आनन्दकन्दĀnandakanda

ĀK, 2, 4

29 of 35 · 122 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीभैरवः । (१।१)

śrībhairavaḥ |

1.2१.२

ताम्रताम्रं म्लेच्छमुखं शुल्बं तपनेष्टमुदुम्बरम् । (१।२)

tāmratāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram |

1.3१.३

त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् ॥ (१।३)

tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam ||

2.1२.१

रक्तं नैपालकं चैव रक्तधातुः करेन्दुधा । (२।१)

raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā |

2.2२.२

म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ॥ (२।२)

mlecchaṃ nepālakaṃ ceti tayornepālamuttamam ||

3.1३.१

नेपालाद् अन्यखन्युत्थं म्लेच्छमित्यभिधीयते । (३।१)

nepālād anyakhanyutthaṃ mlecchamityabhidhīyate |

3.2३.२

सुस्निग्धं मृदुलं शोणं घनघातक्षयं गुरु ॥ (३।२)

susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru ||

4.1४.१

निर्विकारं गुरु श्रेष्ठं ताम्रं नेपालमुच्यते । (४।१)

nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate |

4.2४.२

सितकृष्णारुणच्छायं वामभेदि कठोरकम् ॥ (४।२)

sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam ||

5.1५.१

क्षालितं च पुनः कृष्णम् एतन्म्लेच्छकताम्रकम् । (५।१)

kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam |

5.2५.२

पाण्डुरं कृष्णशोणं च लघु स्फुटनसंयुतम् ॥ (५।२)

pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam ||

6.1६.१

रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि । (६।१)

rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi |

6.2६.२

उत्क्लेदमोहभ्रमदाहभेदाः ताम्रस्य दोषाः खलु दुर्धरास्ते । (६।२)

utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste |

6.3६.३

विशोधनात् तद्विगतस्वदोषं सुधासमं स्याद्रसवीर्यपाके ॥ (६।३)

viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke ||

7.0७.०

वान्तिमूर्च्छाभ्रमोन्मादनानारुक्कुष्ठशूलकृत् ॥ (७।०)

vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt ||

8.1८.१

आयुःकान्तिबलभ्रंशकरं धातुप्रदूषणम् । (८।१)

āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam |

8.2८.२

नु शुद्धं न मृतं ताम्रं तेन संशोध्य मारयेत् ॥ (८।२)

nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet ||

9.1९.१

ताम्रशुद्धिताम्रं क्षाराम्लसंयुक्तं द्रावितं तप्तगैरिकम् । (९।१)

tāmraśuddhitāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam |

9.2९.२

निक्षिप्तं महिषीतक्रछगणे सप्तवारकम् ॥ (९।२)

nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam ||

10.1१०.१

पञ्चदोषविनिर्मुक्तं सप्तवारेण जायते । (१०।१)

pañcadoṣavinirmuktaṃ saptavāreṇa jāyate |

10.2१०.२

ताम्रनिर्दलपत्त्राणि लिप्त्वा निम्बवसिन्धुना ॥ (१०।२)

tāmranirdalapattrāṇi liptvā nimbavasindhunā ||

11.1११.१

ध्मात्वा सौवीरके क्षेपाद्विशुध्यत्यष्टवारतः । (११।१)

dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ |

11.2११.२

निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ (११।२)

nimbvambupaṭuliptāni tāpitānyaṣṭavārakam ||

12.1१२.१

विशुध्यन्त्यर्कपत्राणि निर्गुण्डीरसमर्दनात् । (१२।१)

viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt |

12.2१२.२

कुमारीपत्रमध्ये तु शुल्वपत्रं निवेशितम् ॥ (१२।२)

kumārīpatramadhye tu śulvapatraṃ niveśitam ||

13.1१३.१

पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते । (१३।१)

puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate |

13.2१३.२

इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ॥ (१३।२)

itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam ||

14.1१४.१

भवेद्रसायनकरं देहलोहकरं परम् । (१४।१)

bhavedrasāyanakaraṃ dehalohakaraṃ param |

14.2१४.२

इमां शुद्धिं विजानीयाच्छिवो वा नन्दिकेश्वरः ॥ (१४।२)

imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ ||

15.1१५.१

बलिना निहतं ताम्रं सप्तवारं समुत्थितम् । (१५।१)

balinā nihataṃ tāmraṃ saptavāraṃ samutthitam |

15.2१५.२

सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥ (१५।२)

sarvadoṣavinirmuktaṃ bhavedamṛtasannibham ||

16.1१६.१

स्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् । (१६।१)

snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam |

16.2१६.२

लिप्त्वा प्रताप्य निर्गुण्डीरसैः सिञ्च्यात् पुनः पुनः ॥ (१६।२)

liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ ||

17.1१७.१

वारान् द्वादशतः शुद्धं लेपात्तापाच्च सेचनात् । (१७।१)

vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt |

17.2१७.२

खटिकां लवणं तक्रैरारनालैश्च पेषयेत् ॥ (१७।२)

khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet ||

18.1१८.१

तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् । (१८।१)

tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet |

18.2१८.२

षड्वारम् अम्लतक्रान्तर् निर्गुण्ड्याश्च विशुद्धये ॥ (१८।२)

ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye ||

19.1१९.१

तप्तानि ताम्रपत्राणि सेचयेत्तिक्तकारसैः । (१९।१)

taptāni tāmrapatrāṇi secayettiktakārasaiḥ |

19.2१९.२

लिप्त्वाम्लतक्रलवणकाञ्जिकेन पुनः पुनः ॥ (१९।२)

liptvāmlatakralavaṇakāñjikena punaḥ punaḥ ||

20.1२०.१

तप्तं तप्तं त्रिधा सिञ्च्याच्छुद्धिमायाति निश्चयम् । (२०।१)

taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam |

20.2२०.२

गोमूत्रेण पचेद्यामं ताम्रपात्रं दृढाग्निना ॥ (२०।२)

gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā ||

21.1२१.१

शुध्यते नात्र सन्देहो मारणं चाप्यथोच्यते । (२१।१)

śudhyate nātra sandeho māraṇaṃ cāpyathocyate |

21.2२१.२

ताम्रभस्म (१)गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ॥ (२१।२)

tāmrabhasma (1)gandhena tāmratulyena hyamlapiṣṭena lepayet ||

22.1२२.१

कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् । (२२।१)

kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet |

22.2२२.२

उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥ (२२।२)

uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet ||

23.1२३.१

जम्बीरैर् आरनालैर् वा मृगदूर्वाथवा द्रवैः । (२३।१)

jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ |

23.2२३.२

पिष्ट्वा पिष्ट्वा पचेद्रुद्धं सगन्धं च चतुष्पुटैः ॥ (२३।२)

piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ ||

24.1२४.१

मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् । (२४।१)

mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet |

24.2२४.२

सितशर्करयाप्येकं पुटं देयं मृतं भवेत् ॥ (२४।२)

sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet ||

25.1२५.१

ताम्रभस्म (२)पाषाणभेदिमत्स्याक्षीद्रवैर् द्विगुणगन्धकम् । (२५।१)

tāmrabhasma (2)pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam |

25.2२५.२

ताम्रस्य लेपयेत् पिष्टिं रुद्ध्वा गजपुटे पचेत् ॥ (२५।२)

tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet ||

26.1२६.१

समांशेन पुनर्गन्धं दत्त्वा द्रावैश्च लोलयेत् । (२६।१)

samāṃśena punargandhaṃ dattvā drāvaiśca lolayet |

26.2२६.२

एवं सप्तपुटैः पक्वं ताम्रभस्म भवेद् ध्रुवम् ॥ (२६।२)

evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam ||

27.1२७.१

ताम्रभस्म (३)ताम्रस्य त्रिगुणं सूतं जम्बीराम्लेन मर्दयेत् । (२७।१)

tāmrabhasma (3)tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet |

27.2२७.२

आदौ मूषान्तरे क्षिप्त्वा धुत्तूरस्य तु पत्रकम् ॥ (२७।२)

ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam ||

28.1२८.१

तत्पृष्ठे ताम्रतुल्यं च गन्धकं चूर्णितं क्षिपेत् । (२८।१)

tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet |

28.2२८.२

तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं च गन्धकम् ॥ (२८।२)

tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam ||

29.1२९.१

आच्छाद्य धूर्तपत्रैस्तु रुद्ध्वा गजपुटे पचेत् । (२९।१)

ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet |

29.2२९.२

स्वाङ्गशीतं ततश्चूर्णं मृतं भवति निश्चितम् ॥ (२९।२)

svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam ||

30.1३०.१

ताम्रभस्म (४)किंचिद्गन्धेन वाम्लेन क्षालयेत्ताम्रपत्रकम् । (३०।१)

tāmrabhasma (4)kiṃcidgandhena vāmlena kṣālayettāmrapatrakam |

30.2३०.२

ताम्रपादेन सूतेन सार्द्रं पत्रं प्रलेपयेत् ॥ (३०।२)

tāmrapādena sūtena sārdraṃ patraṃ pralepayet ||

31.1३१.१

ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः । (३१।१)

tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ |

31.2३१.२

लिप्त्वा ह्यधोर्ध्वगं देया सुपिष्टा चाम्लपर्णिका ॥ (३१।२)

liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā ||

32.1३२.१

तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्ल्यां विपाचयेत् । (३२।१)

tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet |

32.2३२.२

यामैकं ताम्रपाकेन भस्मीभवति निश्चितम् ॥ (३२।२)

yāmaikaṃ tāmrapākena bhasmībhavati niścitam ||

33.1३३.१

ताम्रभस्म (५)सूतमेकं द्विधा गन्धं यामं कन्या विमर्दयेत् । (३३।१)

tāmrabhasma (5)sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet |

33.2३३.२

द्वयोस् तुल्ये ताम्रपत्रे स्थाल्या गर्भे निरोधयेत् ॥ (३३।२)

dvayos tulye tāmrapatre sthālyā garbhe nirodhayet ||

34.1३४.१

सम्यङ्मृल्लवणैः सन्धिं पार्श्वे भस्म निधापयेत् । (३४।१)

samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet |

34.2३४.२

चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ (३४।२)

caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam ||

35.1३५.१

जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् । (३५।१)

jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet |

35.2३५.२

म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ (३५।२)

mriyate nātra sandehaḥ sarvayogeṣu yojayet ||

36.1३६.१

ताम्रभस्म (६)जीर्णं ताम्रं समादाय तत्र चैतान्विनिक्षिपेत् । (३६।१)

tāmrabhasma (6)jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet |

36.2३६.२

वङ्गं घोषं गजं तीक्ष्णसारं कान्तं च षट् समान् ॥ (३६।२)

vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān ||

37.1३७.१

प्रत्येकं ताम्रमानेन सर्वानेकत्र धामयेत् । (३७।१)

pratyekaṃ tāmramānena sarvānekatra dhāmayet |

37.2३७.२

वङ्कनालेन तावत्तद्यावदर्कोऽवशिष्यते ॥ (३७।२)

vaṅkanālena tāvattadyāvadarko'vaśiṣyate ||

38.1३८.१

तमर्कं ढालयेत्पूर्वं निर्गुण्डीसलिलान्तरे । (३८।१)

tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare |

38.2३८.२

सप्तवारांश्च तन्मूलचूर्णमर्के प्रवापयेत् ॥ (३८।२)

saptavārāṃśca tanmūlacūrṇamarke pravāpayet ||

39.1३९.१

तेन ताम्रेण कुर्वीत वटिकामव्रणां शुभाम् । (३९।१)

tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām |

39.2३९.२

द्विगुणं गन्धकं लिप्त्वा बलेस्त्र्यंशं च पारदम् ॥ (३९।२)

dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam ||

40.1४०.१

शुद्धं हिङ्गुलजं वापि मर्दयेद्बीजपूरकैः । (४०।१)

śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ |

40.2४०.२

जम्बीरजैर्वा लिकुचनीरैः सम्यक् प्रमर्दयेत् ॥ (४०।२)

jambīrajairvā likucanīraiḥ samyak pramardayet ||

41.1४१.१

त्रिदिनं तद्विशोष्याथ भाण्डान्तस्तन्निवेशयेत् । (४१।१)

tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet |

41.2४१.२

उपरिष्टात्ताम्रघटीम् अधोवक्त्रां निधाय च ॥ (४१।२)

upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca ||

42.1४२.१

दृढं विलेपयेत्पश्चात् कटोरीं मृण्मयीं क्षिपेत् । (४२।१)

dṛḍhaṃ vilepayetpaścāt kaṭorīṃ mṛṇmayīṃ kṣipet |

42.2४२.२

अतिप्रयत्नाल्लिम्पेत् तां यथा वारा न भिद्यते ॥ (४२।२)

atiprayatnāllimpet tāṃ yathā vārā na bhidyate ||

43.1४३.१

अधिचुल्लि ततो दत्त्वा पूरयित्वा जलैरधः । (४३।१)

adhiculli tato dattvā pūrayitvā jalairadhaḥ |

43.2४३.२

प्रज्वालयेद्वीतिहोत्रं मृदुमध्योत्तमक्रमात् ॥ (४३।२)

prajvālayedvītihotraṃ mṛdumadhyottamakramāt ||

44.1४४.१

दिनानि षट् समादाय स्वाङ्गशीतं तु पात्रकम् । (४४।१)

dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam |

44.2४४.२

निर्भिद्य शुल्वं गृह्णीत मृतं सूतेन यत्नतः ॥ (४४।२)

nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ ||

45.1४५.१

ततः खल्वे विचूर्ण्यैतद् यथेष्टं विनियोजयेत् । (४५।१)

tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet |

45.2४५.२

ताम्रभस्मशुद्धिःनानाविधं मृतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ॥ (४५।२)

tāmrabhasmaśuddhiḥnānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam ||

46.1४६.१

भागैकं श्वेतकाचं च भागं श्वेतं च टङ्कणम् । (४६।१)

bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam |

46.2४६.२

मूषायां मिश्रितं क्षिप्त्वा भागैकं चाभ्रपत्रकम् ॥ (४६।२)

mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam ||

47.1४७.१

ऊर्ध्वं दत्त्वा निरुध्याथ ध्माते ग्राह्यं सुशीतलम् । (४७।१)

ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam |

47.2४७.२

निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ॥ (४७।२)

nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet ||

48.1४८.१

अथवा मारितं ताम्रम् अम्लेनैकेन मर्दयेत् । (४८।१)

athavā māritaṃ tāmram amlenaikena mardayet |

48.2४८.२

तद्गोलं सूरणस्यान्तः रुद्ध्वा सर्वत्र लेपयेत् ॥ (४८।२)

tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet ||

49.1४९.१

शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् । (४९।१)

śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet |

49.2४९.२

वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥ (४९।२)

vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana ||

50.1५०.१

ताम्रभस्म (७)विलिप्य लिकुचद्रावपिष्टगन्धाश्मपङ्कतः । (५०।१)

tāmrabhasma (7)vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ |

50.2५०.२

ताम्रपत्राणि संछाद्य स्थालीमध्ये निरुध्य च ॥ (५०।२)

tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca ||

51.1५१.१

याममात्रं पचेत्सम्यक् शीतान्याकृष्य चूर्णयेत् । (५१।१)

yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet |

51.2५१.२

तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ (५१।२)

tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam ||

52.1५२.१

भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः । (५२।१)

bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ |

52.2५२.२

ज्वरं विनाशयेन्नॄणां शूलाध्मानसमन्वितम् ॥ (५२।२)

jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam ||

53.1५३.१

विषं गरं च वेगेन वामयत्येव निश्चितम् । (५३।१)

viṣaṃ garaṃ ca vegena vāmayatyeva niścitam |

53.2५३.२

पथ्यमत्र प्रदातव्यं गव्यं तक्रं च भक्तकम् ॥ (५३।२)

pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam ||

54.1५४.१

अतिरेकेऽतिवान्तौ च समोहे चातिमात्रके । (५४।१)

atireke'tivāntau ca samohe cātimātrake |

54.2५४.२

तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ (५४।२)

tattadaucityayogena kuryācchītāṃ pratikriyām ||

55.1५५.१

अतिवान्तौ भजेद् भ्रष्टम् इक्षुदण्डं सुशीतलम् । (५५।१)

ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam |

55.2५५.२

यद्वा बिल्वभवं क्वाथं सितया सह पाचयेत् ॥ (५५।२)

yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet ||

56.1५६.१

बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतः । (५६।१)

barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ |

56.2५६.२

ताम्रभस्म (८)शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ (५६।२)

tāmrabhasma (8)śulbatulyena sūtena balinā tatsamena ca ||

57.1५७.१

तदर्धांशेन तालेन शिलया च तदर्धया । (५७।१)

tadardhāṃśena tālena śilayā ca tadardhayā |

57.2५७.२

विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ (५७।२)

vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām ||

58.1५८.१

यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे । (५८।१)

yantrādhyāyavinirdiṣṭagarbhayantrodarāntare |

58.2५८.२

कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ॥ (५८।२)

kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet ||

59.1५९.१

प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं विचूर्णयेत् । (५९।१)

prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet |

59.2५९.२

तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् । (५९।२)

tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram |

59.3५९.३

गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं सर्वामयध्वंसनम् ॥ (५९।३)

gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam ||

60.1६०.१

ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं कोष्णं पित्तकफापहं जठररुक्कुष्ठामजूर्त्यन्तकृत् । (६०।१)

tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt |

60.2६०.२

ऊर्ध्वाधःपरिशोधनं च विषहृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ (६०।२)

ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 2, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit