रसरत्नाकरRasaratnākara

RRĀ, 1, 7

7 of 39 · 107 verses

Select a line for its word-by-word analysis.

1.1१.१

हरिताल:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् । (१।१)

haritāla:: aśuddha:: medic. propertiesaśuddhatālamāyurghnaṃ kakamārutamehakṛt |

1.2१.२

तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ (१।२)

tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet ||

2.1२.१

हरिताल:: शोधनतालकं कणशः कृत्वा दशांशेन च टङ्कणम् । (२।१)

haritāla:: śodhanatālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam |

2.2२.२

जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत् पुनः ॥ (२।२)

jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ ||

3.1३.१

वस्त्रैश्चतुर्गुणैर् बद्ध्वा दोलायन्त्रे दिनं पचेत् । (३।१)

vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet |

3.2३.२

संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥ (३।२)

saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ ||

4.1४.१

तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः । (४।१)

tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ |

4.2४.२

त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥ (४।२)

trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ ||

5.1५.१

तत्फलैर् दशभिर् देयं रुद्ध्वा पुटं च पेषयेत् । (५।१)

tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet |

5.2५.२

एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ (५।२)

evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet ||

6.1६.१

हरिताल:: शोधनतालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् । (६।१)

haritāla:: śodhanatālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet |

6.2६.२

दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥ (६।२)

dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ ||

7.1७.१

तिलतैले पचेद्यामं यामं च त्रिफलाजलैः । (७।१)

tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ |

7.2७.२

एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥ (७।२)

evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ ||

8.1८.१

हरिताल:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्तालको हरते रोगान् कुष्ठमृत्युज्वरापहः । (८।१)

haritāla:: śuddha:: medic. propertiestālako harate rogān kuṣṭhamṛtyujvarāpahaḥ |

8.2८.२

शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥ (८।२)

śodhitaḥ śītavīrye ca kurute vāyuvardhanam ||

9.1९.१

मनःशिला:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला । (९।१)

manaḥśilā:: aśuddha:: medic. propertiesaśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā |

9.2९.२

मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥ (९।२)

mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā ||

10.1१०.१

मनःशिला:: शोधनअजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला । (१०।१)

manaḥśilā:: śodhanaajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā |

10.2१०.२

सप्तधा तैरजापित्तैर् घर्मे भाव्यं विशुद्धये ॥ (१०।२)

saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye ||

11.1११.१

मनःशिला:: शोधनजयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला । (११।१)

manaḥśilā:: śodhanajayantībhṛṅgarājottharaktāgastyarasaiḥ śilā |

11.2११.२

दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥ (११।२)

dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake ||

12.0१२.०

क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥ (१२।०)

kṣālayedāranālena sarvarogeṣu yojayet ||

13.1१३.१

रसक:: शोधननरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् । (१३।१)

rasaka:: śodhananaramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet |

13.2१३.२

दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥ (१३।२)

dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet ||

14.1१४.१

तुत्थ:: शोधनविष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः । (१४।१)

tuttha:: śodhanaviṣṭhayā mardayetkhalve mārjārakapotayoḥ |

14.2१४.२

दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥ (१४।२)

daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ ||

15.0१५.०

पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ (१५।०)

puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye ||

16.1१६.१

विमला:: शोधनविमला त्रिविधं पाच्या रम्भातोयेन संयुता । (१६।१)

vimalā:: śodhanavimalā trividhaṃ pācyā rambhātoyena saṃyutā |

16.2१६.२

अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥ (१६।२)

amlavetasadhānyāmlameṣīmūtreṇa peṣayet ||

17.1१७.१

दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा । (१७।१)

dolāyantre caturyāmaṃ śuddhireṣā mahottamā |

17.2१७.२

विमल:: शोधनकर्कटीमेषशृङ्ग्युत्थद्रवैर् जम्बीरजैर् द्रवैः ॥ (१७।२)

vimala:: śodhanakarkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ ||

18.1१८.१

भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ (१८।१)

bhāvayedātape tīvre vimalā śudhyati dhruvam ||

19.1१९.१

माक्षिक:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् । (१९।१)

mākṣika:: aśuddha:: medic. propertiesmandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk |

19.2१९.२

कुरुते माक्षिको मृत्युम् अशुद्धो नात्र संशयः ॥ (१९।२)

kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ ||

20.1२०.१

माक्षिक:: शोधनमाक्षिकं नरमूत्रेण क्वाथयेत् कोद्रवैर्द्रवैः । (२०।१)

mākṣika:: śodhanamākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ |

20.2२०.२

वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥ (२०।२)

vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ ||

21.1२१.१

दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् । (२१।१)

dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam |

21.2२१.२

दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥ (२१।२)

dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ ||

22.1२२.१

एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये । (२२।१)

eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye |

22.2२२.२

माक्षिक:: शोधनमाक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥ (२२।२)

mākṣika:: śodhanamākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca ||

23.1२३.१

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् । (२३।१)

mātuluṅgadravairvātha jambīrotthadravaiḥ pacet |

23.2२३.२

लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ (२३।२)

lohapātre pacettāvadyāvatpātraṃ sulohitam ||

24.1२४.१

ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् । (२४।१)

tāmravarṇamayo yāti tāvacchudhyati mākṣikam |

24.2२४.२

माक्षिक:: शोधनअगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥ (२४।२)

mākṣika:: śodhanaagastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet ||

25.1२५.१

द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् । (२५।१)

dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam |

25.2२५.२

तद्वटीं चान्धमूषायां विंशद्भिर् उपलैः पचेत् ॥ (२५।२)

tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet ||

26.0२६.०

पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर् विशुध्यति ॥ (२६।०)

punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati ||

27.1२७.१

माक्षिक:: शोधनमेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् । (२७।१)

mākṣika:: śodhanameghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet |

27.2२७.२

तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् । (२७।२)

tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet |

27.3२७.३

एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥ (२७।३)

etacchuddhalohānāṃ yuktasthāne māraṇe yojyam ||

28.1२८.१

माक्षिक:: परीक्षा:: गोओद् क़ुअलित्य्भङ्गे सुवर्णसंकाशो ऽन्तः कृष्णो बहिश्छविः । (२८।१)

mākṣika:: parīkṣā:: good qualitybhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ |

28.2२८.२

बृहद्वर्णं इति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥ (२८।२)

bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate ||

29.1२९.१

व्यापयत्यङ्गम् अङ्गानि तैलबिन्दुरिवाम्भसि । (२९।१)

vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi |

29.2२९.२

न विना शोधनं सर्वे धातवः प्रबलादयः ॥ (२९।२)

na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ ||

30.0३०.०

रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥ (३०।०)

rogopaśamakartāraḥ śodhanaṃ tena vakṣyate ||

31.1३१.१

चोरल्:: मारणप्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् । (३१।१)

coral:: māraṇapravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet |

31.2३१.२

वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥ (३१।२)

vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate ||

32.1३२.१

उपरस (?):: मारणकुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् । (३२।१)

uparasa (?):: māraṇakulatthasya paceddroṇe vāridroṇena buddhimān |

32.2३२.२

तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥ (३२।२)

tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā ||

33.1३३.१

आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः । (३३।१)

ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ |

33.2३३.२

मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥ (३३।२)

muktācūrṇaṃ samādāya karakāmbuvibhāvitam ||

34.0३४.०

आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युम् आप्नुयात् ॥ (३४।०)

ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt ||

35.1३५.१

शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् । (३५।१)

śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam |

35.2३५.२

शिलाजतु:: शोधनगोमूत्रैस्त्रिफलाक्वाथैर् भृङ्गराजद्रवैर् जतुम् ॥ (३५।२)

śilājatu:: śodhanagomūtraistriphalākvāthair bhṛṅgarājadravair jatum ||

36.1३६.१

मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः । (३६।१)

mardayedāyase pātre dinācchuddhiḥ śilājatoḥ |

36.2३६.२

दरद:: शोधनमेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥ (३६।२)

darada:: śodhanameṣīkṣīreṇa daradamamlavargaiśca bhāvitam ||

37.1३७.१

सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् । (३७।१)

saptavāraṃ prayatnena śuddhimāyāti niścitam |

37.2३७.२

उपरस:: शोधनसूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥ (३७।२)

uparasa:: śodhanasūryāvartaṃ vajrakandaṃ kadalī devadālikā ||

38.1३८.१

शिग्रु कोशातकी वन्ध्या काकमाची च वायसी । (३८।१)

śigru kośātakī vandhyā kākamācī ca vāyasī |

38.2३८.२

आसामेकरसेनैव त्रिक्षारैर्लवणैर् युतम् ॥ (३८।२)

āsāmekarasenaiva trikṣārairlavaṇair yutam ||

39.1३९.१

भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः । (३९।१)

bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ |

39.2३९.२

सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥ (३९।२)

sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā ||

40.1४०.१

शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये । (४०।१)

śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye |

40.2४०.२

पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥ (४०।२)

pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine ||

41.1४१.१

ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः । (४१।१)

tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ |

41.2४१.२

शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥ (४१।२)

śudhyante nātra sandehaḥ sarveṣu paramā amī ||

42.0४२.०

मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥ (४२।०)

muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam ||

43.1४३.१

?:: सत्त्वपातनगुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः । (४३।१)

?:: sattvapātanagugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ |

43.2४३.२

ऊर्णा गुञ्जा क्षेत्रमीनम् अस्थीनि शशकस्य च ॥ (४३।२)

ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca ||

44.1४४.१

गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः । (४४।१)

guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ |

44.2४४.२

सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥ (४४।२)

sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca ||

45.1४५.१

कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये । (४५।१)

kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye |

45.2४५.२

मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥ (४५।२)

melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ ||

46.1४६.१

दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् । (४६।१)

dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet |

46.2४६.२

कोष्ठीयन्त्रे धमेद्गाढम् अङ्गारैश्च चिरोद्भवैः ॥ (४६।२)

koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ ||

47.1४७.१

त्रिवारं धमनाद् एव सत्त्वं पतति निर्मलम् । (४७।१)

trivāraṃ dhamanād eva sattvaṃ patati nirmalam |

47.2४७.२

असाध्यान् मोचयेत् सत्त्वान् मृत्तिकादेश्च का कथा ॥ (४७।२)

asādhyān mocayet sattvān mṛttikādeśca kā kathā ||

48.1४८.१

हरिताल:: सत्त्वपातनलाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् । (४८।१)

haritāla:: sattvapātanalākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam |

48.2४८.२

तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥ (४८।२)

tālakārdhena saṃyojya chidramūṣāṃ nirodhayet ||

49.1४९.१

पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् । (४९।१)

puṭe pātālayantreṇa satvaṃ patati niścitam |

49.2४९.२

??चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् । (४९।२)

??cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam |

49.3४९.३

चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् । (४९।३)

ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam |

49.4४९.४

हरिताल:: सत्त्वपातनतालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥ (४९।४)

haritāla:: sattvapātanatālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet ||

50.1५०.१

वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् । (५०।१)

vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam |

50.2५०.२

कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥ (५०।२)

kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat ||

51.1५१.१

हरिताल:: सत्त्वपातनतालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः । (५१।१)

haritāla:: sattvapātanatālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ |

51.2५१.२

पूर्ववद्ग्राहयेत् सत्त्वं छिद्रमूषां निरुध्य च ॥ (५१।२)

pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca ||

52.1५२.१

मनःशिला:: सत्त्वपातनतालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः । (५२।१)

manaḥśilā:: sattvapātanatālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ |

52.2५२.२

तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥ (५२।२)

tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam ||

53.1५३.१

माक्षिक:: सत्त्वपातनगोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः । (५३।१)

mākṣika:: sattvapātanagokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ |

53.2५३.२

माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ (५३।२)

mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam ||

54.1५४.१

अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः । (५४।१)

abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ |

54.2५४.२

माक्षिक (?):: सत्त्वपातनजयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥ (५४।२)

mākṣika (?):: sattvapātanajayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam ||

55.1५५.१

पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् । (५५।१)

pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet |

55.2५५.२

नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥ (५५।२)

nālikāṃ sampuṭe baddhvā śoṣayedātape khare ||

56.0५६.०

ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥ (५६।०)

grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 1, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit