रसरत्नाकरRasaratnākara

RRĀ, 1, 10

10 of 39 · 177 verses

Select a line for its word-by-word analysis.

1.1१.१

तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले । (१।१)

tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale |

1.2१.२

यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥ (१।२)

yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet ||

2.1२.१

धत्तूर:: ओइल्धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् । (२।१)

dhattūra:: oildhattūrabījacūrṇāni vastrapūtāni kārayet |

2.2२.२

आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥ (२।२)

ālipya kāṃsyapātraṃ tu dhārayedātape khare ||

3.1३.१

सुतप्तं वस्त्रपूतं च पातयेत् तैलमाहरेत् । (३।१)

sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet |

3.2३.२

शिग्रु:: ओइल्शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥ (३।२)

śigru:: oilśigrupuṣkarabījānāṃ bījasya mārkavasya ca ||

4.1४.१

ग्राह्यं धत्तूरवत् तैलमेकैकस्य पृथक् पृथक् । (४।१)

grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak |

4.2४.२

यथा धत्तूरजं तैलं क्वाथाद् घर्मे समुद्धृतम् ॥ (४।२)

yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam ||

5.1५.१

तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः । (५।१)

tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ |

5.2५.२

अङ्कोट:: ओइलङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥ (५।२)

aṅkoṭa:: oilaṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā ||

6.1६.१

वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् । (६।१)

vākucīdevadālyāśca karkoṭīmūlataḥ bhavet |

6.2६.२

अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥ (६।२)

apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam ||

7.1७.१

मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् । (७।१)

mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet |

7.2७.२

क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥ (७।२)

kvāthena raktamārgasya vākucītailamāharet ||

8.1८.१

क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् । (८।१)

kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet |

8.2८.२

काकतुण्ड्यपामार्गोत्थक्वाथात् तैलं समाहरेत् ॥ (८।२)

kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet ||

9.1९.१

कटुतुम्बी:: ओइल्बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् । (९।१)

kaṭutumbī:: oilbījāni kaṭutumbyāśca gomayena viloḍayet |

9.2९.२

शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥ (९।२)

śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale ||

10.1१०.१

निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह । (१०।१)

nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha |

10.2१०.२

मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥ (१०।२)

mardayitvātape tailaṃ gṛhṇīyātpīḍane sati ||

11.1११.१

ओइल् ड़्रोम् कृष्णा अन्द् काकतुण्डीकृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् । (११।१)

oil from kṛṣṇā and kākatuṇḍīkṛṣṇāyāḥ kākatuṇḍyāśca bījaṃ cūrṇāni kārayet |

11.2११.२

कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥ (११।२)

kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet ||

12.1१२.१

धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् । (१२।१)

dhānyarāśigataṃ paktvā uddhṛte tailamāharet |

12.2१२.२

धात्रीफलरसैर् भाव्यं चूर्णं पाषाणबीजकम् ॥ (१२।२)

dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam ||

13.1१३.१

दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके । (१३।१)

dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake |

13.2१३.२

ओइल्:: ड़्रोम् गुञ्जा अन्द् करञ्जगुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥ (१३।२)

oil:: from guñjā and karañjaguñjākarañjaphalaṃ ca naramūtreṇa bhāvayet ||

14.1१४.१

सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् । (१४।१)

saptavāraṃ tato gharme lepayetkāṃsyabhājanam |

14.2१४.२

उद्धृत्य धारयेद् घर्मे तैलं पतति पीडनात् ॥ (१४।२)

uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt ||

15.1१५.१

ओइल्:: ज्योतिष्मतीवर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् । (१५।१)

oil:: jyotiṣmatīvardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet |

15.2१५.२

ज्योतिष्मत्युत्थबीजानाम् आतपे तैलमाहरेत् ॥ (१५।२)

jyotiṣmatyutthabījānām ātape tailamāharet ||

16.1१६.१

ओइल्:: पुत्रजीवपुत्रजीवस्य बीजानां चूर्णम् अगस्त्यबीजजम् । (१६।१)

oil:: putrajīvaputrajīvasya bījānāṃ cūrṇam agastyabījajam |

16.2१६.२

आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक् पृथक् ॥ (१६।२)

āmrātavatprakartavyaṃ tatastailaṃ pṛthak pṛthak ||

17.1१७.१

ओइल्:: बिल्वनारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् । (१७।१)

oil:: bilvanārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam |

17.2१७.२

दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥ (१७।२)

dinaikaṃ tailayantreṇa tailamākṛṣya yojayet ||

18.1१८.१

ओइल्:: अङ्कोलनिस्तुषाङ्कोलबीजानां सुखं किंचिद् विघर्षयेत् । (१८।१)

oil:: aṅkolanistuṣāṅkolabījānāṃ sukhaṃ kiṃcid vigharṣayet |

18.2१८.२

प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥ (१८।२)

pralepayetkāṃsyapātre piṣṭvā caṇakalepane ||

19.1१९.१

तन्मुखे टंकणं चूर्णं किंचित् किंचित् प्रलेपयेत् । (१९।१)

tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet |

19.2१९.२

धारयेदातपे तीव्रे मुखात् तैलं समाहरेत् ॥ (१९।२)

dhārayedātape tīvre mukhāt tailaṃ samāharet ||

20.1२०.१

केशतैलशमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् । (२०।१)

keśatailaśamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet |

20.2२०.२

छिद्राधः स्थापयेद् भाण्डं छिद्रे केशं च दापयेत् ॥ (२०।२)

chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet ||

21.1२१.१

जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् । (२१।१)

jalena secayeddravyaṃ chidrādho grāhayecca tam |

21.2२१.२

तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥ (२१।२)

tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ ||

22.1२२.१

तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् । (२२।१)

tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet |

22.2२२.२

ओइल्:: एxत्रच्तिओन् (गेन्।)अपक्वभानुपत्राणां रसमादाय भावयेत् ॥ (२२।२)

oil:: extraction (gen.)apakvabhānupatrāṇāṃ rasamādāya bhāvayet ||

23.1२३.१

समस्तं बीजचूर्णं चोक्तानुक्तं पृथक् पृथक् । (२३।१)

samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak |

23.2२३.२

आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥ (२३।२)

ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ ||

24.1२४.१

ओइल्तथैवोत्तरवारुण्याः कषायेण समाहरेत् । (२४।१)

oiltathaivottaravāruṇyāḥ kaṣāyeṇa samāharet |

24.2२४.२

तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥ (२४।२)

tailaṃ samastabījānāṃ grāhayedātape khare ||

25.1२५.१

ओइल्सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा । (२५।१)

oilsarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā |

25.2२५.२

सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥ (२५।२)

sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake ||

26.1२६.१

ओइल्वंशादिसर्वकाष्ठानां नारिकेलकपालकम् । (२६।१)

oilvaṃśādisarvakāṣṭhānāṃ nārikelakapālakam |

26.2२६.२

तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥ (२६।२)

tuṣadhānyādibījānāṃ garbhayantreṇa tailakam ||

27.0२७.०

ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥ (२७।०)

grāhayetsarvabījānāṃ taṃ ca yogeṣu yojayet ||

28.1२८.१

वत्सनाभवत्सनाभं विषं स्वादु दीपनं कफवातजित् । (२८।१)

vatsanābhavatsanābhaṃ viṣaṃ svādu dīpanaṃ kaphavātajit |

28.2२८.२

त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥ (२८।२)

tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet ||

29.1२९.१

बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् । (२९।१)

bṛṃhaṇaṃ balavīryasya vāḍabāgniśatopamam |

29.2२९.२

सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥ (२९।२)

sannipāte pratīkāre prabhavaḥ prabhavo'sya hi ||

30.1३०.१

उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु । (३०।१)

uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru |

30.2३०.२

अव्यापकं विषहरं वातातपविशोषितम् ॥ (३०।२)

avyāpakaṃ viṣaharaṃ vātātapaviśoṣitam ||

31.1३१.१

रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् । (३१।१)

raktasarṣapatailena liptaṃ vāsasi dhārayet |

31.2३१.२

अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥ (३१।२)

athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam ||

32.1३२.१

आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक् भवेत् । (३२।१)

ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet |

32.2३२.२

मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥ (३२।२)

mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam ||

33.1३३.१

तस्माद्विषं योगवाहे योज्यं योगे रसायने । (३३।१)

tasmādviṣaṃ yogavāhe yojyaṃ yoge rasāyane |

33.2३३.२

तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥ (३३।२)

tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam ||

34.1३४.१

मात्रात्रयं समाख्यातमुत्तमाधममध्यम् । (३४।१)

mātrātrayaṃ samākhyātamuttamādhamamadhyam |

34.2३४.२

दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥ (३४।२)

dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine ||

35.1३५.१

क्षीराशिने प्रदातव्यं रसायनवते नरे । (३५।१)

kṣīrāśine pradātavyaṃ rasāyanavate nare |

35.2३५.२

न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥ (३५।२)

na krodhine na pittāḍhye na klībe rājayakṣmaṇi ||

36.1३६.१

क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे । (३६।१)

kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe |

36.2३६.२

गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ (३६।२)

garbhiṇībālavṛddheṣu na viṣaṃ rājamandire ||

37.1३७.१

न दातव्यं न भोक्तव्यं विसंवादे कदाचन । (३७।१)

na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana |

37.2३७.२

आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ (३७।२)

ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam ||

38.1३८.१

अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् । (३८।१)

anena mantreṇa mardayedbhūmau na sthāpayet |

38.2३८.२

अमृतमिति वदेदिति क्रमोऽयम् । (३८।२)

amṛtamiti vadediti kramo'yam |

38.3३८.३

ॐ सिद्धगुरुभ्यो नमः । (३८।३)

oṃ siddhagurubhyo namaḥ |

38.4३८.४

परमगुरुभ्यो नमः । (३८।४)

paramagurubhyo namaḥ |

38.5३८.५

परात्परगुरुभ्यो नमः । (३८।५)

parātparagurubhyo namaḥ |

38.6३८.६

परमेष्ठिगुरुभ्यो नमः । (३८।६)

parameṣṭhigurubhyo namaḥ |

38.7३८.७

वेगेतब्ले पोइसोन्स्सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् । (३८।७)

vegetable poisonssaktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam |

38.8३८.८

वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥ (३८।८)

vatsanābhaṃ ca kūrmaśca śvetaśṛṅgī tathāṣṭamam ||

39.1३९.१

इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् । (३९।१)

ityaṣṭau yojayedyoge kālakūṭādi varjayet |

39.2३९.२

पोइसोन्स्कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥ (३९।२)

poisonskālakūṭaṃ meṣaśṛṅgī hālāhalaṃ ca darduram ||

40.1४०.१

कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् । (४०।१)

karkaṭaṃ markaṭaṃ granthi hāridraṃ raktaśṛṅgakam |

40.2४०.२

केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥ (४०।२)

keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ ||

41.1४१.१

सक्तुकाद्यान् प्रयुञ्जीत सर्वरोगे रसायने । (४१।१)

saktukādyān prayuñjīta sarvaroge rasāyane |

41.2४१.२

एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥ (४१।२)

etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena ||

42.1४२.१

विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् । (४२।१)

vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam |

42.2४२.२

तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत् कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥ (४२।२)

tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau ||

43.1४३.१

श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा । (४३।१)

śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā |

43.2४३.२

लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥ (४३।२)

lomaśā brahmajātiḥ syātkṣatrajātistu lohitā ||

44.1४४.१

पीता वा मधुरा किंचिद् वैश्यजातिस्तु धूसरा । (४४।१)

pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā |

44.2४४.२

कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥ (४४।२)

kṛṣṇā śūdrasya dṛśyeta eteṣāṃ ca bhiṣagvaraiḥ ||

45.1४५.१

क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् । (४५।१)

kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet |

45.2४५.२

जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥ (४५।२)

jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet ||

46.1४६.१

शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् । (४६।१)

śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham |

46.2४६.२

ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥ (४६।२)

brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ ||

47.1४७.१

क्षिप्तं दुग्धे विषं वैद्यो जानीयात् क्रमशो यदि । (४७।१)

kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi |

47.2४७.२

श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥ (४७।२)

śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca ||

48.1४८.१

तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् । (४८।१)

tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam |

48.2४८.२

विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥ (४८।२)

viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam ||

49.1४९.१

इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् । (४९।१)

idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt |

49.2४९.२

दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥ (४९।२)

dīpanaṃ kurute sadyo vaḍavāgniśatopamam ||

50.0५०.०

संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥ (५०।०)

saṃnipātapratikāre prabhāvaḥ prabhavo hi saḥ ||

51.1५१.१

नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् । (५१।१)

nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam |

51.2५१.२

आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग् भवेत् ॥ (५१।२)

ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet ||

52.1५२.१

अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् । (५२।१)

atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet |

52.2५२.२

रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥ (५२।२)

rajanī meghanādā vā sarpākṣī vā ghṛtānvitā ||

53.1५३.१

लिहेद्वा मधुसर्पिर्भ्यां चूर्णिताम् अर्जुनत्वचम् । (५३।१)

lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam |

53.2५३.२

पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥ (५३।२)

putrajīvakamajjāṃ vā pibedvā nimbakadvayam ||

54.1५४.१

एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् । (५४।१)

evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham |

54.2५४.२

विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥ (५४।२)

viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam ||

55.1५५.१

विडङ्गम् अष्टमं चूर्णं छागमूत्रैः समं समम् । (५५।१)

viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam |

55.2५५.२

चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥ (५५।२)

caṇakābhā vaṭī khyātā syājjayā yogavāhikā ||

56.1५६.१

विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् । (५६।१)

viṣaṃ pāṭhāśvagandhāśca balā tālīsapattrakam |

56.2५६.२

मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥ (५६।२)

maricaṃ pippalī nimbamajāmūtreṇa tulyakam ||

57.1५७.१

वटिका पूर्ववत्कार्या वटिका योगवाहिका । (५७।१)

vaṭikā pūrvavatkāryā vaṭikā yogavāhikā |

57.2५७.२

निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥ (५७।२)

nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam ||

58.1५८.१

शोषं चैवातिसारं च कुरुते जङ्गमं विषम् । (५८।१)

śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam |

58.2५८.२

स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥ (५८।२)

sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham ||

59.1५९.१

फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् । (५९।१)

phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam |

59.2५९.२

न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥ (५९।२)

na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam ||

60.1६०.१

विषमेव तदादाय मज्जत्यम्बुनिधाविव । (६०।१)

viṣameva tadādāya majjatyambunidhāviva |

60.2६०.२

तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥ (६०।२)

tasmādyatnena saṃrakṣedrājā viṣacikitsakāt ||

61.1६१.१

प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति । (६१।१)

prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi |

61.2६१.२

निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति । (६१।२)

nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi |

61.3६१.३

शिलाजतु:: ओरिगिन्हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः । (६१।३)

śilājatu:: originhemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ |

61.4६१.४

जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥ (६१।४)

jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu ||

62.1६२.१

शिलाजतु:: मेदिच्। प्रोपेर्तिएसनघं चाल्पकषायं च कटु पाके शिलाजतु । (६२।१)

śilājatu:: medic. propertiesanaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu |

62.2६२.२

नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ (६२।२)

nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ ||

63.1६३.१

शिलाजतु:: ड़्रोम् गोल्द्:: मेदिच्। प्रोपेर्तिएस्हेम्नोऽथ रजतात्ताम्राद्वरं कालायसाद् अपि । (६३।१)

śilājatu:: from gold:: medic. propertieshemno'tha rajatāttāmrādvaraṃ kālāyasād api |

63.2६३.२

मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥ (६३।२)

madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat ||

64.1६४.१

विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् । (६४।१)

vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam |

64.2६४.२

शिलाजतु:: ड़्रोम् सिल्वेर्:: मेदिच्। प्रोपेर्तिएस्राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥ (६४।२)

śilājatu:: from silver:: medic. propertiesrājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate ||

65.1६५.१

शिलाजतु:: ड़्रोम् चोप्पेर्:: मेदिच्। प्रोपेर्तिएस्ताम्राद् बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु । (६५।१)

śilājatu:: from copper:: medic. propertiestāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu |

65.2६५.२

शिलाजतु:: ड़्रोम् इरोन्:: मेदिच्। प्रोपेर्तिएस्यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥ (६५।२)

śilājatu:: from iron:: medic. propertiesyacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam ||

66.1६६.१

विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् । (६६।१)

vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam |

66.2६६.२

गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥ (६६।२)

gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ ||

67.1६७.१

रसायनप्रयोगेषु पश्चिमं तु विशिष्यते । (६७।१)

rasāyanaprayogeṣu paścimaṃ tu viśiṣyate |

67.2६७.२

यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥ (६७।२)

yathākramaṃ vātapitte śleṣmapitte kaphe triṣu ||

68.1६८.१

विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः । (६८।१)

viśeṣeṇa praśasyante malā hemādidhātujāḥ |

68.2६८.२

शिलाजतु:: फ्य्स्। प्रोपेर्तिएस्लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥ (६८।२)

śilājatu:: phys. propertieslauhaḥ kiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi ||

69.1६९.१

तृणाद्यग्रे कृतं श्रेष्ठम् अधो गलति तन्तुवत् । (६९।१)

tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat |

69.2६९.२

दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् । (६९।२)

daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet |

69.3६९.३

क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेद् इत्येकः पक्षः । (६९।३)

kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ |

69.4६९.४

वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः । (६९।४)

vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ |

69.5६९.५

भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य । (६९।५)

bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya |

69.6६९.६

केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत् सर्वं ग्राह्यम् । (६९।६)

kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam |

69.7६९.७

ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा । (६९।७)

tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā |

69.8६९.८

सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् । (६९।८)

sālayugmau karañjau dvau khadiraṃ candanadvayam |

69.9६९.९

गर्दभाण्डो ऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥ (६९।९)

gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ ||

70.1७०.१

शिरीषागुरुकालीयपूगपूतिककर्कटाः । (७०।१)

śirīṣāgurukālīyapūgapūtikakarkaṭāḥ |

70.2७०.२

सालसारादिरप्येष गणः श्लेष्मगदापहः ॥ (७०।२)

sālasārādirapyeṣa gaṇaḥ śleṣmagadāpahaḥ ||

71.1७१.१

मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः । (७१।१)

mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ |

71.2७१.२

एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥ (७१।२)

ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet ||

72.1७२.१

द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् । (७२।१)

draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet |

72.2७२.२

भवेत् प्रमाणं निर्दिष्टं भिषग्भिर् भावनाविधौ ॥ (७२।२)

bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau ||

73.1७३.१

भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् । (७३।१)

bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam |

73.2७३.२

तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥ (७३।२)

tenārdrasamaṃ dravyaṃ śoṣayetprabalātape ||

74.0७४.०

दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान् निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥ (७४।०)

dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt ||

75.1७५.१

जायन्ते वामरुक्वाथे जनपदे ग्रीष्मे ऽर्कतापार्दिताः । (७५।१)

jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ |

75.2७५.२

शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥ (७५।२)

śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā ||

76.0७६.०

हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥ (७६।०)

hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ ||

77.0७७.०

वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥ (७७।०)

vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ ||

78.0७८.०

ग्राह्याः शुभाः परिहरेच्चिरकालजातान् अङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥ (७८।०)

grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān ||

79.1७९.१

गुग्गुलु:: मेदिच्। प्रोपेर्तिएस्स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः । (७९।१)

guggulu:: medic. propertiessvāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ |

79.2७९.२

वृष्यो मार्गविशोधने ऽतिविशदस्तीक्ष्णो विकाशी सरः ॥ (७९।२)

vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ ||

80.1८०.१

सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः । (८०।१)

sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ |

80.2८०.२

धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥ (८०।२)

dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ ||

81.0८१.०

गुग्गुलु:: शोधनदशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥ (८१।०)

guggulu:: śodhanadaśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam ||

82.1८२.१

चोन्छ्:: शोधनशंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् । (८२।१)

conch:: śodhanaśaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet |

82.2८२.२

रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥ (८२।२)

raudre malādikaṃ tyaktvā prakṣālya grāhayediti ||

83.1८३.१

मोनेय् चोwरिए:: शोधनवराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे । (८३।१)

money cowrie:: śodhanavarāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe |

83.2८३.२

प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥ (८३।२)

prakṣipya bhāvayettāvadyāvacchuklā na paśyati ||

84.0८४.०

पश्चादुद्धृत्य गृह्णीयाद् वराटीं शुद्धिमागताम् ॥ (८४।०)

paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām ||

85.1८५.१

पेअर्ल्:: शोधनभौमिकं जलम् आदाय मुक्तां च व्युषितामपि । (८५।१)

pearl:: śodhanabhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi |

85.2८५.२

त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥ (८५।२)

tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 1, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit