RRĀ, 2, 3
Select a line for its word-by-word analysis.
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । (१।१)
divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati |
शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थम् अनुपानमत्र वै ॥ (१।२)
śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai ||
गोजिह्वा सैन्धवं गुञ्जा ह्य् आर्द्रकं च समं समम् ॥ (२।२)
gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam ||
पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि । (३।१)
piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi |
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ (३।२)
pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam ||
ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् । (४।१)
tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet |
दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥ (४।२)
dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet ||
आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । (५।१)
ācchādyālepya kalkena cāndhayitvā viśoṣayet |
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ (५।२)
karīṣāgnau divārātraṃ puṭe paktvā samuddharet ||
पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत् ततः । (६।१)
punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭet tataḥ |
वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥ (७।२)
vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare ||
वर्षमात्रान् न संदेहो जीवेद् वर्षशतत्रयम् । (९।१)
varṣamātrān na saṃdeho jīved varṣaśatatrayam |
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ (१०।२)
samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam ||
तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर् द्रवैः । (११।१)
tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ |
सप्ताहं मर्दयेत् तुल्यं कृत्वा गोलं समुद्धरेत् ॥ (११।२)
saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet ||
निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । (१२।१)
nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā |
पिष्ट्वा तु लेपयेद्गोलं सर्वतो ऽङ्गुलमात्रकम् ॥ (१२।२)
piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam ||
तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे । (१३।१)
taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare |
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ (१३।२)
liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam ||
सुपिष्टैर् लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ (१४।२)
supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam ||
टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च । (१५।१)
ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca |
खदिराङ्गारयोगेन धमेद् यावद् द्रुतं भवेत् ॥ (१५।२)
khadirāṅgārayogena dhamed yāvad drutaṃ bhavet ||
ततस्तं विडलिप्तायां मूषायां च निवेशयेत् । (१६।१)
tatastaṃ viḍaliptāyāṃ mūṣāyāṃ ca niveśayet |
तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन् धमन् ॥ (१६।२)
tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman ||
जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् । (१७।१)
jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet |
त्र्यहं दिव्यौषधिद्रावैर् वज्रमूषान्धितं धमेत् ॥ (१७।२)
tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet ||
जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । (१८।१)
jāyate guṭikā divyā nāmnā vajreśvarī parā |
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ (१८।२)
vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila ||
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर् यच्छति ध्रुवम् । (१९।१)
śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam |
कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥ (१९।२)
kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet ||
कर्षैकां भक्षयेद् आज्यैरनु स्यात् क्रामेण हितम् । (२०।१)
karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam |
स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् । (२१।१)
strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet |
भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ (२१।२)
bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa ||
क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् । (२२।१)
kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet |
उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥ (२२।२)
uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam ||
मर्दयेच् चार्द्रकद्रावैर् यावद्भवति गोलकः । (२३।१)
mardayec cārdrakadrāvair yāvadbhavati golakaḥ |
चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥ (२३।२)
caṇḍālīkandamādāya strīstanyena su peṣayet ||
अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् । (२४।१)
anena golakaṃ liptvā vajramūṣāyāṃ nirodhayet |
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ (२४।२)
paktvā gajapuṭe grāhyā guṭikā vajrasundarī ||
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । (२५।१)
varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam |
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥ (२५।२)
brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet ||
क्रामणं ह्य् अनुपानं स्यात् साधकस्यातिसिद्धिदम् । (२६।१)
krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam |
तदुद्भवमलैर् लिप्तं ताम्रं तु धमनेन हि ॥ (२६।२)
tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi ||
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ (२७।२)
samukhasya rasendrasya pūrvavatkāñcanaṃ samam ||
दिव्यौषधैः सगोमूत्रैर् वज्रमूषान्धितं धमेत् ॥ (२८।२)
divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet ||
उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी । (२९।१)
uddhṛtya dhārayedvaktre guṭikā hemasundarī |
पलार्धं गन्धकं चाज्यैर् द्विगुणैर् लेहयेदनु ॥ (२९।२)
palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu ||
वर्षैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् । (३०।१)
varṣaikena jarāṃ hanti jīved ācandratārakam |
शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ (३०।२)
śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam ||
अम्लवर्गे समं सर्वं मर्दयेद् दिवसत्रयम् । (३१।१)
amlavarge samaṃ sarvaṃ mardayed divasatrayam |
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ (३१।२)
tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ ||
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ (३२।२)
vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet ||
रुद्ध्वा गजपुटे पच्यात् समुद्धृत्याथ लेपयेत् । (३३।१)
ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet |
रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥ (३३।२)
ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī ||
जायते धारिता वक्त्रे वत्सरान् मृत्युनाशिनी । (३४।१)
jāyate dhāritā vaktre vatsarān mṛtyunāśinī |
भक्षयेत् क्रामणार्थं तु ब्रह्मायुर्जायते नरः । (३५।१)
bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ |
कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ (३५।२)
kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ ||
शुद्धसूतं दिनं मर्द्यं क्षाल्यम् अम्लैः समुद्धरेत् । (३६।१)
śuddhasūtaṃ dinaṃ mardyaṃ kṣālyam amlaiḥ samuddharet |
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ (३६।२)
tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam ||
पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् । (३७।१)
pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam |
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ (३७।२)
hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet ||
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । (३८।१)
dinānte golakaṃ kṛtvā jambīrasyodare kṣipet |
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी । (३९।१)
uddhṛtya dhārayedvaktre guṭikā vyomasundarī |
वर्षमात्राज् जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ (३९।२)
varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ ||
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके । (४०।१)
citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake |
आलोड्य भक्षयेत् कर्षमनु स्यात्क्रामणे हितम् ॥ (४०।२)
āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam ||
निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् । (४१।१)
niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam |
जम्बीरशरपुङ्खोत्थद्रवैर् मर्द्यं दिनावधि ॥ (४१।२)
jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi ||
तद्गोलं बन्धयेद्वस्त्रे पचेद् गोक्षीरपूरिते । (४२।१)
tadgolaṃ bandhayedvastre paced gokṣīrapūrite |
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ (४२।२)
dolāyantre divārātraṃ guṭikā hāṭakeśvarī ||
वर्षमात्रान् न संदेहो जीवेद्वर्षायुतं नरः ॥ (४३।२)
varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ ||
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः । (४४।१)
dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ |
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ (४४।२)
bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet ||
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् । (४५।१)
rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam |
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥ (४५।२)
ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi ||
तद्गोलं बन्धयेद् वस्रैस् तक्रचिञ्चाम्लपूरिते । (४६।१)
tadgolaṃ bandhayed vasrais takraciñcāmlapūrite |
दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥ (४६।२)
dolāyantre dinaṃ pacyādguṭikārkaprabhāvatī ||
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन् नरः । (४७।१)
varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ |
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ (४७।२)
pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam ||
क्रामकं ह्य् अनुपानं स्याज् जरामृत्युहरं परम् । (४८।१)
krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param |
स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥ (४८।२)
svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam ||
त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्बचूर्णकम् । (४९।१)
tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam |
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ (४९।२)
sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam ||
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ (५०।२)
tadgolaṃ tridinaṃ pacyādguṭikā surasundarī ||
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । (५१।१)
jāyate dhāritā vaktre varṣānmṛtyujarāpahā |
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् । (५२।१)
svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam |
एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥ (५२।२)
etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam ||
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः । (५३।१)
sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ |
मर्दयेद् दिनमेकं तु वज्रमूषान्धितं धमेत् ॥ (५३।२)
mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet ||
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ (५४।२)
jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila ||
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ (५५।२)
kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet ||
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ (५६।२)
svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam ||
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः । (५७।१)
pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ |
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥ (५७।२)
dravaiśca devadālyutthaistaptakhalve dināvadhi ||
मर्दयेत् कान्तचूर्णं च वज्रतुल्यं क्षिपेच् च वै । (५८।१)
mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai |
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ (५८।२)
vajramūṣāndhitaṃ dhāmyaṃ guṭikā kāmasundarī ||
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । (५९।१)
jāyate dhāritā vaktre varṣānmṛtyujarāpahā |
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ (५९।२)
niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam ||
मिश्रितं पाययेच् चानु लक्षायुर्जायते नरः । (६०।१)
miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ |
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ (६०।२)
lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet ||
किंचिच् चाल्यं तु काष्ठेन मुहूर्ताद् अवतारयेत् । (६१।१)
kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet |
एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥ (६२।२)
etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam ||
तस्मिन् पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् । (६३।१)
tasmin pātre lohamuṣṭyā chāyāśuṣkaṃ vaṭīkṛtam |
लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर् दृढम् ॥ (६३।२)
lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham ||
तं धमेत् खदिराङ्गारे यावदारक्तमुद्धरेत् । (६४।१)
taṃ dhamet khadirāṅgāre yāvadāraktamuddharet |
उत्खन्योत्खन्य तन्मध्याद् उद्धरेत् तद्रसं पुनः ॥ (६४।२)
utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ ||
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । (६५।१)
kācaṭaṅkaṇasaṃyuktaṃ mūṣāyāṃ cāndhitaṃ pacet |
गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥ (६५।२)
gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā ||
क्रामकं ह्य् अनुपानं स्याज् जीवेद्वर्षसहस्रकम् ॥ (६६।२)
krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam ||
शुद्धसूतसमं गन्धं मर्दनात् कज्जलीकृतम् । (६७।१)
śuddhasūtasamaṃ gandhaṃ mardanāt kajjalīkṛtam |
तत् ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ (६७।२)
tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham ||
शुष्कं दीपाग्निना पच्याद् यामैकं भस्मयन्त्रके ॥ (६८।०)
śuṣkaṃ dīpāgninā pacyād yāmaikaṃ bhasmayantrake ||
सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् । (६९।१)
sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet |
तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥ (६९।२)
tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet ||
उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् । (७०।१)
uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet |
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ (७०।२)
ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam ||
तुल्यं तुल्यं क्षिपेत् तस्मिन् दिनं सर्वं विमर्दयेत् । (७१।१)
tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet |
वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥ (७१।२)
vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ ||
मार्तण्डी गुटिका ह्य् एषा वर्षैकं यस्य वक्त्रगा । (७२।१)
mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā |
क्रामणं प्रपिबेन् नित्यं तत्क्षणान् मूर्छितो भवेत् ॥ (७३।२)
krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet ||
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् । (७४।१)
tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet |
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ (७४।२)
prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam ||
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । (७५।१)
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |
वायुवेगो महासिद्धश् छिद्रां पश्यति मेदिनीम् ॥ (७५।२)
vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm ||
मर्दयेद् दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ (७६।२)
mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet ||
निक्षिपेद् वज्रमूषायामाच्छाद्य लोहपर्पटैः । (७७।१)
nikṣiped vajramūṣāyāmācchādya lohaparpaṭaiḥ |
रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ (७७।२)
ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ ||
लोहपर्पटकं दत्त्वा तद्वद् धाम्यं त्रिधा पुनः । (७८।१)
lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ |
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ (७८।२)
varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī ||
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ (७९।२)
vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam ||
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् । (८०।१)
tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet |
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ (८०।२)
sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam ||
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् । (८१।१)
tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet |
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ (८१।२)
vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi ||
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते । (८२।१)
yasya vaktre sthitā tasya jarā mṛtyurna vidyate |
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ (८२।२)
karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā ||
वाक्पतिर्जायते धीरो जीवेच् चन्द्रार्कतारकम् । (८३।१)
vākpatirjāyate dhīro jīvec candrārkatārakam |
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ (८३।२)
kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca ||
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् । (८४।१)
snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet |
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ (८४।२)
strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet ||
तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् । (८५।१)
tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam |
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ (८५।२)
kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam ||
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् । (८६।१)
tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt |
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ (८६।२)
evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam ||
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् । (८७।१)
tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam |
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ (८७।२)
evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman ||
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन् मार्तण्डसंनिभः । (८८।१)
tejaḥpuñjo rasendro'sau bhaven mārtaṇḍasaṃnibhaḥ |
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ (८८।२)
guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī ||
वर्षमात्रान् न संदेहो रुद्रतुल्यो भवेन् नरः । (८९।१)
varṣamātrān na saṃdeho rudratulyo bhaven naraḥ |
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ (८९।२)
tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet ||
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा । (९०।१)
pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā |
महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् । (९१।१)
mahiṣīkarṇanetrotthaṃ malaṃ strīstanyakaiḥ samam |
पिष्ट्वा तल्लिप्तमूषायाम् अभ्रसत्त्वं क्षिपेद्धमेत् ॥ (९१।२)
piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet ||
सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद् द्रुतपारदम् । (९२।१)
sattvatulyaṃ kṣipettatra pūrvavad drutapāradam |
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ (९२।२)
dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet ||
मिलितो जायते बद्धः पूर्ववत् काचटङ्कणैः । (९३।१)
milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ |
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥ (९३।२)
dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ ||
वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन् नरः । (९४।१)
varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ |
बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु । (९५।१)
bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu |
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ (९५।२)
udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ ||
साक्षाज् जातिस्मरत्वं च कवित्वं श्रुतधारणम् । (९६।१)
sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam |
खेचरत्वम् अदृश्यत्वं जायते नात्र संशयः ॥ (९६।२)
khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ ||
चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥ (९७।२)
citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi ||
मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् । (९८।१)
mardayettaptakhalve tu taṃ rasaṃ palamātrakam |
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ (९८।२)
palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ ||
मर्दयेद् दिनमेकं तु कृत्वा तं गोलकं पुनः । (९९।१)
mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ |
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ (९९।२)
catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet ||
चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् । (१००।१)
catuḥpale śuddhatāmrasampuṭe tāṃ nirodhayet |
मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ (१००।२)
mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet ||
शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् । (१०१।१)
śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet |
सर्वं दिव्यौषधद्रावैर् मर्दयेद् दिवसत्रयम् ॥ (१०१।२)
sarvaṃ divyauṣadhadrāvair mardayed divasatrayam ||
चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः । (१०२।१)
caturniṣkamitā kāryā vaṭikā śoṣayettataḥ |
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ (१०२।२)
ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet ||
आनन्दगुटिका ह्य् एषा वक्त्रस्था मृत्युनाशिनी । (१०३।१)
ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī |
वत्सरान् नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ (१०३।२)
vatsarān nātra saṃdeho jīvedbrahmadinatrayam ||
तैलं वातारिबीजोत्थं गोक्षीरैर् निष्कमात्रकम् । (१०४।१)
tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam |
क्रामणार्थं पिबेन् नित्यं शीघ्रसिद्धिकरं परम् ॥ (१०४।२)
krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param ||
वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् । (१०५।१)
vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham |
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥ (१०५।२)
marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet ||
भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै । (१०६।१)
bhūdharākhye divārātrau samuddhṛtyātha tasya vai |
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥ (१०६।२)
pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham ||
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । (१०७।१)
marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ (१०७।२)
tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ ||
नक्षत्राभं भवेद् यावत्तावद्धाम्यं पुनः पुनः । (१०८।१)
nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ |
तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥ (१०८।२)
tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam ||
समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा । (१०९।१)
samāvartya tataḥ kāryā guṭikā vaktramadhyagā |
वज्रखेचरिका नाम वत्सरान् मृत्युनाशिनी ॥ (१०९।२)
vajrakhecarikā nāma vatsarān mṛtyunāśinī ||
वलीपलितनिर्मुक्तो दिव्यकायो भवेन् नरः । (११०।१)
valīpalitanirmukto divyakāyo bhaven naraḥ |
निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥ (११०।२)
nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu ||
कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् । (१११।१)
kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet |
तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥ (१११।२)
tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet ||
रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् । (११२।१)
ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet |
पूर्ववत्क्रमयोगेन पुटेद् वारांश्चतुर्दश ॥ (११२।२)
pūrvavatkramayogena puṭed vārāṃścaturdaśa ||
वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् । (११३।१)
vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet |
मूषामध्ये धमन्न् एवं सप्तवारं समं क्षिपेत् ॥ (११३।२)
mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet ||
तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि । (११४।१)
tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi |
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥ (११४।२)
tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet ||
वेष्टयेद् भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत् त्र्यहम् । (११५।१)
veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham |
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ (११५।२)
dolāyantre sāranāle jātaṃ golaṃ samuddharet ||
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी । (११६।१)
gāndhārī jīvanī caiva lāṅgalī cendravāruṇī |
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ (११६।२)
etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam ||
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । (११७।१)
andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet |
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ (११७।२)
punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi ||
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा । (११८।१)
guṭikā jāyate divyā nāmnā ratneśvarī tathā |
वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन् नरः ॥ (११८।२)
vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ ||
वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥ (११९।२)
varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā ||
तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् । (१२०।१)
tasya prasvedasamparkādaṣṭalohāni kāñcanam |
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ (१२०।२)
jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam ||
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु । (१२१।१)
pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu |
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ (१२१।२)
svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam ||
समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । (१२२।१)
samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ (१२२।२)
tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam ||
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् । (१२३।१)
mākṣikaṃ tīkṣṇakāntaṃ ca bhāgaikaikaṃ sucūrṇitam |
समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ (१२३।२)
samastaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet ||
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् । (१२४।१)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam |
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ (१२४।२)
tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ ||
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् । (१२५।१)
ruddhvātha bhūdhare pacyādahorātrātsamuddharet |
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥ (१२५।२)
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā ||
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् । (१२६।१)
ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam |
दत्त्वा मर्द्यं पुटे पच्याज् जायते भस्मसूतकः ॥ (१२६।२)
dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ ||
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद् दृढम् । (१२७।१)
bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham |
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ (१२७।२)
jāyate guṭikā divyā vikhyātā divyakhecarī ||
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् । (१२८।१)
varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam |
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ (१२८।२)
tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt ||
पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥ (१२९।२)
paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā ||
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् । (१३०।१)
pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet |
वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥ (१३०।२)
varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ ||
स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥ (१३१।२)
svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase ||
समांशं तु भवेद् यावत्ततस्तेनैव सारयेत् । (१३२।१)
samāṃśaṃ tu bhaved yāvattatastenaiva sārayet |
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ (१३२।२)
samena jāyate baddho dhārayettaṃ mukhe sadā ||
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ (१३३।२)
kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu ||
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । (१३४।१)
svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām |
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ (१३४।२)
vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet ||
दिनं दिव्यौषधद्रावैस् तद्गोलं निगडेन वै । (१३५।१)
dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai |
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ (१३५।२)
liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet ||
छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना । (१३६।१)
chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā |
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ (१३६।२)
svedayedvā karīṣāgnau divārātramathoddharet ||
तद्गोलं निगडेनैव लिप्त्वा तद्वन् निरुध्य च । (१३७।१)
tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca |
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥ (१३७।२)
chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam ||
वर्षैकं धारयेद्वक्त्रे जीवेद् ब्रह्मदिनत्रयम् । (१३८।१)
varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam |
वैक्रान्तगुटिका ह्य् एषा सर्वकामफलप्रदा ॥ (१३८।२)
vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā ||
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु । (१३९।१)
karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu |
हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ (१३९।२)
hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam ||
पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥ (१४०।२)
pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet ||
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् । (१४१।१)
bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet |
दिव्यौषधफलद्रावैस् तप्तखल्वे दिनावधि ॥ (१४१।२)
divyauṣadhaphaladrāvais taptakhalve dināvadhi ||
रुद्ध्वाथ भूधरे पच्याद् दिनं लघुपुटैः पुटेत् । (१४२।१)
ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet |
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ (१४२।२)
samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam ||
तुषाग्निना शनैः स्वेद्यम् ऊर्ध्वाधः परिवर्तयन् । (१४३।१)
tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan |
जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥ (१४३।२)
jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet ||
द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् । (१४४।१)
drutasūtasya bhāgaikaṃ bhāgaikaṃ pūrvabhasmakam |
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ (१४४।२)
śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet ||
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः । (१४५।१)
andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ |
धमेत्प्रकटमूषायां यावन् नागक्षयो भवेत् ॥ (१४५।२)
dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet ||
द्रुतसूतप्रकारेण द्रावयित्वा त्व् इमं रसम् । (१४६।१)
drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam |
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ (१४६।२)
nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ ||
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् । (१४७।१)
svarṇādisarvalohāni krameṇaiva ca jārayet |
प्रत्येकं षड्गुणं पश्चाद् वज्रद्वंद्वं च जारयेत् ॥ (१४७।२)
pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet ||
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् । (१४८।१)
triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt |
जारयेद् द्रावितान्य् एव प्रत्येकं त्रिगुणं शनैः ॥ (१४८।२)
jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ ||
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् । (१४९।१)
tato yantrātsamuddhṛtya divyauṣadhadravairdinam |
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ (१४९।२)
mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā ||
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी । (१५०।१)
pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī |
यस्य वक्त्रे स्थिता ह्य् एषा स भवेद्भैरवोपमः ॥ (१५०।२)
yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ ||
यत्रेच्छा तत्र तत्रैव क्रीडते ह्य् अङ्गनादिभिः ॥ (१५१।२)
yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ ||
महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः । (१५२।१)
mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ |
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ (१५२।२)
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam ||
पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः । (१५३।१)
palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ |
सर्वं पलत्रयं खादेन् नित्यं स्यात् क्रामणे हितम् ॥ (१५३।२)
sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam ||
चूर्णम् अश्वखुरस्यैव गुह्यसूते समं क्षिपेत् । (१५४।१)
cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet |
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद् दृढम् ॥ (१५४।२)
tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham ||
सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाथ मर्दयेत् । (१५५।१)
sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet |
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥ (१५५।२)
taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet ||
दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् । (१५६।१)
dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam |
क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥ (१५६।२)
kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam ||
रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः । (१५७।१)
ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ |
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच् च सप्तधा ॥ (१५७।२)
mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā ||
रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः । (१५८।१)
rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ |
भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः । (१५९।१)
bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ |
द्रुतसूतस्य भागैकं खोटं कुर्याच् च पूर्ववत् ॥ (१५९।२)
drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat ||
तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः । (१६०।१)
tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ |
पूर्ववल् लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ (१६०।२)
pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe ||
प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा । (१६१।१)
pracaṇḍakhecarīnāmnī guṭikā khe gatipradā |
पूर्ववल् लभते वीरः फलमत्यन्तदुर्लभम् ॥ (१६१।२)
pūrvaval labhate vīraḥ phalamatyantadurlabham ||
निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु । (१६२।१)
nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu |
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ (१६२।२)
śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam ||
तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् । (१६३।१)
tatsarvamamlavargeṇa taptakhalve dinatrayam |
पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः । (१६४।१)
pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ |
वेष्टितानि निरुध्याथ निखनेच् चुल्लिगर्भतः ॥ (१६४।२)
veṣṭitāni nirudhyātha nikhanec culligarbhataḥ ||
आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् । (१६५।१)
ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam |
उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥ (१६५।२)
uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet ||
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् । (१६६।१)
karīṣāgnau puṭe pacyādahorātrātsamuddharet |
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ (१६८।२)
kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī ||
वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् । (१६९।१)
varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam |
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ (१६९।२)
gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu ||
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् । (१७०।१)
kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam |
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद् दृढम् ॥ (१७०।२)
tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham ||
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् । (१७१।१)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet |
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ (१७१।२)
sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet ||
दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् । (१७२।१)
dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet |
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ (१७२।२)
ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam ||
दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि । (१७३।१)
dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi |
पूर्ववद्भूधरे पच्याद् द्रुतसूतं पुनः समम् ॥ (१७३।२)
pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam ||
दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् । (१७४।१)
dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam |
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद् दृढम् ॥ (१७४।२)
etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham ||
यस्य वक्त्रे स्थिता ह्य् एषा तस्य कालः करोति किम् ॥ (१७५।२)
yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim ||
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ (१७६।२)
tadgātrasvedamātreṇa sarvalohāni kāñcanam ||
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् । (१७७।१)
jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet |
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ (१७७।२)
svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam ||
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । (१७८।१)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ (१७८।२)
tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat ||
समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् । (१७९।१)
samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt |
दिव्यौषधद्रवैस्तं वै मर्दयेद् दिवसत्रयम् ॥ (१७९।२)
divyauṣadhadravaistaṃ vai mardayed divasatrayam ||
अन्धमूषागतं ध्मातं जायते गुटिका शुभा । (१८०।१)
andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā |
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ (१८०।२)
nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi ||
वलीपलितनिर्मुक्तो जीवेच् चन्द्रार्कतारकम् । (१८१।१)
valīpalitanirmukto jīvec candrārkatārakam |
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ (१८१।२)
hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā ||
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् । (१८२।१)
snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet |
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ (१८२।२)
trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu ||
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् । (१८३।१)
ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam |
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥ (१८३।२)
atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā ||
जारितैर् बन्धितैस् तैस् तै रसराजैः पृथक्पृथक् । (१८४।१)
jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak |
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ (१८४।२)
kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām ||
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा । (१८५।१)
sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā |
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ (१८५।२)
guṭikā śatavedhī syādyugāyuṣyakarī nṛṇām ||
लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥ (१८६।२)
lakṣavedhakarī yā tu sā datte viṣṇuvadbalam ||
गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ (१८८।२)
guṭikārbudavedhī yā sā śrīkaṇṭhapadapradā ||
सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका । (१८९।१)
samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā |
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ (१८९।२)
dhūmravedhī tu yā siddhā sā śaktipadadāyinī ||
पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या । (१९०।१)
parāśaktipadaṃ datte sparśavedhakarī tu yā |
वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् । (१९१।१)
vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet |
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ (१९१।२)
svecchācārī vajrakāyo vajrapātairna bhidyate ||
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । (१९२।१)
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam |
जायन्ते स्वेदसम्पर्काद् गात्रसंस्पर्शनादपि ॥ (१९२।२)
jāyante svedasamparkād gātrasaṃsparśanādapi ||
सर्वेषाम् उक्तयोगानाम् अनु स्याच्छुद्धगन्धकम् । (१९३।१)
sarveṣām uktayogānām anu syācchuddhagandhakam |
पलार्धं भक्षयेन् नित्यं रससंक्रामणे हितम् ॥ (१९३।२)
palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam ||
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥ (१९४।२)
raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me ||
स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् । (१९५।१)
svāhā anena siddhamantreṇa śakticakraṃ prapūjayet |
कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥ (१९५।२)
kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam ||
ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् । (१९६।१)
tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt |
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ (१९६।२)
guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā ||
रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् । (१९७।१)
rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt |
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ (१९७।२)
kālāntarasasiddhiryā proktā manthānabhairave ||
तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् । (१९८।१)
tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet |
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ (१९८।२)
kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet ||
तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः । (१९९।१)
tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ |
काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥ (१९९।२)
kākinyutpannaputrasya sadyoviḍvāyurucyate ||
तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् । (२००।१)
tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam |
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ (२००।२)
kākinīputrasarvāṅgaṃ pṛthivītattvamucyate ||
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ (२०१।२)
tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam ||
कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् । (२०२।१)
kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam |
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ (२०२।२)
unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam ||
कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् । (२०३।१)
kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam |
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ (२०३।२)
caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā ||
तेनापूर्य कटाहं तं सिद्धचक्रं ततो ऽर्चयेत् ॥ (२०४।२)
tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet ||
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् । (२०५।१)
kumārīgurudevāgnīn bhairavaṃ bhairavīyutam |
तर्पयेद् बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ (२०५।२)
tarpayed balimāṃsena kṣetrapālaṃ ca pūjayet ||
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः । (२०६।१)
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ |
चतुर्भिर् वङ्कनालैश्च खदिराङ्गारयोगतः ॥ (२०६।२)
caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ ||
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् । (२०७।१)
sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet |
नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् । (२०८।१)
namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet |
सुद्रुतं तं विजानीयान् निक्षिपेत्पार्थिवं रसम् ॥ (२०८।२)
sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam ||
धमन्न् अत्रैव यत्नेन यावत् तत् कल्कतां व्रजेत् । (२०९।१)
dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet |
अप्तत्त्वाख्यं रसं तस्मिन् क्षिपेद् रक्तं भवेत् तु तत् ॥ (२०९।२)
aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat ||
वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते । (२१०।१)
vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate |
तेजोयुक्तं रसं क्षिप्याद् घनीभूतं भवेत्तु तत् ॥ (२१०।२)
tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat ||
तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् । (२११।१)
tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet |
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥ (२११।२)
āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet ||
जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् । (२१२।१)
jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret |
कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥ (२१२।२)
kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam ||
ततश् चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा । (२१३।१)
tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā |
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥ (२१४।२)
jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam ||
जराजर्जरिताङ्गानाम् अन्धानां पङ्गुकुष्ठिनाम् । (२१५।१)
jarājarjaritāṅgānām andhānāṃ paṅgukuṣṭhinām |
नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥ (२१५।२)
naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām ||
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् । (२१६।१)
anekavyādhiyuktānāṃ bhrāntonmattapiśācinām |
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ (२१६।२)
kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām ||
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् । (२१७।१)
vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet |
तस्माद्वीरतरो यो ऽत्र भैरवोऽसौ न संशयः ॥ (२१७।२)
tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ ||
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् । (२१८।१)
vajrakāyo bhavetsiddho medhāvī divyarūpavān |
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ (२१८।२)
ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam ||
आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् । (२१९।१)
āyāti nātra saṃdehastasya siddhasya sammukham |
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ (२१९।२)
tatrārūḍho rudraloke krīḍate bhairavo yathā ||
क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति । (२२०।१)
kṣutpipāsāvinirmukto jagannāśe na naśyati |
भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् । (२२०।२)
bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet |
इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥ (२२०।३)
icchāsiddho mahāvīro nityānandamayo bhavet ||
दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् । (२२१।१)
dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām |
देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥ (२२१।२)
dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai ||
Data courtesy of The Digital Corpus of Sanskrit.