रसरत्नाकरRasaratnākara

RRĀ, 3, 3

22 of 39 · 262 verses

Select a line for its word-by-word analysis.

1.1१.१

षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् । (१।१)

ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat |

1.2१.२

वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥ (१।२)

vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai ||

2.1२.१

वज्र:: सुब्त्य्पेस्श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः । (२।१)

vajra:: subtypesśvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ |

2.2२.२

पुंस्त्रीनपुंसकाश् चेति लक्षणेन तु लक्षयेत् ॥ (२।२)

puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet ||

3.1३.१

पुंवज्र:: परीक्षावृत्ताः फलकसम्पूर्णास् तेजस्वन्तो बृहत्तराः । (३।१)

puṃvajra:: parīkṣāvṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ |

3.2३.२

पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ (३।२)

puruṣāste samākhyātā rekhābinduvivarjitāḥ ||

4.1४.१

स्त्रीवज्र:: परीक्षारेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः । (४।१)

strīvajra:: parīkṣārekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ |

4.2४.२

नपुंसक:: परीक्षात्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥ (४।२)

napuṃsaka:: parīkṣātrikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam ||

5.1५.१

सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः । (५।१)

sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ |

5.2५.२

स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥ (५।२)

strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam ||

6.1६.१

दिव्यौषधिअजामारी काकमाची देवदालीन्द्रवारुणी । (६।१)

divyauṣadhiajāmārī kākamācī devadālīndravāruṇī |

6.2६.२

काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥ (६।२)

kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā ||

7.1७.१

मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया । (७।१)

mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā |

7.2७.२

मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥ (७।२)

muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā ||

8.1८.१

मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः । (८।१)

mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ |

8.2८.२

विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥ (८।२)

viṣṇukrāntā kāravallī vākucī sinduvārikā ||

9.1९.१

स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा । (९।१)

svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā |

9.2९.२

स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥ (९।२)

snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā ||

10.1१०.१

पलाशाङ्कोलविजया मेघनादार्कसर्षपाः । (१०।१)

palāśāṅkolavijayā meghanādārkasarṣapāḥ |

10.2१०.२

ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥ (१०।२)

brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā ||

11.1११.१

उदुम्बरसोमलता कुम्भी पुष्करमूलकम् । (११।१)

udumbarasomalatā kumbhī puṣkaramūlakam |

11.2११.२

तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥ (११।२)

tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā ||

12.1१२.१

करवीरोऽग्निदमनी बृहती भूमिपाटली । (१२।१)

karavīro'gnidamanī bṛhatī bhūmipāṭalī |

12.2१२.२

यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥ (१२।२)

yavaciñcī candralatā markaṭī vanarājakam ||

13.1१३.१

बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका । (१३।१)

badarī lajjarī lākṣā caṇā vartulapatrakā |

13.2१३.२

अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥ (१३।२)

apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ ||

14.1१४.१

गोरम्भा कदली जाती मुसली सहदेविका । (१४।१)

gorambhā kadalī jātī musalī sahadevikā |

14.2१४.२

एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥ (१४।२)

eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā ||

15.1१५.१

मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका । (१५।१)

marūvako hiṃgu vālo lakṣmaṇā hastimūlikā |

15.2१५.२

क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥ (१५।२)

kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam ||

16.1१६.१

दिव्यौषधिगणः ख्यातो रसराजस्य साधने । (१६।१)

divyauṣadhigaṇaḥ khyāto rasarājasya sādhane |

16.2१६.२

व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥ (१६।२)

vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet ||

17.1१७.१

विषवर्गःतीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः । (१७।१)

viṣavargaḥtīvragandharasasparśairvividhaistu vanodbhavaiḥ |

17.2१७.२

मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥ (१७।२)

mardanātsvedanātsūto mriyate badhyate'pi ca ||

18.1१८.१

रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा । (१८।१)

raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā |

18.2१८.२

मूषाविधानं वज्रमूषा (१)मौस्तिकं विषवर्गः स्यात् मूषाकरणमुच्यते । (१८।२)

mūṣāvidhānaṃ vajramūṣā (1)maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate |

18.3१८.३

वज्रमूषा:: प्रोदुच्तिओन्तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका । (१८।३)

vajramūṣā:: productiontuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā |

18.4१८.४

कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥ (१८।४)

kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam ||

19.1१९.१

मर्दयेत् कारयेन्मूषां वज्राख्यां रसबन्धकाम् । (१९।१)

mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām |

19.2१९.२

वज्रमूषा (२)वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥ (१९।२)

vajramūṣā (2)valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam ||

20.1२०.१

श्वेतपाषाणकं चैतत् सर्वं चूर्ण्यं समं समम् । (२०।१)

śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam |

20.2२०.२

सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥ (२०।२)

sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet ||

21.1२१.१

मूषासंपुटकं कुर्यात् सन्धिं लिप्याच्च तेन वै । (२१।१)

mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai |

21.2२१.२

सर्वकार्यकरा एषा वज्रमूषा महाबला ॥ (२१।२)

sarvakāryakarā eṣā vajramūṣā mahābalā ||

22.1२२.१

वज्रमूषा (३)गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका । (२२।१)

vajramūṣā (3)gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā |

22.2२२.२

गजाश्वानां मलं दग्धं यावत्तत् कृष्णतां गतम् ॥ (२२।२)

gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam ||

23.1२३.१

पाषाणभेदीपत्राणि कृष्णा मृच् च समं समम् । (२३।१)

pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam |

23.2२३.२

वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद् दृढम् ॥ (२३।२)

vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham ||

24.1२४.१

तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् । (२४।१)

tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet |

24.2२४.२

वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥ (२४।२)

vartulā gostanākārā vajramūṣā prakīrtitā ||

25.1२५.१

मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता । (२५।१)

mūrchane māraṇe bandhe dvaṃdvamelāpake hitā |

25.2२५.२

सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥ (२५।२)

saiva chidrānvitā madhyagambhīrā sāraṇocitā ||

26.1२६.१

प्रकटा शरावकाकारा बीजनिर्वापणे हिता । (२६।१)

prakaṭā śarāvakākārā bījanirvāpaṇe hitā |

26.2२६.२

वज्र:: मारणसूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः । (२६।२)

vajra:: māraṇasūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ |

26.3२६.३

मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥ (२६।३)

marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet ||

27.1२७.१

चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् । (२७।१)

ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam |

27.2२७.२

पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥ (२७।२)

pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu ||

28.1२८.१

एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् । (२८।१)

etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet |

28.2२८.२

स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥ (२८।२)

snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet ||

29.1२९.१

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद् दृढम् । (२९।१)

tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham |

29.2२९.२

गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥ (२९।२)

guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm ||

30.1३०.१

क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् । (३०।१)

kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet |

30.2३०.२

तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥ (३०।२)

tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā ||

31.1३१.१

सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् । (३१।१)

secanāntaṃ punaḥ kuryādekaviṃśativārakam |

31.2३१.२

तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥ (३१।२)

tālamatkuṇayogena saptavāraṃ punardhamet ||

32.1३२.१

सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् । (३२।१)

secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam |

32.2३२.२

वज्र:: मारणत्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥ (३२।२)

vajra:: māraṇatrivarṣarūḍhakārpāsamūlamādāya peṣayet ||

33.1३३.१

त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् । (३३।१)

trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet |

33.2३३.२

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥ (३३।२)

tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet ||

34.1३४.१

एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् । (३४।१)

evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet |

34.2३४.२

वज्रमारणम् (६)तालकासीससौराष्ट्रयोर् ह्यपामार्गस्य भस्म च ॥ (३४।२)

vajramāraṇam (6)tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca ||

35.1३५.१

पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् । (३५।१)

piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam |

35.2३५.२

क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥ (३५।२)

kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ ||

36.1३६.१

वज्रमारणम् (७)वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् । (३६।१)

vajramāraṇam (7)vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam |

36.2३६.२

तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥ (३६।२)

tadgolake kṣipedvajramandhamūṣāgataṃ dhamet ||

37.1३७.१

सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् । (३७।१)

secayedaśvamūtreṇa pūrvagole punaḥ kṣipet |

37.2३७.२

रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥ (३७।२)

ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam ||

38.1३८.१

म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् । (३८।१)

mriyate nātra sandehaḥ sarvakarmasu yojayet |

38.2३८.२

वज्रमारणम् (८)उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥ (३८।२)

vajramāraṇam (8)uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham ||

39.1३९.१

क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु । (३९।१)

kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu |

39.2३९.२

नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥ (३९।२)

nṛtaile gandhataile vā mriyate nātra saṃśayaḥ ||

40.1४०.१

वज्रमारणम् (९)भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् । (४०।१)

vajramāraṇam (9)bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet |

40.2४०.२

तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥ (४०।२)

tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet ||

41.1४१.१

वज्रमारणम् (१०)स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् । (४१।१)

vajramāraṇam (10)snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet |

41.2४१.२

वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥ (४१।२)

vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet ||

42.1४२.१

तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् । (४२।१)

taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet |

42.2४२.२

इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥ (४२।२)

ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ ||

43.1४३.१

कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च । (४३।१)

kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca |

43.2४३.२

धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥ (४३।२)

dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet ||

44.1४४.१

वज्रमारणम् (११)वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् । (४४।१)

vajramāraṇam (11)vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet |

44.2४४.२

शुष्कं लेप्यं पुनः शोष्यं यावत् सप्तदिनावधि ॥ (४४।२)

śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi ||

45.1४५.१

विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत् पुनः पुनः । (४५।१)

viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ |

45.2४५.२

तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥ (४५।२)

taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet ||

46.1४६.१

वज्रमारणम् (१२)गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा । (४६।१)

vajramāraṇam (12)gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā |

46.2४६.२

पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥ (४६।२)

punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam ||

47.1४७.१

सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा । (४७।१)

secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā |

47.2४७.२

वज्र:: मृदूकरणमातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् । (४७।२)

vajra:: mṛdūkaraṇamātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet |

47.3४७.३

पचेत् पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥ (४७।३)

pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet ||

48.1४८.१

नागवल्ल्या द्रवैर् लिप्तं तत्पत्रेणैव वेष्टितम् । (४८।१)

nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam |

48.2४८.२

जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥ (४८।२)

jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet ||

49.1४९.१

वज्रौदनं वज्रमृदूकरणम् (२)मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् । (४९।१)

vajraudanaṃ vajramṛdūkaraṇam (2)mātṛvāhakajīvasya madhye vajraṃ vinikṣipet |

49.2४९.२

जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ (४९।२)

jambīrodaragaṃ vātha dolāyantre dinaṃ pacet ||

50.1५०.१

कुलत्थकोद्रवक्वाथैस् त्रैफले वा कषायके । (५०।१)

kulatthakodravakvāthais traiphale vā kaṣāyake |

50.2५०.२

अहोरात्रात् समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥ (५०।२)

ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet ||

51.1५१.१

मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् । (५१।१)

mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat |

51.2५१.२

पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ (५१।२)

punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet ||

52.1५२.१

बदरीवटनिम्बानाम् अङ्कुराणि समाहरेत् । (५२।१)

badarīvaṭanimbānām aṅkurāṇi samāharet |

52.2५२.२

पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ (५२।२)

piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet ||

53.1५३.१

अश्वत्थपत्रकैर् वेष्ट्यं तद्गोलं जानुमध्यगम् । (५३।१)

aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam |

53.2५३.२

दिनं वा धारयेत् कक्षे मृदुर्भवति निश्चितम् ॥ (५३।२)

dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam ||

54.1५४.१

वज्रमृदूकरणम् (३)पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् । (५४।१)

