कामसूत्रKāmasūtra

KāSū, 3, 3

18 of 36 · 70 verses

Select a line for its word-by-word analysis.

1.1१.१

धनहीनस्तु गुणयुक्तो ऽपि मध्यस्थगुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृपितृभ्रातृषु च परतन्त्रः बालवृत्तिर् उचितप्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत् । (१।१)

dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet |

1.2१.२

बाल्यात् प्रभृति चैनां स्वयम् एवानुरञ्जयेत् । (१।२)

bālyāt prabhṛti caināṃ svayam evānurañjayet |

1.3१.३

तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणापथे बाल एव मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादलभ्यां मातुलदुहितरम् अन्यस्मै वा पूर्वदत्तां साधयेत् । (१।३)

tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet |

1.4१.४

अन्याम् अपि बाह्यां स्पृहयेत् । (१।४)

anyām api bāhyāṃ spṛhayet |

1.5१.५

बालायाम् एवं सति धर्माधिगमे संवननं श्लाघ्यम् इति घोटकमुखः ॥ (१।५)

bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ ||

2.1२.१

तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणम् इति कुर्वीत । (२।१)

tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta |

2.2२.२

परिचयस्य वयसश्चानुरूप्यात् । (२।२)

paricayasya vayasaścānurūpyāt |

2.3२.३

आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात् तदाप्तदासचेटिकाभिस् तया च सहानुक्रीडेत । (२।३)

ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta |

2.4२.४

क्ष्वेडितकानि सुनिमीलितकाम् आरब्धिकां लवणवीथिकाम् अनिलताडितकां गोधूमपुञ्जिकाम् अङ्गुलिताडितकां सखीभिर् अन्यानि च देश्यानि ॥ (२।४)

kṣveḍitakāni sunimīlitakām ārabdhikāṃ lavaṇavīthikām anilatāḍitakāṃ godhūmapuñjikām aṅgulitāḍitakāṃ sakhībhir anyāni ca deśyāni ||

3.1३.१

यां च विश्वास्याम् अस्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात् । (३।१)

yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt |

3.2३.२

परिचयांश्च बुध्येत । (३।२)

paricayāṃśca budhyeta |

3.3३.३

धात्रेयिकां चास्याः प्रियहिताभ्याम् अधिकम् उपगृह्णीयात् । (३।३)

dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt |

3.4३.४

सा हि प्रीयमाणा विदिताकाराप्य् अप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात् । (३।४)

sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt |

3.5३.५

अनभिहितापि प्रत्याचार्यकम् । (३।५)

anabhihitāpi pratyācāryakam |

3.6३.६

अविदिताकारापि हि गुणान् एवानुरागात् प्रकाशयेत् । (३।६)

aviditākārāpi hi guṇān evānurāgāt prakāśayet |

3.7३.७

यथा प्रयोज्यानुरज्येत । (३।७)

yathā prayojyānurajyeta |

3.8३.८

यत्र यत्र च कौतुकं प्रयोज्यायास्तद् अनु प्रविश्य साधयेत् । (३।८)

yatra yatra ca kautukaṃ prayojyāyāstad anu praviśya sādhayet |

3.9३.९

क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अयत्नेन सम्पादयेत् । (३।९)

krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet |

3.10३.१०

तत्र कन्दुकम् अनेकभक्तिचित्रम् अल्पकालान्तरितम् अन्यद् अन्यच्च संदर्शयेत् । (३।१०)

tatra kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet |

3.11३.११

तथा सूत्रदारुगवलगजदन्तमयीर् दुहितृका मधूच्छिष्टपिष्टमृण्मयीश्च । (३।११)

tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca |

3.12३.१२

भक्तपाकार्थम् अस्या महानसिकस्य च दर्शनम् । (३।१२)

bhaktapākārtham asyā mahānasikasya ca darśanam |

3.13३.१३

काष्ठमेध्रकयोश्च संयुक्तयोश्च स्त्रीपुंसयोर् अजैडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम् । (३।१३)

kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam |

3.14३.१४

यथा च सर्वाभिप्रायसंवर्धकम् एनं मन्येत तथा प्रयतितव्यम् । (३।१४)

yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam |

3.15३.१५

वीक्षणे च प्रच्छन्नम् अर्थयेत् । (३।१५)

vīkṣaṇe ca pracchannam arthayet |

3.16३.१६

तथा कथायोजनम् । (३।१६)

tathā kathāyojanam |

3.17३.१७

प्रच्छन्नदानस्य तु कारणम् आत्मनो गुरुजनाद् भयं ख्यापयेत् । (३।१७)

pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet |

3.18३.१८

देयस्य चान्येन स्पृहणीयत्वम् इति । (३।१८)

deyasya cānyena spṛhaṇīyatvam iti |

3.19३.१९

वर्धमानानुरागं चाख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत् । (३।१९)

vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet |

3.20३.२०

विस्मयेषु प्रसह्यमानाम् इन्द्रजालैः प्रयोगैर् विस्मापयेत् । (३।२०)

vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet |

3.21३.२१

कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर् गीतैः । (३।२१)

kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ |

3.22३.२२

आश्वयुज्याम् अष्टमीचन्द्रके कौमुद्याम् उत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैर् आपीडैः कर्णपत्त्रभङ्गैः सिक्थकप्रधानैर् वस्त्राङ्गुलीयकभूषणदानैश्च । (३।२२)

āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca |

3.23३.२३

नो चेद् दोषकराणि मन्येत । (३।२३)

no ced doṣakarāṇi manyeta |

3.24३.२४

अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान् योगान् ग्राहयेत् । (३।२४)

anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet |

3.25३.२५

तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलम् आत्मनः प्रकाशयेत् । (३।२५)

tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet |

3.26३.२६

उदारवेषश्च स्वयम् अनुपहतदर्शनः स्यात् । (३।२६)

udāraveṣaśca svayam anupahatadarśanaḥ syāt |

3.27३.२७

भावं च कुर्वतीम् इङ्गिताकारैः सूचयेत् । (३।२७)

bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet |

3.28३.२८

युवतयो हि संसृष्टम् अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते । (३।२८)

yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante |

3.29३.२९

कामयमाना अपि तु नाभियुञ्जत इति प्रायोवादः । (३।२९)

kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ |

3.30३.३०

इति बालायाम् उपक्रमाः ॥ (३।३०)

iti bālāyām upakramāḥ ||

4.1४.१

तान् इङ्गिताकारान् वक्ष्यामः ॥ (४।१)

tān iṅgitākārān vakṣyāmaḥ ||

5.1५.१

संमुखं तं तु न वीक्षते । (५।१)

saṃmukhaṃ taṃ tu na vīkṣate |

5.2५.२

वीक्षिता व्रीडां दर्शयति । (५।२)

vīkṣitā vrīḍāṃ darśayati |

5.3५.३

रुच्यम् आत्मनो ऽङ्गम् अपदेशेन प्रकाशयति । (५।३)

rucyam ātmano 'ṅgam apadeśena prakāśayati |

5.4५.४

प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते । (५।४)

pramattaṃ pracchannaṃ nāyakam atikrāntaṃ ca vīkṣate |

5.5५.५

पृष्टा च किंचित् सस्मितम् अव्यक्ताक्षरम् अनवसितार्थं च मन्दं मन्दम् अधोमुखी कथयति । (५।५)

pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati |

5.6५.६

तत्समीपे चिरं स्थानम् अभिनन्दति । (५।६)

tatsamīpe ciraṃ sthānam abhinandati |

5.7५.७

दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं सवदनविकारम् आभाषते । (५।७)

dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate |

5.8५.८

तं देशं न मुञ्चति । (५।८)

taṃ deśaṃ na muñcati |

5.9५.९

यत् किंचिद् दृष्ट्वा विहसितं करोति । (५।९)

yat kiṃcid dṛṣṭvā vihasitaṃ karoti |

5.10५.१०

तत्र कथाम् अवस्थानार्थम् अनुबध्नाति । (५।१०)

tatra kathām avasthānārtham anubadhnāti |

5.11५.११

बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति । (५।११)

bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti |

5.12५.१२

परिचारिकायास्तिलकं च रचयति । (५।१२)

paricārikāyāstilakaṃ ca racayati |

5.13५.१३

परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति । (५।१३)

parijanānavaṣṭabhya tāstāśca līlā darśayati |

5.14५.१४

तन्मित्रेषु विश्वसिति । (५।१४)

tanmitreṣu viśvasiti |

5.15५.१५

वचनं चैषां बहु मन्यते करोति च । (५।१५)

vacanaṃ caiṣāṃ bahu manyate karoti ca |

5.16५.१६

तत्परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति । (५।१६)

tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti |

5.17५.१७

स्वकर्मसु च प्रभविष्णुर् इवैतान् नियुङ्क्ते । (५।१७)

svakarmasu ca prabhaviṣṇur ivaitān niyuṅkte |

5.18५.१८

तेषु च नायकसंकथाम् अन्यस्य कथयत्स्ववहिता तां शृणोति । (५।१८)

teṣu ca nāyakasaṃkathām anyasya kathayatsvavahitā tāṃ śṛṇoti |

5.19५.१९

धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति । (५।१९)

dhātreyikayā coditā nāyakasyodavasitaṃ praviśati |

5.20५.२०

ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चायोजयितुम् इच्छति । (५।२०)

tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati |

5.21५.२१

अनलंकृता दर्शनपथं परिहरति । (५।२१)

analaṃkṛtā darśanapathaṃ pariharati |

5.22५.२२

कर्णपत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता सधीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति । (५।२२)

karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti |

5.23५.२३

तेन च दत्तं नित्यं धारयति । (५।२३)

tena ca dattaṃ nityaṃ dhārayati |

5.24५.२४

अन्यवरसंकथासु विषण्णा भवति । (५।२४)

anyavarasaṃkathāsu viṣaṇṇā bhavati |

5.25५.२५

तत्पक्षकैश्च सह न संसृज्यत इति ॥ (५।२५)

tatpakṣakaiśca saha na saṃsṛjyata iti ||

6.1६.१

भवतश्चात्र श्लोकौ । (६।१)

bhavataścātra ślokau |

6.2६.२

दृष्ट्वैतान् भावसंयुक्तान् आकारान् इङ्गितानि च । (६।२)

dṛṣṭvaitān bhāvasaṃyuktān ākārān iṅgitāni ca |

6.3६.३

कन्यायाः संप्रयोगार्थं तांस्तान् योगान् विचिन्तयेत् ॥ (६।३)

kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet ||

7.1७.१

बालक्रीडनकैर् बाला कलाभिर् यौवने स्थिता । (७।१)

bālakrīḍanakair bālā kalābhir yauvane sthitā |

7.2७.२

वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ॥ (७।२)

vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt ||

Data courtesy of The Digital Corpus of Sanskrit.

KāSū, 3, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit