RRĀ, 2, 7
Select a line for its word-by-word analysis.
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् । (१।१)
vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam |
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ (१।२)
teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge ||
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ (२।२)
mardayettaptakhalve tu kṣālayetkāñjikaistataḥ ||
तत्क्षिपेद् विषकन्दस्य गर्भे निष्कचतुष्टयम् । (३।१)
tatkṣiped viṣakandasya garbhe niṣkacatuṣṭayam |
विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥ (३।२)
viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake ||
पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् । (४।१)
piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet |
संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ (४।२)
saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam ||
ततश् चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे । (५।१)
tataś cullyāṃ lohapātre taile dhattūrasambhave |
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् । (७।१)
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet |
तत्क्षीरं शुष्यति क्षिप्रम् एतत्प्रत्ययमद्भुतम् ॥ (७।२)
tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam ||
दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ । (८।१)
dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau |
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ (८।२)
kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ ||
मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् । (९।१)
mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam |
दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा । (१०।१)
dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā |
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्य् अनेन वै । (११।१)
viṣamuṣṭikatailena liptaliṅgo hy anena vai |
नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥ (११।२)
naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati ||
यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ (१२।२)
yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām ||
इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् । (१३।१)
indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet |
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ (१३।२)
tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām ||
छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् । (१४।१)
chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām |
रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् । (१५।१)
raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet |
भौमे प्राप्तः समुद्धृत्य बन्धेत् कट्यां च वीर्यधृक् ॥ (१५।२)
bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk ||
न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ (१६।२)
na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet ||
डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् । (१७।१)
ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet |
तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ (१७।२)
tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati ||
तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः । (१८।१)
tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ |
पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् । (१९।१)
piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk |
श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ (१९।२)
śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet ||
पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् । (२०।१)
piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam |
जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ (२०।२)
jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe ||
तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ (२१।२)
tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam ||
मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् । (२२।१)
mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet |
बीजमीश्वरलिङ्ग्यास् तु सूतं वृश्चिककण्टकम् । (२३।१)
bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam |
सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ (२३।२)
sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ ||
जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति । (२४।१)
jihvopari sthite tasminnaro vīryaṃ na muñcati |
श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥ (२४।२)
śleṣmātasya kuraṇṭasya bījaṃ phañjyāḥ samāharet ||
अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् । (२५।१)
ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk |
सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ (२५।२)
sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet ||
न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् । (२६।१)
na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak |
नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ (२६।२)
nakhāsthīni samādāya mārjārasya sitasya vai ||
सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ (२७।२)
sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati ||
भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः । (२८।१)
bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ |
पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ (२८।२)
pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet ||
दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ (३०।२)
dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ ||
पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् । (३१।१)
piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam |
कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥ (३१।२)
karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu ||
मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः । (३२।१)
mardayitvā limpettena liṅgaṃ yāvatsamantataḥ |
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ (३२।२)
jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām ||
वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः । (३३।१)
vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ |
त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् । (३४।१)
trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam |
स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ (३४।२)
svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam ||
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् । (३५।१)
bījaṃ vai śarapuṅkhāyāḥ kṛṣṇadhattūrabījakam |
सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ (३५।२)
sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake ||
तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् । (३६।१)
tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram |
कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ (३६।२)
kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam ||
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ (३७।२)
vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati ||
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् । (३८।१)
sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet |
उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥ (३८।२)
ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk ||
पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते । (३९।१)
paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante |
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा । (३९।२)
śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā |
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ (३९।३)
aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake ||
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् । (४०।१)
śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet |
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ (४०।२)
śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam ||
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् । (४१।१)
tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet |
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ (४२।२)
māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake ||
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् । (४३।१)
kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet |
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ (४४।२)
bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā ||
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका । (४५।१)
dvādaśāṅgulikā yojyā pragalbhānāṃ jalaukikā |
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ (४५।२)
yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet ||
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥ (४६।२)
yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ ||
मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् । (४७।१)
munipattrarasairnīlīmūladrāvaiśca mardayet |
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ (४७।२)
śleṣmātakaphalaṃ pakvaṃ kokilākṣasya bījakam ||
मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् । (४८।१)
majjā supakvā bilvasya kṣipettatraiva mardayet |
जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥ (४८।२)
jalaukā jāyate yāvattatastasmātsamuddharet ||
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् । (४९।१)
trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat |
मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥ (४९।२)
mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ ||
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥ (५०।२)
yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam ||
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि । (५१।१)
kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi |
मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥ (५१।२)
mardayettadavacchinnaṃ jalaukā yāvatā bhavet ||
कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् । (५२।१)
karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat |
पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥ (५२।२)
pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ ||
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् । (५३।१)
tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam |
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥ (५३।२)
triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet ||
पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् । (५४।१)
payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam |
जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥ (५४।२)
jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām ||
रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा । (५५।१)
rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā |
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ (५५।२)
pūrvavatkramayogena vīryastambhakarī bhavet ||
अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥ (५६।२)
aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ ||
अपामार्गो यवा माषाः पिप्पली च समं जलैः । (५७।१)
apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ |
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ (५७।२)
piṣṭvā vimardayettena liṅgaṃ māsamaharniśam ||
वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् । (५८।१)
vardhate hastamātraṃ tatsthaulyena musalopamam |
वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ (५८।२)
varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet ||
अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः । (५९।१)
atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ |
लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ (६०।२)
liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate ||
जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् । (६१।१)
jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam |
मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ (६१।२)
madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt ||
तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ (६२।२)
tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet ||
तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः । (६३।१)
tena pralepayelliṅgaṃ vardhate māsamātrataḥ |
पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ (६३।२)
pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet ||
मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा । (६४।१)
māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā |
माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ (६४।२)
māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam ||
अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः । (६५।१)
anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ |
अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥ (६५।२)
aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ ||
तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ (६६।२)
tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt ||
मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् । (६७।१)
māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm |
तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ (६७।२)
taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt ||
रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् । (६८।१)
rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam |
निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् । (६८।३)
niśā sitāśvagandhā ca pāradaṃ mardayetsamam |
अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा । (६८।४)
anena mardayelliṅgaṃ yonikarṇastanāṃstathā |
वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ (६८।५)
vardhante māsamātreṇa nātra kāryā vicāraṇā ||
ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः । (६९।१)
oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ |
अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति । (६९।२)
anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti |
जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् । (६९।३)
jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet |
मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ (६९।४)
māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt ||
ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥ (७०।०)
oṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ ||
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् । (७१।१)
gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam |
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ (७१।२)
piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet ||
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः । (७२।२)
liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ |
ॐ नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः । (७२।३)
oṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ |
अतितरसुखसाध्यैर् योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च । (७२।४)
atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca |
निपुणरसिकरामारञ्जकं मोहकं स्याद् गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ (७२।५)
nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ ||
Data courtesy of The Digital Corpus of Sanskrit.