1.1१.१संयुक्ता नायकेन तद्रञ्जनार्थम् एकचारिणीवृत्तम् अनुतिष्ठेत् । (१।१)
saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet |
1.2१.२रञ्जयेन्न तु सज्जेत सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः । (१।२)
rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ |
1.3१.३मातरि च क्रूरशीलायाम् अर्थपरायां चायत्ता स्यात् । (१।३)
mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt |
1.4१.४तदभावे मातृकायाम् । (१।४)
1.5१.५सा तु गम्येन नातिप्रीयेत । (१।५)
sā tu gamyena nātiprīyeta |
1.6१.६प्रसह्य च दुहितरम् आनयेत् । (१।६)
prasahya ca duhitaram ānayet |
1.7१.७तत्र तु नायिकायाः संततम् अरतिर् निर्वेदो व्रीडाभयं च । (१।७)
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca |
1.8१.८न त्व् एव शासनातिवृत्तिः । (१।८)
na tv eva śāsanātivṛttiḥ |
1.9१.९व्याधिं चैकम् अनिमित्तम् अजुगुप्सितम् अचक्षुर्ग्राह्यम् अनित्यं च ख्यापयेत् । (१।९)
vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet |
1.10१.१०सति कारणे तदपदेशं च नायकान् अभिगमनम् । (१।१०)
sati kāraṇe tadapadeśaṃ ca nāyakān abhigamanam |
1.11१.११निर्माल्यस्य तु नायिका चेटिकां प्रेषयेत् ताम्बूलस्य च ॥ (१।११)
nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca ||
2.1२.१व्यवाये तदुपचारेषु विस्मयश् चतुःषष्ट्यां शिष्यत्वं तदुपदिष्टानां च योगानाम् आभीक्ष्ण्येनानुयोगस् तत्सात्म्याद् रहसि वृत्तिर् मनोरथानाम् आख्यानं गुह्यानां वैकृतप्रच्छादनं शयने परावृत्तस्यानुपेक्षणम् आनुलोम्यं गुह्यस्पर्शने सुप्तस्य चुम्बनम् आलिङ्गनं च ॥ (२।१)
vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca ||
3.1३.१प्रेक्षणम् अन्यमनस्कस्य । (३।१)
prekṣaṇam anyamanaskasya |
3.2३.२राजमार्गे च प्रासादस्थायास्तत्र विदिताया व्रीडाशाठ्यनाशः । (३।२)
rājamārge ca prāsādasthāyāstatra viditāyā vrīḍāśāṭhyanāśaḥ |
3.3३.३तद्द्वेष्ये द्वेष्यता । (३।३)
3.4३.४तत्प्रिये प्रियता । (३।४)
3.6३.६स्त्रीषु जिज्ञासा । (३।६)
3.8३.८स्वकृतेष्वपि नखदशनचिह्नेष्वन्याशङ्का ॥ (३।८)
svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā ||
4.1४.१अनुरागस्यावचनम् आकारतस्तु दर्शयेत् । (४।१)
anurāgasyāvacanam ākāratastu darśayet |
4.2४.२मदस्वप्नव्याधिषु तु निर्वचनम् । (४।२)
madasvapnavyādhiṣu tu nirvacanam |
4.3४.३श्लाघ्यानां नायककर्मणां च । (४।३)
ślāghyānāṃ nāyakakarmaṇāṃ ca |
4.4४.४तस्मिन् ब्रुवाणे वाक्यार्थग्रहणम् । (४।४)
tasmin bruvāṇe vākyārthagrahaṇam |
4.5४.५तदवधार्य प्रशंसाविषये भाषणम् । (४।५)
tadavadhārya praśaṃsāviṣaye bhāṣaṇam |
4.6४.६तद्वाक्यस्य चोत्तरेण योजनम् । (४।६)
tadvākyasya cottareṇa yojanam |
4.8४.८कथास्वनुवृत्तिर् अन्यत्र सपत्न्याः । (४।८)
kathāsvanuvṛttir anyatra sapatnyāḥ |
4.9४.९निःश्वासे जृम्भिते स्खलिते पतिते वा तस्य चार्तिम् आशंसीत । (४।९)
niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta |
4.10४.१०क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् । (४।१०)
kṣutavyāhṛtavismiteṣu jīvetyudāharaṇam |
4.11४.११दौर्मनस्ये व्याधिदौर्हृदापदेशः । (४।११)
daurmanasye vyādhidaurhṛdāpadeśaḥ |
4.12४.१२गुणतः परस्याकीर्तनम् । (४।१२)
guṇataḥ parasyākīrtanam |
4.15४.१५वृथापराधे तद्व्यसने वालंकारस्याग्रहणम् अभोजनं च । (४।१५)
vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca |
4.17४.१७तेन सह देशमोक्षं रोचयेद् राजनि निष्क्रयं च । (४।१७)
tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca |
4.18४.१८सामर्थ्यम् आयुषस्तदवाप्तौ । (४।१८)
sāmarthyam āyuṣastadavāptau |
4.19४.१९तस्यार्थाधिगमे अभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसंभाषित इष्टदेवतोपहारः । (४।१९)
tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ |
4.22४.२२गीते च नामगोत्रयोर् ग्रहणम् । (४।२२)
gīte ca nāmagotrayor grahaṇam |
4.23४.२३ग्लान्याम् उरसि ललाटे च करं कुर्वीत । (४।२३)
glānyām urasi lalāṭe ca karaṃ kurvīta |
4.24४.२४तत्सुखम् उपलभ्य निद्रालाभः । (४।२४)
tatsukham upalabhya nidrālābhaḥ |
4.25४.२५उत्सङ्गे चास्योपवेशनं स्वपनं च । (४।२५)
utsaṅge cāsyopaveśanaṃ svapanaṃ ca |
4.27४.२७तस्मात् पुत्रार्थिनी स्यात् । (४।२७)
tasmāt putrārthinī syāt |
4.28४.२८आयुषो नाधिक्यम् इच्छेत् ॥ (४।२८)
āyuṣo nādhikyam icchet ||
5.1५.१एतस्याविज्ञातम् अर्थं रहसि न ब्रूयात् । (५।१)
etasyāvijñātam arthaṃ rahasi na brūyāt |
5.2५.२व्रतम् उपवासं चास्य निर्वर्तयेत् मयि दोष इति । (५।२)
vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti |
5.3५.३अशक्ये स्वयम् अपि तद्रूपा स्यात् । (५।३)
aśakye svayam api tadrūpā syāt |
5.4५.४विवादे तेनाप्यशक्यम् इत्यर्थनिर्देशः । (५।४)
vivāde tenāpyaśakyam ityarthanirdeśaḥ |
5.5५.५तदीयम् आत्मीयं वा स्वयम् अविशेषेण पश्येत् । (५।५)
tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet |
5.6५.६तेन विना गोष्ठ्यादीनाम् अगमनम् इति । (५।६)
tena vinā goṣṭhyādīnām agamanam iti |
5.7५.७निर्माल्यधारणे श्लाघा उच्छिष्टभोजने च । (५।७)
nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca |
5.8५.८कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्यपूजा । (५।८)
kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā |
5.9५.९गीतादिषु चोदनम् अभिज्ञस्य । (५।९)
gītādiṣu codanam abhijñasya |
5.10५.१०भयशीतोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् । (५।१०)
bhayaśītoṣṇavarṣāṇyanapekṣya tadabhigamanam |
5.11५.११स एव च मे स्याद् इत्यौर्ध्वदेहिकेषु वचनम् । (५।११)
sa eva ca me syād ityaurdhvadehikeṣu vacanam |
5.12५.१२तदिष्टरसभावशीलानुवर्तनम् । (५।१२)
tadiṣṭarasabhāvaśīlānuvartanam |
5.14५.१४तदभिगमने च जनन्या सह नित्यो विवादः । (५।१४)
tadabhigamane ca jananyā saha nityo vivādaḥ |
5.15५.१५बलात् कारेण च यद्यन्यत्र तया नीयेत तदा विषमनशनं शस्त्रं रज्जुम् इति कामयेत । (५।१५)
balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta |
5.16५.१६प्रत्यायनं च प्रणिधिभिर् नायकस्य । (५।१६)
pratyāyanaṃ ca praṇidhibhir nāyakasya |
5.17५.१७स्वयं वात्मनो वृत्तिग्रहणम् । (५।१७)
svayaṃ vātmano vṛttigrahaṇam |
5.18५.१८न त्व् एवार्थेषु विवादः । (५।१८)
na tv evārtheṣu vivādaḥ |
5.19५.१९मात्रा विना किंचिन् न चेष्टेत ॥ (५।१९)
mātrā vinā kiṃcin na ceṣṭeta ||
6.1६.१प्रवासे शीघ्रागमनाय शापदानम् । (६।१)
pravāse śīghrāgamanāya śāpadānam |
6.2६.२प्रोषिते मृजानियमश्चालंकारस्य प्रतिषेधः । (६।२)
proṣite mṛjāniyamaścālaṃkārasya pratiṣedhaḥ |
6.3६.३मङ्गलं त्वपेक्ष्यम् । (६।३)
6.4६.४एकं शङ्खवलयं वा धारयेत् । (६।४)
ekaṃ śaṅkhavalayaṃ vā dhārayet |
6.5६.५स्मरणम् अतीतानाम् । (६।५)
6.6६.६नक्षत्रचन्द्रसूर्यताराभ्यः स्पृहणम् । (६।६)
nakṣatracandrasūryatārābhyaḥ spṛhaṇam |
6.7६.७इष्टस्वप्नदर्शने तत्संगमो ममास्त्व् इति वचनम् । (६।७)
iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam |
6.8६.८उद्वेगो ऽनिष्टे शान्तिकर्म च । (६।८)
udvego 'niṣṭe śāntikarma ca |
6.9६.९प्रत्यागते कामपूजा । (६।९)
6.10६.१०देवतोपहाराणां करणम् । (६।१०)
devatopahārāṇāṃ karaṇam |
6.11६.११सखीभिः पूर्णपात्रस्याहरणम् । (६।११)
sakhībhiḥ pūrṇapātrasyāharaṇam |
6.13६.१३प्रथमसमागमानन्तरं चैतद् एव वायसपूजावर्जम् । (६।१३)
prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam |
6.14६.१४सक्तस्य चानुमरणं ब्रूयात् ॥ (६।१४)
saktasya cānumaraṇaṃ brūyāt ||
7.1७.१निसृष्टभावः समानवृत्तिः प्रयोजनकारी निराशङ्को निरपेक्षो ऽर्थेष्व् इति सक्तलक्षणानि ॥ (७।१)
nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni ||
8.1८.१तद् एतन् निर्दर्शनार्थं दत्तकशासनाद् उक्तम् । (८।१)
tad etan nirdarśanārthaṃ dattakaśāsanād uktam |
8.2८.२अनुक्तं च लोकतः शीलयेत् पुरुषप्रकृतितश्च ॥ (८।२)
anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca ||
9.1९.१भवतश्चात्र श्लोकौ । (९।१)
9.2९.२सूक्ष्मत्वाद् अतिलोभाच्च प्रकृत्याज्ञानतस्तथा । (९।२)
sūkṣmatvād atilobhācca prakṛtyājñānatastathā |
9.3९.३कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैर् अपि ॥ (९।३)
kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api ||
10.1१०.१कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च । (१०।१)
kāmayante virajyante rañjayanti tyajanti ca |
10.2१०.२कर्षयन्त्यो ऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः ॥ (१०।२)
karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.