ĀK, 2, 2
Select a line for its word-by-word analysis.
स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे । (१।२)
svarṇādisarvalohānāmutpattyādikramaṃ bruve |
गोल्द्:: स्य्नोन्य्म्स्स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि । (१।३)
gold:: synonymssvarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi |
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि ॥ (१।४)
gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi ||
जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि । (२।१)
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi |
कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि ॥ (२।२)
kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni ||
मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि । (३।१)
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrārajajāmbavāni |
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम ॥ (३।२)
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma ||
स्वर्णभेदाःप्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ॥ (४।०)
svarṇabhedāḥprākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam ||
रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् । (५।१)
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam |
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् । (६।१)
tatprākṛtamiti proktaṃ devānāmapi durlabham |
ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत् ॥ (६।२)
brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat ||
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ (७।२)
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam ||
एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । (८।१)
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam |
गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतम् । (९।१)
girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam |
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ (९।२)
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt ||
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥ (१०।२)
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat ||
रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् । (११।१)
raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet |
ग्राह्याग्राह्यस्वर्णरूपदाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥ (११।२)
grāhyāgrāhyasvarṇarūpadāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham ||
गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकम् । (१२।१)
guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam |
श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् । (१३।१)
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam |
दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत् ॥ (१३।२)
dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet ||
न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च । (१४।१)
na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca |
सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते ॥ (१४।२)
saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate ||
स्वर्णशुद्धिवल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु । (१५।१)
svarṇaśuddhivalmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu |
इत्येते मृत्तिकाः पञ्च जम्बीरैर् वारनालकैः ॥ (१५।२)
ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ ||
पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे । (१६।१)
piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare |
यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति ॥ (१६।२)
yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati ||
मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभाविताम् । (१७।१)
mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām |
भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकाम् । (१८।१)
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām |
सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत् ॥ (१८।२)
saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat ||
तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके । (१९।१)
taile takre gavāṃ mūtre hyāranāle kulutthake |
क्रमान्निषेचयेत् तप्तं सप्तवारं द्रवैर् द्रवैः ॥ (१९।२)
kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ ||
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते । (२०।१)
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate |
द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये ॥ (२०।२)
drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye ||
सुवर्णं ढालयेत् पूर्वं काञ्चनारोद्भवे रसे । (२१।१)
suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase |
सप्तवारं ततः कर्मयोग्यं हेम भवेद् ध्रुवम् ॥ (२१।२)
saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam ||
स्वर्णभस्म (१)नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितम् । (२२।१)
svarṇabhasma (1)nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam |
मृतं नागं स्नुहीक्षीरैर् अथवाम्लेन केनचित् । (२३।१)
mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit |
पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ (२३।२)
piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet ||
पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतम् ॥ (२४।२)
pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam ||
एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवम् । (२५।१)
evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam |
स्वर्णभस्म (२)शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः ॥ (२५।२)
svarṇabhasma (2)śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ ||
अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया । (२६।१)
aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā |
स्वर्णभस्म (३)शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ (२६।२)
svarṇabhasma (3)śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam ||
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च । (२७।१)
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca |
त्रिंशद्वनोत्पलैर् दद्यात् पुटानेवं चतुर्दश ॥ (२७।२)
triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa ||
निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः । (२८।१)
nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ |
स्वर्णभस्म (४)स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकम् ॥ (२८।२)
svarṇabhasma (4)svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam ||
क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके । (२९।१)
kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike |
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ (२९।२)
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet ||
गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः । (३०।१)
gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ |
रसादिभिः स्वर्णमारणम्हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना ॥ (३०।२)
rasādibhiḥ svarṇamāraṇamhemapatrāṇi kurvīta vilimpedrasabhasmanā ||
अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् । (३१।१)
amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet |
अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मताम् ॥ (३१।२)
athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām ||
अम्लपिष्टैर् विलिप्तं च पुटितं याति भस्मताम् ॥ (३३।२)
amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām ||
स्वर्णमारण (५)स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् । (३४।१)
svarṇamāraṇa (5)svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet |
आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकम् ॥ (३४।२)
āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam ||
तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकम् । (३५।१)
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam |
देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समम् ॥ (३५।२)
deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam ||
सर्वं च चूर्णितं दद्याद् रुद्ध्वा मूषां धमेद्दृढम् । (३६।१)
sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham |
स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकम् ॥ (३६।२)
svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam ||
टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् । (३७।१)
ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet |
धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् । (३८।१)
dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet |
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ॥ (३८।२)
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam ||
निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् । (३९।१)
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet |
स्वर्णमारण (६)हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ (३९।२)
svarṇamāraṇa (6)hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit ||
पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवम् । (४०।१)
patre liptvā puṭe pacyādaṣṭabhirmriyate dhruvam |
स्वर्णमारण (७)शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकम् । (४१।१)
svarṇamāraṇa (7)śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam |
द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ (४१।२)
dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet ||
भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् । (४२।१)
bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet |
तद्गोलं पातनायन्त्रे हठाद् यामत्रयं पचेत् ॥ (४२।२)
tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet ||
इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः । (४३।१)
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ |
स्वर्णमारण (८)यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च ॥ (४३।२)
svarṇamāraṇa (8)yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca ||
लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् । (४४।१)
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet |
तैर् द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः ॥ (४४।२)
tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ ||
लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः ॥ (४५।२)
liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ ||
स्वर्णस्य गुणाःसुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः । (४६।१)
svarṇasya guṇāḥsuvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ |
हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनम् । (४७।१)
hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam |
बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदम् ॥ (४७।२)
buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam ||
प्रज्ञावीर्यस्वरकरम् ऐश्वर्यं धारणाद्भवेत् ॥ (४९।१)
prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet ||
Data courtesy of The Digital Corpus of Sanskrit.