कामसूत्रKāmasūtra

KāSū, 1, 1

1 of 36 · 115 verses

Select a line for its word-by-word analysis.

1.1१.१

धर्मार्थकामेभ्यो नमः ॥ (१।१)

dharmārthakāmebhyo namaḥ ||

2.1२.१

शास्त्रे प्रकृतत्वात् ॥ (२।१)

śāstre prakṛtatvāt ||

3.1३.१

तत्समयावबोधकेभ्यश्चाचार्येभ्यः ॥ (३।१)

tatsamayāvabodhakebhyaścācāryebhyaḥ ||

4.1४.१

तत्संबन्धात् ॥ (४।१)

tatsaṃbandhāt ||

5.1५.१

चोम्पोसितिओन् ओड़् कामसूत्रप्रजापतिर् हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥ (५।१)

composition of Kāmasūtraprajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca ||

6.1६.१

तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक् चकार ॥ (६।१)

tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra ||

7.1७.१

बृहस्पतिर् अर्थाधिकारिकम् ॥ (७।१)

bṛhaspatir arthādhikārikam ||

8.1८.१

महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक् कामसूत्रं प्रोवाच ॥ (८।१)

mahādevānucaraśca nandī sahasreṇādhyāyānāṃ pṛthak kāmasūtraṃ provāca ||

9.1९.१

तद् एव तु पञ्चभिर् अध्यायशतैर् औद्दालकिः श्वेतकेतुः संचिक्षेप ॥ (९।१)

tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa ||

10.1१०.१

तद् एव तु पुनर् अध्यर्धेनाध्यायशतेन साधारणसाम्प्रयोगिककन्यासंप्रयुक्तकभार्याधिकारिकपारदारिकवैशिकौपनिषदिकः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप ॥ (१०।१)

tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa ||

11.1११.१

तस्य षष्ठं वैशिकम् अधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार ॥ (११।१)

tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra ||

12.1१२.१

तत्प्रसङ्गाच्चारायणः साधारणम् अधिकरणं पृथक् प्रोवाच । (१२।१)

tatprasaṅgāccārāyaṇaḥ sādhāraṇam adhikaraṇaṃ pṛthak provāca |

12.2१२.२

सुवर्णनाभः साम्प्रयोगिकम् । (१२।२)

suvarṇanābhaḥ sāmprayogikam |

12.3१२.३

घोटकमुखः कन्यासम्प्रयुक्तकम् । (१२।३)

ghoṭakamukhaḥ kanyāsamprayuktakam |

12.4१२.४

गोनर्दीयो भार्याधिकारिकम् । (१२।४)

gonardīyo bhāryādhikārikam |

12.5१२.५

गोणिकापुत्रः पारदारिकम् । (१२।५)

goṇikāputraḥ pāradārikam |

12.6१२.६

कुचुमार औपनिषदिकम् इति । (१२।६)

kucumāra aupaniṣadikam iti |

12.7१२.७

एवं बहुभिर् आचार्यैस्तच्छास्त्रं खण्डशः प्रणीतम् उत्सन्नकल्पम् अभूत् । (१२।७)

evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt |

12.8१२.८

तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानाम् एकदेशत्वात् महद् इति च बाभ्रवीयस्य दुरध्येयत्वात् संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम् ॥ (१२।८)

tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam ||

13.1१३.१

तब्ले ओड़् चोन्तेन्त्स्तस्यायं प्रकरणाधिकरणसमुद्देशः । (१३।१)

table of contentstasyāyaṃ prakaraṇādhikaraṇasamuddeśaḥ |

13.2१३.२

शास्त्रसंग्रहः । (१३।२)

śāstrasaṃgrahaḥ |

13.3१३.३

त्रिवर्गप्रतिपत्तिः । (१३।३)

trivargapratipattiḥ |

13.4१३.४

विद्यासमुद्देशः । (१३।४)

vidyāsamuddeśaḥ |

13.5१३.५

नागरिकवृत्तम् । (१३।५)

nāgarikavṛttam |

13.6१३.६

नायकसहायदूतीकर्मविमर्शः । (१३।६)

nāyakasahāyadūtīkarmavimarśaḥ |

13.7१३.७

इति साधारणं प्रथमम् अधिकरणम् । (१३।७)

iti sādhāraṇaṃ prathamam adhikaraṇam |

13.8१३.८

अध्यायाः पञ्च । (१३।८)

adhyāyāḥ pañca |

13.9१३.९

प्रकरणानि पञ्च । (१३।९)

prakaraṇāni pañca |

13.10१३.१०

प्रमाणकालभावेभ्यो रतावस्थापनम् । (१३।१०)

pramāṇakālabhāvebhyo ratāvasthāpanam |

13.11१३.११

प्रीतिविशेषाः । (१३।११)

prītiviśeṣāḥ |

13.12१३.१२

आलिङ्गनविचाराः । (१३।१२)

āliṅganavicārāḥ |

13.13१३.१३

चुम्बनविकल्पाः । (१३।१३)

cumbanavikalpāḥ |

13.14१३.१४

नखरदनजातयः । (१३।१४)

nakharadanajātayaḥ |

13.15१३.१५

दशनच्छेद्यविधयः । (१३।१५)

daśanacchedyavidhayaḥ |

13.16१३.१६

देश्या उपचाराः । (१३।१६)

deśyā upacārāḥ |

13.17१३.१७

संवेशनप्रकाराः । (१३।१७)

saṃveśanaprakārāḥ |

13.18१३.१८

चित्ररतानि । (१३।१८)

citraratāni |

13.19१३.१९

प्रहणनयोगाः । (१३।१९)

prahaṇanayogāḥ |

13.20१३.२०

तद्युक्ताश्च शीत्कृतोपक्रमाः । (१३।२०)

tadyuktāśca śītkṛtopakramāḥ |

13.21१३.२१

पुरुषायितम् । (१३।२१)

puruṣāyitam |

13.22१३.२२

पुरुषोपसृप्तानि । (१३।२२)

puruṣopasṛptāni |

13.23१३.२३

औपरिष्टकम् । (१३।२३)

aupariṣṭakam |

13.24१३.२४

रतारम्भावसानिकम् । (१३।२४)

ratārambhāvasānikam |

13.25१३.२५

रतविशेषाः । (१३।२५)

rataviśeṣāḥ |

13.26१३.२६

प्रणयकलहः । (१३।२६)

praṇayakalahaḥ |

13.27१३.२७

इति साम्प्रयोगिकं द्वितीयम् अधिकरणम् । (१३।२७)

iti sāmprayogikaṃ dvitīyam adhikaraṇam |

13.28१३.२८

अध्याया दश । (१३।२८)

adhyāyā daśa |

13.29१३.२९

प्रकरणानि सप्तदश । (१३।२९)

prakaraṇāni saptadaśa |

13.30१३.३०

वरणविधानम् । (१३।३०)

varaṇavidhānam |

13.31१३.३१

संबन्धनिर्णयः । (१३।३१)

saṃbandhanirṇayaḥ |

13.32१३.३२

कन्याविश्रम्भणम् । (१३।३२)

kanyāviśrambhaṇam |

13.33१३.३३

बालाया उपक्रमाः । (१३।३३)

bālāyā upakramāḥ |

13.34१३.३४

इङ्गिताकारसूचनम् । (१३।३४)

iṅgitākārasūcanam |

13.35१३.३५

एकपुरुषाभियोगः । (१३।३५)

ekapuruṣābhiyogaḥ |

13.36१३.३६

प्रयोज्यस्योपावर्तनम् । (१३।३६)

prayojyasyopāvartanam |

13.37१३.३७

अभियोगतश्च कन्यायाः प्रतिपत्तिः । (१३।३७)

abhiyogataśca kanyāyāḥ pratipattiḥ |

13.38१३.३८

विवाहयोगः । (१३।३८)

vivāhayogaḥ |

13.39१३.३९

इति कन्यासम्प्रयुक्तकं तृतीयम् अधिकरणम् । (१३।३९)

iti kanyāsamprayuktakaṃ tṛtīyam adhikaraṇam |

13.40१३.४०

अध्यायाः पञ्च । (१३।४०)

adhyāyāḥ pañca |

13.41१३.४१

प्रकरणानि नव । (१३।४१)

prakaraṇāni nava |

13.42१३.४२

एकचारिणीवृत्तम् । (१३।४२)

ekacāriṇīvṛttam |

13.43१३.४३

प्रवासचर्या । (१३।४३)

pravāsacaryā |

13.44१३.४४

सपत्नीषु ज्येष्ठावृत्तम् । (१३।४४)

sapatnīṣu jyeṣṭhāvṛttam |

13.45१३.४५

कनिष्ठावृत्तम् । (१३।४५)

kaniṣṭhāvṛttam |

13.46१३.४६

पुनर्भूवृत्तम् । (१३।४६)

punarbhūvṛttam |

13.47१३.४७

दुर्भगावृत्तम् । (१३।४७)

durbhagāvṛttam |

13.48१३.४८

आन्तःपुरिकम् । (१३।४८)

āntaḥpurikam |

13.49१३.४९

पुरुषस्य बह्वीषु प्रतिपत्तिः । (१३।४९)

puruṣasya bahvīṣu pratipattiḥ |

13.50१३.५०

इति भार्याधिकारिकं चतुर्थम् अधिकरणम् । (१३।५०)

iti bhāryādhikārikaṃ caturtham adhikaraṇam |

13.51१३.५१

अध्यायौ द्वौ । (१३।५१)

adhyāyau dvau |

13.52१३.५२

प्रकरणान्यष्टौ । (१३।५२)

prakaraṇānyaṣṭau |

13.53१३.५३

स्त्रीपुरुषशीलावस्थापनम् । (१३।५३)

strīpuruṣaśīlāvasthāpanam |

13.54१३.५४

व्यावर्तनकारणानि । (१३।५४)

vyāvartanakāraṇāni |

13.55१३.५५

स्त्रीषु सिद्धाः पुरुषाः । (१३।५५)

strīṣu siddhāḥ puruṣāḥ |

13.56१३.५६

अयत्नसाध्या योषितः । (१३।५६)

ayatnasādhyā yoṣitaḥ |

13.57१३.५७

परिचयकारणानि । (१३।५७)

paricayakāraṇāni |

13.58१३.५८

अभियोगाः । (१३।५८)

abhiyogāḥ |

13.59१३.५९

भावपरीक्षा । (१३।५९)

bhāvaparīkṣā |

13.60१३.६०

दूतीकर्माणि । (१३।६०)

dūtīkarmāṇi |

13.61१३.६१

ईश्वरकामितम् । (१३।६१)

īśvarakāmitam |

13.62१३.६२

आन्तःपुरिकं दाररक्षितकम् । (१३।६२)

āntaḥpurikaṃ dārarakṣitakam |

13.63१३.६३

इति पारदारिकं पञ्चमम् अधिकरणम् । (१३।६३)

iti pāradārikaṃ pañcamam adhikaraṇam |

13.64१३.६४

अध्यायाः षट् । (१३।६४)

adhyāyāḥ ṣaṭ |

13.65१३.६५

प्रकरणानि दश । (१३।६५)

prakaraṇāni daśa |

13.66१३.६६

गम्यचिन्ता । (१३।६६)

gamyacintā |

13.67१३.६७

गमनकारणानि । (१३।६७)

gamanakāraṇāni |

13.68१३.६८

उपावर्तनविधिः । (१३।६८)

upāvartanavidhiḥ |

13.69१३.६९

कान्तानुवर्तनम् । (१३।६९)

kāntānuvartanam |

13.70१३.७०

अर्थागमोपायाः । (१३।७०)

arthāgamopāyāḥ |

13.71१३.७१

विरक्तलिङ्गानि । (१३।७१)

viraktaliṅgāni |

13.72१३.७२

विरक्तप्रतिपत्तिः । (१३।७२)

viraktapratipattiḥ |

13.73१३.७३

निष्कासनप्रकाराः । (१३।७३)

niṣkāsanaprakārāḥ |

13.74१३.७४

विशीर्णप्रतिसंधानम् । (१३।७४)

viśīrṇapratisaṃdhānam |

13.75१३.७५

लाभविशेषः । (१३।७५)

lābhaviśeṣaḥ |

13.76१३.७६

अर्थानर्थानुबन्धसंशयविचारः । (१३।७६)

arthānarthānubandhasaṃśayavicāraḥ |

13.77१३.७७

वेश्याविशेषाश्च । (१३।७७)

veśyāviśeṣāśca |

13.78१३.७८

इति वैशिकं षष्ठम् अधिकरणम् । (१३।७८)

iti vaiśikaṃ ṣaṣṭham adhikaraṇam |

13.79१३.७९

अध्यायाः षट् । (१३।७९)

adhyāyāḥ ṣaṭ |

13.80१३.८०

प्रकरणानि द्वादश । (१३।८०)

prakaraṇāni dvādaśa |

13.81१३.८१

सुभगंकरणम् । (१३।८१)

subhagaṃkaraṇam |

13.82१३.८२

वशीकरणम् । (१३।८२)

vaśīkaraṇam |

13.83१३.८३

वृष्याश्च योगाः । (१३।८३)

vṛṣyāśca yogāḥ |

13.84१३.८४

नष्टरागप्रत्यानयनम् । (१३।८४)

naṣṭarāgapratyānayanam |

13.85१३.८५

वृद्धिविधयः । (१३।८५)

vṛddhividhayaḥ |

13.86१३.८६

चित्राश्च योगाः । (१३।८६)

citrāśca yogāḥ |

13.87१३.८७

इत्यौपनिषदिकं सप्तमम् अधिकरणम् । (१३।८७)

ityaupaniṣadikaṃ saptamam adhikaraṇam |

13.88१३.८८

अध्यायौ द्वौ । (१३।८८)

adhyāyau dvau |

13.89१३.८९

प्रकरणानि षट् । (१३।८९)

prakaraṇāni ṣaṭ |

13.90१३.९०

एवं षट्त्रिंशद् अध्यायाः । (१३।९०)

evaṃ ṣaṭtriṃśad adhyāyāḥ |

13.91१३.९१

चतुःषष्टिः प्रकरणानि । (१३।९१)

catuḥṣaṣṭiḥ prakaraṇāni |

13.92१३.९२

अधिकरणानि सप्त । (१३।९२)

adhikaraṇāni sapta |

13.93१३.९३

सपादं श्लोकसहस्रम् । (१३।९३)

sapādaṃ ślokasahasram |

13.94१३.९४

इति शास्त्रस्य संग्रहः ॥ (१३।९४)

iti śāstrasya saṃgrahaḥ ||

14.1१४.१

संक्षेपम् इमम् उक्त्वास्य विस्तरो ऽतः प्रवक्ष्यते । (१४।१)

saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate |

14.2१४.२

इष्टं हि विदुषां लोके समासव्यासभाषणम् ॥ (१४।२)

iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam ||

Data courtesy of The Digital Corpus of Sanskrit.

KāSū, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit