RRĀ, 3, 6
Select a line for its word-by-word analysis.
नानारक्तसुपीतपुष्पनिचयाद् आदाय सारं निजम् । (१।१)
nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam |
तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् । (१।२)
tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam |
पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् । (१।३)
paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat |
तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥ (१।४)
tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam ||
मेर्चुर्य्:: रक्तपारद:: प्रोदुच्तिओन्स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता । (२।१)
mercury:: raktapārada:: productionstambhitā gandhapiṣṭī yā gandhajāraṇavarjitā |
देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् । (३।१)
devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam |
पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥ (३।२)
pacetkacchapayantrasthaṃ puṭaikena samuddharet ||
यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् । (४।१)
yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet |
एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥ (४।२)
evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ ||
पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥ (५।२)
punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati ||
अधोयन्त्रे यदा तिष्ठेत्तदा स्याद् रक्तपारदः । (६।१)
adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ |
लेअद् => गोल्द्रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥ (६।२)
lead => goldraktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam ||
टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि । (७।१)
ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi |
वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥ (७।२)
vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet ||
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश । (८।१)
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa |
लेअद् => गोल्द्शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥ (९।२)
lead => goldśākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ ||
मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् । (१०।१)
mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet |
सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥ (१०।२)
samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ ||
चत्वारिंशत्पुटैः सिद्धं दिव्यं भवति काञ्चनम् । (११।१)
catvāriṃśatpuṭaiḥ siddhaṃ divyaṃ bhavati kāñcanam |
लेअद् => गोल्द्रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥ (११।२)
lead => goldrasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam ||
पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् । (१२।१)
pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam |
मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥ (१२।२)
marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet ||
तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया । (१३।१)
tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā |
सेचयेद् उद्धरेत् पश्चात् प्रकटं द्रावयेत्पुनः । (१४।१)
secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ |
शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥ (१४।२)
śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet ||
इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् । (१५।१)
ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet |
लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ (१५।२)
lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat ||
इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥ (१६।२)
ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam ||
लेअद् => गोल्द्दग्धं तु चुन्नपाषाणम् आरनाले विनिक्षिपेत् ॥ (१७।२)
lead => golddagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet ||
मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः । (१८।१)
mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ |
तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥ (१८।२)
tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān ||
यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥ (१९।२)
yāmānte śoṣayedgharme punarmardya ca śoṣayet ||
इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः । (२०।१)
ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ |
शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥ (२०।२)
śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet ||
मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् । (२१।१)
mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet |
समुद्धृत्य भवेत् पीतं स्तम्भनं चास्य कथ्यते ॥ (२१।२)
samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate ||
लेअद् => गोल्द्गोमूत्रैः क्षालयेद् आदौ भूनागाञ्जीवसंयुतान् । (२२।१)
lead => goldgomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān |
सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥ (२२।२)
sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet ||
दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् । (२३।१)
dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet |
तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥ (२३।२)
tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ ||
द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥ (२४।२)
drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam ||
लेअद् => गोल्द्शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥ (२५।२)
lead => goldśuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam ||
यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥ (२६।२)
yathālābhena taddrāvairdinamekaṃ vimardayet ||
अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् । (२७।१)
aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet |
पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ (२७।२)
pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā ||
चोप्पेर् => गोल्द्शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥ (२८।२)
copper => goldśuddhanāgapalaikena mūṣā kāryā suvartulā ||
पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् । (२९।१)
palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam |
तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥ (२९।२)
tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare ||
कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥ (३०।२)
kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ ||
मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन् न गच्छति ॥ (३१।२)
mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati ||
पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् । (३२।१)
piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam |
तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥ (३२।२)
tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet ||
पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् । (३३।१)
pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam |
भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥ (३३।२)
bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam ||
स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् । (३५।१)
svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet |
लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥ (३५।२)
lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet ||
एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् । (३६।१)
evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam |
सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥ (३६।२)
sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam ||
पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् । (३७।१)
palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak |
काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥ (३७।२)
kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet ||
रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः । (३८।१)
rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ |
टङ्कणं रसकं तालं क्रमाद् दद्यात् पुनस्त्रयम् ॥ (३८।२)
ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam ||
काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् । (३९।१)
kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet |
कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् । (४०।१)
kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam |
तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥ (४०।२)
tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam ||
दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः । (४१।१)
dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ |
स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥ (४१।२)
svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet ||
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् । (४२।१)
catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet |
स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥ (४२।२)
svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ ||
चन्द्रार्क => गोल्द्पलानि दश गन्धस्य सूतकस्यैकविंशतिः । (४३।१)
candrārka => goldpalāni daśa gandhasya sūtakasyaikaviṃśatiḥ |
सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना । (४४।१)
sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā |
स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् । (४५।१)
sa sūto jāyate khoṭaścandrārke drāvite kṣipet |
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ (४५।२)
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam ||
चोप्पेर् => गोल्द्पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् । (४६।१)
copper => goldpāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam |
मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ (४६।२)
marditaṃ tena tāmrasya patralepaṃ tu kārayet ||
आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः । (४७।१)
āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ |
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ (४७।२)
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret ||
तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् । (४८।१)
taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet |
इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ (४८।२)
ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam ||
चोप्पेर् => गोल्द्पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् । (४९।१)
copper => goldpītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham |
भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ (४९।२)
bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet ||
शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः । (५०।१)
śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ |
शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥ (५०।२)
śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ ||
पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् । (५१।१)
pūrvatāmrasya patrāṇi kalkenānena lepayet |
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥ (५१।२)
ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte ||
तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् । (५२।१)
tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham |
चोप्पेर् => गोल्द्काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥ (५२।२)
copper => goldkāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā ||
टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस् त्र्यहम् । (५३।१)
ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham |
मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥ (५३।२)
marditaṃ lepayettena tāmrapātraṃ suśodhitam ||
शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् । (५४।१)
śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet |
पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥ (५४।२)
punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ ||
ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् । (५५।१)
tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham |
चोप्पेर्, सिल्वेर् => गोल्द्तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥ (५५।२)
copper, silver => goldtālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam ||
खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् । (५६।१)
khalve kṛtvā tridinamathitaṃ kākamācyā dravet |
तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥ (५६।२)
tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam ||
शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् । (५७।१)
śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām |
चोप्पेर् => गोल्द्ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥ (५७।२)
copper => goldjvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam ||
दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् । (५८।१)
dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam |
ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥ (५८।२)
tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā ||
सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् । (५९।१)
sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam |
तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ (५९।२)
tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet ||
तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् । (६०।१)
tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam |
अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥ (६०।२)
aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ ||
द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके । (६१।१)
drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake |
ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥ (६१।२)
ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā ||
चोप्पेर् => गोल्द्गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥ (६२।२)
copper => goldgandhakaṃ śvetapālāśaphaladrāvairvibhāvayet ||
शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः । (६३।१)
śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ |
सम्यक् शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् । (६४।१)
samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet |
समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥ (६४।२)
samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet ||
पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत् क्रमात् । (६५।१)
punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt |
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ (६५।२)
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam ||
सिल्वेर्, चोप्पेर् => अष्टवर्ण गोल्द्भागा द्वादश तारस्य शुल्वस्य भागषोडश । (६६।१)
silver, copper => aṣṭavarṇa goldbhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa |
आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ (६६।२)
āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet ||
रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥ (६७।२)
rasagandhaśilā bhāgānkramavṛddhyā vimardayet ||
लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥ (६८।२)
liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet ||
पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् । (६९।१)
punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet |
अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥ (६९।२)
aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā ||
मेर्चुर्य् => गोल्दौषधी करुणी नाम प्रावृट्काले प्रजायते । (७०।१)
mercury => goldauṣadhī karuṇī nāma prāvṛṭkāle prajāyate |
नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥ (७०।२)
nīlapuṣpā śvetapatrā picchilātirasā tu sā ||
तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् । (७१।१)
taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet |
मेर्चुर्य्, लेअद्, गोल्द् => गोल्द्पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस् त्र्यहम् ॥ (७२।२)
mercury, lead, gold => goldpalaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham ||
मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च । (७३।१)
marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca |
दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥ (७३।२)
dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet ||
एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः । (७४।१)
evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ |
तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर् वेष्टयेत् क्रमात् ॥ (७४।२)
tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt ||
समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् । (७५।१)
samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam |
चक्रयन्त्रगर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥ (७५।२)
cakrayantragartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ ||
चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः । (७६।१)
cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ |
चोप्पेर् => गोल्द्माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् । (७६।२)
copper => goldmākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam |
मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद् दिनम् ॥ (७६।३)
mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam ||
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् । (७७।१)
yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet |
सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥ (७७।२)
sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam ||
पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् । (७८।१)
punarmṛtkharpare pacyādgokṣīreṇa samāyutam |
शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् । (७९।१)
śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet |
ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥ (७९।२)
tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā ||
इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् । (८०।१)
ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat |
मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥ (८०।२)
munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā ||
अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् । (८१।१)
anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet |
अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥ (८१।२)
andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet ||
इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् । (८२।१)
ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam |
तारारिष्ट => गोल्दनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥ (८२।२)
tārāriṣṭa => goldanenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet ||
सुल्ड़ुर्:: पिष्टीशुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥ (८३।२)
sulfur:: piṣṭīśuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca ||
स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् । (८४।१)
snigdhakhalve vinikṣipya devadālīrasaplutam |
मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥ (८४।२)
mardayettu karāṅgulyā jāyate gandhapiṣṭikā ||
मेर्चुर्य् (खोट), चन्द्रार्क => गोल्द्धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् । (८५।१)
mercury (khoṭa), candrārka => golddhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam |
कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥ (८५।२)
kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet ||
एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् । (८६।१)
etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam |
ब्रह्ममूलं गुडं गुञ्जाम् ऊर्णा टङ्कणकं समम् । (८७।१)
brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam |
पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥ (८७।२)
piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet ||
रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः । (८८।१)
ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ |
पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥ (८८।२)
pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet ||
एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् । (८९।१)
evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam |
ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥ (८९।२)
tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ ||
कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत् क्रमात् ॥ (९०।२)
kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt ||
मूषायां धाम्यमानं तच्छतवारं पुनः पुनः । (९१।१)
mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ |
दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥ (९१।२)
dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam ||
सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् । (९२।१)
sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet |
मेर्चुर्य् (खोट), लेअद् => गोल्द्स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥ (९२।२)
mercury (khoṭa), lead => goldstambhitā gandhapiṣṭī yā gandhajāraṇavarjitā ||
पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् । (९३।१)
palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam |
ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥ (९३।२)
brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam ||
ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् । (९४।१)
ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet |
छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥ (९४।२)
chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet ||
तं खाठं शोधयेत्पश्चात् श्वेतटङ्कणकाचकैः । (९५।१)
taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ |
तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् । (९६।१)
taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet |
अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् । (९७।१)
anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam |
ततो गन्धं च नागं च वाहयेत् षड्गुणं पुनः ॥ (९७।२)
tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ ||
शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् । (९८।१)
śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam |
रुद्ध्वा तं च धमेत् खोटं गंधकं तेन मर्दयेत् ॥ (९८।२)
ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet ||
रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश । (९९।१)
ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa |
अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥ (९९।२)
anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ ||
यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् । (१००।१)
yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan |
ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥ (१००।२)
tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak ||
ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् । (१०१।१)
tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam |
इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥ (१०१।२)
ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam ||
पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् । (१०२।१)
punaḥ svarṇena tulyena samāvartaṃ tu kārayet |
पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥ (१०२।२)
punardviguṇahemnā tu triguṇena tataḥ punaḥ ||
त्रिधैव सारितः सूतः सहस्रांशेन विध्यते । (१०३।१)
tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate |
द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥ (१०३।२)
drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam ||
गोल्द्:: रञ्जन:: सितस्वर्ण => षड्वर्णपूर्वं यच्छोधितं खोटम् आवर्त्यं स्वर्णतुल्यकम् । (१०४।१)
gold:: rañjana:: sitasvarṇa => ṣaḍvarṇapūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam |
सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥ (१०४।२)
sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade ||
दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना । (१०५।१)
dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā |
तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥ (१०५।२)
tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ ||
अथवा दोलिकायन्त्रे स्वेदयेद् द्रुतसूतकम् । (१०६।१)
athavā dolikāyantre svedayed drutasūtakam |
अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥ (१०६।२)
anena śatamāṃśena sitaṃ svarṇaṃ vilepayet ||
त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् । (१०७।१)
tridinaṃ dolikāyantre arkapatraiśca veṣṭitam |
काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥ (१०७।२)
kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet ||
स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् । (१०८।१)
svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param |
गोल्द्:: रञ्जन:: => षड्वर्णशोधितं सूतखोटं च भागमेकं समाहरेत् ॥ (१०८।२)
gold:: rañjana:: => ṣaḍvarṇaśodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet ||
स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् । (१०९।१)
svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet |
तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् । (११०।१)
tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet |
रञ्जन:: लेअद् => चोप्पेर् => सिल्वेर् => गोल्दर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥ (११०।२)
rañjana:: lead => copper => silver => goldarkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet ||
कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् । (१११।१)
kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet |
एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥ (१११।२)
evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam ||
शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् । (११२।१)
śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat |
अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥ (११२।२)
arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam ||
तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् । (११३।१)
tuṣāgninā prayatnena samuddhṛtyātha nikṣipet |
तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत् त्र्यहम् ॥ (११३।२)
tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham ||
इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् । (११४।१)
ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet |
तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥ (११४।२)
tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ ||
मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः । (११५।१)
mardayettaptakhalve tu yāvadbhavati golakaḥ |
पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥ (११५।२)
pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet ||
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता । (११६।१)
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā |
तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥ (११६।२)
tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā ||
समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् । (११७।१)
samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam |
तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥ (११७।२)
tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet ||
पाचयेद् गन्धतैलं तु यावत्कुङ्कुमसंनिभम् । (११८।१)
pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham |
संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥ (११८।२)
saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ ||
पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥ (११९।२)
piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet ||
नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् । (१२०।१)
nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet |
समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥ (१२०।२)
samuddhṛtya punarlepyamaṣṭamāṃśena tena vai ||
कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् । (१२१।१)
kārpāsapatrakalkena liptvā ruddhvā puṭe pacet |
ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥ (१२१।२)
ūrdhvādhaḥ parivartena ahorātrātsamuddharet ||
अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् । (१२२।१)
aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet |
दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥ (१२२।२)
dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ ||
कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् । (१२३।१)
kārpāsapatrakalkena ruddhvā gajapuṭe pacet |
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ (१२३।२)
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam ||
म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् । (१२४।१)
mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt |
अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥ (१२४।२)
anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet ||
तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् । (१२५।१)
tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet |
नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् । (१२५।३)
nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam |
धर्मकामसुखभाजनैर् जनैः साध्यताम् अखिललोकरक्षणे ॥ (१२५।४)
dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe ||
Data courtesy of The Digital Corpus of Sanskrit.