vajramṛdūkaraṇam (3)pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet |

54.2५४.२

तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ (५४।२)

tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ ||

55.1५५.१

नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् । (५५।१)

nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam |

55.2५५.२

मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् । (५५।२)

māsānte tatsamuddhṛtya nāgavallyā dravairlipet |

55.3५५.३

तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥ (५५।३)

taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet ||

56.0५६.०

वज्रमृदूकरणम् (४)कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥ (५६।०)

vajramṛdūkaraṇam (4)kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam ||

57.1५७.१

ससूतम् अम्लयोगेन दिनमेकं विमर्दयेत् । (५७।१)

sasūtam amlayogena dinamekaṃ vimardayet |

57.2५७.२

तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥ (५७।२)

tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ ||

58.1५८.१

पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः । (५८।१)

patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ |

58.2५८.२

वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ (५८।२)

veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet ||

59.1५९.१

वर्जमृदूकरणम् (५)एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् । (५९।१)

varjamṛdūkaraṇam (5)eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim |

59.2५९.२

मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥ (५९।२)

māsamātrātsamuddhṛtya jānumadhye tu pūrvavat ||

60.1६०.१

कोमलं जायते वज्रं दिनान्ते नात्र संशयः । (६०।१)

komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ |

60.2६०.२

वज्रमृदूकरणम् (६)वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥ (६०।२)

vajramṛdūkaraṇam (6)vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe ||

61.1६१.१

अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् । (६१।१)

atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet |

61.2६१.२

निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥ (६१।२)

nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet ||

62.1६२.१

मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् । (६२।१)

maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet |

62.2६२.२

तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥ (६२।२)

tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam ||

63.1६३.१

भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् । (६३।१)

bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet |

63.2६३.२

सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ (६३।२)

sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet ||

64.1६४.१

वैक्रान्तशोधनम्त्रिक्षारैः पञ्चलवणैर् वसामूत्राम्लकोद्रवैः । (६४।१)

vaikrāntaśodhanamtrikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ |

64.2६४.२

मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥ (६४।२)

matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ ||

65.1६५.१

सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् । (६५।१)

saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet |

65.2६५.२

सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥ (६५।२)

saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam ||

66.1६६.१

उपरसानां शोधनम्जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् । (६६।१)

uparasānāṃ śodhanamjambīrāṇāṃ drave magnamātape dhārayeddinam |

66.2६६.२

शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् । (६६।२)

śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam |

66.3६६.३

कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥ (६६।३)

kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet ||

67.1६७.१

गन्धकशुद्धिः (१)यामैकं गन्धकं मर्द्यं द्रवैर् निम्बाजगन्धयोः । (६७।१)

gandhakaśuddhiḥ (1)yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ |

67.2६७.२

शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः । (६७।२)

śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ |

67.3६७.३

तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥ (६७।३)

tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet ||

68.1६८.१

लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् । (६८।१)

laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet |

68.2६८.२

इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥ (६८।२)

ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam ||

69.0६९.०

सुल्ड़ुर्:: शोधनकरञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ (६९।०)

sulfur:: śodhanakarañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake ||

70.1७०.१

क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् । (७०।१)

kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān |

70.2७०.२

गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत् ॥ (७०।२)

gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet ||

71.1७१.१

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् । (७१।१)

taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet |

71.2७१.२

आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥ (७१।२)

ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu ||

72.1७२.१

द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः । (७२।१)

drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ |

72.2७२.२

तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ (७२।२)

tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ ||

73.1७३.१

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे । (७३।१)

ādāya matsyapittena saptadhā bhāvyamātape |

73.2७३.२

ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ (७३।२)

tataḥ kośātakībījacūrṇena saha peṣayet ||

74.1७४.१

भावयेद्भृङ्गजैर्द्रावैः सप्ताहम् आतपे खरे । (७४।१)

bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare |

74.2७४.२

तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ (७४।२)

toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam ||

75.1७५.१

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः । (७५।१)

ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ |

75.2७५.२

भृङ्गराजद्रवान्तस्थं सम्यक् शुद्धं भवेत्तु तत् ॥ (७५।२)

bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat ||

76.1७६.१

गन्धतैलअथ शुद्धस्य गन्धस्य तैलपातनमुच्यते । (७६।१)

gandhatailaatha śuddhasya gandhasya tailapātanamucyate |

76.2७६.२

अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥ (७६।२)

amlaparṇī devadālī dāḍimaṃ mātuluṅgakam ||

77.1७७.१

नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् । (७७।१)

nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet |

77.2७७.२

गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ (७७।२)

gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam ||

78.1७८.१

एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः । (७८।१)

etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ |

78.2७८.२

धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥ (७८।२)

dhattūrastulasī kṛṣṇā laśunaṃ devadālikā ||

79.1७९.१

शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका । (७९।१)

śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā |

79.2७९.२

कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥ (७९।२)

kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam ||

80.1८०.१

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके । (८०।१)

mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake |

80.2८०.२

अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ (८०।२)

anena lohapātrasthaṃ bhāvayetpūrvagandhakam ||

81.1८१.१

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् । (८१।१)

trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam |

81.2८१.२

इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥ (८१।२)

idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet ||

82.1८२.१

हरितालशुद्धिः (१)सचूर्णेणारनालेन दोलायन्त्रेण तालकम् । (८२।१)

haritālaśuddhiḥ (1)sacūrṇeṇāranālena dolāyantreṇa tālakam |

82.2८२.२

दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥ (८२।२)

dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ ||

83.1८३.१

शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये । (८३।१)

śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye |

83.2८३.२

हरितालशुद्धिः (२)तालकं कणशः कृत्वा तालात् पादांशटङ्कणम् ॥ (८३।२)

haritālaśuddhiḥ (2)tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam ||

84.1८४.१

द्वयं जम्बीरजैर् द्रावैः क्षालयेत्काञ्जिकैस्तथा । (८४।१)

dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā |

84.2८४.२

तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥ (८४।२)

tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet ||

85.1८५.१

द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः । (८५।१)

dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ |

85.2८५.२

पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥ (८५।२)

pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet ||

86.1८६.१

विमलशुद्धिःसुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् । (८६।१)

vimalaśuddhiḥsuvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam |

86.2८६.२

पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥ (८६।२)

punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale ||

87.1८७.१

सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् । (८७।१)

saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam |

87.2८७.२

दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ (८७।२)

dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam ||

88.1८८.१

रसकशुद्धिःरजस्वलारजोमूत्रै रसकं भावयेद्दिनम् । (८८।१)

rasakaśuddhiḥrajasvalārajomūtrai rasakaṃ bhāvayeddinam |

88.2८८.२

तैरेव दिनमेकं तु मर्दयेच्छुद्धिम् आप्नुयात् ॥ (८८।२)

taireva dinamekaṃ tu mardayecchuddhim āpnuyāt ||

89.1८९.१

उपरस:: शोधनपुनर्नवामेघनादकपिजम्बीरतिन्दुकैः । (८९।१)

uparasa:: śodhanapunarnavāmeghanādakapijambīratindukaiḥ |

89.2८९.२

अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ (८९।२)

agastipuṣpakumudayavaciñcāmlavetasaiḥ ||

90.1९०.१

यवसूरणभूधात्रीमाण्डूकीकरवीरकैः । (९०।१)

yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ |

90.2९०.२

कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥ (९०।२)

kāravallīkṣīrakandaraktotpalaśamīvanaiḥ ||

91.1९१.१

मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः । (९१।१)

meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ |

91.2९१.२

तैलमत्स्यवसाव्योषैर् द्रवैरेतैः सकाञ्जिकैः ॥ (९१।२)

tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ ||

92.1९२.१

एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् । (९२।१)

etaiḥ samastairvyastairvā dolāyantre dinatrayam |

92.2९२.२

अभ्रपत्राद्युपरसान् शुद्धिहेतोस्तु पाचयेत् ॥ (९२।२)

abhrapatrādyuparasān śuddhihetostu pācayet ||

93.1९३.१

उपरस:: शोधनसूर्यावर्तो वज्रकन्दः कदली देवदालिका । (९३।१)

uparasa:: śodhanasūryāvarto vajrakandaḥ kadalī devadālikā |

93.2९३.२

शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥ (९३।२)

śigruḥ kośātakī vandhyā kākamācī ca vālukam ||

94.1९४.१

आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् । (९४।१)

āsāmekarasenaiva trikṣārapaṭupañcakam |

94.2९४.२

भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥ (९४।२)

bhāvayedamlavargeṇa tīvragharme dināvadhi ||

95.1९५.१

एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् । (९५।१)

etatkalkena saṃlepyamabhrakaṃ vajramākṣikam |

95.2९५.२

वैक्रांतं सस्यकं तालं कान्तपाषाणम् अञ्जनम् ॥ (९५।२)

vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam ||

96.1९६.१

विमलां च शिलां तुत्थमन्यानुपरसांस्तथा । (९६।१)

vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā |

96.2९६.२

दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् । (९६।२)

dolāyantre sāranāle pūrvakalkayute pacet |

96.3९६.३

तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥ (९६।३)

tīvrānale dinaikena śuddhimāyānti tāni vai ||

97.1९७.१

धान्याभ्रकरणम्शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे । (९७।१)

dhānyābhrakaraṇamśuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe |

97.2९७.२

वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥ (९७।२)

vastre baddhvā sāranāle bhāṇḍamadhye vimardayet ||

98.1९८.१

हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् । (९८।१)

hastābhyāṃ svayamāyāti yāvadamlāntare tu tat |

98.2९८.२

द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥ (९८।२)

dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet ||

99.1९९.१

अभ्र:: मारण:: निश्चन्द्रएतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर् दिनावधि । (९९।१)

abhra:: māraṇa:: niścandraetaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi |

99.2९९.२

कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥ (९९।२)

kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe ||

100.1१००.१

इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः । (१००।१)

ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ |

100.2१००.२

ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥ (१००।२)

tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet ||

101.1१०१.१

सघृतैर् महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् । (१०१।१)

saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam |

101.2१०१.२

निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥ (१०१।२)

niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane ||

102.0१०२.०

अभ्र:: मारणपुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥ (१०२।०)

abhra:: māraṇapunarnavādyauṣadhāni khyātāni hyabhraśodhane ||

103.1१०३.१

धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् । (१०३।१)

dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet |

103.2१०३.२

पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥ (१०३।२)

pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ ||

104.1१०४.१

मेतल्स्:: शोधनतैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके । (१०४।१)

metals:: śodhanataile takre gavāṃ mūtre kāñjike ravidugdhake |

104.2१०४.२

कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥ (१०४।२)

kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā ||

105.1१०५.१

तप्त्वा तप्त्वा निषिञ्चेद् एकैकस्मिंस्तु सप्तधा । (१०५।१)

taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā |

105.2१०५.२

स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥ (१०५।२)

svarṇādilohapatrāṇi śuddhimāyānti niścitam ||

106.1१०६.१

लेअद्, तिन्:: शोधनद्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये । (१०६।१)

lead, tin:: śodhanadrāvite nāgavaṅge ca pacettadvadviśuddhaye |

106.2१०६.२

ब्रोन्ज़े, चोप्पेर्:: शोधनत्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥ (१०६।२)

bronze, copper:: śodhanatrikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā ||

107.1१०७.१

भावयेदातपे तीव्रे तत्कल्केन विलेप्य च । (१०७।१)

bhāvayedātape tīvre tatkalkena vilepya ca |

107.2१०७.२

घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥ (१०७।२)

ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet ||

108.1१०८.१

लेअद्:: मारणलोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् । (१०८।१)

lead:: māraṇalohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet |

108.2१०८.२

चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥ (१०८।२)

cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet ||

109.1१०९.१

भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् । (१०९।१)

bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit |

109.2१०९.२

पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥ (१०९।२)

peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet ||

110.1११०.१

स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् । (११०।१)

svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam |

110.2११०.२

अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् । (११०।२)

amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat |

110.3११०.३

एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥ (११०।३)

evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ ||

111.0१११.०

इरोन् (गेन्।):: मारणनारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥ (१११।०)

iron (gen.):: māraṇanārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam ||

112.1११२.१

तेन लोहस्य पत्राणि लेपयेत् पलपञ्चकम् । (११२।१)

tena lohasya patrāṇi lepayet palapañcakam |

112.2११२.२

रुद्ध्वा गजपुटे पच्यात् कषायैस्त्रैफलैः पुनः ॥ (११२।२)

ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ ||

113.1११३.१

जम्बीरैर् आरनालैर्वा विंशांशदरदेन च । (११३।१)

jambīrair āranālairvā viṃśāṃśadaradena ca |

113.2११३.२

पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥ (११३।२)

piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ ||

114.1११४.१

चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् । (११४।१)

catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam |

114.2११४.२

म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥ (११४।२)

mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam ||

115.1११५.१

वङ्गभस्मलोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् । (११५।१)

vaṅgabhasmalohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet |

115.2११५.२

चाल्यम् अश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥ (११५।२)

cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet ||

116.1११६.१

तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् । (११६।१)

tadbhasma haritālaṃ tu tulyamamlena mardayet |

116.2११६.२

पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥ (११६।२)

palāśakadravairvātha yāmānte coddhṛtaṃ puṭet ||

117.1११७.१

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् । (११७।१)

uddhṛtya daśamāṃśena tālena saha mardayet |

117.2११७.२

पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् । (११७।२)

pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet |

117.3११७.३

चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥ (११७।३)

catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam ||

118.0११८.०

चोप्पेर्:: मारणकण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥ (११८।०)

copper:: māraṇakaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ ||

119.1११९.१

अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् । (११९।१)

amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet |

119.2११९.२

उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ॥ (११९।२)

uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet ||

120.1१२०.१

जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत् पुनः । (१२०।१)

jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ |

120.2१२०.२

एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥ (१२०।२)

evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe ||

121.1१२१.१

मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् । (१२१।१)

mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet |

121.2१२१.२

सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥ (१२१।२)

sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet ||

122.1१२२.१

सिल्वेर्:: मारणमाक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् । (१२२।१)

silver:: māraṇamākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam |

122.2१२२.२

लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥ (१२२।२)

liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet ||

123.1१२३.१

कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् । (१२३।१)

kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam |

123.2१२३.२

पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥ (१२३।२)

pūrvacūrṇena tulyāṃśamidamamlena mardayet ||

124.1१२४.१

रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् । (१२४।१)

ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet |

124.2१२४.२

एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥ (१२४।२)

evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt ||

125.1१२५.१

गोल्द्:: मारणमृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् । (१२५।१)

gold:: māraṇamṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit |

125.2१२५.२

पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥ (१२५।२)

piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet ||

126.1१२६.१

रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् । (१२६।१)

ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet |

126.2१२६.२

तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥ (१२६।२)

tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet ||

127.1१२७.१

यामैकं मर्दयेद् अम्लै रुद्ध्वा गजपुटे पचेत् । (१२७।१)

yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet |

127.2१२७.२

एवमष्टपुटैः पक्वं मृतं भवति हाटकम् । (१२७।२)

evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam |

127.3१२७.३

ब्रस्स्, ब्रोन्ज़े:: मारणआरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥ (१२७।३)

brass, bronze:: māraṇaāre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param ||

128.1१२८.१

विविधपरमयोगैर् युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च । (१२८।१)

vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca |

128.2१२८.२

पविबलिगगनानां सर्वलोहे विशेषाद् गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥ (१२८।२)

pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit