RRĀ, 3, 4
Select a line for its word-by-word analysis.
सम्यक् सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर् गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् । (१।१)
samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt |
यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् । (१।२)
yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt |
सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥ (१।३)
satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ ||
गन्धपिष्टिदशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । (२।१)
gandhapiṣṭidaśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam |
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥ (२।२)
stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ ||
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका । (३।१)
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā |
स्वर्णपिष्टिभागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥ (३।२)
svarṇapiṣṭibhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam ||
अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका । (४।१)
amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā |
सुल्ड़ुर्:: षड्गुणजारणगन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥ (४।२)
sulfur:: ṣaḍguṇajāraṇagandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ ||
वस्त्रेण वेष्टयेद् गाढं सूताख्ये लोहसंपुटे । (५।१)
vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe |
क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् । (६।१)
kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet |
भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥ (६।२)
bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet ||
षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् । (७।१)
ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet |
पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥ (७।२)
punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ ||
निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः । (८।१)
niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ |
एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥ (८।२)
evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām ||
वेध:: सिल्वेर् => गोल्द्तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् । (९।१)
vedha:: silver => goldtattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet |
वेष्ट्यम् अङ्गुलितैलेन सूर्यतापेन शोषितम् ॥ (१०।२)
veṣṭyam aṅgulitailena sūryatāpena śoṣitam ||
कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना । (११।१)
koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā |
तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥ (११।२)
tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham ||
देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥ (१२।२)
deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ ||
गन्धपिष्टिगन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः । (१३।१)
gandhapiṣṭigandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ |
तद् गन्धं कर्षमेकं तु नरपित्तेन लोलितम् । (१४।१)
tad gandhaṃ karṣamekaṃ tu narapittena lolitam |
पलैकं पारदं शुद्धम् आतपे खर्परे क्षिपेत् ॥ (१४।२)
palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet ||
तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् । (१५।१)
tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet |
गन्धपिष्टितिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् । (१६।१)
gandhapiṣṭitilaparṇīrasenaiva saptadhā śuddhagaṃdhakam |
भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥ (१६।२)
bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ ||
शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् । (१७।१)
śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet |
शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥ (१७।२)
śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet ||
तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् । (१८।१)
tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam |
त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥ (१८।२)
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet ||
पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका । (१९।१)
pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā |
गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥ (१९।२)
gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā ||
गन्धपिष्टिछायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः । (२०।१)
gandhapiṣṭichāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ |
घर्मे मृत्खर्परे सूतं क्षिपेत् किंचिच् च गन्धकम् ॥ (२०।२)
gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam ||
मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः । (२१।१)
markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ |
देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥ (२१।२)
deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt ||
गन्धपिष्टिगन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥ (२२।२)
gandhapiṣṭigandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā ||
त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा । (२३।१)
tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā |
कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥ (२३।२)
karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ ||
द्विगुञ्जामात्रकर्पूरैर् यन्त्रगर्भं प्रलेपयेत् ॥ (२४।२)
dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet ||
तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् । (२५।१)
tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet |
शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥ (२५।२)
śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam ||
पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् । (२६।१)
pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet |
श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥ (२६।२)
śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet ||
पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥ (२७।२)
pācayennalikāyantre dinānte taṃ samuddharet ||
कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि । (२८।१)
karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi |
इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥ (२८।२)
ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā ||
गन्धपिष्टिपारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् । (२९।१)
gandhapiṣṭipāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam |
स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥ (२९।२)
snigdhakhalve karāṅgulyā devadālīdrave plutam ||
गन्धपिष्टिशुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥ (३०।२)
gandhapiṣṭiśuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam ||
निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् । (३१।१)
nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet |
कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥ (३१।२)
karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā ||
गन्धपिष्टि:: स्तम्भनतिक्तकोशातकीबीजं चाण्डालीकन्द एव च । (३२।१)
gandhapiṣṭi:: stambhanatiktakośātakībījaṃ cāṇḍālīkanda eva ca |
नारीस्तन्येन सम्पिष्य लेपयेद् गन्धपिष्टिकाम् ॥ (३२।२)
nārīstanyena sampiṣya lepayed gandhapiṣṭikām ||
वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥ (३३।२)
vandhyākarkoṭakīvajrakande vā kuḍuhuñjike ||
मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् । (३४।१)
mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet |
पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥ (३४।२)
puṭayedbhūdhare yantre karīṣāgnau dināvadhi ||
ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते । (३५।१)
ūrdhvādhaḥ parivartena yathā kando na dahyate |
ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥ (३५।२)
tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam ||
गन्धपिष्टि:: स्तम्भित:: जारणअथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे । (३६।१)
gandhapiṣṭi:: stambhita:: jāraṇaathāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe |
निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥ (३६।२)
nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare ||
जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् । (३७।१)
jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat |
एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥ (३७।२)
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet ||
सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् । (३८।१)
sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt |
गन्धपिष्टि:: मारणदिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् । (३८।२)
gandhapiṣṭi:: māraṇadivyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet |
दिनान्ते गोलकं कृत्वा बीजैर् दिव्यगणोद्भवैः ॥ (३८।३)
dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ ||
लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् । (३९।१)
lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet |
दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ (३९।२)
dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet ||
समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् । (४०।१)
samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat |
पुटान्तं कारयेद् एवं दशवारं पुनः पुनः ॥ (४०।२)
puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ ||
गन्धपिष्टि:: वेध:: सिल्वेर् => गोल्द्म्रियते नात्र संदेहो गन्धपिष्ट्यास् ततः पुनः । (४१।१)
gandhapiṣṭi:: vedha:: silver => goldmriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ |
तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् । (४२।१)
tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam |
छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥ (४२।२)
chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave ||
तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः । (४३।१)
taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ |
वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः । (४४।१)
vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ |
वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥ (४४।२)
vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet ||
एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् । (४५।१)
evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet |
तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥ (४५।२)
tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ ||
मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् । (४६।१)
marditaṃ lepayettena tāmrapatraṃ palāṣṭakam |
दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥ (४६।२)
dinaikaṃ pācanāyantre pācayenmriyate dhruvam ||
तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥ (४७।२)
tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham ||
यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना । (४८।१)
yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā |
पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥ (४८।२)
pūrvavatkramayogena divyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्दर्जुनस्य त्वचो भस्म वासाभस्म समं समम् । (४९।१)
vedha:: silver => goldarjunasya tvaco bhasma vāsābhasma samaṃ samam |
गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥ (४९।२)
gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet ||
कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् । (५०।१)
kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet |
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥ (५०।२)
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ ||
रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् । (५१।१)
ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet |
एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥ (५१।२)
evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet ||
रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥ (५२।२)
ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet ||
इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् । (५३।१)
ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam |
वेध:: सिल्वेर् => गोल्द्लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥ (५३।२)
vedha:: silver => goldlohapātre drute nāge cūrṇitaṃ rasakaṃ samam ||
क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना । (५४।१)
kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā |
यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥ (५४।२)
yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam ||
सुसूक्ष्मं मर्दयेत्तावत् दृढं पाषाणमुष्टिना । (५५।१)
susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā |
जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् । (५६।१)
jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet |
चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥ (५६।२)
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द्द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् । (५७।१)
vedha:: silver => golddrāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet |
चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥ (५७।२)
ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet ||
यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि । (५८।१)
yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi |
मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥ (५८।२)
mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet ||
पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः । (५९।१)
pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ |
उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥ (५९।२)
uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi ||
रात्रौ पाच्यं दिवा मर्द्यं यावत् षण्मासमेव च । (६०।१)
rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca |
यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् । (६०।२)
yathā na patate tasmiñjalaṃ dhūlistu rakṣayet |
सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥ (६०।३)
sahasrāṃśe dhṛte śare vedhe datte sukāñcanam ||
वेध:: सिल्वेर् => गोल्द्शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् । (६१।१)
vedha:: silver => goldśilāgandhakakarpūrakuṅkumaṃ mardayetsamam |
जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥ (६१।२)
jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam ||
लिप्त्वा लिप्त्वा पुटैः पच्याद् यावच्छष्टिपुटी भवेत् ॥ (६२।०)
liptvā liptvā puṭaiḥ pacyād yāvacchaṣṭipuṭī bhavet ||
तन्नागं विद्युदाभासं जायते तेन वेधयेत् । (६३।१)
tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet |
वेध:: सिल्वेर् => गोल्द्तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् । (६३।३)
vedha:: silver => goldtīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam |
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ (६३।४)
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam ||
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् । (६४।१)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam |
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ (६४।२)
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam ||
तारारिष्टशुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेत् हठात् । (६५।१)
tārāriṣṭaśulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt |
तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥ (६५।२)
tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat ||
रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥ (६६।२)
ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte ||
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते । (६७।१)
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate |
तारारिष्टवङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥ (६७।२)
tārāriṣṭavaṅganāgasamaṃ kāntamathavā tāmranāgakam ||
माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् । (६८।१)
mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam |
एते योगास्तु चत्वारः पृथक् चूर्णानि कारयेत् ॥ (६८।२)
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet ||
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च । (६९।१)
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca |
वेध:: सिल्वेर् => गोल्द्शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् । (७१।१)
vedha:: silver => goldśuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam |
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् । (७२।१)
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam |
कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥ (७२।२)
kartavyaṃ pūrvavatprājñaistāmādāya vimardayet ||
मधुना याममात्रं तु तेन लेपं तु कारयेत् । (७३।१)
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet |
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ (७३।२)
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ ||
रुद्ध्वा गजपुटे पच्याद् दिव्यं भवति काञ्चनम् । (७४।१)
ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam |
वेध:: सिल्वेर् => गोल्द्मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् । (७४।२)
vedha:: silver => goldmūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam |
शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥ (७४।३)
śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ ||
अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् । (७५।१)
anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet |
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ (७६।२)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte ||
वेध:: सिल्वेर् => गोल्द्राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥ (७७।२)
vedha:: silver => goldrājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam ||
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा । (७८।१)
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā |
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ (७८।२)
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam ||
पूर्ववत् कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ (७९।२)
pūrvavat kārayetpaścānmadhunā saha miśrayet ||
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् । (८०।१)
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet |
एवं वारत्रयं कुर्याद् दिव्यं भवति काञ्चनम् ॥ (८०।२)
evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् । (८१।१)
vedha:: silver => gold (with tārāriṣṭa)mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam |
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् । (८२।१)
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet |
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥ (८२।२)
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam ||
दत्त्वा तु मर्दयेत् खल्वे तारारिष्टं तु लेपयेत् । (८३।१)
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet |
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ (८३।२)
prathamaṃ samakalkena ruddhvā gajapuṭe pacet ||
एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥ (८४।२)
evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् । (८५।१)
vedha:: silver => gold (with tārāriṣṭa)rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet |
सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत् कृतम् ॥ (८५।२)
siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam ||
रुद्ध्वा रुद्ध्वा पुटे पच्यात् त्रिधा भवति काञ्चनम् ॥ (८६।२)
ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् लेअद्)गंधकं तालकं शुल्वं समहिंगुलपेषितम् । (८७।१)
vedha:: silver => gold (with lead)gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam |
मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥ (८७।२)
mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai ||
लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् । (८८।१)
liptvā ruddhvā puṭe pacyātpunastenaiva mardayet |
एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥ (८८।२)
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ ||
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥ (८९।२)
ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte ||
वेध:: लेअद् => गोल्द्लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् । (९०।२)
vedha:: lead => goldlāṅgalī girikarṇyagniḥ karavīrajamūlakam |
सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥ (९०।३)
sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet ||
चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् । (९१।१)
caturdhā vimalā śuddhā teṣvekā palamātrakam |
द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥ (९१।२)
dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam ||
यामैकं मर्दयेत् सर्वं पूर्वपिण्डोदरे क्षिपेत् । (९२।१)
yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet |
तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना । (९२।२)
tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā |
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥ (९२।३)
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet ||
तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् । (९३।१)
tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet |
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् । (९३।२)
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet |
वेध:: सिल्वेर् => गोल्द्पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि । (९४।१)
vedha:: silver => goldpāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi |
मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥ (९४।२)
mardayettulyatulyāṃśaṃ tena kalkena sādhayet ||
शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् । (९५।१)
śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt |
पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ (९५।२)
patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat ||
इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् । (९६।१)
ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt |
उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् । (९७।१)
udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet |
सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥ (९७।२)
saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द्कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् । (९८।१)
vedha:: silver => goldkuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam |
शाकवृक्षफलद्रावैः सुपक्वैर् मर्दयेद् दिनम् ॥ (९८।२)
śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam ||
तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् । (९९।१)
tena tārasya patrāṇi praliptāni viśoṣayet |
आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥ (९९।२)
āvartya ḍhālayettasmiṃstena kalkena bhāvitam ||
तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥ (१००।२)
tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam ||
वेध:: सिल्वेर् => गोल्द्पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् । (१०१।१)
vedha:: silver => goldpāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam |
रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥ (१०१।२)
rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet ||
तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् । (१०२।१)
tena tārasya patrāṇi praviliptāni śoṣayet |
धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥ (१०२।२)
dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā ||
शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः । (१०३।१)
śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ |
रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥ (१०३।२)
raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā ||
दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥ (१०४।२)
dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam ||
सिद्धचूर्णगन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् । (१०५।१)
siddhacūrṇagandhakaṃ gandhamūlī ca ravidugdhena mardayet |
मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥ (१०५।२)
mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet ||
उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् । (१०६।१)
uddhṛtya tena tārasya patralepaṃ tu kārayet |
पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥ (१०६।२)
pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ ||
सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् । (१०७।१)
saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet |
सिद्धचूर्णशुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥ (१०७।२)
siddhacūrṇaśuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi ||
जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा । (१०८।१)
jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā |
कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥ (१०८।२)
kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam ||
कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् । (१०९।१)
karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet |
सिद्धचूर्णमिदं ख्यातं भवेत् पादादिकं पलम् ॥ (१०९।२)
siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam ||
यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् । (११०।१)
yatra yatra milatyetattatra cūrṇaṃ palaṃ palam |
वेध, रञ्जन:: सिल्वेर् => गोल्द्ताम्रतीक्ष्णारकान्तानां चूर्णम् एकस्य चाहरेत् । (१११।१)
vedha, rañjana:: silver => goldtāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet |
यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥ (१११।२)
yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam ||
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् । (११२।१)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat |
तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥ (११२।२)
tulyairbhūnāgajīvairvā gandhakena samena vā ||
मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि । (११३।१)
mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi |
तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥ (११३।२)
tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet ||
क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् । (११५।१)
kṣaudrayuktena tenaiva tārapatrāṇi lepayet |
रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥ (११५।२)
ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte ||
जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः । (११६।१)
jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ |
इत्येवं सर्वयोगानामत्रत्यानां पृथक् पृथक् ॥ (११६।२)
ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak ||
सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः । (११७।१)
siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ |
वेध:: सिल्वेर् => गोल्द्शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥ (११७।२)
vedha:: silver => goldśulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam ||
आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् । (११८।१)
āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat |
शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥ (११८।२)
śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet ||
तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् । (११९।१)
tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet |
एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥ (११९।२)
etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam ||
??शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥ (१२०।२)
??śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ ||
समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् । (१२१।१)
samāvartya vicūrṇyātha siddhacūrṇena pūrvavat |
नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥ (१२१।२)
nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam ||
रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् । (१२२।१)
ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat |
सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥ (१२२।२)
siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam ||
रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् । (१२३।१)
ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat |
वेध:: सिल्वेर् => गोल्द्गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥ (१२३।२)
vedha:: silver => goldgandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam ||
हंसपाच्चित्रकद्रावैर् दिनमेकं विमर्दयेत् । (१२४।१)
haṃsapāccitrakadrāvair dinamekaṃ vimardayet |
तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ (१२४।२)
tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet ||
तम् उद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् । (१२५।१)
tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet |
पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥ (१२५।२)
pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet ||
इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् । (१२६।१)
ityevaṃ daśadhā kuryāttāramāyāti kāñcanam |
सिल्वेर्:: रञ्जनतीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥ (१२६।२)
silver:: rañjanatīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam ||
नवभागं ताम्रचूर्णं नागं च नवभागकम् । (१२७।१)
navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam |
अंधमूषागतं ध्मातं तत् खोटं सूक्ष्मचूर्णितम् ॥ (१२७।२)
aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam ||
सिद्धचूर्णेन संयुक्तं पूर्ववत् ताररञ्जनम् । (१२८।१)
siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam |
??मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥ (१२८।२)
??mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam ||
केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् । (१२९।१)
kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat |
वेध:: सिल्वेर् => गोल्द्नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥ (१२९।२)
vedha:: silver => goldnāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt ||
तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् । (१३०।१)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam |
पूर्ववत् क्रमयोगेन तारमायाति काञ्चनम् ॥ (१३०।२)
pūrvavat kramayogena tāramāyāti kāñcanam ||
वेध:: सिल्वेर् => गोल्द्तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् । (१३१।१)
vedha:: silver => goldtīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam |
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ (१३१।२)
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam ||
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् । (१३२।१)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam |
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ (१३२।२)
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam ||
तारारिष्ट:: प्रोदुच्तिओन्शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् । (१३३।१)
tārāriṣṭa:: productionśulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt |
तत् खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥ (१३३।२)
tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat ||
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ (१३४।२)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte ||
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते । (१३५।१)
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate |
तारारिष्ट:: प्रोदुच्तिओन्वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥ (१३५।२)
tārāriṣṭa:: productionvaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam ||
माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् । (१३६।१)
mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam |
एते योगास्तु चत्वारः पृथक् चूर्णानि कारयेत् ॥ (१३६।२)
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet ||
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च । (१३७।१)
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca |
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् । (१३८।१)
vedha:: silver => gold (with tārāriṣṭa)pūrvavallepayogena pratyekena tu kārayet |
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ (१३८।२)
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate ||
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् । (१३९।१)
vedha:: silver => gold (with tārāriṣṭa)śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam |
नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥ (१३९।२)
nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet ||
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् । (१४०।१)
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam |
कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥ (१४०।२)
kartavyaṃ pūrvavatprājñaistamādāya vimardayet ||
मधुना याममात्रं तु तेन लेपं तु कारयेत् । (१४१।१)
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet |
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ (१४१।२)
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ ||
रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् । (१४२।१)
ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam |
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥ (१४२।२)
vedha:: silver => gold (with tārāriṣṭa)rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam ||
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा । (१४३।१)
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā |
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ (१४३।२)
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam ||
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् । (१४४।१)
andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam |
पूर्ववत् कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ (१४४।२)
pūrvavat kārayetpaścānmadhunā saha miśrayet ||
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् । (१४५।१)
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet |
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ (१४५।२)
evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् । (१४६।१)
vedha:: silver => gold (with tārāriṣṭa)mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam |
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् । (१४७।१)
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet |
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥ (१४७।२)
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam ||
दत्त्वा तु मर्दयेत् खल्वे तारारिष्टं तु लेपयेत् । (१४८।१)
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet |
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ (१४८।२)
prathamaṃ samakalkena ruddhvā gajapuṭe pacet ||
अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः । (१४९।१)
ardhakalkena lepyo'tha pādakalkena vai punaḥ |
एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥ (१४९।२)
evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् तारारिष्ट)रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् । (१५०।१)
vedha:: silver => gold (with tārāriṣṭa)rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet |
सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥ (१५०।२)
siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam ||
तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् । (१५१।१)
tenaiva madhunāktena tārāriṣṭaṃ pralepayet |
रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥ (१५१।२)
ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam ||
वेध:: सिल्वेर् => गोल्द् (wइथ् चोप्पेर्)शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् । (१५२।१)
vedha:: silver => gold (with copper)śulbapatrāṇi taptāni āranāle vinikṣipet |
पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥ (१५२।२)
punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate ||
पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥ (१५३।२)
pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet ||
रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् । (१५४।१)
ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet |
मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥ (१५४।२)
madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt ||
तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् । (१५५।१)
tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat |
तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥ (१५५।२)
tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet ||
वेध:: सिल्वेर् => गोल्द्शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः । (१५६।१)
vedha:: silver => goldśigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ |
ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥ (१५६।२)
jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī ||
तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि । (१५७।१)
taddravaiḥ pārado mardyo yāvatsaptadināvadhi |
तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥ (१५७।२)
tenaiva tārapatrāṇi praliptāni viśoṣayet ||
रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा । (१५८।१)
ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā |
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥ (१५८।२)
jāyate kanakaṃ divyaṃ purā nāgārjunoditam ||
वेध:: सिल्वेर् => गोल्द्शुद्धसूतसमा राजी सूतपादं च गन्धकम् । (१५९।१)
vedha:: silver => goldśuddhasūtasamā rājī sūtapādaṃ ca gandhakam |
मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥ (१५९।२)
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam ||
वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः । (१६०।१)
vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ |
एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥ (१६०।२)
evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ ||
तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै । (१६१।१)
tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai |
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते । (१६२।१)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte |
तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥ (१६२।२)
tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam ||
तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् । (१६३।१)
tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām |
देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥ (१६३।२)
deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā ||
Data courtesy of The Digital Corpus of Sanskrit.