RRĀ, 3, 20
Select a line for its word-by-word analysis.
साङ्गोपाङ्गम् अनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात् दृष्टं परं यन्मया । (१।१)
sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā |
तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥ (१।२)
tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt ||
पारदबन्धन (१)शुद्धपारदभागैकं टङ्कणेन समं समम् । (२।१)
pāradabandhana (1)śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam |
मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥ (२।२)
mardayettriphalākvāthairnaramūtrairyutaistataḥ ||
कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः । (३।१)
karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ |
सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद् दृढम् ॥ (३।२)
sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham ||
कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् । (४।१)
koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet |
पारदबन्धनम् (२)आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा । (५।१)
pāradabandhanam (2)āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā |
त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः । (६।१)
tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ |
तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥ (६।२)
tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat ||
तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥ (७।०)
tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ ||
पारदबन्धनम् (३)मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् । (८।१)
pāradabandhanam (3)markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam |
मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥ (८।२)
markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam ||
तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् । (९।१)
tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet |
पारदबन्धनम् (४)अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् । (१०।१)
pāradabandhanam (4)arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet |
तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥ (१०।२)
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet ||
मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे । (११।१)
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe |
ततो गजपुटे पच्यात् पारदो बन्धमाप्नुयात् ॥ (११।२)
tato gajapuṭe pacyāt pārado bandhamāpnuyāt ||
पारदबन्धनम् (५)जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् । (१२।१)
pāradabandhanam (5)jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam |
जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥ (१२।२)
jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat ||
रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु । (१३।१)
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu |
उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥ (१३।२)
utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet ||
ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥ (१४।०)
tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ ||
पारदबन्धनम् (६)एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् । (१५।१)
pāradabandhanam (6)ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam |
तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ (१५।३)
tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ ||
पारदबन्धनम् (७)आरक्तक्षीरकंदोत्थद्रवैस्त्रीन् स्तन्यसंयुतैः । (१६।१)
pāradabandhanam (7)āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ |
त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस् त्र्यहम् ॥ (१६।२)
tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham ||
क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् । (१७।१)
kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet |
तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ (१७।२)
tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ ||
पारदबन्धनम् (८)कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् । (१८।१)
pāradabandhanam (8)kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam |
उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥ (१८।२)
unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam ||
गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् । (१९।१)
gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm |
तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥ (१९।२)
tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet ||
तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् । (२०।१)
taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet |
तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥ (२०।२)
taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā ||
उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः । (२१।१)
uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ |
तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥ (२१।२)
tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet ||
रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥ (२२।२)
rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ ||
पारदबन्धनम् (९)शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् । (२३।१)
pāradabandhanam (9)śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam |
मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥ (२३।२)
mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam ||
ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥ (२४।२)
ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet ||
मर्द्यम् उन्मत्तकद्रावैर् दृढं यामचतुष्टयम् । (२५।१)
mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam |
तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥ (२५।२)
tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet ||
पुनः पाच्यं पुनर्मर्द्यम् ऊर्ध्वाधःस्थं प्रयत्नतः । (२६।१)
punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ |
सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥ (२६।२)
sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ ||
तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् । (२७।१)
tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet |
सम्यक् संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥ (२७।२)
samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca ||
पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् । (२८।१)
pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet |
खोटबद्धो भवेत्साक्षात् तीव्रधामानलेन तु ॥ (२९।२)
khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu ||
पारदबन्धनम् (१०)पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला । (३०।१)
pāradabandhanam (10)palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā |
पारदबन्धनम् (११)नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् । (३१।१)
pāradabandhanam (11)nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam |
मेर्चुर्य्:: बन्धनपलं सूतं पलं तारं पिष्टमम्लेन केनचित् । (३२।१)
mercury:: bandhanapalaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit |
द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥ (३२।२)
dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet ||
मेर्चुर्य्:: बन्धनतारवत् स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥ (३३।०)
mercury:: bandhanatāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat ||
मेर्चुर्य्:: बन्धनकृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् । (३४।१)
mercury:: bandhanakṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam |
शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् । (३४।२)
śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet |
वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥ (३४।३)
vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat ||
मेर्चुर्य्:: बन्धनश्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् । (३५।१)
mercury:: bandhanaśvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam |
समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥ (३५।२)
samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam ||
हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् । (३६।१)
haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat |
महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥ (३६।२)
mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam ||
मेर्चुर्य्:: बन्धनपारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् । (३७।१)
mercury:: bandhanapāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam |
तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥ (३७।२)
tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram ||
रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् । (३८।१)
ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman |
तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥ (३८।२)
tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet ||
मेर्चुर्य्:: बन्धनपञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् । (३९।१)
mercury:: bandhanapañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam |
तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥ (३९।२)
taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham ||
चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥ (४०।०)
covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt ||
मेर्चुर्य्:: बन्धनचन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् । (४१।१)
mercury:: bandhanacandravallyā dravairmardyaṃ tridinaṃ śuddhapāradam |
टंकणेन तु संयोज्य वटिकां कारयेद् बुधः । (४१।२)
ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ |
कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥ (४१।३)
koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ ||
मेर्चुर्य्:: बन्धनभल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् । (४२।१)
mercury:: bandhanabhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam |
यावत्तैलं पचेत्तावद् रविक्षीरं क्षिपन् क्षिपन् ॥ (४२।२)
yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan ||
॥। पारदबन्धनम् (२०)द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् । (४४।१)
... pāradabandhanam (20)dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam |
समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥ (४५।२)
samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet ||
तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद् दृढम् । (४६।१)
tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham |
पारदबन्धनम् (२१)रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् । (४७।१)
pāradabandhanam (21)rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam |
त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः । (४८।१)
tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ |
ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥ (४८।२)
tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ ||
खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥ (४९।२)
khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt ||
पारदभस्म (१)कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् । (५०।१)
pāradabhasma (1)karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam |
वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥ (५०।२)
vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet ||
कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् । (५१।१)
kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam |
शुष्कं तुषपुटे पच्यात् त्रिदिनं परिवर्तयन् ॥ (५१।२)
śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan ||
समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस् त्र्यहम् । (५२।१)
samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham |
पारदभस्म (२)हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् । (५३।१)
pāradabhasma (2)haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam |
क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥ (५३।२)
kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet ||
करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः । (५४।१)
karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ |
कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥ (५४।२)
kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat ||
क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् । (५५।१)
kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet |
सम्यग्गजपुटे पच्यात् मृतो भवति निश्चितम् ॥ (५५।२)
samyaggajapuṭe pacyāt mṛto bhavati niścitam ||
पारदभस्म (३)हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् । (५६।१)
pāradabhasma (3)haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam |
रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥ (५६।२)
rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet ||
करीषाग्नौ दिनं पच्यान्मर्द्यात् पूर्वद्रवैस् त्र्यहम् । (५७।१)
karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham |
दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् । (५७।२)
dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet |
मुखकरणम्; सिल्वेर्, चोप्पेर्, लेअद् => गोल्दुक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते । (५८।१)
mukhakaraṇam; silver, copper, lead => golduktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate |
गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् । (५९।१)
gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet |
चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥ (५९।२)
caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet ||
ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः । (६१।१)
grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ |
मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥ (६१।२)
mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame ||
तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः । (६२।१)
tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ |
सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥ (६२।२)
siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt ||
चोप्पेर् => गोल्द्सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् । (६३।१)
copper => goldsūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam |
तत्सर्वं मातुलिंगाम्लैर् दिनम् एकं समं समम् ॥ (६३।२)
tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam ||
शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् । (६४।१)
śuddhāni tāmrapatrāṇi tena kalkena lepayet |
रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥ (६४।२)
ruddhvā gajapuṭe pacyātpunarutthāpya lepayet ||
एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥ (६५।०)
evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet ||
चोप्पेर् => गोल्द्रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् । (६६।१)
copper => goldraktasnuhīpayobhiśca tāmrapatrāṇi lepayet |
कारयेदग्नितप्तानि तस्मिन् क्षीरे निषेचयेत् ॥ (६६।२)
kārayedagnitaptāni tasmin kṣīre niṣecayet ||
समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥ (६७।२)
samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam ||
चोप्पेर्, लेअद्, सिल्वेर् => गोल्द्रसकं दरदं गंधं गगनं कुनटी समम् । (६८।१)
copper, lead, silver => goldrasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam |
आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥ (६८।२)
āraktasnukpayobhistanmardayeddivasatrayam ||
तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा । (६९।१)
tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā |
सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥ (६९।२)
sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam ||
नागस्य स्वर्णम्रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत् त्र्यहम् । (७०।१)
nāgasya svarṇamraktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham |
तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् । (७०।२)
tena nāgasya patrāṇi praliptāni puṭe pacet |
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥ (७०।३)
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet ||
चोप्पेर् => लेअद्पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी । (७१।१)
copper => leadpadminīpatrapuṣpābhā vijñeyā sthalapadminī |
भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥ (७१।२)
bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ ||
पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् । (७२।२)
pūrvoktapadminīyuktaṃ mardayeddinasaptakam |
तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥ (७२।३)
tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam ||
तारबीजकल्कःनागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् । (७३।१)
tārabījakalkaḥnāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram |
पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥ (७३।२)
pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet ||
तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥ (७४।२)
tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ ||
तद् भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥ (७५।२)
tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ ||
तिन् => सिल्वेर्रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । (७६।१)
tin => silverraktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet |
तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥ (७६।२)
tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam ||
देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥ (७७।०)
deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham ||
चोप्पेर् => गोल्द्रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् । (७८।१)
copper => goldraktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam |
कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥ (७८।२)
kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet ||
ताम्रपत्राणि तप्तानि तस्मिन् सिञ्चेत्त्रिसप्तधा । (७९।१)
tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā |
एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥ (७९।२)
etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam ||
एवं त्रिसप्तधा कुर्याद् दिव्यं भवति काञ्चनम् ॥ (८१।२)
evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam ||
चोप्पेर् => गोल्द्नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् । (८२।१)
copper => goldnāginīkandasūtendraraktacitrakamūlakam |
पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् । (८२।२)
piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet |
तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥ (८२।३)
tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam ||
चोप्पेर् => गोल्द्ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् । (८३।१)
copper => goldjyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet |
मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥ (८३।२)
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā ||
एवं षण्मासपर्यन्तं पुटयेदुद्धरेत् क्रमात् । (८४।१)
evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt |
बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥ (८४।२)
bahistuṣapuṭe pacyāttridinaṃ taddivaniśam ||
तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् । (८५।१)
tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet |
क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥ (८५।२)
kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam ||
चोप्पेर् => गोल्द्क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् । (८६।१)
copper => goldkṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet |
शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥ (८६।२)
śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet ||
सिल्वेर् => गोल्द्गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् । (८७।१)
silver => goldgaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam |
मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥ (८७।२)
mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam ||
तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् । (८८।१)
tena tārasya patrāṇi liptvā ruddhvā puṭe pacet |
इत्येवं सप्तधा कुर्यात् दिव्यं भवति कांचनम् ॥ (८८।२)
ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam ||
चोप्पेर् => गोल्द्कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् । (८९।१)
copper => goldkṛṣṇāyā vātha pītāyā devadālyā phaladravam |
विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥ (८९।२)
viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet ||
सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् । (९०।१)
saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet |
रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥ (९०।२)
ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet ||
दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥ (९१।०)
daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam ||
सोड़्तेनिन्ग् ओड़् ड़िस्सुरेद् मिनेरल्स्वसुभट्टरसेनाथ त्रिधा सिञ्चेत् सुतापितम् । (९२।१)
softening of fissured mineralsvasubhaṭṭarasenātha tridhā siñcet sutāpitam |
लोणवत्स्फुटितो धातुर्मृदुः स्यात् सिक्थको यथा ॥ (९२।२)
loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā ||
तिन् => सिल्वेर्देवदाल्या फलं मूलम् ईश्वरीफलजद्रवम् । (९३।१)
tin => silverdevadālyā phalaṃ mūlam īśvarīphalajadravam |
पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥ (९३।२)
piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet ||
भूयो भूयस् त्वयं वाप्यस्तारं भवति शोभनम् ॥ (९४।०)
bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam ||
चोप्पेर् => गोल्द्कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा । (९५।१)
copper => goldkṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā |
नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥ (९५।२)
nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu ||
मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥ (९६।२)
mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai ||
शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् । (९७।१)
śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam |
एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद् दृढम् ॥ (९७।२)
ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham ||
तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् । (९८।१)
tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham |
तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥ (९८।२)
tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā ||
चोप्पेर् => सिल्वेर्भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि । (९९।१)
copper => silverbhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi |
तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥ (९९।२)
tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet ||
ताम्रपत्राणि तत्पश्चात् ढङ्कणेन निरुध्य च । (१००।१)
tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca |
हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥ (१००।२)
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet ||
पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् । (१०१।१)
pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam |
मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥ (१०१।२)
mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet ||
स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् । (१०२।१)
svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet |
वारत्रयं क्षिपेत्तस्मिन् वटिकां वेधनान्मुखम् ॥ (१०२।२)
vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham ||
मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् । (१०३।१)
mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam |
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ (१०३।२)
yadā na grasate tasmādvaṭī deyā punaḥ punaḥ ||
जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् । (१०४।१)
jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet |
द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥ (१०४।२)
drutasya śatabhāgena tattāraṃ jāyate śubham ||
नागमुखकरणम्गंधकं धूमसारं च फट्करी टंकणं समम् । (१०५।१)
nāgamukhakaraṇamgaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam |
एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥ (१०५।२)
eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet ||
भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् । (१०६।१)
bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet |
चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥ (१०६।२)
caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā ||
शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः । (१०७।१)
śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ |
द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥ (१०७।२)
drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet ||
पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा । (१०८।१)
punastasmindrute deyā vaṭikā vaḍavāmukhā |
द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥ (१०८।२)
dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet ||
यदा न ग्रसते तस्माद् वटी देया पुनः पुनः ॥ (१०९।२)
yadā na grasate tasmād vaṭī deyā punaḥ punaḥ ||
कठिनधातोर्मृदूकरणम्मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् । (११०।१)
kaṭhinadhātormṛdūkaraṇammadhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam |
तिलतैलम् अजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥ (११०।२)
tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam ||
तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात् सुतापितम् । (१११।१)
tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam |
मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥ (१११।२)
mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ ||
कठिनधातोर् मृदूकरणम् (२)वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् । (११२।१)
kaṭhinadhātor mṛdūkaraṇam (2)vasubhadrarasenātha tridhā siñcya sutāpitam |
लोणवत्स्फुटितो धातुर्मृदुः स्यात् सिक्थकोपमः ॥ (११२।२)
loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ ||
कठिनधातोर् मृदूकरणम् (३)अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै । (११३।१)
kaṭhinadhātor mṛdūkaraṇam (3)atisthūlasya bhekasya nivāryāntrāṇi tatra vai |
चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥ (११३।२)
cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi ||
त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् । (११४।१)
trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet |
स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥ (११४।२)
svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam ||
अभ्रग्रासी रसःतृणज्योतीयमूलेन मातुलिंगरसेन च । (११५।१)
abhragrāsī rasaḥtṛṇajyotīyamūlena mātuliṃgarasena ca |
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ (११५।२)
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt ||
गुह्याख्यसूतेन नागवेधःभूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् । (११६।१)
guhyākhyasūtena nāgavedhaḥbhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet |
तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥ (११६।२)
taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman ||
गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते । (११७।१)
guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate |
शिलागंधकमाक्षीकैर् भूनागद्रवपेषितैः ॥ (११७।२)
śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ ||
मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् । (११८।१)
mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet |
भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥ (११८।२)
bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman ||
ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः । (११९।१)
grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ |
मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥ (११९।२)
muñcatyasau drute nāge guhyādguhyaṃ prakāśitam ||
गुह्याख्यसूतेन वङ्गवेधःभूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् । (१२०।१)
guhyākhyasūtena vaṅgavedhaḥbhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet |
तं वाहयेद् द्रुते बंगे यावच्छतगुणं धमन् ॥ (१२०।२)
taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman ||
स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥ (१२१।२)
stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ ||
गुह्यवङ्गकरणं तेन वेधःतालकं सैंधवं तुल्यं भूनागद्रवपेषितम् । (१२२।१)
guhyavaṅgakaraṇaṃ tena vedhaḥtālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam |
मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥ (१२२।२)
mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet ||
स्तोकं स्तोकं क्षिपेत्तस्मिन् बिडं दत्त्वा धमन्धमन् । (१२३।१)
stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman |
भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥ (१२३।२)
bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam ||
द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः । (१२४।१)
drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ |
तावद् द्रुते न संदेहः सिद्धयोग उदाहृतः ॥ (१२४।२)
tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ ||
क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् । (१२५।१)
kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet |
निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन् क्षिपन् ॥ (१२५।२)
niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan ||
तद् भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥ (१२६।०)
tad bhavedrasatulyaṃ tu samādāyātha tatsamam ||
गुह्ययोगःपारदं शुद्धहेमाथ सत्वं भूनागसंभवम् । (१२७।१)
guhyayogaḥpāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam |
चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥ (१२७।२)
catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ ||
तद्गोलकं विशोष्याथ कल्के भूनागसंभवे । (१२८।१)
tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave |
मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥ (१२८।२)
mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet ||
धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् । (१२९।१)
dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam |
सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥ (१२९।२)
sarvavadgrasate datte guhyākhyaṃ yogamuttamam ||
कामधेनुः (१)अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् । (१३०।१)
kāmadhenuḥ (1)athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam |
समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥ (१३०।२)
samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet ||
रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् । (१३१।१)
ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet |
धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥ (१३१।२)
dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet ||
तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् । (१३२।१)
tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet |
नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥ (१३२।२)
naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca ||
कामधेनुः (२)पारदे जार्यं कृष्णाभ्रं रुक्मम् अष्टगुणं यदि । (१३४।१)
kāmadhenuḥ (2)pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi |
रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥ (१३४।२)
rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam ||
माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् । (१३५।१)
māṣapiṣṭyā pralipyāthātasītailena pācayet |
कामधेनुः (३)रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् । (१३६।१)
kāmadhenuḥ (3)rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām |
विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥ (१३६।२)
vilipya kāmadhenuṃ ca nāgadrāve niyojayet ||
तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् । (१३७।१)
taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam |
गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे । (१३७।२)
guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe |
शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥ (१३७।३)
śastrāstrairna ca bhidyeta divyadehamavāpnuyāt ||
सिल्वेर् => गोल्द्शिलया मारितो नागः सूतराजसमन्वितः । (१३८।१)
silver => goldśilayā mārito nāgaḥ sūtarājasamanvitaḥ |
तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥ (१३८।३)
tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam ||
लेअद् => गोल्द्शिलया रविदुग्धेन नागपत्राणि लेपयेत् । (१३९।१)
lead => goldśilayā ravidugdhena nāgapatrāṇi lepayet |
सितस्वर्ण => गोल्द्मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् । (१४०।१)
sitasvarṇa => goldmeṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam |
शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥ (१४०।२)
śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape ||
सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् । (१४१।१)
sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet |
एवं त्रिसप्तधा कुर्याद् दिव्यं भवति कांचनम् ॥ (१४१।२)
evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam ||
गगनग्रासःतृणजातीयमूलं तु मातुलिङ्गरसेन च । (१४२।१)
gaganagrāsaḥtṛṇajātīyamūlaṃ tu mātuliṅgarasena ca |
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ (१४२।२)
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt ||
सिद्धैर्गणैः सुरवरै रससिद्धिकामैर् बद्धं हठात्परममन्त्रबलेन तैश्च । (१४३।१)
siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca |
तस्माद् विशिष्टम् अनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥ (१४३।२)
tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca ||
Data courtesy of The Digital Corpus of Sanskrit.