कामसूत्रKāmasūtra

KāSū, 3, 2

17 of 36 · 79 verses

Select a line for its word-by-word analysis.

1.1१.१

संगतयोस्त्रिरात्रम् अधःशय्या ब्रह्मचर्यं क्षारलवणवर्जम् आहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनम् । (१।१)

saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam |

1.2१.२

इति सार्ववर्णिकम् ॥ (१।२)

iti sārvavarṇikam ||

2.1२.१

तस्मिन्न् एतां निशि विजने मृदुभिर् उपचारैर् उपक्रमेत ॥ (२।१)

tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta ||

3.1३.१

त्रिरात्रम् अवचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयाम् इव प्रकृतिम् । (३।१)

trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim |

3.2३.२

इति बाभ्रवीयाः ॥ (३।२)

iti bābhravīyāḥ ||

4.1४.१

उपक्रमेत विश्रम्भयेच्च न तु ब्रह्मचर्यम् अतिवर्तेत । (४।१)

upakrameta viśrambhayecca na tu brahmacaryam ativarteta |

4.2४.२

इति वात्स्यायनः ॥ (४।२)

iti vātsyāyanaḥ ||

5.1५.१

उपक्रममाणश्च न प्रसह्य किंचिद् आचरेत् ॥ (५।१)

upakramamāṇaśca na prasahya kiṃcid ācaret ||

6.1६.१

कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः । (६।१)

kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ |

6.2६.२

तास्त्वनधिगतविश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति । (६।२)

tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti |

6.3६.३

तस्मात् साम्नैवोपचरेत् ॥ (६।३)

tasmāt sāmnaivopacaret ||

7.1७.१

युक्त्यापि तु यतः प्रसरम् उपलभेत् तेनैवानु प्रविशेत् ॥ (७।१)

yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet ||

8.1८.१

तत्प्रियेणालिङ्गनेनाचरितेन । (८।१)

tatpriyeṇāliṅganenācaritena |

8.2८.२

नातिकालत्वात् ॥ (८।२)

nātikālatvāt ||

9.1९.१

पूर्वकायेण चोपक्रमेत् । (९।१)

pūrvakāyeṇa copakramet |

9.2९.२

विषह्यत्वात् ॥ (९।२)

viṣahyatvāt ||

10.1१०.१

दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः । (१०।१)

dīpāloke vigāḍhayauvanāyāḥ pūrvasaṃstutāyāḥ |

10.2१०.२

बालाया अपूर्वायाश्चान्धकारे ॥ (१०।२)

bālāyā apūrvāyāścāndhakāre ||

11.1११.१

अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानम् । (११।१)

aṅgīkṛtapariṣvaṅgāyāśca vadanena tāmbūladānam |

11.2११.२

तदप्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राहयेत् । (११।२)

tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pādapatanaiśca grāhayet |

11.3११.३

व्रीडायुक्तापि योषिदत्यन्तक्रुद्धापि न पादपतनम् अतिवर्तते इति सार्वत्रिकम् ॥ (११।३)

vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam ||

12.1१२.१

तद्दानप्रसङ्गेण मृदु विशदम् अकाहलम् अस्याश्चुम्बनम् । (१२।१)

taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam |

12.2१२.२

तत्र सिद्धाम् आलापयेत् । (१२।२)

tatra siddhām ālāpayet |

12.3१२.३

तच्छ्रवणार्थं यत् किंचिद् अल्पाक्षराभिधेयम् अजानन्न् इव पृच्छेत् । (१२।३)

tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet |

12.4१२.४

तत्र निष्प्रतिपत्तिम् अनुद्वेजयन् सान्त्वनायुक्तं बहुश एव पृच्छेत् । (१२।४)

tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet |

12.5१२.५

तत्र अप्यवदन्तीं निर्बध्नीयात् ॥ (१२।५)

tatra apyavadantīṃ nirbadhnīyāt ||

13.1१३.१

सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते । (१३।१)

sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante |

13.2१३.२

न तु लघुमिश्राम् अपि वाचं वदन्ति । (१३।२)

na tu laghumiśrām api vācaṃ vadanti |

13.3१३.३

इति घोटकमुखः ॥ (१३।३)

iti ghoṭakamukhaḥ ||

14.1१४.१

निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत् । (१४।१)

nirbadhyamānā tu śiraḥkampena prativacanāni yojayet |

14.2१४.२

कलहे तु न शिरः कम्पयेत् ॥ (१४।२)

kalahe tu na śiraḥ kampayet ||

15.1१५.१

इच्छसि मां नेच्छसि वा किं ते अहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदानुकूल्येन शिरः कम्पयेत् । (१५।१)

icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet |

15.2१५.२

प्रपञ्च्यमाना तु विवदेत् ॥ (१५।२)

prapañcyamānā tu vivadet ||

16.1१६.१

संस्तुता चेत् सखीम् अनुकूलाम् उभयतो ऽपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत् । (१६।१)

saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet |

16.2१६.२

तस्मिन्न् अधोमुखी विहसेत् । (१६।२)

tasminn adhomukhī vihaset |

16.3१६.३

तां चातिवादिनीम् अधिक्षिपेद् विवदेच्च । (१६।३)

tāṃ cātivādinīm adhikṣiped vivadecca |

16.4१६.४

सा तु परिहासार्थम् इदम् अनयोक्तम् इति चानुक्तम् अपि ब्रूयात् । (१६।४)

sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt |

16.5१६.५

तत्र ताम् अपनुद्य प्रतिवचनार्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत । (१६।५)

tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta |

16.6१६.६

निर्बध्यमाना तु नाहम् एवं ब्रवीमीत्यव्यक्ताक्षरम् अनवसितार्थं वचनं ब्रूयात् । (१६।६)

nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt |

16.7१६.७

नायकं च विहसन्ती कदाचित् कटाक्षैः प्रेक्षेत । (१६।७)

nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta |

16.8१६.८

इत्यालापयोजनम् ॥ (१६।८)

ityālāpayojanam ||

17.1१७.१

एवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात् । (१७।१)

evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt |

17.2१७.२

उत्तरीये वास्य निबध्नीयात् । (१७।२)

uttarīye vāsya nibadhnīyāt |

17.3१७.३

तथा युक्ताम् आच्छुरितकेन स्तनमुकुलयोर् उपरि स्पृशेत् । (१७।३)

tathā yuktām ācchuritakena stanamukulayor upari spṛśet |

17.4१७.४

वार्यमाणश्च त्वम् अपि मां परिष्वजस्व ततो नैवम् आचरिष्यामीति स्थित्या परिष्वञ्जयेत् । (१७।४)

vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet |

17.5१७.५

स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत् । (१७।५)

svaṃ ca hastam ā nābhideśāt prasārya nirvartayet |

17.6१७.६

क्रमेण चैनाम् उत्सङ्गम् आरोप्याधिकम् अधिकम् उपक्रमेत् । (१७।६)

krameṇa cainām utsaṅgam āropyādhikam adhikam upakramet |

17.7१७.७

अप्रतिपद्यमानां च भीषयेत् ॥ (१७।७)

apratipadyamānāṃ ca bhīṣayet ||

18.1१८.१

अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखपदम् । (१८।१)

ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam |

18.2१८.२

आत्मनश्च स्वयं कृत्वा त्वया कृतम् इति ते सखीजनस्य पुरतः कथयिष्यामि । (१८।२)

ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi |

18.3१८.३

सा त्वं किम् अत्र वक्ष्यसीति बालविभीषिकैर् बालप्रत्यायनैश्च शनैर् एनां प्रतारयेत् । (१८।३)

sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet |

18.4१८.४

द्वितीयस्यां तृतीयस्यां च रात्रौ किंचिद् अधिकं विश्रम्भितां हस्तेन योजयेत् ॥ (१८।४)

dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet ||

19.1१९.१

सर्वाङ्गिकं चुम्बनम् उपक्रमेत ॥ (१९।१)

sarvāṅgikaṃ cumbanam upakrameta ||

20.1२०.१

ऊर्वोश्चोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणोरुमूलम् अपि संवाहयेत् । (२०।१)

ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet |

20.2२०.२

निवारिते संवाहने को दोष इत्याकुलयेद् एनाम् । (२०।२)

nivārite saṃvāhane ko doṣa ityākulayed enām |

20.3२०.३

तच्च स्थिरीकुर्यात् । (२०।३)

tacca sthirīkuryāt |

20.4२०.४

तत्र सिद्धाया गुह्यदेशाभिमर्शनं रशनावियोजनं नीवीविस्रंसनं वसनपरिवर्तनम् ऊरुमूलसंवाहनं च । (२०।४)

tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca |

20.5२०.५

एते चास्यान्यापदेशाः । (२०।५)

ete cāsyānyāpadeśāḥ |

20.6२०.६

युक्तयन्त्रां रञ्जयेत् । (२०।६)

yuktayantrāṃ rañjayet |

20.7२०.७

न त्वकाले व्रतखण्डनम् अनुशिष्याच्च । (२०।७)

na tvakāle vratakhaṇḍanam anuśiṣyācca |

20.8२०.८

आत्मानुरागं दर्शयेत् । (२०।८)

ātmānurāgaṃ darśayet |

20.9२०.९

मनोरथांश्च पूर्वकालिकान् अनुवर्णयेत् । (२०।९)

manorathāṃśca pūrvakālikān anuvarṇayet |

20.10२०.१०

आयत्यां च तदानुकूल्येन प्रवृत्तिं प्रतिजानीयात् । (२०।१०)

āyatyāṃ ca tadānukūlyena pravṛttiṃ pratijānīyāt |

20.11२०.११

सपत्नीभ्यश्च साध्वसम् अवच्छिन्द्यात् । (२०।११)

sapatnībhyaśca sādhvasam avacchindyāt |

20.12२०.१२

कालेन च क्रमेण विमुक्तकन्याभावाम् अनुद्वेजयन्न् उपक्रमेत । (२०।१२)

kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta |

20.13२०.१३

इति कन्याविस्रम्भणम् ॥ (२०।१३)

iti kanyāvisrambhaṇam ||

21.1२१.१

भवन्ति चात्र श्लोकाः । (२१।१)

bhavanti cātra ślokāḥ |

21.2२१.२

एवं चित्तानुगो बालाम् उपायेन प्रसाधयेत् । (२१।२)

evaṃ cittānugo bālām upāyena prasādhayet |

21.3२१.३

तथास्य सानुरक्ता च सुविस्रब्धा प्रजायते ॥ (२१।३)

tathāsya sānuraktā ca suvisrabdhā prajāyate ||

22.1२२.१

नात्यन्तम् आनुलोम्येन न चातिप्रातिलोम्यतः । (२२।१)

nātyantam ānulomyena na cātiprātilomyataḥ |

22.2२२.२

सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत् ॥ (२२।२)

siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet ||

23.1२३.१

आत्मनः प्रीतिजननं योषितां मानवर्धनम् । (२३।१)

ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam |

23.2२३.२

कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ॥ (२३।२)

kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet ||

24.1२४.१

अतिलज्जान्वितेत्य् एयं यस्तु कन्याम् उपेक्षते । (२४।१)

atilajjānvitety eyaṃ yastu kanyām upekṣate |

24.2२४.२

सो ऽनभिप्रायवेदीति पशुवत् परिभूयते ॥ (२४।२)

so 'nabhiprāyavedīti paśuvat paribhūyate ||

25.1२५.१

सहसा वाप्युपक्रान्ता कन्याचित्तम् अविन्दता । (२५।१)

sahasā vāpyupakrāntā kanyācittam avindatā |

25.2२५.२

भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति ॥ (२५।२)

bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati ||

26.1२६.१

सा प्रीतियोगम् अप्राप्ता तेनोद्वेगेन दूषिता । (२६।१)

sā prītiyogam aprāptā tenodvegena dūṣitā |

26.2२६.२

पुरुषद्वेषिणी वा स्याद् विद्विष्टा वा ततो ऽन्यगा ॥ (२६।२)

puruṣadveṣiṇī vā syād vidviṣṭā vā tato 'nyagā ||

Data courtesy of The Digital Corpus of Sanskrit.

KāSū, 3, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit