रसरत्नाकरRasaratnākara

RRĀ, 3, 8

27 of 39 · 290 verses

Select a line for its word-by-word analysis.

1.1१.१

तिन्:: शोधनकार्पासार्ककरञ्जधूर्तमुनिजैर् भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः । (१।१)

tin:: śodhanakārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ |

1.2१.२

तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर् यावत्पञ्चदिनं तद् एव विमलं वादे सदा योजयेत् ॥ (१।२)

takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet ||

2.1२.१

तिन्:: शोधनअथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः । (२।१)

tin:: śodhanaathavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ |

2.2२.२

समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥ (२।२)

samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam ||

3.1३.१

तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे । (३।१)

tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe |

3.2३.२

पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥ (३।२)

pacettasmātsamuddhṛtya punastadvacca mardayet ||

4.1४.१

इत्येवं सप्तधा कुर्यात् खोटं पाकं च मर्दनम् । (४।१)

ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam |

4.2४.२

तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥ (४।२)

tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet ||

5.1५.१

तिन्:: स्तम्भनतीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् । (५।१)

tin:: stambhanatīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet |

5.2५.२

चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥ (५।२)

catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam ||

6.1६.१

तिन् => सिल्वेर्श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका । (६।१)

tin => silverśvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā |

6.2६.२

विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥ (६।२)

viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā ||

7.1७.१

काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे । (७।१)

kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare |

7.2७.२

द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥ (७।२)

drute vaṅge pradātavyaṃ prativāpaṃ ca secayet ||

8.1८.१

पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः । (८।१)

putrajīvotthatailena saptavāraṃ punaḥ punaḥ |

8.2८.२

तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥ (८।२)

tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam ||

9.1९.१

तिन् => सिल्वेर्श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् । (९।१)

tin => silverśvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam |

9.2९.२

स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥ (९।२)

snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam ||

10.1१०.१

लेप्यं पादांशकल्केन चांधमूषागतं धमेत् । (१०।१)

lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet |

10.2१०.२

आदाय द्रावयेद् भूमौ पूर्वतैलेन सेचयेत् ॥ (१०।२)

ādāya drāvayed bhūmau pūrvatailena secayet ||

11.1११.१

पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् । (११।१)

patrādilepasekaṃ ca saptavārāṇi secayet |

11.2११.२

तद् वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥ (११।२)

tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham ||

12.1१२.१

तिन् => सिल्वेर्समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् । (१२।१)

tin => silversamaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam |

12.2१२.२

द्रवैर् ईश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥ (१२।२)

dravair īśvaraliṅgyāśca dinamekaṃ vimardayet ||

13.1१३.१

नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् । (१३।१)

nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam |

13.2१३.२

पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥ (१३।२)

pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet ||

14.1१४.१

एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् । (१४।१)

evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam |

14.2१४.२

भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥ (१४।२)

bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param ||

15.0१५.०

शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥ (१५।०)

śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam ||

16.1१६.१

तिन् => सिल्वेर्सूतकं तालमेकैकं नृकपालं द्विभागकम् । (१६।१)

tin => silversūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam |

16.2१६.२

सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥ (१६।२)

sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt ||

17.1१७.१

विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् । (१७।१)

viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam |

17.2१७.२

मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥ (१७।२)

māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ ||

18.0१८.०

दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥ (१८।०)

datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam ||

19.1१९.१

तिन् => सिल्वेर्गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् । (१९।१)

tin => silvergorambhā hyauṣadhī nāma naramūtreṇa peṣayet |

19.2१९.२

तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥ (१९।२)

tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet ||

20.1२०.१

क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् । (२०।१)

kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam |

20.2२०.२

क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥ (२०।२)

kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet ||

21.1२१.१

मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् । (२१।१)

mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet |

21.2२१.२

एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥ (२१।२)

evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam ||

22.1२२.१

वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका । (२२।१)

vasante jāyate sā tu gorambhā pītapuṣpikā |

22.2२२.२

तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥ (२२।२)

tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet ||

23.1२३.१

वसन्तपुष्पिकां वापि तदभावे नियोजयेत् । (२३।१)

vasantapuṣpikāṃ vāpi tadabhāve niyojayet |

23.2२३.२

बाला नाम समाख्याता कट्या धूलीसमा तथा ॥ (२३।२)

bālā nāma samākhyātā kaṭyā dhūlīsamā tathā ||

24.1२४.१

तिन् => सिल्वेर्श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् । (२४।१)

tin => silverśvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet |

24.2२४.२

एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥ (२४।२)

ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet ||

25.1२५.१

तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् । (२५।१)

taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet |

25.2२५.२

तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥ (२५।२)

tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham ||

26.1२६.१

तिन् => सिल्वेर्तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् । (२६।१)

tin => silvertatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet |

26.2२६.२

तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥ (२६।२)

tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet ||

27.1२७.१

तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् । (२७।१)

tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham |

27.2२७.२

तिन् => सिल्वेर्तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥ (२७।२)

tin => silvertakreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā ||

28.1२८.१

तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् । (२८।१)

tena kalkena vaṅgasya patrāṇi parilepayet |

28.2२८.२

अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ (२८।२)

aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā ||

29.1२९.१

तत्तारं जायते दिव्यं धर्मकामफलप्रदम् । (२९।१)

tattāraṃ jāyate divyaṃ dharmakāmaphalapradam |

29.2२९.२

तिन् => सिल्वेर्रसो मूषकपाषाणं फट्किरी नीलम् अञ्जनम् ॥ (२९।२)

tin => silverraso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam ||

30.1३०.१

अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि । (३०।१)

agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi |

30.2३०.२

भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥ (३०।२)

bhāṇḍamadhye nidhāyātha pācayeddīpavahninā ||

31.1३१.१

अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् । (३१।१)

agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet |

31.2३१.२

दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥ (३१।२)

dinānte tatsamuddhṛtya drute vaṅge pradāpayet ||

32.1३२.१

त्रिंशदंशेन तत्तारं जायते देवभूषणम् । (३२।१)

triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam |

32.2३२.२

तिन् => सिल्वेर्तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥ (३२।२)

tin => silvertāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā ||

33.1३३.१

अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् । (३३।१)

asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam |

33.2३३.२

अम्लेन मर्दयेत् तावद्यावद्भवति गोलकम् ॥ (३३।२)

amlena mardayet tāvadyāvadbhavati golakam ||

34.1३४.१

मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् । (३४।१)

meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet |

34.2३४.२

अनेन वेष्टयेद् गोलं तद्बहिर्निगडेन च ॥ (३४।२)

anena veṣṭayed golaṃ tadbahirnigaḍena ca ||

35.1३५.१

स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् । (३५।१)

svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat |

35.2३५.२

उत्तरावारुणीक्षीरैस् तत्खोटं च प्रलेपयेत् ॥ (३५।२)

uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet ||

36.1३६.१

मूषामध्ये निधायाथ तारं दत्त्वा समं समम् । (३६।१)

mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam |

36.2३६.२

दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥ (३६।२)

dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam ||

37.1३७.१

एवं पुनः पुनस् ताप्यम् एकविंशतिवारकम् । (३७।१)

evaṃ punaḥ punas tāpyam ekaviṃśativārakam |

37.2३७.२

दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥ (३७।२)

dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet ||

38.1३८.१

इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् । (३८।१)

idameva sahasrāṃśaṃ drute vaṅge vinikṣipet |

38.2३८.२

तद् वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥ (३८।२)

tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam ||

39.1३९.१

तिन् => सिल्वेर्रक्तपारदभागैकं भागैकं शंखचूर्णकम् । (३९।१)

tin => silverraktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam |

39.2३९.२

श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥ (३९।२)

śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet ||

40.1४०.१

टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् । (४०।१)

ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam |

40.2४०.२

वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥ (४०।२)

vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa ||

41.1४१.१

अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् । (४१।१)

anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet |

41.2४१.२

स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥ (४१।२)

stambhate nātra saṃdehastāraṃ bhavati śobhanam ||

42.1४२.१

तिन् => सिल्वेर्हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् । (४२।१)

tin => silverhemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam |

42.2४२.२

तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥ (४२।२)

tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet ||

43.1४३.१

तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् । (४३।१)

tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam |

43.2४३.२

जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥ (४३।२)

jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam ||

44.1४४.१

जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् । (४४।१)

jāraṇena tridhā sāryaṃ drute śulbe niyojayet |

44.2४४.२

शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥ (४४।२)

śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam ||

45.1४५.१

तिन् => सिल्वेर्द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके । (४५।१)

tin => silverdrutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake |

45.2४५.२

टेण्टूछल्लीद्रवैर् मर्द्यं यावद्भवति गोलकम् ॥ (४५।२)

ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam ||

46.1४६.१

गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । (४६।१)

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam |

46.2४६.२

तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर् नवैः ॥ (४६।२)

taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ ||

47.1४७.१

अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् । (४७।१)

andhitaṃ bhūdhare pacyāddinānte tatsamuddharet |

47.2४७.२

पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥ (४७।२)

pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat ||

48.1४८.१

पूर्ववद् भूधरे पच्यादित्येवं सप्तधा क्रमात् । (४८।१)

pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt |

48.2४८.२

द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥ (४८।२)

drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt ||

49.1४९.१

अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् । (४९।१)

anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet |

49.2४९.२

जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥ (४९।२)

jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham ||

50.1५०.१

तिन् => सिल्वेर्षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः । (५०।१)

tin => silverṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ |

50.2५०.२

तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥ (५०।२)

tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate ||

51.1५१.१

तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् । (५१।१)

tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet |

51.2५१.२

ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥ (५१।२)

tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake ||

52.1५२.१

मर्दयेट्टेण्टुजद्रावैर् यावद्भवति गोलकम् । (५२।१)

mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam |

52.2५२.२

रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥ (५२।२)

ruddhvātha bhūdhare pacyādahorātrātsamuddharet ||

53.1५३.१

पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् । (५३।१)

pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet |

53.2५३.२

तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ (५३।२)

taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā ||

54.1५४.१

अंधमूषागतं धाम्यं तत्खोटं जायते रसः । (५४।१)

aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ |

54.2५४.२

तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥ (५४।२)

tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet ||

55.1५५.१

अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः । (५५।१)

anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ |

55.2५५.२

यावत् सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥ (५५।२)

yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat ||

56.1५६.१

तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् । (५६।१)

taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt |

56.2५६.२

लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् । (५६।२)

lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet |

56.3५६.३

शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥ (५६।३)

śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam ||

57.1५७.१

चोप्पेर् => सिल्वेर्मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः । (५७।१)

copper => silvermadhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ |

57.2५७.२

सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥ (५७।२)

saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ ||

58.1५८.१

तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् । (५८।१)

tenaiva mardayetsūtaṃ taptakhalve dinatrayam |

58.2५८.२

तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥ (५८।२)

tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet ||

59.1५९.१

तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते । (५९।१)

tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate |

59.2५९.२

वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥ (५९।२)

vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam ||

60.1६०.१

मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् । (६०।१)

mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet |

60.2६०.२

मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ (६०।२)

mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet ||

61.1६१.१

पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश । (६१।१)

punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa |

61.2६१.२

अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥ (६१।२)

anena pūrvakhoṭaṃ tu rañjayetsaptavārakam ||

62.1६२.१

यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः । (६२।१)

yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ |

62.2६२.२

रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥ (६२।२)

rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet ||

63.1६३.१

द्रुतसूतेन संयुक्तं द्रावयेत् पूर्ववत् क्रमात् । (६३।१)

drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt |

63.2६३.२

द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥ (६३।२)

drutasya jārayettāraṃ dolāsvedena yatnataḥ ||

64.1६४.१

त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे । (६४।१)

triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade |

64.2६४.२

सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥ (६४।२)

sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet ||

65.0६५.०

द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥ (६५।०)

drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham ||

66.1६६.१

चोप्पेर् => सिल्वेर्श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् । (६६।१)

copper => silverśvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam |

66.2६६.२

वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥ (६६।२)

vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca ||

67.1६७.१

तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् । (६७।१)

tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet |

67.2६७.२

द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥ (६७।२)

drutasūtena saṃmardyaṃ yāvadamlena golakam ||

68.1६८.१

गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । (६८।१)

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam |

68.2६८.२

मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ (६८।२)

mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ ||

69.1६९.१

रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा । (६९।१)

ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā |

69.2६९.२

तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥ (६९।२)

tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet ||

70.1७०.१

रजतेन समावर्त्य सारणात्रयसारितम् । (७०।१)

rajatena samāvartya sāraṇātrayasāritam |

70.2७०.२

सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥ (७०।२)

sahasrāṃśena śulbasya drutasyopari dāpayet ||

71.0७१.०

तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥ (७१।०)

tattāraṃ jāyate divyaṃ puṭe datte na hīyate ||

72.1७२.१

चोप्पेर् ओर् तिन् => सिल्वेर्वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् । (७२।१)

copper OR tin => silvervajreṇa sāritaṃ yattu sūtabhasma purā kṛtam |

72.2७२.२

तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥ (७२।२)

tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam ||

73.1७३.१

लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् । (७३।१)

liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet |

73.2७३.२

पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥ (७३।२)

pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet ||

74.1७४.१

एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् । (७४।१)

evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam |

74.2७४.२

तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् । (७४।२)

tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet |

74.3७४.३

अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥ (७४।३)

athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam ||

75.1७५.१

चोप्पेर् => सिल्वेर्तारवन्मारयेद् वङ्गं तेन ताम्रं तु वेधयेत् । (७५।१)

copper => silvertāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet |

75.2७५.२

तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥ (७५।२)

tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ ||

76.1७६.१

चोप्पेर् => सिल्वेर्शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः । (७६।१)

copper => silverśuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ |

76.2७६.२

त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥ (७६।२)

tridinaṃ taptakhalve tu tatsūtaṃ kharparodare ||

77.1७७.१

चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः । (७७।१)

cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ |

77.2७७.२

त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥ (७७।२)

tridinānte samuddhṛtya saindhavaṃ taccaturguṇam ||

78.1७८.१

दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् । (७८।१)

dattvā vimardayedyāmaṃ pātanāyantrake pacet |

78.2७८.२

चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥ (७८।२)

caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ ||

79.1७९.१

अधःस्थितं समादद्यात् शुद्धः स्यात्पारदः शुभः । (७९।१)

adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ |

79.2७९.२

एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥ (७९।२)

etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam ||

80.1८०.१

विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् । (८०।१)

viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam |

80.2८०.२

मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥ (८०।२)

mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam ||

81.1८१.१

तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् । (८१।१)

tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet |

81.2८१.२

सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥ (८१।२)

sacchidravālukāyantre haṇḍīṃ mandāgninā pacet ||

82.1८२.१

शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् । (८२।१)

śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet |

82.2८२.२

स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् । (८२।२)

svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet |

82.3८२.३

चतुःषष्टितमांशेन तारं भवति शोभनम् ॥ (८२।३)

catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam ||

83.1८३.१

तिन् + सिल्वेर् + चोप्पेर् => सिल्वेर्पलं सूतं पलं तालं तालस्थानेऽथवा शिला । (८३।१)

tin + silver + copper => silverpalaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā |

83.2८३.२

कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥ (८३।२)

kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet ||

84.1८४.१

वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् । (८४।१)

vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet |

84.2८४.२

पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥ (८४।२)

punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte ||

85.1८५.१

तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः । (८५।१)

tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ |

85.2८५.२

रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥ (८५।२)

ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam ||

86.1८६.१

चोप्पेर् + सिल्वेर् => सिल्वेर्शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् । (८६।१)

copper + silver => silverśuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam |

86.2८६.२

स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥ (८६।२)

strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā ||

87.1८७.१

बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् । (८७।१)

bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet |

87.2८७.२

तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥ (८७।२)

tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet ||

88.1८८.१

दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् । (८८।१)

dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet |

88.2८८.२

इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद् दृढः ॥ (८८।२)

ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ ||

89.1८९.१

द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् । (८९।१)

dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet |

89.2८९.२

दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥ (८९।२)

daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam ||

90.1९०.१

चोप्पेर् + सिल्वेर् => सिल्वेर्शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः । (९०।१)

copper + silver => silverśṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ |

90.2९०.२

पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥ (९०।२)

piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet ||

91.1९१.१

शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् । (९१।१)

śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet |

91.2९१.२

मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥ (९१।२)

madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet ||

92.0९२.०

तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥ (९२।०)

tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat ||

93.1९३.१

चोप्पेर्:: दलयोग्यअर्कापामार्गकदलीक्षारमम्लेन लोलितम् । (९३।१)

copper:: dalayogyaarkāpāmārgakadalīkṣāramamlena lolitam |

93.2९३.२

तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥ (९३।२)

tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ ||

94.1९४.१

पत्रं कृत्वा प्रलिप्याथ तद्वद् धाम्यं पुनः पुनः । (९४।१)

patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ |

94.2९४.२

इत्येवं सप्तधा कुर्यात् वादे स्याद्दलयोग्यकम् ॥ (९४।२)

ityevaṃ saptadhā kuryāt vāde syāddalayogyakam ||

95.1९५.१

चोप्पेर्:: दलयोग्यअथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् । (९५।१)

copper:: dalayogyaathavā tāmrapatrāṇi sutaptāni niṣecayet |

95.2९५.२

लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥ (९५।२)

loṇāranālamadhye tu śatadhā pūrvavadbhavet ||

96.1९६.१

पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् । (९६।१)

palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam |

96.2९६.२

ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥ (९६।२)

tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ ||

97.0९७.०

इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥ (९७।०)

ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat ||

98.1९८.१

चोप्पेर् + सिल्वेर् => सिल्वेर्सुशुद्धं तालकं सूतं सामुद्रलवणं समम् । (९८।१)

copper + silver => silversuśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam |

98.2९८.२

द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥ (९८।२)

dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet ||

99.1९९.१

मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् । (९९।१)

mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat |

99.2९९.२

ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥ (९९।२)

tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak ||

100.1१००.१

यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् । (१००।१)

yāvacciṭaciṭīśabdo nivarteta samāharet |

100.2१००.२

चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥ (१००।२)

cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet ||

101.1१०१.१

तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् । (१०१।१)

tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam |

101.2१०१.२

तेxत्क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥ (१०१।२)

Textkṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet ||

102.1१०२.१

यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना । (१०२।१)

yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā |

102.2१०२.२

तत्सत्त्वं मृतसूताभम् ऊर्ध्वलग्नं समाहरेत् ॥ (१०२।२)

tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet ||

103.1१०३.१

बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् । (१०३।१)

baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet |

103.2१०३.२

दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये । (१०३।२)

daśāṃśe tu drute tāmre ḍhālayeddadhigomaye |

103.3१०३.३

तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥ (१०३।३)

tārārdhena samāvartya śaṃkhakundendusannibham ||

104.1१०४.१

सिल्वेर्:: प्रोदुच्तिओनित्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् । (१०४।१)

silver:: productionityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam |

104.2१०४.२

मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् । (१०४।२)

mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet |

104.3१०४.३

तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥ (१०४।३)

tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet ||

105.1१०५.१

सिल्वेर्:: रञ्जनताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् । (१०५।१)

silver:: rañjanatāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet |

105.2१०५.२

तारार्धेन समावर्त्य तारं भवति शोभनम् ॥ (१०५।२)

tārārdhena samāvartya tāraṃ bhavati śobhanam ||

106.1१०६.१

सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग् थे चोलोउर्तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् । (१०६।१)

silver:: rañjana, optimising the colourtāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam |

106.2१०६.२

अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥ (१०६।२)

asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam ||

107.1१०७.१

समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् । (१०७।१)

samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet |

107.2१०७.२

तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥ (१०७।२)

tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham ||

108.1१०८.१

सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग् थे चोलोउर्मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् । (१०८।१)

silver:: rañjana, optimising the colourmuṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam |

108.2१०८.२

तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥ (१०८।२)

tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet ||

109.1१०९.१

टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् । (१०९।१)

ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet |

109.2१०९.२

ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥ (१०९।२)

dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet ||

110.1११०.१

काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् । (११०।१)

kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet |

110.2११०.२

इत्येवं पञ्चधा कुर्यात् सत्त्वं दत्त्वा पुनः पुनः ॥ (११०।२)

ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ ||

111.1१११.१

तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् । (१११।१)

tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam |

111.2१११.२

त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥ (१११।२)

tritayaṃ tu samāvartya tāmrāre drāvite same ||

112.1११२.१

वेधो देयो दशांशेन बीजं पादं च योजयेत् । (११२।१)

vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet |

112.2११२.२

तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥ (११२।२)

tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham ||

113.1११३.१

सिल्वेर्:: रञ्जनशुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् । (११३।१)

silver:: rañjanaśuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam |

113.2११३.२

तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥ (११३।२)

tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam ||

114.1११४.१

योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् । (११४।१)

yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham |

114.2११४.२

सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥ (११४।२)

sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet ||

115.1११५.१

सम्यङ् मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः । (११५।१)

samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ |

115.2११५.२

सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥ (११५।२)

sacchidre vālukāyantre kūpyāmāropitaṃ pacet ||

116.1११६.१

शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् । (११६।१)

śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham |

116.2११६.२

ततश्चण्डाग्निना पच्याद्यावत् षोडशयामकम् ॥ (११६।२)

tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam ||

117.1११७.१

स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् । (११७।१)

svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām |

117.2११७.२

ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥ (११७।२)

ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet ||

118.1११८.१

षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये । (११८।१)

ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye |

118.2११८.२

ततः शुद्धेन तारेण समावर्त्य समेन तु । (११८।२)

tataḥ śuddhena tāreṇa samāvartya samena tu |

118.3११८.३

तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् । (११८।३)

tattāraṃ jāyate śuddhaṃ himakundendusannibham |

118.4११८.४

चोप्पेर् => सिल्वेर्तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥ (११८।४)

copper => silvertālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare ||

119.1११९.१

चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् । (११९।१)

cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat |

119.2११९.२

मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥ (११९।२)

mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ ||

120.1१२०.१

भर्जितं लवणं चैव तालकाद्दशमांशकम् । (१२०।१)

bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam |

120.2१२०.२

पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥ (१२०।२)

pūrvavadvālukāyantre paktvā sattvaṃ samāharet ||

121.1१२१.१

साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः । (१२१।१)

sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ |

121.2१२१.२

पूर्ववद् वालुकायन्त्रे कूपिकामष्टयामकम् ॥ (१२१।२)

pūrvavad vālukāyantre kūpikāmaṣṭayāmakam ||

122.1१२२.१

तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् । (१२२।१)

tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet |

122.2१२२.२

चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥ (१२२।२)

cālayellohapātre tu tailaṃ yāvattu jīryate ||

123.1१२३.१

इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः । (१२३।१)

ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ |

123.2१२३.२

तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥ (१२३।२)

tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam ||

124.1१२४.१

चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् । (१२४।१)

catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet |

124.2१२४.२

वेधयेत् कुन्तवेधेन ढालयेद्दधिगोमये । (१२४।२)

vedhayet kuntavedhena ḍhālayeddadhigomaye |

124.3१२४.३

पादांशं दापयेद् बीजं तारं भवति शोभनम् ॥ (१२४।३)

pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam ||

125.1१२५.१

सिल्वेर्:: शोधन (?); चोप्पेर् + सिल्वेर् => सिल्वेर् (?)टंकणं शुद्धतालस्य दशांशेन दापयेत् । (१२५।१)

silver:: śodhana (?); copper + silver => silver (?)ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet |

125.2१२५.२

मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥ (१२५।२)

meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam ||

126.1१२६.१

दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् । (१२६।१)

dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet |

126.2१२६.२

पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥ (१२६।२)

pūrvavatpācayedyaṃtre drave śuṣke niveśayet ||

127.1१२७.१

ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् । (१२७।१)

grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat |

127.2१२७.२

षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥ (१२७।२)

ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet ||

128.0१२८.०

तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥ (१२८।०)

tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat ||

129.1१२९.१

चोप्पेर् + सिल्वेर् => सिल्वेर्षण् निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् । (१२९।१)

copper + silver => silverṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam |

129.2१२९.२

प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥ (१२९।२)

pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam ||

130.1१३०.१

तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् । (१३०।१)

tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam |

130.2१३०.२

वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥ (१३०।२)

vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam ||

131.1१३१.१

अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् । (१३१।१)

anena cārdhabhāgena tāmrapatrāṇi lepayet |

131.2१३१.२

अंधमूषागतं ध्मातम् एवं वारत्रये कृते । (१३१।२)

aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte |

131.3१३१.३

तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥ (१३१।३)

tārārdhena samāvartya śuddhatāraṃ bhavettu tat ||

132.1१३२.१

चोप्पेर् => सिल्वेर्गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् । (१३२।१)

copper => silverguṃjākārpāsaśigrūṇāṃ tailamekasya cāharet |

132.2१३२.२

तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥ (१३२।२)

tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā ||

133.1१३३.१

षडंशं दापयेद् बीजं शुद्धतारं भवेत्तु तत् । (१३३।१)

ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat |

133.2१३३.२

शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥ (१३३।२)

śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ ||

134.1१३४.१

सिल्वेर्, गोल्द्:: मृदूकरणअर्कापामार्गकदलीभस्मतोयेन लोलयेत् । (१३४।१)

silver, gold:: mṛdūkaraṇaarkāpāmārgakadalībhasmatoyena lolayet |

134.2१३४.२

तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥ (१३४।२)

tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape ||

135.1१३५.१

शोषितं लवणं तस्मात्समादाय प्रयत्नतः । (१३५।१)

śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ |

135.2१३५.२

रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥ (१३५।२)

raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ ||

136.1१३६.१

तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके । (१३६।१)

tadeva dāpayedvāpyaṃ ḍhālayettilatailake |

136.2१३६.२

इत्येवं तु त्रिधा कुर्याद् अत्यन्तं मृदुतां व्रजेत् ॥ (१३६।२)

ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet ||

137.1१३७.१

मृदूकरणअश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् । (१३७।१)

mṛdūkaraṇaaśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet |

137.2१३७.२

तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥ (१३७।२)

taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet ||

138.1१३८.१

मृदूकरणगजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् । (१३८।१)

mṛdūkaraṇagajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam |

138.2१३८.२

कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥ (१३८।२)

kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat ||

139.1१३९.१

दल (?):: निर्मलीकरण (?)नानाविधानि कार्याणि भूषणानि दलेन वै । (१३९।१)

dala (?):: nirmalīkaraṇa (?)nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai |

139.2१३९.२

श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥ (१३९।२)

śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ ||

140.1१४०.१

पिष्ट्वाथ लवणं किंचित् क्षिप्त्वा तत्रैव पेषयेत् । (१४०।१)

piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet |

140.2१४०.२

तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥ (१४०।२)

tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet ||

141.1१४१.१

घर्षयन् लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् । (१४१।१)

gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet |

141.2१४१.२

इत्येवं तु त्रिधा कुर्यात् दलं भवति निर्मलम् ॥ (१४१।२)

ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam ||

142.1१४२.१

दल (?):: निर्मलीकरण (?)फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् । (१४२।१)

dala (?):: nirmalīkaraṇa (?)phaṭkarīcūrṇamādāya kharpare hyadharottaram |

142.2१४२.२

दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥ (१४२।२)

dattvā dalasya saṃrudhya samyaggajapuṭe pacet ||

143.1१४३.१

आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् । (१४३।१)

ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet |

143.2१४३.२

चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥ (१४३।२)

ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat ||

144.1१४४.१

अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे । (१४४।१)

abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge |

144.2१४४.२

सुगममपि च तारं सूतशुल्बारयोगैः दलम् अतिमलहीनं वार्तिकानां हितार्थम् ॥ (१४४।२)

sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit