कामसूत्रKāmasūtra

KāSū, 2, 9

14 of 36 · 78 verses

Select a line for its word-by-word analysis.

1.1१.१

द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥ (१।१)

dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca ||

2.1२.१

तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् असहिष्णुतां व्रीडां चानुकुर्वीत ॥ (२।१)

tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta ||

3.1३.१

तस्या वदने जघनकर्म । (३।१)

tasyā vadane jaghanakarma |

3.2३.२

तदौपरिष्टकम् आचक्षते ॥ (३।२)

tadaupariṣṭakam ācakṣate ||

4.1४.१

सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत् । (४।१)

sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset |

4.2४.२

वेश्यावच्चरितं प्रकाशयेत् । (४।२)

veśyāvaccaritaṃ prakāśayet |

4.3४.३

इति स्त्रीरूपिणी ॥ (४।३)

iti strīrūpiṇī ||

5.1५.१

पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभावम् उपजीवेत् । (५।१)

puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet |

5.2५.२

संवाहने परिष्वजमानेव गात्रैर् ऊरू नायकस्य मृद्नीयात् । (५।२)

saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt |

5.3५.३

प्रसृतपरिचया चोरुमूलं सजघनम् इति संस्पृशेत् । (५।३)

prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet |

5.4५.४

तत्र स्थिरलिङ्गताम् उपलभ्य चास्य पाणिमन्थेन परिघट्टयेत् । (५।४)

tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet |

5.5५.५

चापलम् अस्य कुत्सयन्तीव हसेत् । (५।५)

cāpalam asya kutsayantīva haset |

5.6५.६

कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत् स्वयम् उपक्रमेत् । (५।६)

kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet |

5.7५.७

पुरुषेण च चोद्यमाना विवदेत् । (५।७)

puruṣeṇa ca codyamānā vivadet |

5.8५.८

कृच्छ्रेण चाभ्युपगच्छेत् ॥ (५।८)

kṛcchreṇa cābhyupagacchet ||

6.1६.१

तत्र कर्माष्टविधं समुच्चयप्रयोज्यम् । (६।१)

tatra karmāṣṭavidhaṃ samuccayaprayojyam |

6.2६.२

निमितं पार्श्वतोदष्टं बहिःसंदंशो ऽन्तःसंदंशश् चुम्बितकं परिमृष्टकम् आम्रचूषितकं संगर इति ॥ (६।२)

nimitaṃ pārśvatodaṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti ||

7.1७.१

तेष्व् एकैकम् अभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ (७।१)

teṣv ekaikam abhyupagamya virāmābhīpsāṃ darśayet ||

8.1८.१

इतरश्च पूर्वस्मिन्न् अभ्युपगते तदुत्तरम् एवापरं निर्दिशेत् । (८।१)

itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet |

8.2८.२

तस्मिन्न् अपि सिद्धे तदुत्तरम् इति ॥ (८।२)

tasminn api siddhe taduttaram iti ||

9.1९.१

करावलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य मुखं विधुनुयात् । (९।१)

karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt |

9.2९.२

तन् निमितम् ॥ (९।२)

tan nimitam ||

10.1१०.१

हस्तेणाग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्ठाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत् । (१०।१)

hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet |

10.2१०.२

तत् पार्श्वतोदष्टम् ॥ (१०।२)

tat pārśvatodaṣṭam ||

11.1११.१

भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत् । (११।१)

bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet |

11.2११.२

इति बहिःसंदंशः ॥ (११।२)

iti bahiḥsaṃdaṃśaḥ ||

12.1१२.१

तस्मिन्न् एवाभ्यर्थनया किंचिद् अधिकं प्रवेशयेत् । (१२।१)

tasminn evābhyarthanayā kiṃcid adhikaṃ praveśayet |

12.2१२.२

इत्य् अन्तःसंदंशः ॥ (१२।२)

ity antaḥsaṃdaṃśaḥ ||

13.1१३.१

करावलम्बितस्यौष्ठवद् ग्रहणं चुम्बितकम् ॥ (१३।१)

karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam ||

14.1१४.१

तत् कृत्वा जिह्वाग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति परिमृष्टकम् ॥ (१४।१)

tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam ||

15.1१५.१

तथाभूतम् एव रागवशाद् अर्धप्रविष्टं निर्दयम् अवपीड्यावपीड्य मुञ्चेत् । (१५।१)

tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet |

15.2१५.२

इति आम्रचूषितकम् ॥ (१५।२)

iti āmracūṣitakam ||

16.1१६.१

पुरुषाभिप्रायाद् एव गिरेत् पीडयेच्च आ परिसमाप्तेः । (१६।१)

puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ |

16.2१६.२

इति संगरः ॥ (१६।२)

iti saṃgaraḥ ||

17.1१७.१

यथार्थं चात्र स्तननप्रहणनयोः प्रयोगः । (१७।१)

yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ |

17.2१७.२

इत्यौपरिष्टकम् ॥ (१७।२)

ityaupariṣṭakam ||

18.1१८.१

कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत् प्रयोजयन्ति ॥ (१८।१)

kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti ||

19.1१९.१

तद् एतत् तु न कार्यम् । (१९।१)

tad etat tu na kāryam |

19.2१९.२

पुनर् अपि ह्यासां वदनसंसर्गे स्वयम् एवार्तिं प्रपद्येत । (१९।२)

punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta |

19.3१९.३

इत्याचार्याः ॥ (१९।३)

ityācāryāḥ ||

20.1२०.१

वेश्याकामिनो ऽयम् अदोषः । (२०।१)

veśyākāmino 'yam adoṣaḥ |

20.2२०.२

इति वात्स्यायनः ॥ (२०।२)

iti vātsyāyanaḥ ||

21.1२१.१

तस्माद् यास्त्वौपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥ (२१।१)

tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ ||

22.1२२.१

वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥ (२२।१)

veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti ||

23.1२३.१

निरपेक्षाः साकेताः संसृज्यन्ते ॥ (२३।१)

nirapekṣāḥ sāketāḥ saṃsṛjyante ||

24.1२४.१

न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः ॥ (२४।१)

na tu svayam aupariṣṭakam ācaranti nāgarakāḥ ||

25.1२५.१

सर्वम् अविशङ्कया प्रयोजयन्ति सौरसेनाः ॥ (२५।१)

sarvam aviśaṅkayā prayojayanti saurasenāḥ ||

26.1२६.१

एवं ह्याहुः । (२६।१)

evaṃ hyāhuḥ |

26.2२६.२

को हि योषितां शीलं शौचम् आचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुम् अर्हति । (२६।२)

ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati |

26.3२६.३

निसर्गाद् एव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः । (२६।३)

nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ |

26.4२६.४

एवं ह्याहुः । (२६।४)

evaṃ hyāhuḥ |

26.5२६.५

वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः । (२६।५)

vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ |

26.6२६.६

शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥ (२६।६)

śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame ||

27.1२७.१

शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद् देशस्थितेर् आत्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेत । (२७।१)

śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta |

27.2२७.२

इति वात्स्यायनः ॥ (२७।२)

iti vātsyāyanaḥ ||

28.1२८.१

भवन्ति चात्र श्लोकाः । (२८।१)

bhavanti cātra ślokāḥ |

28.2२८.२

प्रमृष्टकुण्डलाश्चापि युवानः परिचारकाः । (२८।२)

pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ |

28.3२८.३

केषांचिद् एव कुर्वन्ति नराणाम् औपरिष्टकम् ॥ (२८।३)

keṣāṃcid eva kurvanti narāṇām aupariṣṭakam ||

29.1२९.१

तथा नागरकाः केचिद् अन्योन्यस्य हितैषिणः । (२९।१)

tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ |

29.2२९.२

कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥ (२९।२)

kurvanti rūḍhaviśvāsāḥ parasparaparigraham ||

30.1३०.१

पुरुषाश्च तथा स्त्रीषु कर्मैतत् किल कुर्वते । (३०।१)

puruṣāśca tathā strīṣu karmaitat kila kurvate |

30.2३०.२

व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद् विधिः ॥ (३०।२)

vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ ||

31.1३१.१

परिवर्तितदेहौ तु स्त्रीपुंसौ यत् परस्परम् । (३१।१)

parivartitadehau tu strīpuṃsau yat parasparam |

31.2३१.२

युगपत् सम्प्रयुज्येते स कामः काकिलः स्मृतः ॥ (३१।२)

yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ ||

32.1३२.१

तस्माद् गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो नरान् । (३२।१)

tasmād guṇavatastyaktvā caturāṃstyāgino narān |

32.2३२.२

वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ (३२।२)

veśyāḥ khaleṣu rajyante dāsahastipakādiṣu ||

33.1३३.१

न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राजधूर्धरः ॥ (३३।१)

na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ ||

34.1३४.१

गृहीतप्रत्ययो वापि कारयेद् औपरिष्टकम् ॥ (३४।१)

gṛhītapratyayo vāpi kārayed aupariṣṭakam ||

35.1३५.१

न शास्त्रम् अस्तीत्येतावत् प्रयोगे कारणं भवेत् । (३५।१)

na śāstram astītyetāvat prayoge kāraṇaṃ bhavet |

35.2३५.२

शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस्त्व् एकदेशिकान् ॥ (३५।२)

śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān ||

36.1३६.१

रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । (३६।१)

rasavīryavipākā hi śvamāṃsasyāpi vaidyake |

36.2३६.२

कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः ॥ (३६।२)

kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ ||

37.1३७.१

सन्त्येव पुरुषाः केचित् सन्ति देशास्तथाविधाः । (३७।१)

santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ |

37.2३७.२

सन्ति कालाश्च येष्व् एते योगा न स्युर् निरर्थकाः ॥ (३७।२)

santi kālāśca yeṣv ete yogā na syur nirarthakāḥ ||

38.1३८.१

तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च । (३८।१)

tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca |

38.2३८.२

आत्मानं चापि सम्प्रेक्ष्य योगान् युञ्जीत वा न वा ॥ (३८।२)

ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā ||

39.1३९.१

अर्थस्यास्य रहस्यत्वाच्चलत्वान् मनसस्तथा । (३९।१)

arthasyāsya rahasyatvāccalatvān manasastathā |

39.2३९.२

कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति ॥ (३९।२)

kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati ||

Data courtesy of The Digital Corpus of Sanskrit.

KāSū, 2, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit