रसरत्नाकरRasaratnākara

RRĀ, 3, 13

32 of 39 · 214 verses

Select a line for its word-by-word analysis.

1.1१.१

दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् । (१।१)

dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam |

1.2१.२

सत्त्वपातनम् अनेकयोगतो द्वंद्वमेलम् अभिषेकम् आर्यकम् ॥ (१।२)

sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam ||

2.1२.१

अभ्र:: शोधनमुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् । (२।१)

abhra:: śodhanamustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam |

2.2२.२

शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥ (२।२)

śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ ||

3.1३.१

पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् । (३।१)

peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam |

3.2३.२

इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥ (३।२)

itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet ||

4.0४.०

दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥ (४।०)

dinaikaṃ mardayetkhalve yuktamamlena kenacit ||

5.1५.१

कान्तलोह, माक्षिक, उपरस:: सत्त्व:: पातनगुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् । (५।१)

kāntaloha, mākṣika, uparasa:: sattva:: pātanaguñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam |

5.2५.२

क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥ (५।२)

kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam ||

6.1६.१

भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा । (६।१)

bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā |

6.2६.२

धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥ (६।२)

dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam ||

7.1७.१

गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु । (७।१)

gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu |

7.2७.२

षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ (७।२)

ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca ||

8.1८.१

पारावतमलं त्र्यूषम् इंद्रगोपं च शिग्रुकम् । (८।१)

pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam |

8.2८.२

गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ (८।२)

godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet ||

9.1९.१

एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् । (९।१)

etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam |

9.2९.२

अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥ (९।२)

asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam ||

10.1१०.१

पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् । (१०।१)

pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet |

10.2१०.२

कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥ (१०।२)

karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ ||

11.1११.१

खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन् क्षिपन् । (११।१)

khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan |

11.2११.२

वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥ (११।२)

vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman ||

12.1१२.१

समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् । (१२।१)

samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam |

12.2१२.२

वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥ (१२।२)

vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet ||

13.1१३.१

चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् । (१३।१)

cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam |

13.2१३.२

एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥ (१३।२)

ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet ||

14.1१४.१

इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति । (१४।१)

ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati |

14.2१४.२

अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥ (१४।२)

anena kramayogena kāntasattvaṃ ca mākṣikam ||

15.1१५.१

कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका । (१५।१)

kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā |

15.2१५.२

मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक् पृथक् ॥ (१५।२)

muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak ||

16.1१६.१

अभ्र:: सत्त्व:: मृदूकरणअभ्रसत्त्वं समादाय समांशं काचटंकणम् । (१६।१)

abhra:: sattva:: mṛdūkaraṇaabhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam |

16.2१६.२

दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥ (१६।२)

dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet ||

17.1१७.१

अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् । (१७।१)

amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam |

17.2१७.२

कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥ (१७।२)

kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet ||

18.0१८.०

मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥ (१८।०)

mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet ||

19.1१९.१

अभ्र:: सत्त्व:: पातनधान्याभ्रं दशभागं स्यात् शुद्धनागं त्रिभागकम् । (१९।१)

abhra:: sattva:: pātanadhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam |

19.2१९.२

टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥ (१९।२)

ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam ||

20.1२०.१

ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् । (२०।१)

ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet |

20.2२०.२

मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥ (२०।२)

mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi ||

21.1२१.१

अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् । (२१।१)

ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam |

21.2२१.२

कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥ (२१।२)

kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ ||

22.1२२.१

माक्षिक:: सत्त्वम्:: पातनदोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् । (२२।१)

mākṣika:: sattvam:: pātanadolāyaṃtre sāranāle mākṣikaṃ svedayeddinam |

22.2२२.२

चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥ (२२।२)

cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet ||

23.1२३.१

आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि । (२३।१)

ādāya bhāvayed gharme vajrīkṣīrairdināvadhi |

23.2२३.२

गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥ (२३।२)

gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam ||

24.0२४.०

अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥ (२४।०)

aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet ||

25.1२५.१

माक्षिक:: सत्त्व:: पातनकदलीकंदतोयेन माक्षिकं शतधातपे । (२५।१)

mākṣika:: sattva:: pātanakadalīkaṃdatoyena mākṣikaṃ śatadhātape |

25.2२५.२

भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः । (२५।२)

bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ |

25.3२५.३

पूर्ववद्धमनात्सत्त्वम् इंद्रगोपनिभं भवेत् ॥ (२५।३)

pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet ||

26.1२६.१

माक्षिक:: सत्त्वम्:: पातनस्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् । (२६।१)

mākṣika:: sattvam:: pātanasnuhyarkapayasā stanyairmākṣikaṃ mardayeddinam |

26.2२६.२

कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥ (२६।२)

kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam ||

27.0२७.०

मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥ (२७।०)

mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet ||

28.1२८.१

माक्षिक:: सत्त्व:: पातनकदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् । (२८।१)

mākṣika:: sattva:: pātanakadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt |

28.2२८.२

भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा । (२८।२)

bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā |

28.3२८.३

रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥ (२८।३)

ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham ||

29.1२९.१

माक्षिक:: सत्त्व:: पातनमूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् । (२९।१)

mākṣika:: sattva:: pātanamūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet |

29.2२९.२

माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥ (२९।२)

mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet ||

30.1३०.१

मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद् दृढम् । (३०।१)

mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham |

30.2३०.२

व्योमवद् वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥ (३०।२)

vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet ||

31.1३१.१

माक्षिक:: सत्त्व:: पातनस्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः । (३१।१)

mākṣika:: sattva:: pātanastanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ |

31.2३१.२

मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ (३१।२)

mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam ||

32.1३२.१

भावितं मर्दयेद्यामं दिनं वातारितैलकैः । (३२।१)

bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ |

32.2३२.२

मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् । (३२।२)

mṛdvagninā pacedyāmaṃ yāvadbhavati golakam |

32.3३२.३

सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद् भवेत् ॥ (३२।३)

sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet ||

33.0३३.०

विमल:: सत्त्व:: पातनविमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥ (३३।०)

vimala:: sattva:: pātanavimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ ||

34.1३४.१

माक्षिक:: सत्त्व:: धौतसत्त्वसुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् । (३४।१)

mākṣika:: sattva:: dhautasattvasuśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit |

34.2३४.२

क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥ (३४।२)

kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat ||

35.1३५.१

जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् । (३५।१)

jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet |

35.2३५.२

योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥ (३५।२)

yojayedvāpane caiva bījānāṃ yatra yatra vai ||

36.1३६.१

माक्षिक:: सत्त्व:: पातनमाक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् । (३६।१)

mākṣika:: sattva:: pātanamākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam |

36.2३६.२

पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥ (३६।२)

pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet ||

37.1३७.१

मनःशिला:: सत्त्व:: पातनअगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला । (३७।१)

manaḥśilā:: sattva:: pātanaagastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā |

37.2३७.२

तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् । (३७।२)

tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet |

37.3३७.३

मनःशिला:: सत्त्व:: पातनगोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला । (३७।३)

manaḥśilā:: sattva:: pātanagomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā |

37.4३७.४

तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ (३७।४)

tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet ||

38.1३८.१

दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् । (३८।१)

dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam |

38.2३८.२

गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् । (३८।२)

guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām |

38.3३८.३

सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥ (३८।३)

sarvato'ṅgulamānena vastramṛttikayā limpet ||

39.1३९.१

शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् । (३९।१)

śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet |

39.2३९.२

शुष्के द्रवे निरुध्याथ सम्यक् मृल्लवणैर्मुखम् ॥ (३९।२)

śuṣke drave nirudhyātha samyak mṛllavaṇairmukham ||

40.1४०.१

चण्डाग्निना पचेत्तावद्यावद् द्वादशयामकम् । (४०।१)

caṇḍāgninā pacettāvadyāvad dvādaśayāmakam |

40.2४०.२

स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ (४०।२)

svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet ||

41.0४१.०

ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥ (४१।०)

ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam ||

42.1४२.१

हरिताल:: सत्त्व:: पातनभागाः षोडश तालस्य विषं पारदटंकणम् । (४२।१)

haritāla:: sattva:: pātanabhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam |

42.2४२.२

श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥ (४२।२)

śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet ||

43.1४३.१

सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् । (४३।१)

sarvaṃ snuhyarkapayasā mardayeddivasatrayam |

43.2४३.२

शिलावद् ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ (४३।२)

śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam ||

44.0४४.०

हरिताल:: सत्त्व:: पातनस्नुक्क्षीरकटुतुम्ब्युत्थैस् तालं भाव्यं द्विसप्तधा ॥ (४४।०)

haritāla:: sattva:: pātanasnukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā ||

45.1४५.१

तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् । (४५।१)

tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam |

45.2४५.२

एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥ (४५।२)

ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet ||

46.0४६.०

छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥ (४६।०)

chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet ||

47.1४७.१

हरिताल:: सत्त्व:: पातनलाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः । (४७।१)

haritāla:: sattva:: pātanalākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ |

47.2४७.२

एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥ (४७।२)

ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ ||

48.1४८.१

दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा । (४८।१)

dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā |

48.2४८.२

तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥ (४८।२)

tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet ||

49.0४९.०

पुटाद्वा धमनाद् ग्राह्यं सत्त्वं पातालयन्त्रके ॥ (४९।०)

puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake ||

50.1५०.१

हरिताल:: सत्त्व:: पातनतालकादष्टमांशेन देयं सूतं च टंकणम् । (५०।१)

haritāla:: sattva:: pātanatālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam |

50.2५०.२

कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् । (५०।२)

kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam |

50.3५०.३

तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥ (५०।३)

tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat ||

51.1५१.१

तुत्थ:: सत्त्व:: पातनलाक्षाभया च भूनागं गृहधूमं जटाकणा । (५१।१)

tuttha:: sattva:: pātanalākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā |

51.2५१.२

निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥ (५१।२)

niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam ||

52.1५२.१

सर्वं मर्द्यमजाक्षीरैर् अन्धमूषागतं धमेत् । (५२।१)

sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet |

52.2५२.२

सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥ (५२।२)

sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ ||

53.1५३.१

तुत्थ:: सत्त्व:: पातनहरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् । (५३।१)

tuttha:: sattva:: pātanaharidrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam |

53.2५३.२

मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥ (५३।२)

madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet ||

54.1५४.१

स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् । (५४।१)

stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet |

54.2५४.२

रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥ (५४।२)

ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati ||

55.1५५.१

तुत्थ:: सत्त्व:: पातनतुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा । (५५।१)

tuttha:: sattva:: pātanatutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā |

55.2५५.२

तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना । (५५।२)

tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā |

55.3५५.३

धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥ (५५।३)

dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham ||

56.1५६.१

वरनागसत्त्वसौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत् समम् । (५६।१)

varanāgasattvasauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam |

56.2५६.२

हठाद् ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥ (५६।२)

haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate ||

57.1५७.१

रसक:: सत्त्व:: पातनक्षाराम्लं स्नेहपित्तैश्च क्रमाद् भाव्यं दिनं दिनम् । (५७।१)

rasaka:: sattva:: pātanakṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam |

57.2५७.२

पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥ (५७।२)

puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam ||

58.1५८.१

रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया । (५८।१)

rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā |

58.2५८.२

टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥ (५८।२)

ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet ||

59.1५९.१

एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् । (५९।१)

ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet |

59.2५९.२

याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ (५९।२)

yāmametena kalkena lepyā vārtākamūṣikā ||

60.0६०.०

शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥ (६०।०)

śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet ||

61.1६१.१

रसक:: सत्त्व:: पातनरसकस्यैकभागं तु त्रिफलामित्रपंचकम् । (६१।१)

rasaka:: sattva:: pātanarasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam |

61.2६१.२

रजनीगृहधूमं च दशानामेकभागकम् ॥ (६१।२)

rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam ||

62.1६२.१

अजाक्षीरैर्दिनं मर्द्यम् अथवाम्लेन केनचित् । (६२।१)

ajākṣīrairdinaṃ mardyam athavāmlena kenacit |

62.2६२.२

पूर्ववद् ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥ (६२।२)

pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham ||

63.1६३.१

वैक्रान्त:: सत्त्व:: पातनवन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् । (६३।१)

vaikrānta:: sattva:: pātanavandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam |

63.2६३.२

अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद् भवेत् ॥ (६३।२)

ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet ||

64.1६४.१

वैक्रान्त:: सत्त्व:: पातनमोक्षमोरटपालाशक्षारं गोमूत्रगालितम् । (६४।१)

vaikrānta:: sattva:: pātanamokṣamoraṭapālāśakṣāraṃ gomūtragālitam |

64.2६४.२

गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥ (६४।२)

gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam ||

65.1६५.१

लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् । (६५।१)

lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam |

65.2६५.२

मेषशृंगीद्रवैर् मर्द्यम् एतत्सर्वं दिनावधि ॥ (६५।२)

meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi ||

66.1६६.१

पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना । (६६।१)

piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā |

66.2६६.२

तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥ (६६।२)

tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam ||

67.1६७.१

वैक्रान्त:: सत्त्व:: पातनवैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च । (६७।१)

vaikrānta:: sattva:: pātanavaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca |

67.2६७.२

रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥ (६७।२)

ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam ||

68.1६८.१

गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् । (६८।१)

guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet |

68.2६८.२

एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद् दृढम् ॥ (६८।२)

etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham ||

69.0६९.०

शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥ (६९।०)

śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet ||

70.1७०.१

वैक्रान्त:: सत्त्व:: पातनवैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् । (७०।१)

vaikrānta:: sattva:: pātanavaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam |

70.2७०.२

महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् । (७०।२)

mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam |

70.3७०.३

पूर्ववद्धमनात् सत्त्वम् इंद्रगोपनिभं भवेत् ॥ (७०।३)

pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet ||

71.1७१.१

गैरिक:: सत्त्व:: पातनगैरिकं रक्तवर्गेण पीतवर्गेण भावितम् । (७१।१)

gairika:: sattva:: pātanagairikaṃ raktavargeṇa pītavargeṇa bhāvitam |

71.2७१.२

सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् । (७१।२)

saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam |

71.3७१.३

तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥ (७१।३)

tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam ||

72.1७२.१

सौराष्ट्री:: सत्त्वपातनसितासिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् । (७२।१)

saurāṣṭrī:: sattvapātanasitāsitā ca saurāṣṭrī gopittairbhāvayettu tām |

72.2७२.२

शतवारं प्रयत्नेन मित्रपंचकसंयुतम् । (७२।२)

śatavāraṃ prayatnena mitrapaṃcakasaṃyutam |

72.3७२.३

धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥ (७२।३)

dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake ||

73.1७३.१

सस्यक:: सत्त्व:: पातनसस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः । (७३।१)

sasyaka:: sattva:: pātanasasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ |

73.2७३.२

स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् । (७३।२)

strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet |

73.3७३.३

मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥ (७३।३)

mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat ||

74.1७४.१

अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना । (७४।१)

aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā |

74.2७४.२

इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ (७४।२)

iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam ||

75.1७५.१

कासीस:: सत्त्व:: पातनचतुर्विधं तु कासीसं रक्तं पीतं सितासितम् । (७५।१)

kāsīsa:: sattva:: pātanacaturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam |

75.2७५.२

मर्दयेत् पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥ (७५।२)

mardayet pittavargeṇa tiktakośātakīdravaiḥ ||

76.1७६.१

कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः । (७६।१)

kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ |

76.2७६.२

तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥ (७६।२)

tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati ||

77.1७७.१

राजावर्त:: सत्त्व:: पातनराजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः । (७७।१)

rājāvarta:: sattva:: pātanarājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ |

77.2७७.२

पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥ (७७।२)

payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam ||

78.1७८.१

रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् । (७८।१)

rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet |

78.2७८.२

खदिरांगारसंयोगात् कोष्ठ्यां सत्त्वं विमुञ्चति ॥ (७८।२)

khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati ||

79.1७९.१

स्रोतोञ्जन:: परीक्षावल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । (७९।१)

srotoñjana:: parīkṣāvalmīkaśikharākāraṃ bhaṅge nīlotpaladyuti |

79.2७९.२

घर्षणे गैरिकच्छायं स्रोत्ॐजनमिदं भवेत् ॥ (७९।२)

gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet ||

80.0८०.०

स्रोतोञ्जन:: सत्त्व:: पातनराजावर्तकवत्सत्त्वं ग्राह्यं स्रोत्ॐजनादपि ॥ (८०।०)

srotoñjana:: sattva:: pātanarājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi ||

81.1८१.१

द्वन्द्वम्। ओड़् व्योमसत्त्व अन्द् मिनेरल्स्व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् । (८१।१)

dvandvam. of vyomasattva and mineralsvyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam |

81.2८१.२

द्वन्द्वमेलापलिप्तायां मूषायां तद् द्वयं समम् ॥ (८१।२)

dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam ||

82.0८२.०

ध्मातव्यम् अरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥ (८२।०)

dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam ||

83.1८३.१

सत्त्व:: मेलापनविषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् । (८३।१)

sattva:: melāpanaviṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam |

83.2८३.२

मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥ (८३।२)

maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet ||

84.1८४.१

तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च । (८४।१)

tasyāṃ milati sattvāni cūrṇāni vividhāni ca |

84.2८४.२

द्वन्द्वमेल्।:: लेप ड़ोर् ~त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् । (८४।२)

dvandvamel.:: lepa for ~trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam |

84.3८४.३

स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥ (८४।३)

strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ ||

85.1८५.१

सर्वसत्त्वमेलापन (२)वर्षाभूः कदलीकंदः काकमाची पुनर्नवा । (८५।१)

sarvasattvamelāpana (2)varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā |

85.2८५.२

गुंजा नरकपालं च टंकणं पेषयेत्समम् । (८५।२)

guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam |

85.3८५.३

अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥ (८५।३)

anena pūrvavallepāddhemābhraṃ milati kṣaṇāt ||

86.1८६.१

मेलापन:: मेतल्स्, सत्त्व अन्द्।ओर् महारसस्तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् । (८६।१)

melāpana:: metals, sattva and|or mahārasastāraṃ ca vyomasattvaṃ ca anenaiva tu melayet |

86.2८६.२

लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥ (८६।२)

lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam ||

87.1८७.१

भूलताम् इंद्रगोपं च पाषाणभेदिका समम् । (८७।१)

bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam |

87.2८७.२

नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥ (८७।२)

nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet ||

88.1८८.१

सर्वलोहानि सत्त्वानि तथा चैव महारसाः । (८८।१)

sarvalohāni sattvāni tathā caiva mahārasāḥ |

88.2८८.२

मिलन्ति नात्र संदेहस् तीव्रध्मानानलेन तु ॥ (८८।२)

milanti nātra saṃdehas tīvradhmānānalena tu ||

89.1८९.१

द्वन्द्वमेलापकविषं छुछुन्दरीमांसं टंकणं समपेषितम् । (८९।१)

dvandvamelāpakaviṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam |

89.2८९.२

मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् । (८९।२)

mūṣālepamanenaiva kṛtvā tatra vinikṣipet |

89.3८९.३

यत्किंचिद् द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥ (८९।३)

yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam ||

90.1९०.१

द्वन्द्वमेलापककङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् । (९०।१)

dvandvamelāpakakaṅguṇītailasampiṣṭamapāmārgasya bhasmakam |

90.2९०.२

तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् । (९०।२)

tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt |

90.3९०.३

मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥ (९०।३)

milatyeva na saṃdehastattanmārakavāpanāt ||

91.1९१.१

अभ्र:: प्रोदुच्तिओन् ओड़् अभ्र-मेतल्-चोम्पोउन्द्स्हेमाभ्रं नागताप्याभ्यां शुल्बाभ्रं गंधकेन च । (९१।१)

abhra:: production of abhra-metal-compoundshemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca |

91.2९१.२

सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद् दृढम् ॥ (९१।२)

sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham ||

92.1९२.१

नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च । (९२।१)

nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca |

92.2९२.२

ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥ (९२।२)

tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam ||

93.1९३.१

अभ्र:: वङ्गाभ्रमिलत्येव न संदेहः पूर्वमूषागतं क्षणात् । (९३।१)

abhra:: vaṅgābhramilatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt |

93.2९३.२

श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥ (९३।२)

śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam ||

94.1९४.१

कदलीकंदतोयेन मर्दयेट्टंकणैः सह । (९४।१)

kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha |

94.2९४.२

अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ (९४।२)

aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt ||

95.1९५.१

अभ्र:: वङ्गाभ्रगुंजा नरकपालं च टंकणं वनशिग्रुकम् । (९५।१)

abhra:: vaṅgābhraguṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam |

95.2९५.२

स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥ (९५।२)

strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet ||

96.1९६.१

बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् । (९६।१)

baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet |

96.2९६.२

रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥ (९६।२)

ruddhvā dhmāte milatyeva tārakarmaṇi jārayet ||

97.1९७.१

अभ्र:: वङ्गाभ्रअभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् । (९७।१)

abhra:: vaṅgābhraabhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam |

97.2९७.२

पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥ (९७।२)

pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam ||

98.1९८.१

पिष्ट्वा तद् गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः । (९८।१)

piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ |

98.2९८.२

पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ (९८।२)

pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt ||

99.1९९.१

अभिषेक (१)सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् । (९९।१)

abhiṣeka (1)samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet |

99.2९९.२

पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥ (९९।२)

palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam ||

100.1१००.१

अनेन कांजिकेनैव शतवारं विभावयेत् । (१००।१)

anena kāṃjikenaiva śatavāraṃ vibhāvayet |

100.2१००.२

यत्किंचिच् चारणावस्तु ततस्तं जारयेद्रसे । (१००।२)

yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase |

100.3१००.३

अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥ (१००।३)

abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram ||

101.1१०१.१

अभिषेक (२)त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् । (१०१।१)

abhiṣeka (2)trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam |

101.2१०१.२

माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ (१०१।२)

māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam ||

102.1१०२.१

स्थितं घर्मे पुनस्तस्मिन् द्रुतं नागं विनिक्षिपेत् । (१०२।१)

sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet |

102.2१०२.२

तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥ (१०२।२)

tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet ||

103.1१०३.१

तद्द्रवं ताम्रपात्रस्थम् अभिषेकं विदुर् बुधाः । (१०३।१)

taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ |

103.2१०३.२

अनेन चारणावस्तु शतवाराणि भावयेत् ॥ (१०३।२)

anena cāraṇāvastu śatavārāṇi bhāvayet ||

104.1१०४.१

सारणायां संकेतःद्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च । (१०४।१)

sāraṇāyāṃ saṃketaḥdvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca |

104.2१०४.२

द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥ (१०४।२)

dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā ||

105.1१०५.१

स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् । (१०५।१)

svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam |

105.2१०५.२

तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥ (१०५।२)

taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 13

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit