रसरत्नाकरRasaratnākara

RRĀ, 2, 4

15 of 39 · 262 verses

Select a line for its word-by-word analysis.

1.1१.१

सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् । (१।१)

sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam |

1.2१.२

इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥ (१।२)

iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam ||

2.1२.१

मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् । (२।१)

mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam |

2.2२.२

त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥ (२।२)

tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa ||

3.1३.१

त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु । (३।१)

triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu |

3.2३.२

चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ (३।२)

citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet ||

4.1४.१

पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् । (४।१)

palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam |

4.2४.२

क्वाथ्यम् अष्टगुणैस् तोयैर् ग्राह्यमष्टावशेषितम् ॥ (४।२)

kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam ||

5.1५.१

कषायं भावयेत्तेन मासैकं पूर्वलोडितम् । (५।१)

kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam |

5.2५.२

लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ (५।२)

lohapātre khare gharme tatpalārdhaṃ sadā pibet ||

6.1६.१

क्षीरैः शयनकाले तु वर्षान् मृत्युजरापहम् । (६।१)

kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham |

6.2६.२

बालो निबिडसंधिश् च जीवेच् चन्द्रार्कतारकम् ॥ (६।२)

bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam ||

7.1७.१

महारसायनं दिव्यं कामिनीशततोषकम् । (७।१)

mahārasāyanaṃ divyaṃ kāminīśatatoṣakam |

7.2७.२

अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ (७।२)

agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam ||

8.1८.१

भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् । (८।१)

bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet |

8.2८.२

त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ (८।२)

triṃśatpalāni yatnena maricaṃ palapañcakam ||

9.1९.१

चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् । (९।१)

cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet |

9.2९.२

तत्सर्वं पेषयेच् छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ (९।२)

tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet ||

10.1१०.१

जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् । (१०।१)

jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet |

10.2१०.२

शुष्के तोये पुनस्तोयं दद्याद् यावज् जले गतम् ॥ (१०।२)

śuṣke toye punastoyaṃ dadyād yāvaj jale gatam ||

11.1११.१

तदभ्रकं ततो वस्त्रं संत्यजेद् रक्षयेज् जलम् । (११।१)

tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam |

11.2११.२

त्रिंशद्भागं ततः कुर्यात् तज् जलं साभ्रकं सुधीः ॥ (११।२)

triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ ||

12.1१२.१

तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् । (१२।१)

tadbhāgaikena saṃloḍya palaikaṃ śvetataṇḍulāt |

12.2१२.२

त्रिंशत्पले गवां क्षीरे तत् पचेच् चाथ शीतलम् ॥ (१२।२)

triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam ||

13.1१३.१

मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश् च मरीचकैः । (१३।१)

madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ |

13.2१३.२

साधको भक्षयेन् नित्यं मासान् मृत्युजरापहम् ॥ (१३।२)

sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham ||

14.1१४.१

केशा दन्ता नखास्तस्य पतन्ति ह्य् उद्भवन्ति च । (१४।१)

keśā dantā nakhāstasya patanti hy udbhavanti ca |

14.2१४.२

वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ (१४।२)

vajrakāyo bhavetsiddho vāyuvego mahābalaḥ ||

15.1१५.१

अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा । (१५।१)

amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā |

15.2१५.२

मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ (१५।२)

mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ ||

16.1१६.१

कर्षैकं भक्षयेन् नित्यं वर्षान् मृत्युजरापहम् । (१६।१)

karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham |

16.2१६.२

कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥ (१६।२)

koraṇṭakasya pattrāṇi mṛtābhraṃ gandhakaṃ samam ||

17.1१७.१

तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे । (१७।१)

tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape |

17.2१७.२

तत्कर्षैकं पिबेत् क्षीरैरब्दान् मृत्युजरापहम् ॥ (१७।२)

tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham ||

18.1१८.१

मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा । (१८।१)

mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā |

18.2१८.२

समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ (१८।२)

samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam ||

19.1१९.१

एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् । (१९।१)

ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet |

19.2१९.२

वज्रकायः खेचरश्च जीवेद् ब्रह्मदिनत्रयम् ॥ (१९।२)

vajrakāyaḥ khecaraśca jīved brahmadinatrayam ||

20.1२०.१

मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् । (२०।१)

mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam |

20.2२०.२

पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥ (२०।२)

pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet ||

21.1२१.१

सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा । (२१।१)

sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā |

21.2२१.२

हन्ति वर्षाज् जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ (२१।२)

hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam ||

22.1२२.१

अमृतक्रीडे विष्णुसंवरणि स्वाहा । (२२।१)

amṛtakrīḍe viṣṇusaṃvaraṇi svāhā |

22.2२२.२

अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः । (२२।२)

anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ |

22.3२२.३

मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् । (२२।३)

mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam |

22.4२२.४

काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ (२२।४)

kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet ||

23.1२३.१

शाल्मलीमल्लिपत्त्राणां द्रवैर् भाव्यं दिनत्रयम् । (२३।१)

śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam |

23.2२३.२

त्रिदिनं भृङ्गजैर्द्रावैर् भावितं शोषयेत्पुनः ॥ (२३।२)

tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ ||

24.1२४.१

तस्मिन् तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः । (२४।१)

tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ |

24.2२४.२

रुदन्त्य् उत्थद्रवैः क्षीरैर् मध्वाज्याभ्यां पिबेत् सदा ॥ (२४।२)

rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā ||

25.1२५.१

वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः । (२५।१)

varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ |

25.2२५.२

मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ (२५।२)

mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam ||

26.1२६.१

शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके । (२६।१)

śālmalīketakīdrāvairloḍitaṃ kāntapātrake |

26.2२६.२

स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ (२६।२)

sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam ||

27.1२७.१

वत्सरैकाज् जरां हन्ति जीवेद् ब्रह्मदिनत्रयम् । (२७।१)

vatsaraikāj jarāṃ hanti jīved brahmadinatrayam |

27.2२७.२

कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥ (२७।२)

kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca ||

28.1२८.१

त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् । (२८।१)

triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam |

28.2२८.२

लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ (२८।२)

lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ ||

29.1२९.१

कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे । (२९।१)

kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same |

29.2२९.२

शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥ (२९।२)

śoṣayitvā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam ||

30.1३०.१

मध्वाज्याभ्यां लिहेत्कर्षं वर्षान् मृत्युजरापहम् । (३०।१)

madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham |

30.2३०.२

कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ (३०।२)

koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam ||

31.1३१.१

तुल्यं भक्ष्यं पलार्धं तद् वर्षान् मृत्युजरापहम् । (३१।१)

tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham |

31.2३१.२

कान्तभस्म समं गन्धं तैलैर् ज्योतिष्मतीभवैः ॥ (३१।२)

kāntabhasma samaṃ gandhaṃ tailair jyotiṣmatībhavaiḥ ||

32.1३२.१

लिहेन् नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः । (३२।१)

lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ |

32.2३२.२

बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ (३२।२)

bṛhaspatisamo vācā vatsarādbhavati dhruvam ||

33.1३३.१

मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् । (३३।१)

mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam |

33.2३३.२

घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ (३३।२)

gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ ||

34.1३४.१

गोक्षीरैस् तत् पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् । (३४।१)

gokṣīrais tat pibetkarṣaṃ jīvedbrahmadinatrayam |

34.2३४.२

वर्षमात्रान् न संदेहो दिव्यतेजा महाबलः ॥ (३४।२)

varṣamātrān na saṃdeho divyatejā mahābalaḥ ||

35.1३५.१

मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् । (३५।१)

mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet |

35.2३५.२

निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥ (३५।२)

niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam ||

36.1३६.१

त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा । (३६।१)

triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā |

36.2३६.२

पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ (३६।२)

pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām ||

37.1३७.१

वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् । (३७।१)

varṣadvayaprayogeṇa jīvedācandratārakam |

37.2३७.२

सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ (३७।२)

samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā ||

38.1३८.१

रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् । (३८।१)

rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet |

38.2३८.२

वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ (३८।२)

valīpalitanirmukto vatsarānmṛtyujidbhavet ||

39.1३९.१

लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु । (३९।१)

lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu |

39.2३९.२

दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना । (३९।२)

divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā |

39.3३९.३

वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ (३९।३)

varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam ||

40.1४०.१

ॐ हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतम् आज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गं इति गन्धकलोहयोर्भक्षणमन्त्रः । (४०।१)

oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ |

40.2४०.२

सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् । (४०।२)

sarveṣāṃ lohayogānāmanu syātkṣīrapānakam |

40.3४०.३

आस्वादयेत् स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ (४०।३)

āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam ||

41.1४१.१

मूलानि भक्षयेत् तासाम् आस्यवैरस्यशान्तये । (४१।१)

mūlāni bhakṣayet tāsām āsyavairasyaśāntaye |

41.2४१.२

बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥ (४१।२)

baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā ||

42.1४२.१

स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् । (४२।१)

snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet |

42.2४२.२

ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ (४२।२)

tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ ||

43.1४३.१

सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत् पश्चाद् बुभुक्षितः । (४३।१)

samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ |

43.2४३.२

शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥ (४३।२)

śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane ||

44.1४४.१

ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् । (४४।१)

brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam |

44.2४४.२

मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ (४४।२)

madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet ||

45.1४५.१

जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः । (४५।१)

jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ |

45.2४५.२

ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ (४५।२)

brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet ||

46.1४६.१

त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् । (४६।१)

triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam |

46.2४६.२

एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥ (४६।२)

ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam ||

47.1४७.१

कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश । (४७।१)

kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa |

47.2४७.२

भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ (४७।२)

bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane ||

48.1४८.१

एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः । (४८।१)

evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ |

48.2४८.२

तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ (४८।२)

tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam ||

49.1४९.१

ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह । (४९।१)

brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha |

49.2४९.२

पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ (४९।२)

pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet ||

50.1५०.१

पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् । (५०।१)

palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet |

50.2५०.२

वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ (५०।२)

valīpalitanirmukto jīvedbrahmadinatrayam ||

51.1५१.१

ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् । (५१।१)

brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam |

51.2५१.२

तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥ (५१।२)

tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ ||

52.1५२.१

बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः । (५२।१)

bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ |

52.2५२.२

द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ (५२।२)

dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet ||

53.1५३.१

दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् । (५३।१)

dūraśrāvī caturthe tu pañcame khegatirbhavet |

53.2५३.२

मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ (५३।२)

māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ ||

54.1५४.१

महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् । (५४।१)

mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt |

54.2५४.२

ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ (५४।२)

brahmavṛkṣamatisthūlaṃ chedayedūrdhvabhāgataḥ ||

55.1५५.१

अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् । (५५।१)

adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam |

55.2५५.२

पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ (५५।२)

pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca ||

56.1५६.१

कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः । (५६।१)

kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ |

56.2५६.२

आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥ (५६।२)

āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ ||

57.1५७.१

शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः । (५७।१)

śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ |

57.2५७.२

स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ (५७।२)

svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca ||

58.1५८.१

क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् । (५८।१)

kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet |

58.2५८.२

यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥ (५८।२)

yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet ||

59.1५९.१

मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् । (५९।१)

māsadvayena vasudhāṃ chidrāṃ paśyati niścitam |

59.2५९.२

जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ (५९।२)

jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet ||

60.1६०.१

श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह । (६०।१)

śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha |

60.2६०.२

कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ (६०।२)

karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham ||

61.1६१.१

ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः । (६१।१)

brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ |

61.2६१.२

अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ (६१।२)

ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā ||

62.1६२.१

शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् । (६२।१)

śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet |

62.2६२.२

जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ (६२।२)

jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ ||

63.1६३.१

अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः । (६३।१)

anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ |

63.2६३.२

तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ (६३।२)

tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai ||

64.1६४.१

अमृतं कुरु कुरु अमृतमालिन्यै नमः । (६४।१)

amṛtaṃ kuru kuru amṛtamālinyai namaḥ |

64.2६४.२

अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः । (६४।२)

anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ |

64.3६४.३

शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा । (६४।३)

śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā |

64.4६४.४

रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ (६४।४)

revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet ||

65.1६५.१

छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह । (६५।१)

chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha |

65.2६५.२

वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ (६५।२)

varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam ||

66.1६६.१

तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् । (६६।१)

tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet |

66.2६६.२

तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥ (६६।२)

taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam ||

67.1६७.१

ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ॐ ह्रां सः । (६७।१)

oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ |

67.2६७.२

इति औषधभक्षणमन्त्रः । (६७।२)

iti auṣadhabhakṣaṇamantraḥ |

67.3६७.३

छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः । (६७।३)

chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ |

67.4६७.४

मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥ (६७।४)

madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet ||

68.1६८.१

जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः । (६८।१)

jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ |

68.2६८.२

तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥ (६८।२)

taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā ||

69.1६९.१

पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः । (६९।१)

pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ |

69.2६९.२

तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥ (६९।२)

taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam ||

70.1७०.१

चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना । (७०।१)

cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā |

70.2७०.२

वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥ (७०।२)

varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm ||

71.1७१.१

पुनर्नवादेवदाल्योर् नीरैर् नित्यं पिबेन्नरः । (७१।१)

punarnavādevadālyor nīrair nityaṃ pibennaraḥ |

71.2७१.२

देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ (७१।२)

devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā ||

72.1७२.१

पिबेत् स्यात् पूर्ववत् सिद्धिर्वत्सरान्नात्र संशयः । (७२।१)

pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ |

72.2७२.२

देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना । (७२।२)

devadālīṃ ca nirguṇḍīṃ pibetkarṣaṃ śivāmbunā |

72.3७२.३

वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ (७२।३)

varṣaikena jarāṃ hanti jīvedācandratārakam ||

73.1७३.१

ॐ अमृतगण रुद्रगणाम्भः स्वाहा । (७३।१)

oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā |

73.2७३.२

अयं च ग्रहणमन्त्रः । (७३।२)

ayaṃ ca grahaṇamantraḥ |

73.3७३.३

नमो भगवते रुद्राय हुं फट् स्वाहा । (७३।३)

namo bhagavate rudrāya huṃ phaṭ svāhā |

73.4७३.४

अयं साधकस्य शिखाबन्धनमन्त्रः । (७३।४)

ayaṃ sādhakasya śikhābandhanamantraḥ |

73.5७३.५

ॐ चर र र । (७३।५)

oṃ cara ra ra |

73.6७३.६

अयं भक्षणमन्त्रः ॥ (७३।६)

ayaṃ bhakṣaṇamantraḥ ||

74.1७४.१

पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् । (७४।१)

puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam |

74.2७४.२

चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥ (७४।२)

cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet ||

75.1७५.१

मासषट्काज् जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । (७५।१)

māsaṣaṭkāj jarāṃ hanti jīvedbrahmadinatrayam |

75.2७५.२

द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥ (७५।२)

dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam ||

76.1७६.१

एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः । (७६।१)

ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ |

76.2७६.२

मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् । (७६।२)

mṛdvagninā pacettāvadyāvatpiṇḍatvamāgatam |

76.3७६.३

तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ (७६।३)

tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam ||

77.1७७.१

ॐ आं हं वासरमालिने स्वाहा । (७७।१)

oṃ āṃ haṃ vāsaramāline svāhā |

77.2७७.२

अयं भक्षणमन्त्रः । (७७।२)

ayaṃ bhakṣaṇamantraḥ |

77.3७७.३

ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् । (७७।३)

grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam |

77.4७७.४

छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ (७७।४)

chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam ||

78.1७८.१

वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः । (७८।१)

varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ |

78.2७८.२

हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ (७८।२)

hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam ||

79.1७९.१

कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह । (७९।१)

karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha |

79.2७९.२

आरनालैस् ततस् तक्रैर् दधिक्षीराज्यक्षौद्रकैः ॥ (७९।२)

āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ ||

80.1८०.१

प्रत्येकेन क्रमात् सेव्यं मासैकेन जरापहम् । (८०।१)

pratyekena kramāt sevyaṃ māsaikena jarāpaham |

80.2८०.२

जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ (८०।२)

jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ ||

81.1८१.१

ॐ गरविषं दृष्टौ गृह्णामि स्वाहा । (८१।१)

oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā |

81.2८१.२

हस्तिकर्णग्रहणमन्त्रः । (८१।२)

hastikarṇagrahaṇamantraḥ |

81.3८१.३

ॐ अमृतकुटीजातानाम् अमृतं कुरु कुरु स्वाहा । (८१।३)

oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā |

81.4८१.४

अनेन पूजयेत् । (८१।४)

anena pūjayet |

81.5८१.५

ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः । (८१।५)

oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ |

81.6८१.६

भक्षणमन्त्रः ॥ (८१।६)

bhakṣaṇamantraḥ ||

82.1८२.१

रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । (८२।१)

rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet |

82.2८२.२

तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥ (८२।२)

tadardhaṃ musalīcūrṇaṃ musalyardhaṃ phalatrayam ||

83.1८३.१

मूलानां कतकोत्थानां तैलं पातालयन्त्रके । (८३।१)

mūlānāṃ katakotthānāṃ tailaṃ pātālayantrake |

83.2८३.२

ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ (८३।२)

grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ ||

84.1८४.१

नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् । (८४।१)

nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam |

84.2८४.२

एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत् क्रमात् ॥ (८४।२)

etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt ||

85.1८५.१

कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् । (८५।१)

karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet |

85.2८५.२

एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ (८५।२)

evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam ||

86.1८६.१

सिद्धयोगो ह्य् अयं ख्यातो वज्रकायकरो नृणाम् । (८६।१)

siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām |

86.2८६.२

पुष्यार्के ग्राहयेत् प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ (८६।२)

puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam ||

87.1८७.१

छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा । (८७।१)

chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā |

87.2८७.२

अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ (८७।२)

ajāmūtrapalaikena ṣaṇmāsādamaro bhavet ||

88.1८८.१

वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः । (८८।१)

varṣamātraprayogeṇa śivatulyo bhavennaraḥ |

88.2८८.२

तच्चूर्णं क्षीरमध्वाज्यैर् लोडितं स्निग्धभाण्डके ॥ (८८।२)

taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake ||

89.1८९.१

रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् । (८९।१)

ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet |

89.2८९.२

द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ (८९।२)

dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam ||

90.1९०.१

तच्चूर्णार्धपलं चाज्यैर् लिहेत्स्यात्पूर्ववत्फलम् । (९०।१)

taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam |

90.2९०.२

तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ (९०।२)

taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā ||

91.1९१.१

वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । (९१।१)

vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam |

91.2९१.२

वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ (९१।२)

varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam ||

92.1९२.१

निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् । (९२।१)

nirguṇḍīpattrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet |

92.2९२.२

गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ (९२।२)

guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt ||

93.1९३.१

निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः । (९३।१)

niryānti kṛmayastasya mukhanāsākṣikarṇataḥ |

93.2९३.२

राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् । (९३।२)

rājayakṣmādirogāṃśca saptāhena vināśayet |

93.3९३.३

मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ (९३।३)

māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam ||

94.1९४.१

ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः । (९४।१)

oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ |

94.2९४.२

भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा । (९४।२)

bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā |

94.3९४.३

लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥ (९४।३)

lāṅgalī nimbapattrāṇi sahadevī samaṃ samam ||

95.1९५.१

एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः । (९५।१)

eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ |

95.2९५.२

तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ (९५।२)

tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet ||

96.1९६.१

वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् । (९६।१)

vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam |

96.2९६.२

तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ (९६।२)

tailārdhaniṣke tannasye kṛte syātpūrvavatphalam ||

97.1९७.१

कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् । (९७।१)

kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam |

97.2९७.२

यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ (९७।२)

yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet ||

98.1९८.१

पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् । (९८।१)

pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet |

98.2९८.२

ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ (९८।२)

grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet ||

99.1९९.१

नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् । (९९।१)

nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham |

99.2९९.२

निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ (९९।२)

niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam ||

100.1१००.१

काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् । (१००।१)

kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet |

100.2१००.२

वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ (१००।२)

vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam ||

101.1१०१.१

गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी । (१०१।१)

guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī |

101.2१०१.२

विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥ (१०१।२)

vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam ||

102.1१०२.१

खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् । (१०२।१)

khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet |

102.2१०२.२

उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ (१०२।२)

uktaṃ gorakṣanāthena jīvedbrahmadinatrayam ||

103.1१०३.१

कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः । (१०३।१)

kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ |

103.2१०३.२

आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ (१०३।२)

āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim ||

104.1१०४.१

दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् । (१०४।१)

dattvāghoraṃ japettatra yāvadaṣṭasahasrakam |

104.2१०४.२

तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ (१०४।२)

tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet ||

105.1१०५.१

मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि । (१०५।१)

madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi |

105.2१०५.२

वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ (१०५।२)

valīpalitanirmukto jīvedbrahmadinaṃ naraḥ ||

106.1१०६.१

तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् । (१०६।१)

tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet |

106.2१०६.२

पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ (१०६।२)

puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham ||

107.1१०७.१

फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् । (१०७।१)

phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet |

107.2१०७.२

फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ (१०७।२)

phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ ||

108.1१०८.१

चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः । (१०८।१)

caturmāsaprayogeṇa vajrakāyo bhavennaraḥ |

108.2१०८.२

जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ (१०८।२)

jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ ||

109.1१०९.१

तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । (१०९।१)

tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |

109.2१०९.२

काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ (१०९।२)

kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā ||

110.1११०.१

समूला देवदाली च निम्बवाकुचीबीजकम् । (११०।१)

samūlā devadālī ca nimbavākucībījakam |

110.2११०.२

फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ (११०।२)

phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ ||

111.1१११.१

नीलकोरण्टपत्त्राणि त्रिफला च समं समम् । (१११।१)

nīlakoraṇṭapattrāṇi triphalā ca samaṃ samam |

111.2१११.२

चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ (१११।२)

cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram ||

112.1११२.१

छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् । (११२।१)

chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam |

112.2११२.२

भक्षेत् कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् । (११२।२)

bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet |

112.3११२.३

जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ (११२।३)

jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ ||

113.1११३.१

ॐ ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः । (११३।१)

oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ |

113.2११३.२

त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका । (११३।२)

triphalā vākucībījaṃ pippalī cāśvagandhikā |

113.3११३.३

सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । (११३।३)

sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam |

113.4११३.४

वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ (११३।४)

varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam ||

114.1११४.१

ॐ ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् । (११४।१)

oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet |

114.2११४.२

मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् । (११४।२)

mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam |

114.3११४.३

प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् । (११४।३)

pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet |

114.4११४.४

रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ (११४।४)

rasendrasya prabhāveṇa śīghraṃ siddhimavāpnuyāt ||

115.1११५.१

अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः । (११५।१)

asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ |

115.2११५.२

जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ (११५।२)

japenmahābhayaṃ hanti siddhiṃ datte rasāyanam ||

116.1११६.१

तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् । (११६।१)

tena bhakṣitamātreṇa jīvedācandratārakam |

116.2११६.२

अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ (११६।२)

ajeyo devadaityānāṃ parvatānapi cālayet ||

117.1११७.१

ॐ ह्रीं महाभयेरुम् । (११७।१)

oṃ hrīṃ mahābhayerum |

117.2११७.२

प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर् ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा । (११७।२)

prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā |

117.3११७.३

सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद् ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद् विवर्ज्यम् ॥ (११७।३)

sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 2, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit