RRĀ, 3, 16
Select a line for its word-by-word analysis.
यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ । (१।१)
yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau |
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् । (१।२)
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam |
तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद् भास्करे वा ॥ (१।३)
tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā ||
भूनागसत्त्व (१)भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् । (२।१)
bhūnāgasattva (1)bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam |
तत्सत्वमभ्रवद् ग्राह्यं तत्रत्यैरौषधैः सह ॥ (२।२)
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha ||
भूनागसत्त्व (२)सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् । (३।१)
bhūnāgasattva (2)sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam |
अभ्रवद् ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥ (४।०)
abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman ||
भूनागसत्त्व (३)कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् । (५।१)
bhūnāgasattva (3)kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam |
भूनागसत्त्व (४)सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् । (६।१)
bhūnāgasattva (4)sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam |
धार्यं भाण्डे क्षिपेत्तस्मिन् सजीवा भूलता पुनः ॥ (६।२)
dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ ||
उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै । (७।१)
udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai |
तत्सत्त्वम् अभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥ (७।२)
tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet ||
भूनागसत्त्व (५)कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् । (८।१)
bhūnāgasattva (5)kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam |
तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥ (८।३)
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam ||
भूनागसत्त्व (६)गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् । (९।१)
bhūnāgasattva (6)gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam |
तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥ (९।२)
tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam ||
कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् । (१०।१)
kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet |
भूनागसत्त्व (७)गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् । (११।१)
bhūnāgasattva (7)gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam |
वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥ (११।२)
vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam ||
एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥ (१२।०)
etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam ||
भूनागतैलदिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् । (१३।१)
bhūnāgatailadinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam |
तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥ (१३।३)
tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai ||
भूनागतैलभूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् । (१४।१)
bhūnāgatailabhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet |
तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥ (१४।२)
tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam ||
गुह्यसूततप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् । (१५।१)
guhyasūtataptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam |
त्रिदिनं मर्दयेद् गाढं तत्समस्तं समुद्धृतम् ॥ (१५।२)
tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam ||
तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥ (१६।२)
tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet ||
गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् । (१७।१)
gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet |
पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥ (१७।२)
pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā ||
पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् । (१८।१)
puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet |
ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥ (१८।२)
ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet ||
गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥ (२०।३)
guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam ||
चन्द्रार्क => गोल्दस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् । (२१।१)
candrārka => goldasyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam |
तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥ (२१।२)
taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam ||
रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥ (२२।२)
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat ||
दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः । (२३।१)
dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ |
पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥ (२३।२)
pūrvavalliptamūṣāyāṃ jārayetsvedanena vai ||
एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा । (२४।१)
evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā |
गर्भद्रावेण बीजं च पूर्ववत् षड्गुणं शनैः ॥ (२४।२)
garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ ||
जारयेद् द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् । (२५।१)
jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat |
ततस्तु रंजकं बीजं जार्यम् अस्यैव षड्गुणम् ॥ (२५।२)
tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam ||
सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥ (२६।२)
sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet ||
अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥ (२७।०)
anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet ||
चोप्पेर् => गोल्द्गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् । (२८।१)
copper => goldguhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet |
यावद् गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥ (२८।२)
yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ ||
द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् । (२९।१)
dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam |
तस्मिन् सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥ (२९।२)
tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat ||
भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् । (३०।१)
bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet |
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥ (३०।२)
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet ||
एवं पुनः पुनः कुर्यात् लिप्त्वा मूषागतं पुटम् । (३१।१)
evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam |
अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥ (३१।२)
athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet ||
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् । (३२।१)
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet |
ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥ (३३।२)
tato vyomādisatvāni tulyatulyāni tasya vai ||
ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥ (३४।२)
tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet ||
चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् । (३५।१)
caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet |
तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥ (३५।२)
tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai ||
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् । (३६।१)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet |
चन्द्रार्क => गोल्द्भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् । (३७।१)
candrārka => goldbhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet |
दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥ (३७।२)
divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam ||
तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् । (३८।१)
tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet |
कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥ (३८।२)
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā ||
स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् । (३९।१)
svedayenmṛdupākena samuddhṛtyātha mardayet |
ततो रुद्ध्वा धमेद् गाढं खोटं भवति तद्रसः । (४०।१)
tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ |
गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥ (४०।२)
guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam ||
मर्दयेत्स्वेदयेत्तद्वत् कुर्याद् बन्धं च पूर्ववत् । (४१।१)
mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat |
वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥ (४१।३)
vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet ||
चन्द्रार्क, चोप्पेर्, लेअद् => गोल्द्रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् । (४२।१)
candrārka, copper, lead => goldraktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam |
व्याघ्रीकंदोदरे पच्याद् दोलायां हयमूत्रकैः ॥ (४२।२)
vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ ||
अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः । (४३।१)
ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ |
भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥ (४३।२)
bhāvayetsaptadhā gharme paścāttatsamakāṃcane ||
शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् । (४४।१)
śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet |
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥ (४४।२)
vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam ||
तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् । (४५।१)
tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet |
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥ (४५।२)
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ ||
रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥ (४६।२)
ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ ||
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् । (४७।१)
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet |
एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥ (४७।२)
etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase ||
तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥ (४८।२)
tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca ||
बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् । (४९।१)
bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet |
त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥ (४९।२)
tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet ||
दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना । (५०।१)
divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā |
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ (५०।२)
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam ||
सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् । (५१।१)
saptadhā tatprayatnena tadraso mriyate dhruvam |
चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् । (५२।१)
caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet |
चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥ (५२।२)
cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat ||
मारयेत् पक्वबीजानि त्रिधा तं जारयेत् क्रमात् । (५३।१)
mārayet pakvabījāni tridhā taṃ jārayet kramāt |
पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥ (५३।२)
pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai ||
योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् । (५४।१)
yojayellakṣabhāgena caṃdrārke drāvite tu tam |
स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥ (५४।२)
svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam ||
मेर्चुर्य्:: कोटिवेधिन्पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि । (५५।१)
mercury:: koṭivedhinpītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi |
व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥ (५५।२)
vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet ||
दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् । (५६।१)
dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet |
एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥ (५६।२)
etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet ||
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि । (५७।१)
vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi |
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना । (५८।१)
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā |
स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥ (५८।२)
svedayedvā divārātrau kārīṣāgnāvathoddharet ||
व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् । (५९।१)
vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet |
एवं शतपुटैः पक्वम् अभिषिक्तं च कारयेत् ॥ (५९।२)
evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet ||
मूषायन्त्रे ऽथवा जार्यं यथा पूर्वं क्रमेण वै । (६१।१)
mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai |
तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥ (६१।२)
tatrasthasya rasendrasya garbhadrāvaṇabījakam ||
पूर्ववद् द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् । (६२।१)
pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam |
तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥ (६२।२)
tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ ||
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद् रसः ॥ (६३।०)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ ||
चोप्पेर् => सिल्वेर्कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् । (६४।१)
copper => silverkṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet |
अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥ (६४।२)
aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet ||
शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि । (६५।१)
śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi |
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥ (६५।२)
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet ||
तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् । (६६।१)
tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet |
सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥ (६६।२)
sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet ||
जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् । (६७।१)
jātaṃ golaṃ samuddhṛtya nigalena tu lepayet |
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥ (६७।२)
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā ||
स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना । (६८।१)
svedayedvā divārātrau nirvāte kariṣāgninā |
उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥ (६८।२)
uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ ||
त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् । (६९।१)
tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam |
पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥ (६९।२)
pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai ||
पूर्ववत् क्रामणं दत्त्वा तारं भवति शोभनम् ॥ (७०।३)
pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam ||
चोप्पेर् => सिल्वेर्श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत् क्रमात् । (७१।१)
copper => silverśvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt |
तत्तारं जारयेत् सूते तद्वच्छतगुणैः शनैः । (७२।१)
tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ |
तद्वत् वै तारबीजेन सारितं जारयेत् क्रमात् । (७३।१)
tadvat vai tārabījena sāritaṃ jārayet kramāt |
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ (७३।२)
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ ||
द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥ (७४।०)
drute tāmre pradātavyaṃ tattāraṃ jāyate śubham ||
सिल्वेर् => गोल्द्ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् । (७५।१)
silver => goldtāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam |
अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् । (७६।१)
anena svarṇapatrāṇi praliptāni puṭe pacet |
समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥ (७६।२)
samuddhṛtya punarmardyamamlavargeṇa saṃyutam ||
शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस् त्र्यहम् ॥ (७७।२)
śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham ||
मर्दितं कारयेद् गोलं निर्मलेन च लेपयेत् । (७८।१)
marditaṃ kārayed golaṃ nirmalena ca lepayet |
रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥ (७८।२)
ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā ||
रुद्ध्वा लिप्त्वा धमेद् गाढं बंधमायाति निश्चितम् ॥ (७९।२)
ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam ||
सिल्वेर् => गोल्द्रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् । (८१।१)
silver => goldraktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet |
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥ (८१।२)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet ||
तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे । (८२।१)
tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase |
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥ (८३।२)
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet ||
सिल्वेर्, चोप्पेर्, लेअद् => गोल्द्रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् । (८५।१)
silver, copper, lead => goldraktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam |
मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥ (८५।२)
mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam ||
ततो निगललिप्तायां मूषायां चान्धितं पुटेत् । (८६।१)
tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet |
करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥ (८६।२)
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā ||
समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च । (८७।१)
samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca |
मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥ (८७।२)
mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet ||
पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् । (८८।१)
punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet |
लेपयेत् शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् । (८८।२)
lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam |
कोष्ठीयन्त्रे हठाद् धाम्यं बद्धो भवति तद्रसः ॥ (८८।३)
koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ ||
तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् । (८९।१)
tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet |
चपलाभेदाःरक्ता पीता सिता कृष्णा चपला तु चतुर्विधा । (९०।१)
capalābhedāḥraktā pītā sitā kṛṣṇā capalā tu caturvidhā |
वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥ (९०।२)
vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ ||
चपला:: वेध wइथ् ~लांगली करवीराग्निगिरिकर्णी च टंकणम् । (९१।१)
capalā:: vedha with ~lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam |
सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥ (९१।२)
sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet ||
सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् । (९३।१)
suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam |
दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥ (९३।२)
divyauṣadhīdravairmardyaṃ sarvametaddinatrayam ||
पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् । (९४।१)
pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt |
तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥ (९४।२)
tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai ||
सुशुद्धं वेधयेन्नागं भवेद् गुंजानिभं तु तत् । (९५।१)
suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat |
अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् । (९६।१)
aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet |
शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥ (९६।२)
śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet ||
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् । (९७।१)
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet |
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् । (९८।१)
suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat |
लेअद् => चोप्पेर् => सिल्वेर् => गोल्द्षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् । (९९।१)
lead => copper => silver => goldṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam |
भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥ (९९।२)
bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam ||
सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् । (१००।१)
sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam |
तद्गोलं निगलेनैव सर्वतो लेपयेद् घनम् ॥ (१००।२)
tadgolaṃ nigalenaiva sarvato lepayed ghanam ||
लांगली करवीराग्निगृध्रविष्ठा समं समम् । (१०१।१)
lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam |
पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥ (१०१।२)
peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet ||
तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् । (१०२।१)
tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat |
तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥ (१०२।२)
tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet ||
तेन नागेन शुल्बं च शतांशेनैव वेधयेत् । (१०३।१)
tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet |
ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥ (१०३।२)
tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet ||
सिल्वेर् => गोल्द्पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् । (१०४।१)
silver => goldpalaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet |
पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥ (१०४।२)
pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam ||
जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् । (१०५।१)
jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet |
वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥ (१०५।२)
vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam ||
पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै । (१०६।१)
pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai |
क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥ (१०६।२)
kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet ||
जीर्णे यावद् भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् । (१०७।१)
jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet |
तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥ (१०७।२)
tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam ||
क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् । (१०८।१)
kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam |
पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥ (१०८।२)
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā ||
बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् । (१०९।१)
biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet |
त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥ (१०९।२)
tridinaṃ taptakhalve tu divyauṣadhīdravairyutam ||
मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् । (११०।१)
mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet |
वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥ (११०।२)
vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet ||
रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात् समुद्धरेत् । (१११।१)
ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet |
पूर्ववन्मर्दितं रुद्ध्वा धमेद् बद्धो भवेद्रसः ॥ (१११।२)
pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ ||
वेधयेज्जारयेद् दिव्यं कांचनं सिद्धसंमतम् ॥ (११२।२)
vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam ||
सिल्वेर् => गोल्द्शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् । (११३।१)
silver => goldśataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam |
क्षणं कन्याद्रवैर् मर्द्यं पातनायंत्रगं पचेत् ॥ (११३।२)
kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet ||
ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् । (११४।१)
ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam |
दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात् समुद्धरेत् ॥ (११४।२)
dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet ||
गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥ (११५।२)
gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam ||
भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् । (११६।१)
bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam |
रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥ (११६।२)
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet ||
एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै । (११७।१)
evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai |
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥ (११७।२)
jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ ||
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् । (११८।१)
sahasraguṇite jīrṇe sahasrāṃśena vedhayet |
लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥ (११८।२)
lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ ||
जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् । (११९।१)
jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram |
सारयेत् पक्वबीजेन पूर्ववज्जारयेत् क्रमात् ॥ (११९।२)
sārayet pakvabījena pūrvavajjārayet kramāt ||
मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् । (१२०।१)
mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet |
भूसत्त्वकैः परमगुह्यतमैः ससूतैर् वैक्रान्तकैः सचपलै रसगंधकैश्च । (१२१।१)
bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca |
दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक् सुवर्णकरणं गदितं सुधीनाम् ॥ (१२१।२)
dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām ||
Data courtesy of The Digital Corpus of Sanskrit.