कामसूत्रKāmasūtra

KāSū, 5, 4

26 of 36 · 93 verses

Select a line for its word-by-word analysis.

1.1१.१

दर्शितेङ्गिताकारां तु प्रविरलदर्शनाम् अपूर्वां च दूत्योपसर्पयेत् । (१।१)

darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet |

1.2१.२

सैनां शीलतो ऽनुप्रविश्याख्यानकपटैः सुभगंकरणयोगैर् लोकवृत्तान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् । (१।२)

saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet |

1.3१.३

कथम् एवंविधायास्तवायम् इत्थंभूतः पतिरिति चानुशयं ग्राहयेत् । (१।३)

katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet |

1.4१.४

न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात् । (१।४)

na tava subhage dāsyam api kartuṃ yukta iti brūyāt |

1.5१.५

मन्दवेगताम् ईर्ष्यालुतां शठताम् अकृतज्ञतां चासंभोगशीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्यस्या अभ्याशे सति सद्भावे अतिशयेन भाषेत । (१।५)

mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta |

1.6१.६

येन च दोषेणोद्विग्नां लक्षयेत् तेनैवानुप्रविशेत् । (१।६)

yena ca doṣeṇodvignāṃ lakṣayet tenaivānupraviśet |

1.7१.७

यदासौ मृगी तदा नैव शशतादोषः । (१।७)

yadāsau mṛgī tadā naiva śaśatādoṣaḥ |

1.8१.८

एतेनैव वडवाहस्तिनीविषयश्चोक्तः ॥ (१।८)

etenaiva vaḍavāhastinīviṣayaścoktaḥ ||

2.1२.१

नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनोपसर्पयेत् प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥ (२।१)

nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ ||

3.1३.१

सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत् । (३।१)

sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet |

3.2३.२

प्रसृतसद्भावायां च युक्त्या कार्यशरीरम् इत्थं वदेत् । (३।२)

prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet |

3.3३.३

शृणु विचित्रम् इदं सुभगे त्वां किल दृष्ट्वामुत्रासाव् इत्थं गोत्रपुत्रो नायकश्चित्तोन्मादम् अनुभवति । (३।३)

śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati |

3.4३.४

प्रकृत्या सुकुमारः कदाचिद् अन्यत्रापरिक्लिष्टपूर्वस्तपस्वी । (३।४)

prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī |

3.5३.५

ततो ऽधुना शक्यम् अनेन मरणम् अप्यनुभवितुम् इति वर्णयेत् । (३।५)

tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet |

3.6३.६

तत्र सिद्धा द्वितीये अहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत् । (३।६)

tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet |

3.7३.७

शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्य् अन्यान्यपि लौकिकानि च कथयेत् तद्युक्तानि । (३।७)

śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni |

3.8३.८

वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य । (३।८)

vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya |

3.9३.९

श्लाघनीयतां चास्य प्रच्छन्नं संप्रयोगं भूतम् अभूतपूर्वं वा वर्णयेत् । (३।९)

ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet |

3.10३.१०

आकारं चास्या लक्षयेत् ॥ (३।१०)

ākāraṃ cāsyā lakṣayet ||

4.1४.१

सविहसितं दृष्ट्वा सम्भाषते । (४।१)

savihasitaṃ dṛṣṭvā sambhāṣate |

4.2४.२

आसने चोपनिमन्त्रयते । (४।२)

āsane copanimantrayate |

4.3४.३

क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति । (४।३)

kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati |

4.4४.४

विविक्ते दर्शयत्यात्मानम् । (४।४)

vivikte darśayatyātmānam |

4.5४.५

आख्यानकानि नियुङ्क्ते । (४।५)

ākhyānakāni niyuṅkte |

4.6४.६

चिन्तयन्ती निःश्वसिति विजृम्भते च । (४।६)

cintayantī niḥśvasiti vijṛmbhate ca |

4.7४.७

प्रीतिदायं च ददाति । (४।७)

prītidāyaṃ ca dadāti |

4.8४.८

इष्टेषूत्सवेषु च स्मरति । (४।८)

iṣṭeṣūtsaveṣu ca smarati |

4.9४.९

पुनर् दर्शनानुबन्धं विसृजति । (४।९)

punar darśanānubandhaṃ visṛjati |

4.10४.१०

साधुवादिनी सती किम् इदम् अशोभनम् अभिधत्स इति कथाम् अनुबध्नाति । (४।१०)

sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti |

4.11४.११

नायकस्य शाठ्यचापल्यसम्बद्धान् दोषान् ददाति । (४।११)

nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti |

4.12४.१२

पूर्वप्रवृत्तं च तत्संदर्शनं कथाभियोगं च स्वयम् अकथयन्ती तयोच्यमानम् आकाङ्क्षति । (४।१२)

pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati |

4.13४.१३

नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति । (४।१३)

nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati |

4.14४.१४

न च निर्वदतीति ॥ (४।१४)

na ca nirvadatīti ||

5.1५.१

दूत्येनां दर्शिताकारां नायकाभिज्ञानैर् उपबृंहयेत् । (५।१)

dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet |

5.2५.२

असंस्तुतां तु गुणकथनैर् अनुरागकथाभिश्चावर्जयेत् ॥ (५।२)

asaṃstutāṃ tu guṇakathanair anurāgakathābhiścāvarjayet ||

6.1६.१

नासंस्तुतादृष्टाकारयोर् दूत्यम् अस्तीत्यौद्दालकिः । (६।१)

nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ |

6.2६.२

असंस्तुतयोर् अपि संसृष्टाकारयोर् अस्तीति बाभ्रवीयाः । (६।२)

asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ |

6.3६.३

संस्तुतयोर् अप्यसंसृष्टाकारयोर् अस्तीति गोणिकापुत्रः । (६।३)

saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ |

6.4६.४

असंस्तुतयोर् अदृष्टाकारयोर् अपि दूतीप्रत्ययाद् इति वात्स्यायनः ॥ (६।४)

asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ ||

7.1७.१

तासां मनोहराण्युपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् । (७।१)

tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet |

7.2७.२

तेषु नायकस्य यथार्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः । (७।२)

teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ |

7.3७.३

वाससि च कुङ्कुमाङ्कम् अञ्जलिं निदध्यात् । (७।३)

vāsasi ca kuṅkumāṅkam añjaliṃ nidadhyāt |

7.4७.४

पत्त्रछेद्यानि नानाभिप्रायाकृतिनि दर्शयेत् । (७।४)

pattrachedyāni nānābhiprāyākṛtini darśayet |

7.5७.५

लेखपत्रगर्भाणि कर्णपत्त्राण्यापीडांश्च तेषु स्वमनोरथाख्यापनम् । (७।५)

lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam |

7.6७.६

प्रतिप्राभृतदाने चैनां नियोजयेत् । (७।६)

pratiprābhṛtadāne caināṃ niyojayet |

7.7७.७

एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः ॥ (७।७)

evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ ||

8.1८.१

स तु देवताभिगमने यात्रायाम् उद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्व् अग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः । (८।१)

sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ |

8.2८.२

सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः । (८।२)

sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ |

8.3८.३

तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अविज्ञातकालं च तन् नित्यं सुखोपायं चेति वात्स्यायनः ॥ (८।३)

tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ ||

9.1९.१

ड़ेमले मेस्सेन्गेर्स्निसृष्टार्था परिमितार्था पत्रहारी स्वयंदूती मूढदूती भार्यादूती मूकदूती वातदूती चेति दूतीविशेषाः ॥ (९।१)

Female messengersnisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ ||

10.1१०.१

नायकस्य नायिकायाश्च यथामनीषितम् अर्थम् उपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था ॥ (१०।१)

nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṃpādinī nisṛṣṭārthā ||

11.1११.१

सा प्रायेण संस्तुतसंभाषणयोः । (११।१)

sā prāyeṇa saṃstutasaṃbhāṣaṇayoḥ |

11.2११.२

नायिकया प्रयुक्तासंस्तुतसंभाषणयोर् अपि । (११।२)

nāyikayā prayuktāsaṃstutasaṃbhāṣaṇayor api |

11.3११.३

कौतुकाच्चानुरूपौ युक्ताव् इमौ परस्परस्येत्यसंस्तुतयोर् अपि ॥ (११।३)

kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api ||

12.1१२.१

कार्यैकदेशम् अभियोगैकदेशं चोपलभ्य शेषं सम्पादयतीति परिमितार्था ॥ (१२।१)

kāryaikadeśam abhiyogaikadeśaṃ copalabhya śeṣaṃ sampādayatīti parimitārthā ||

13.1१३.१

सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ॥ (१३।१)

sā dṛṣṭaparasparākārayoḥ praviraladarśanayoḥ ||

14.1१४.१

संदेशमात्रं प्रापयतीति पत्रहारी ॥ (१४।१)

saṃdeśamātraṃ prāpayatīti patrahārī ||

15.1१५.१

सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम् ॥ (१५।१)

sā pragāḍhasadbhāvayoḥ saṃsṛṣṭayośca deśakālasaṃbodhanārtham ||

16.1१६.१

दौत्येन प्रहितान्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेत् । (१६।१)

dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet |

16.2१६.२

गोत्रस्खलितं भार्यां चास्य निन्देत् । (१६।२)

gotraskhalitaṃ bhāryāṃ cāsya nindet |

16.3१६.३

तद्व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत् । (१६।३)

tadvyapadeśena svayam īrṣyāṃ darśayet |

16.4१६.४

नखदशनचिह्नितं वा किंचिद् दद्यात् । (१६।४)

nakhadaśanacihnitaṃ vā kiṃcid dadyāt |

16.5१६.५

भवते अहम् अदौ दातुं संकल्पितेति चाभिदधीत । (१६।५)

bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta |

16.6१६.६

मम भार्याया का रमनीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती । (१६।६)

mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī |

16.7१६.७

तस्या विविक्ते दर्शनं प्रतिग्रहश्च । (१६।७)

tasyā vivikte darśanaṃ pratigrahaśca |

16.8१६.८

प्रतिग्रहच्छलेनान्याम् अभिसंधायास्याः संदेशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात् सापि स्वयंदूती । (१६।८)

pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī |

16.9१६.९

एतया नायको ऽप्यन्यदूतश्च व्याख्यातः ॥ (१६।९)

etayā nāyako 'pyanyadūtaśca vyākhyātaḥ ||

17.1१७.१

नायकभार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत् । (१७।१)

nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet |

17.2१७.२

योगाञ् शिक्षयेत् । (१७।२)

yogāñ śikṣayet |

17.3१७.३

साकारं मण्डयेत् । (१७।३)

sākāraṃ maṇḍayet |

17.4१७.४

कोपम् एनां ग्राहयेत् । (१७।४)

kopam enāṃ grāhayet |

17.5१७.५

एवं च प्रतिपद्यस्वेति श्रावयेत् । (१७।५)

evaṃ ca pratipadyasveti śrāvayet |

17.6१७.६

स्वयं चास्यां नखदशनपदानि निर्वर्तयेत् । (१७।६)

svayaṃ cāsyāṃ nakhadaśanapadāni nirvartayet |

17.7१७.७

तेन द्वारेण नायकम् आकारयेत् सा मूढदूती ॥ (१७।७)

tena dvāreṇa nāyakam ākārayet sā mūḍhadūtī ||

18.1१८.१

तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ (१८।१)

tasyāstayaiva pratyuttarāṇi yojayet ||

19.1१९.१

स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत् । (१९।१)

svabhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet |

19.2१९.२

आत्मनश्च वैचक्षण्यं प्रकाशयेत् । (१९।२)

ātmanaśca vaicakṣaṇyaṃ prakāśayet |

19.3१९.३

सा भार्यादूती । (१९।३)

sā bhāryādūtī |

19.4१९.४

तस्यास्तयैवाकारग्रहणम् ॥ (१९।४)

tasyāstayaivākāragrahaṇam ||

20.1२०.१

बालां वा परिचारिकाम् अदोषज्ञाम् अदुष्टेनोपायेन प्रहिणुयात् । (२०।१)

bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt |

20.2२०.२

तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती । (२०।२)

tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī |

20.3२०.३

तस्यास्तया एव प्रत्युत्तरप्रार्थनम् ॥ (२०।३)

tasyāstayā eva pratyuttaraprārthanam ||

21.1२१.१

पूर्वप्रस्तुतार्थलिङ्गसम्बद्धम् अन्यजनाग्रहणीयं लौकिकार्थं द्व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वातदूती । (२१।१)

pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī |

21.2२१.२

तस्या अपि तयैव प्रत्युत्तरप्रार्थनम् इति तासां विशेषाः ॥ (२१।२)

tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ ||

22.1२२.१

भवन्ति चात्र श्लोकाः । (२२।१)

bhavanti cātra ślokāḥ |

22.2२२.२

विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । (२२।२)

vidhavekṣaṇikā dāsī bhikṣukī śilpakārikā |

22.3२२.३

प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति ॥ (२२।३)

praviśatyāśu viśvāsaṃ dūtīkāryaṃ ca vindati ||

23.1२३.१

विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत् । (२३।१)

vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet |

23.2२३.२

चित्रान् सुरतसंभोगान् अन्यासाम् अपि दर्शयेत् ॥ (२३।२)

citrān suratasaṃbhogān anyāsām api darśayet ||

24.1२४.१

नायकस्यानुरागं च पुनश्च रतिकौशलम् । (२४।१)

nāyakasyānurāgaṃ ca punaśca ratikauśalam |

24.2२४.२

प्रार्थनां चाधिकस्त्रीभिर् अवष्टम्भं च वर्णयेत् ॥ (२४।२)

prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet ||

25.1२५.१

असंकल्पितम् अप्यर्थम् उत्सृष्टं दोषकारणात् । (२५।१)

asaṃkalpitam apyartham utsṛṣṭaṃ doṣakāraṇāt |

25.2२५.२

पुनर् आवर्तयत्येव दूती वचनकौशलात् ॥ (२५।२)

punar āvartayatyeva dūtī vacanakauśalāt ||

Data courtesy of The Digital Corpus of Sanskrit.

KāSū, 5, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit