.२

तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकम् ॥ (५२।२)

tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam ||

53.1५३.१

ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान् लिखेत् । (५३।१)

tatastvaṣṭadale mantravarṇānguṇamitān likhet |

53.2५३.२

अग्रशेषेषु तद्वत् तत्षट्कोणे कवचास्त्रकौ ॥ (५३।२)

agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau ||

54.1५४.१

तद्बहिर्भूपुरं लेख्यम् एनदाघोरयन्त्रकम् । (५४।१)

tadbahirbhūpuraṃ lekhyam enadāghorayantrakam |

54.2५४.२

स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः ॥ (५४।२)

sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ ||

55.1५५.१

षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् । (५५।१)

ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt |

55.2५५.२

षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः ॥ (५५।२)

ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ ||

56.1५६.१

ऋतुभिः शिष्टमन्त्रार्णैर् अमीभिर् विलिखेत्ततः । (५६।१)

ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ |

56.2५६.२

षट्कोणे वह्निचास्त्राभ्याम् उद्धृतं वीतकोणकम् ॥ (५६।२)

ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam ||

57.1५७.१

भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये । (५७।१)

bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye |

57.2५७.२

व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहम् ॥ (५७।२)

vyālāricorakṣudrāpasmārabhūtagrahāpaham ||

58.1५८.१

अथो महागणपतिं लिखेद्विद्रुमसन्निभम् । (५८।१)

atho mahāgaṇapatiṃ likhedvidrumasannibham |

58.2५८.२

कोटीरचन्द्रशकलं गजास्यं लोचनत्रयम् ॥ (५८।२)

koṭīracandraśakalaṃ gajāsyaṃ locanatrayam ||

59.1५९.१

तुन्दिलं रक्तवसनं रक्तमालानुलेपनम् । (५९।१)

tundilaṃ raktavasanaṃ raktamālānulepanam |

59.2५९.२

दशदोर्दण्डसुभगं वामोरुस्थितयोषितम् ॥ (५९।२)

daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam ||

60.1६०.१

हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलम् । (६०।१)

hārakeyūrakaṭakamudrikākuṇḍalojjvalam |

60.2६०.२

फलपूरं गदाम् इक्षुकोदण्डं च त्रिशूलकम् ॥ (६०।२)

phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam ||

61.1६१.१

चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीम् । (६१।१)

cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm |

61.2६१.२

स्वदन्ततुण्डया रत्नकलशं दशभिः करैः ॥ (६१।२)

svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ ||

62.1६२.१

बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया । (६२।१)

bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā |

62.2६२.२

आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमम् ॥ (६२।२)

āliṅgitaṃ bhaktalokacintitārthasuradrumam ||

63.1६३.१

प्रणवं कमलां मायां कामराजं वसुंधराम् । (६३।१)

praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām |

63.2६३.२

क्रमाद्गणपतेर्बीजं महागणपतिं ततः ॥ (६३।२)

kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ ||

64.1६४.१

चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा । (६४।१)

caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā |

64.2६४.२

ततः सर्वजनं मे च वशमानय शब्दकम् ॥ (६४।२)

tataḥ sarvajanaṃ me ca vaśamānaya śabdakam ||

65.1६५.१

अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकम् । (६५।१)

agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam |

65.2६५.२

मन्त्रं महागणपतेर् मृत्युदारिद्र्यनाशनम् ॥ (६५।२)

mantraṃ mahāgaṇapater mṛtyudāridryanāśanam ||

66.1६६.१

त्रिकोणे बीजमालिख्य सतारे च गणेशितुः । (६६।१)

trikoṇe bījamālikhya satāre ca gaṇeśituḥ |

66.2६६.२

दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत् ॥ (६६।२)

dikṣu śrīśaktimadanabhūbījāni bahirlikhet ||

67.1६७.१

षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकम् । (६७।१)

ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam |

67.2६७.२

ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत् ॥ (६७।२)

tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet ||

68.1६८.१

अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः । (६८।१)

antyākṣare cāntyadale mātṛkāmanulomataḥ |

68.2६८.२

लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः ॥ (६८।२)

lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ ||

69.1६९.१

भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभम् । (६९।१)

bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham |

69.2६९.२

गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनम् ॥ (६९।२)

gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam ||

70.1७०.१

एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् । (७०।१)

etāni yantrajālāni kuṭyantardevatā likhet |

70.2७०.२

कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत् ॥ (७०।२)

kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet ||

71.1७१.१

असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् । (७१।१)

asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam |

71.2७१.२

कपालिनं भीषणं च संहारं भैरवं क्रमात् ॥ (७१।२)

kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt ||

72.1७२.१

द्वितीयावरणस्यान्तर् भित्तावेकादश क्रमात् । (७२।१)

dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt |

72.2७२.२

रुद्रांस् त्रिलोचनांश् चन्द्रकलाजूटजटान् लिखेत् ॥ (७२।२)

rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet ||

73.1७३.१

तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश । (७३।१)

tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa |

73.2७३.२

सनत्कुमारसनकसनन्दादीन् लिखेत्ततः ॥ (७३।२)

sanatkumārasanakasanandādīn likhettataḥ ||

74.1७४.१

तृतीयावरणस्यान्तर् भित्तौ ब्राह्म्यादिमातरः । (७४।१)

tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ |

74.2७४.२

चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि ॥ (७४।२)

catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi ||

75.1७५.१

तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् । (७५।१)

tadbhittibāhye devendramukhā dikpatayaḥ kramāt |

75.2७५.२

ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः ॥ (७५।२)

grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ ||

76.1७६.१

मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः । (७६।१)

meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ |

76.2७६.२

कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत् ॥ (७६।२)

kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet ||

77.1७७.१

द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ । (७७।१)

dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau |

77.2७७.२

गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च ॥ (७७।२)

garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca ||

78.1७८.१

द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ । (७८।१)

dvārasya pārśvayordevi vilikhedbhayabhañjanau |

78.2७८.२

यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः ॥ (७८।२)

yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ ||

79.1७९.१

देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनम् । (७९।१)

deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam |

79.2७९.२

तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः ॥ (७९।२)

tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ ||

80.1८०.१

राष्ट्रं सुभिक्षम् आरोग्यम् अनामयसुखावहम् । (८०।१)

rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham |

80.2८०.२

ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलम् ॥ (८०।२)

ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam ||

81.1८१.१

तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितम् । (८१।१)

taskaropadravavyāghrasarpādibhayavarjitam |

81.2८१.२

तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च ॥ (८१।२)

tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca ||

82.1८२.१

इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः । (८२।१)

indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ |

82.2८२.२

योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः ॥ (८२।२)

yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ ||

83.1८३.१

तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः । (८३।१)

tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ |

83.2८३.२

सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलम् ॥ (८३।२)

sambhaveccakravartitvaṃ punarnityotsavojjvalam ||

84.1८४.१

वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् । (८४।१)

vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet |

84.2८४.२

कुष्ठापस्मारभूतादिमहाव्याधिविनाशनम् ॥ (८४।२)

kuṣṭhāpasmārabhūtādimahāvyādhivināśanam ||

85.1८५.१

कुटीगता भवेयुस्ते ये सेवन्ते रसायनम् । (८५।१)

kuṭīgatā bhaveyuste ye sevante rasāyanam |

85.2८५.२

सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभाम् ॥ (८५।२)

siddhiṃ yānti sukhenaiva devānāmapi durlabhām ||

86.1८६.१

अमरीकल्पःदेवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवम् । (८६।१)

amarīkalpaḥdevi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam |

86.2८६.२

अमरीकल्पमनघं सुलभं निजदेहजम् ॥ (८६।२)

amarīkalpamanaghaṃ sulabhaṃ nijadehajam ||

87.1८७.१

अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदम् । (८७।१)

aṇimādyaṣṭakaiśvaryadehalohādisiddhidam |

87.2८७.२

वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः ॥ (८७।२)

vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ ||

88.1८८.१

कुटीगतस्तु देवेशि शिवतोयमुदारधीः । (८८।१)

kuṭīgatastu deveśi śivatoyamudāradhīḥ |

88.2८८.२

स्थूलस्य कतकस्यैव दारुणा पानपात्रकम् ॥ (८८।२)

sthūlasya katakasyaiva dāruṇā pānapātrakam ||

89.1८९.१

कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे । (८९।१)

kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare |

89.2८९.२

कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये ॥ (८९।२)

karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye ||

90.1९०.१

स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् । (९०।१)

sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet |

90.2९०.२

मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः ॥ (९०।२)

madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ ||

91.1९१.१

लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा । (९१।१)

loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā |

91.2९१.२

इष्टदेवान्गुरून्वृद्धान् नत्वार्चितगणेश्वरः ॥ (९१।२)

iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ ||

92.1९२.१

मिताहारो युक्तचेष्टो वातातपविवर्जितः । (९२।१)

mitāhāro yuktaceṣṭo vātātapavivarjitaḥ |

92.2९२.२

एकमण्डलमात्रेण बाह्यान्तः शुचिभाग् भवेत् ॥ (९२।२)

ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet ||

93.1९३.१

मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनम् । (९३।१)

maṇḍalena dvitīyena sarvakuṣṭhavināśanam |

93.2९३.२

मण्डलेन तृतीयेन चतुर्विधविषापहम् ॥ (९३।२)

maṇḍalena tṛtīyena caturvidhaviṣāpaham ||

94.1९४.१

मण्डलेन चतुर्थेन नालिकेराम्बुवद् भवेत् । (९४।१)

maṇḍalena caturthena nālikerāmbuvad bhavet |

94.2९४.२

आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनम् ॥ (९४।२)

ātmatoyaṃ pañcamena maladaurgandhyanāśanam ||

95.1९५.१

षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनम् । (९५।१)

ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam |

95.2९५.२

सप्तमण्डलयोगेन भवेदिन्द्रियपाटवम् ॥ (९५।२)

saptamaṇḍalayogena bhavedindriyapāṭavam ||

96.1९६.१

ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् । (९६।१)

tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk |

96.2९६.२

सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलम् ॥ (९६।२)

seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam ||

97.1९७.१

वलीपलितहीनः स्यान्महाविषभयोज्झितः । (९७।१)

valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ |

97.2९७.२

मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ ॥ (९७।२)

maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau ||

98.1९८.१

शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिम् । (९८।१)

śivatoyena sammiśraṃ prapibedekaviṃśatim |

98.2९८.२

मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः ॥ (९८।२)

maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ ||

99.1९९.१

द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतम् । (९९।१)

dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam |

99.2९९.२

एवं भजेद्यमी यावदष्टाविंशतिमण्डलम् ॥ (९९।२)

evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam ||

100.1१००.१

मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः । (१००।१)

mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ |

100.2१००.२

एकोनत्रिंशति प्राप्ते मण्डले वरया युताम् ॥ (१००।२)

ekonatriṃśati prāpte maṇḍale varayā yutām ||

101.1१०१.१

सकान्तचूर्णविमलां गोधामपि पिबेत् प्रिये । (१०१।१)

sakāntacūrṇavimalāṃ godhāmapi pibet priye |

101.2१०१.२

पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः ॥ (१०१।२)

pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ ||

102.1१०२.१

षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितम् । (१०२।१)

ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam |

102.2१०२.२

आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकम् ॥ (१०२।२)

ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam ||

103.1१०३.१

चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् । (१०३।१)

catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet |

103.2१०३.२

त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतम् ॥ (१०३।२)

tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam ||

104.1१०४.१

वरायुतं पिबेद् ऊनपञ्चाशन्मण्डलावधिः । (१०४।१)

varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ |

104.2१०४.२

अणिमादिगुणोपेतो वज्रकायश्च खेचरः ॥ (१०४।२)

aṇimādiguṇopeto vajrakāyaśca khecaraḥ ||

105.1१०५.१

सिद्धैर् युक्तो निरातङ्को निरपायो निरञ्जनः । (१०५।१)

siddhair yukto nirātaṅko nirapāyo nirañjanaḥ |

105.2१०५.२

यदृच्छया सर्वलोके विहरत्येव सर्वदा ॥ (१०५।२)

yadṛcchayā sarvaloke viharatyeva sarvadā ||

106.1१०६.१

आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् । (१०६।१)

ārabhya prathamaṃ devi maṇḍalānnityamācaret |

106.2१०६.२

आत्मतोयेन धुत्तूररसेन परिलोडयेत् ॥ (१०६।२)

ātmatoyena dhuttūrarasena pariloḍayet ||

107.1१०७.१

भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् । (१०७।१)

bhasma tenaiva sarvāṅgamasakṛtparimardayet |

107.2१०७.२

अन्यकालसमायातम् आत्मतोयं विशेषतः ॥ (१०७।२)

anyakālasamāyātam ātmatoyaṃ viśeṣataḥ ||

108.1१०८.१

मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये । (१०८।१)

mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye |

108.2१०८.२

शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः ॥ (१०८।२)

śīlayetsatataṃ devi śuddhadeho bhavennaraḥ ||

109.1१०९.१

कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये । (१०९।१)

kadācidapyātmagodhāṃ bhūmau na visṛjetpriye |

109.2१०९.२

अमरीसेविनः पुंसः शिवतोयेन जायते ॥ (१०९।२)

amarīsevinaḥ puṃsaḥ śivatoyena jāyate ||

110.1११०.१

सर्वलोहं च कनकं दिव्यं मनुजदुर्लभम् । (११०।१)

sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham |

110.2११०.२

विजयासहितां गोधां प्रतिवासरमापिबेत् ॥ (११०।२)

vijayāsahitāṃ godhāṃ prativāsaramāpibet ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 1, 21

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit