RRĀ, 3, 9
Select a line for its word-by-word analysis.
वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन । (१।१)
vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena |
योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥ (१।२)
yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt ||
द्वन्द्वमेलापनअयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् । (२।१)
dvandvamelāpanaayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam |
स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥ (२।२)
strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam ||
द्वन्द्वमेलन:: वज्रगंधशशदन्ताश्च भ्रामकस्य मुखं तथा । (३।१)
dvandvamelana:: vajragaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā |
अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥ (३।२)
amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet ||
वज्रद्वन्द्वमेलापन (३)महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् । (५।१)
vajradvandvamelāpana (3)mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam |
स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् । (५।२)
strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam |
पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥ (५।३)
piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam ||
वज्रद्वन्द्वमेलापन (४)भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् । (६।१)
vajradvandvamelāpana (4)bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham |
बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् । (६।२)
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet |
तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥ (६।३)
tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam ||
वज्रसूतमेलापनभूनागं कांतपाषाणं माक्षिकं टंकणं मधु । (७।१)
vajrasūtamelāpanabhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu |
स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् । (८।१)
strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet |
तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥ (८।२)
tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam ||
स्वर्णवज्रमेलापन (द्वन्दखोट)मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् । (९।१)
svarṇavajramelāpana (dvandakhoṭa)mṛtavajrasya catvāro bhāgā dvādaśahāṭakam |
नागस्य च त्रयो भागाः षट् शुद्धस्य च पारदात् ॥ (९।२)
nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt ||
एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् । (१०।१)
ekīkṛtya tu tanmardyaṃ dinamamlena kenacit |
तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥ (१०।२)
taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet ||
मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥ (११।०)
mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam ||
स्वर्णवज्रमेलापन (२)क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् । (१२।१)
svarṇavajramelāpana (2)kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet |
दिनैकं शोधितं पिष्टम् एकैकां कारयेद्वटीम् ॥ (१२।२)
dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm ||
त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् । (१३।१)
tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam |
अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥ (१३।२)
amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm ||
भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् । (१४।१)
bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet |
पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥ (१४।२)
pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet ||
मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥ (१५।०)
milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ ||
स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् । (१६।१)
svarṇavajramelāpana (dvandvakhoṭa, 2)mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet |
सम्यक् षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥ (१६।२)
samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet ||
स्वर्णतुल्यं सितं काचम् अथवा नृकपालकम् । (१७।१)
svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam |
चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥ (१७।२)
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet ||
समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् । (१८।१)
samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam |
लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥ (१८।२)
liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu ||
हेम्ना मिलति तद्वज्रम् इत्येवं मेलयेत्पुनः । (१९।१)
hemnā milati tadvajram ityevaṃ melayetpunaḥ |
चोप्पेर् => गोल्द्द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् । (२०।१)
copper => golddvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam |
मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् । (२१।१)
meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet |
मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥ (२२।२)
meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam ||
मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् । (२३।१)
mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet |
यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥ (२३।२)
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet ||
जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् । (२४।१)
jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt |
एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥ (२४।२)
evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet ||
तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् । (२५।२)
tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam |
सितस्वर्ण => गोल्द्वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना । (२६।१)
sitasvarṇa => goldvajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā |
माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥ (२६।२)
mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam ||
स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः । (२७।१)
stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ |
यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥ (२७।२)
yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet ||
सितस्वर्ण => गोल्द्वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् । (२९।१)
sitasvarṇa => goldvaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam |
विमला चैव वैडूर्यम् एतेष्वेकं पलार्धकम् ॥ (२९।२)
vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam ||
द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥ (३०।२)
dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet ||
पूर्ववद् गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् । (३१।१)
pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet |
अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् । (३२।१)
anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet |
तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥ (३२।२)
tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet ||
अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् । (३३।१)
athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet |
एतत्खोटं शुद्धचूर्णम् अंधमूषागतं धमेत् ॥ (३३।२)
etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet ||
आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत् दिनम् । (३४।१)
āroṭarasatastulyaṃ jambīrairmardayet dinam |
वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥ (३४।२)
vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike ||
सवस्त्रं पाचयेत्पश्चाद् गन्धतैले दिनावधि । (३५।१)
savastraṃ pācayetpaścād gandhataile dināvadhi |
ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥ (३५।२)
tato vastrātsamuddhṛtya nigaḍena tule pacet ||
तत्खोटं तु समुद्धृत्य रञ्जयेत्तन् निगद्यते ॥ (३६।२)
tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate ||
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् । (३७।१)
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet |
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ (३७।२)
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam ||
चूर्णं रुद्ध्वा धमेद् गाढं तत्खोटं मर्दयेत्पुनः । (३८।१)
cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ |
पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥ (३८।२)
pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa ||
अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् । (३९।१)
anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat |
यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥ (३९।२)
yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ ||
अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥ (४०।२)
anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet ||
मेर्चुर्य्:: रेद् भस्मन्, रससिन्दूरकर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् । (४२।१)
mercury:: red bhasman, rasasindūrakarṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam |
चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥ (४२।२)
caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam ||
मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् । (४३।१)
mardayettaptakhalve tu vajramūṣāndhitaṃ pacet |
भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥ (४३।२)
bhūdharākhyapuṭaikena samuddhṛtyātha mardayet ||
हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि । (४४।१)
haṃsapādyā dravairevaṃ taptakhalve dināvadhi |
पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥ (४४।२)
pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet ||
रक्तवर्णं भवेद् भस्म सर्वयोगेषु योजयेत् ॥ (४५।०)
raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet ||
मेर्चुर्य्:: जारण:: ओड़् अभ्रद्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा । (४६।१)
mercury:: jāraṇa:: of abhradravairvartulapatrāyāḥ somavallyā dravaiśca vā |
धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥ (४६।२)
dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet ||
गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् । (४७।१)
gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet |
पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥ (४७।२)
pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ ||
वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् । (४८।१)
vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet |
अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥ (४८।२)
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ ||
इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् । (४९।१)
ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt |
अभ्र:: पिष्टीसोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥ (४९।२)
abhra:: piṣṭīsomavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ ||
रुद्ध्वा वनोत्पलैर् दद्यात् क्रमाद् एवं पुटत्रयम् । (५०।१)
ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam |
सप्तधा भावयेद् घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥ (५०।२)
saptadhā bhāvayed gharme somavallyā dravairdinam ||
श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः । (५१।१)
śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ |
कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥ (५१।२)
kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet ||
तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः । (५२।१)
tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ |
सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥ (५२।२)
somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare ||
चोप्पेर् => गोल्द्; कोटिवेधपूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥ (५३।२)
copper => gold; koṭivedhapūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā ||
तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् । (५४।१)
tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam |
चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥ (५४।२)
caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam ||
चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् । (५५।१)
catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam |
सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥ (५५।२)
sarvametattaptakhalve haṃsapādyā dravairdinam ||
मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके । (५६।१)
marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake |
यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥ (५६।२)
yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai ||
अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् । (५७।१)
asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet |
दोलास्वेदेन पक्तव्यं यावद् भवति गोलकम् ॥ (५७।२)
dolāsvedena paktavyaṃ yāvad bhavati golakam ||
इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥ (५८।२)
ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ ||
अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् । (५९।२)
anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet |
चन्द्रार्क => गोल्द्भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश । (६०।१)
candrārka => goldbhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa |
पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् । (६१।१)
pakvabījasya patrāṇi tulyānyetena lepayet |
सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥ (६१।२)
supakvabhānupatraistu liptapatrāṇi veṣṭayet ||
शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः । (६२।१)
śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ |
त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥ (६२।२)
tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt ||
कारीषवह्निना पच्यात् अहोरात्रात्समुद्धरेत् ॥ (६३।२)
kārīṣavahninā pacyāt ahorātrātsamuddharet ||
लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् । (६४।२)
liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet |
स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥ (६४।३)
svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam ||
चोप्पेर् => गोल्द्मृतवज्रस्य भागैकं भागैकं हाटकस्य च । (६५।१)
copper => goldmṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca |
त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥ (६५।२)
tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet ||
तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् । (६६।१)
tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet |
ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥ (६६।२)
tatastulyena svarṇena samāvartaṃ tu kārayet ||
सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् । (६८।१)
sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet |
सिल्वेर्, चोप्पेर् => गोल्द्शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् । (६९।१)
silver, copper => goldśuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam |
मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥ (६९।२)
mardayettaptakhalve tu tridinānte samuddharet ||
बीजैर् दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् । (७०।१)
bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet |
तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत् करिषाग्निना ॥ (७०।२)
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā ||
समुद्धृत्य पुनस्तस्मिन् शुद्धसूतं समं क्षिपेत् । (७१।१)
samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet |
हंसपाद्या द्रवैर्मर्द्यं पूर्ववद् दिवसत्रयम् ॥ (७१।२)
haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam ||
तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् । (७२।१)
tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet |
जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥ (७२।२)
jāyate bhasma sūto'yaṃ sarvakarmasu yojayet ||
अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् । (७३।१)
asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam |
सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥ (७३।२)
sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet ||
वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥ (७४।२)
vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet ||
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् । (७५।१)
ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet |
कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥ (७५।२)
kārīṣāgnau divārātrau pācayitvā samuddharet ||
पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् । (७६।१)
pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat |
पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥ (७६।२)
puṭe pacyāddivārātrau evaṃ kuryācca saptadhā ||
ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् । (७७।१)
tatastenaiva kalkena liptvā ruddhvātha śoṣayet |
शतमांशेन तेनैव चन्द्रार्कौ वेधयेद् द्रुतम् । (७८।१)
śatamāṃśena tenaiva candrārkau vedhayed drutam |
चन्द्रार्क => गोल्दथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् । (७९।१)
candrārka => goldathavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam |
अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥ (७९।२)
aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam ||
खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् । (८०।१)
khoṭatulyaṃ śuddhahema sarvamekatra drāvayet |
चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥ (८०।२)
candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet ||
शतवेधिकल्कः - तारे ताम्रेवज्रभस्म स्नुहीक्षीरैर्दिनम् एकं विमर्दयेत् । (८१।१)
śatavedhikalkaḥ - tāre tāmrevajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet |
रुद्ध्वा गजपुटे पच्यात् एवं शतपुटैः पचेत् ॥ (८१।२)
ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet ||
तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् । (८२।१)
tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam |
देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥ (८२।२)
devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet ||
कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् । (८३।१)
kārīṣāgnau divārātrau samuddhṛtyātha mardayet |
देवदाल्या द्रवैस् त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥ (८३।२)
devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet ||
एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् । (८४।१)
evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam |
क्षिप्त्वा कांचनकद्रावैर् मर्दयेद्दिवसत्रयम् ॥ (८४।२)
kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam ||
स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥ (८५।२)
svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet ||
मर्दयेत्त्रिफलाद्रावैस् तत्सर्वं दिवसत्रयम् । (८६।१)
mardayettriphalādrāvais tatsarvaṃ divasatrayam |
तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् । (८७।१)
tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet |
वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥ (८७।२)
vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam ||
रुद्ध्वा गजपुटे पच्यात् पुनर्मर्द्यं च पाचयेत् । (८८।१)
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet |
एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥ (८८।२)
evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet ||
अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् । (८९।१)
amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam |
रुद्ध्वा गजपुटे पच्यात् पुनर्मर्द्यं च पाचयेत् ॥ (८९।२)
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet ||
एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् । (९०।१)
evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet |
अनेन शतमांशेन चन्द्रार्कं वेधयेद् द्रुतम् ॥ (९०।२)
anena śatamāṃśena candrārkaṃ vedhayed drutam ||
अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः । (९१।१)
athavā madhunāktena candrārkau lepayettataḥ |
चन्द्रार्क => गोल्द् (शतवेधिकल्कः)चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् । (९३।१)
candrārka => gold (śatavedhikalkaḥ)catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam |
रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥ (९४।२)
ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet ||
अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥ (९५।२)
amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet ||
पुनर्मर्द्यं पुनः पाच्यम् एकविंशतिवारकम् । (९६।१)
punarmardyaṃ punaḥ pācyam ekaviṃśativārakam |
लिप्त्वा रुद्ध्वा धमेद् गाढं दिव्यं भवति काञ्चनम् ॥ (९७।०)
liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam ||
सिल्वेर् => गोल्द् (षोडशवेधिकल्कः)पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् । (९८।१)
silver => gold (ṣoḍaśavedhikalkaḥ)pūrvoktabhasmasūtena amlapiṣṭena lepayet |
चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् । (९८।२)
caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet |
पादांशेन पुनस्तस्मिन् भस्मसूतं नियोजयेत् ॥ (९८।३)
pādāṃśena punastasmin bhasmasūtaṃ niyojayet ||
मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् । (९९।१)
mardayedamlavargeṇa tadvadruddhvā puṭe pacet |
एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥ (९९।२)
evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham ||
तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् । (१००।१)
tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet |
चोप्पेर् => गोल्द्; शतवेधिकल्कःमृतवज्रस्य भागैकं शुद्धसूतस्य षोडश । (१०१।१)
copper => gold; śatavedhikalkaḥmṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa |
देवदालीशङ्खपुष्पीरसैर् मर्द्यं दिनत्रयम् ॥ (१०१।२)
devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam ||
वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् । (१०२।१)
vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet |
समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥ (१०२।२)
samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca ||
दिनैकं भूधरे पच्यात् तद्वन्मर्द्यं च पाचयेत् । (१०३।१)
dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet |
इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥ (१०३।२)
ityevaṃ saptadhā kuryājjāyate bhasmasūtakam ||
तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् । (१०४।१)
tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet |
तत् खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥ (१०४।२)
tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate ||
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् । (१०५।१)
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet |
तत् खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥ (१०५।२)
tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet ||
पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश । (१०६।१)
pūrvavatkramayogena puṭāndadyāccaturdaśa |
अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥ (१०६।२)
anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ ||
तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् । (१०७।१)
tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet |
दशवारेण तत् खोटं जायते कुंकुमप्रभम् ॥ (१०७।२)
daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham ||
स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् । (१०८।१)
svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat |
द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥ (१०८।२)
drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam ||
तारारिष्ट => गोल्द् (सहस्रवेधिकल्कः)पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् । (१०९।१)
tārāriṣṭa => gold (sahasravedhikalkaḥ)pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam |
कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥ (१०९।२)
kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā ||
मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः । (११०।१)
mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ |
यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥ (११०।२)
yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet ||
मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश । (१११।१)
mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa |
गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥ (१११।२)
gopittena punarmardyaṃ deyaṃ puṭacaturdaśa ||
तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् । (११२।१)
tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet |
दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥ (११२।२)
dinānte tatsamuddhṛtya krāmaṇena samāyutam ||
सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् । (११३।१)
sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet |
नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः । (११४।१)
nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ |
तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् । (११४।२)
tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet |
सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ (११४।३)
sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham ||
चोप्पेर् => गोल्द्द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा । (११५।१)
copper => golddrutasūtena vajreṇa vajraiḥ śuddharasena vā |
मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥ (११५।२)
mṛtasūtena vajreṇa vajraiḥ śuddharasena vā ||
दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् । (११६।१)
divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat |
प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥ (११६।२)
proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat ||
द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् । (११७।१)
drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam |
क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते । (११८।१)
krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite |
वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥ (११८।२)
vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret ||
जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् । (११९।१)
jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt |
अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥ (११९।२)
anena koṭimāṃśena drutaśulbaṃ tu vedhayet ||
वज्र:: द्रावणअथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः । (१२१।१)
vajra:: drāvaṇaathāsya koṭivedhasya rasendrasyāparo vidhiḥ |
विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥ (१२१।२)
viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā ||
तस्यां पूर्वरसं क्षिप्त्वा धमेद् द्रावं क्षिपन् क्षिपन् ॥ (१२२।२)
tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan ||
वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः । (१२३।१)
vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ |
मेर्चुर्य्:: शब्दवेधिन्ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥ (१२३।२)
mercury:: śabdavedhintatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet ||
उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् । (१२४।१)
uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet |
ग्रसन्त्येव न संदेहस् तीव्रध्मातानलेन च ॥ (१२४।२)
grasantyeva na saṃdehas tīvradhmātānalena ca ||
वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे । (१२५।१)
vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase |
सप्फिरे:: द्रावणअथवा मारिते तस्मिन् जारणं सारयेत्पुनः । (१२६।१)
sapphire:: drāvaṇaathavā mārite tasmin jāraṇaṃ sārayetpunaḥ |
उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥ (१२६।२)
uccaṭā mīnanayanā sarpākṣī raktacitrakam ||
एतासां निक्षिपेद् द्रावं द्रुते मूषागते रसे । (१२७।१)
etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase |
इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥ (१२७।२)
indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ ||
सप्फिरे:: => खेचरीपूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् । (१२८।१)
sapphire:: => khecarīpūrvavatsvedanenaiva viḍayogena jārayet |
इत्येवं त्रिगुणं जार्यम् इन्द्रनीलं क्रमेण तु ॥ (१२८।२)
ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu ||
तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः । (१२९।१)
tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ |
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् । (१३०।१)
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam |
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥ (१३०।२)
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam ||
इत्येवं विष्टिखोटं परिरसम् अपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति । (१३१।१)
ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti |
किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥ (१३१।२)
kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte ||
Data courtesy of The Digital Corpus of Sanskrit.