RRĀ, 3, 19
Select a line for its word-by-word analysis.
संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै । (१।१)
saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai |
रत्नादीनां विशेषात् करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत् सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥ (१।२)
ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām ||
मत्स्यकज्जलचतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः । (२।१)
matsyakajjalacaturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ |
वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥ (२।२)
vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet ||
क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥ (३।२)
kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam ||
किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् । (४।१)
kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet |
स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥ (४।२)
sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat ||
घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् । (५।१)
ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam |
प्रोदुच्तिओन् ओड़् रुबिएसेतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥ (५।२)
production of rubiesetatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet ||
मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् । (६।२)
madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet |
इन्द्रनीलकरणम्नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् । (७।१)
indranīlakaraṇamnīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam |
तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥ (७।२)
taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet ||
क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् । (८।१)
kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet |
मरकतमणिकरणम्मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् । (९।१)
marakatamaṇikaraṇammañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet |
काचकूप्यां स्थितैर्द्रावैः सर्वमेतत् सुलोलयेत् ॥ (९।२)
kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet ||
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् । (१०।१)
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat |
गोमेदमणिकरणम्मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् । (११।१)
gomedamaṇikaraṇammañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam |
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥ (११।२)
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat ||
गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥ (१२।०)
gomedāni tu tānyeva pravartante na saṃśayaḥ ||
पुष्परागकरणम्पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् । (१३।१)
puṣparāgakaraṇampiṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam |
तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥ (१३।२)
tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam ||
तत्सर्वं पाचयेद्यामम् अवतार्य सुरक्षयेत् । (१४।१)
tatsarvaṃ pācayedyāmam avatārya surakṣayet |
वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् । (१४।२)
varṣopalāṃstu tenaiva siktānpacyācca pūrvavat |
भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥ (१४।३)
bhavanti puṣparāgāste yathā khanyutthitāni ca ||
नीलमाणिक्यकरणम्नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् । (१५।१)
nīlamāṇikyakaraṇamnīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam |
बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥ (१५।२)
bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi ||
वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् । (१६।२)
varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat |
मुक्ताकरणम् (१)प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक् पृथक् । (१७।१)
muktākaraṇam (1)proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak |
रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥ (१७।२)
rakṣayitvā prayatnena prāpte kārye niyojayet ||
सूर्यकांतस्य मध्ये तु बिलं कुर्यात् सुवर्तुलम् । (१८।१)
sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam |
तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥ (१८।२)
tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam ||
सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः । (१९।१)
sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ |
तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥ (१९।२)
taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ ||
याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥ (२०।२)
yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam ||
छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके । (२१।१)
chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake |
सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत् तदुलूखले ॥ (२१।२)
suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale ||
लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् । (२२।१)
laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet |
तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥ (२२।३)
tenaiva kṣālite muktāphalaṃ bhavati śobhanam ||
मुक्ताकरणम् (२)मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् । (२३।१)
muktākaraṇam (2)mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet |
प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥ (२३।२)
prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi ||
काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥ (२४।२)
kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam ||
प्रोतयेद् अश्ववालेन मालां कृत्वाथ शोषयेत् । (२५।१)
protayed aśvavālena mālāṃ kṛtvātha śoṣayet |
छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥ (२५।२)
chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ ||
स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् । (२६।१)
sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt |
निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥ (२६।२)
nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet ||
उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् । (२७।१)
udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat |
मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥ (२७।२)
māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ ||
कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः । (२८।१)
kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ |
भवन्ति तानि शुभ्राणि सम्यङ् मुक्ताफलानि वै ॥ (२८।२)
bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai ||
मुक्ताकरणम् (३)मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा । (२९।१)
muktākaraṇam (3)muktāśuktiṃ samādāya jalaśuktimathāpi vā |
घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥ (२९।२)
gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye ||
ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णम् ईडाक्षीरादिपूर्ववत् । (३०।१)
tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat |
कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥ (३०।२)
kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai ||
मुक्ताकरणम् (४)सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् । (३१।१)
muktākaraṇam (4)sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret |
एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥ (३१।२)
ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet ||
छायायां शोषयेत्पश्चात् कण्डनं क्षालनं ततः । (३२।१)
chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ |
कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥ (३२।२)
kārayetpūrvavattāni mauktikāni bhavanti vai ||
प्रवालकरणम् (१)दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् । (३३।१)
pravālakaraṇam (1)dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet |
प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥ (३३।२)
prasūtāyā mahiṣyāstu pañcame divase haret ||
क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् । (३४।१)
kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam |
वर्तुलां गुटिकां कृत्वा प्रोतयेत् ताम्रसूत्रके ॥ (३४।२)
vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake ||
वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक् पृथक् ॥ (३५।२)
veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak ||
आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः । (३६।१)
āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ |
छायाशुष्काः शुभाः प्रोत्यास् ताम्रसूत्रेण वै पुनः ॥ (३६।२)
chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ ||
मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः । (३७।१)
madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ |
जायते पद्मरागाभं प्रवालं नात्र संशयः ॥ (३७।२)
jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ ||
प्रवालकरणम् (२)दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः । (३८।१)
pravālakaraṇam (2)dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ |
क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद् दृढम् ॥ (३८।२)
kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham ||
सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥ (३९।२)
supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet ||
आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् । (४०।१)
ācchādya pacyānmandāgnau ghaṭikānte samuddharet |
हिङ्गुलकरणमशुद्धं पारदं भागं चतुर्भागं च टंकणम् । (४१।१)
hiṅgulakaraṇamaśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam |
उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ (४१।२)
ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet ||
क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ (४२।२)
kṣiptvā cālyamayodarvyā hyavatārya suśītalam ||
कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च । (४३।१)
kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca |
वस्त्रमृत्तिकया सम्यक् काचकूपीं प्रलेपयेत् ॥ (४३।२)
vastramṛttikayā samyak kācakūpīṃ pralepayet ||
सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् । (४४।१)
sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet |
वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥ (४४।२)
vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā ||
क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् । (४५।१)
kramavṛddhāgninā paścātpaceddivasapañcakam |
सप्ताहात् तत् समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥ (४५।२)
saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam ||
सिन्दूरकरणम् (१)चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् । (४६।१)
sindūrakaraṇam (1)ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet |
पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् । (४६।२)
pācayellohaje pātre lohadarvyā nigharṣayet |
चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥ (४६।३)
caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham ||
सिन्दूरकरणम् (२)रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् । (४७।१)
sindūrakaraṇam (2)raktaśākhinyapāmārgakuṭajasya tu bhasmakam |
चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥ (४७।२)
caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam ||
पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥ (४८।०)
pūrvavallohapātre tu sindūraṃ jāyate śubham ||
सिन्दूरकरणम् (३)भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा । (४९।१)
sindūrakaraṇam (3)bhasmanā pūrvavannāgaṃ śākasya vārijasya vā |
सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥ (४९।२)
sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ ||
सिन्दूरकरणम् (४)पलानां द्विशतं नागं द्रावयेल्लोहभाजने । (५०।१)
sindūrakaraṇam (4)palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane |
पीतवर्णं भवेद्यावत्तावत् पच्यात् प्रचालयेत् । (५१।१)
pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet |
पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् । (५२।१)
palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet |
छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥ (५२।२)
chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet ||
क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना । (५३।१)
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā |
छिद्रं कुर्याद् भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥ (५३।२)
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet ||
रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् । (५४।१)
raktavarṇā yadā syātsā tāvatpacyātparīkṣayet |
सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥ (५४।२)
sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ ||
सैन्धवकरणम्नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् । (५५।१)
saindhavakaraṇamnavabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet |
निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥ (५५।२)
niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet ||
द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि । (५६।१)
dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi |
रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥ (५६।२)
raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet ||
स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥ (५७।०)
svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet ||
सुवर्चलकरणमारनालं पलैकं तु द्विनिष्कं च सुवर्चलम् । (५८।१)
suvarcalakaraṇamāranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam |
माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥ (५८।२)
māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet ||
पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् । (५९।१)
palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet |
पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति । (५९।२)
punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati |
सुवर्चलं भवेत्तावन् नात्र कार्या विचारणा ॥ (५९।३)
suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā ||
हिङ्गुकरणम् (१)हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् । (६०।१)
hiṅgukaraṇam (1)hiṅgunāgaramekaikaṃ laśunasya paladvayam |
चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥ (६०।२)
catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam ||
सर्वतुल्यां बिल्वमज्जाम् अजाक्षीरेण पेषयेत् । (६१।१)
sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet |
तत्सर्वं बन्धयेद् गाढं सार्द्रगोचर्मगर्भतः । (६१।२)
tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ |
पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥ (६१।३)
pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ ||
हिङ्गुकरणम् (२)बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा । (६२।१)
hiṅgukaraṇam (2)babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā |
त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥ (६२।२)
tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet ||
अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् । (६३।१)
asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet |
तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥ (६३।२)
tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam ||
निर्वाते लम्बितं रक्षेत् हिंगु स्याच्छुद्धहिंगुवत् ॥ (६४।०)
nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat ||
हिङ्गुकरणम् (३)पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् । (६५।१)
hiṅgukaraṇam (3)palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum |
निस्त्वङ्माषा पलद्वंद्वम् एकीकृत्य प्रपेषयेत् । (६६।१)
nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet |
त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥ (६६।२)
trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet ||
तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥ (६७।०)
tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet ||
हिङ्गुकरणम् (४)द्विपले शुद्धहिंगु स्याद् एडाक्षीरं च विंशतिः । (६८।१)
hiṅgukaraṇam (4)dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ |
गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥ (६८।२)
godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam ||
अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् । (६९।१)
alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet |
छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥ (६९।२)
chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet ||
वङ्गकरणम् (१)धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् । (७०।१)
vaṅgakaraṇam (1)dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet |
शोष्यं पेष्यं पुनर्भाव्यम् एवं घर्मे त्रिसप्तधा ॥ (७०।२)
śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā ||
ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् । (७१।२)
ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham |
भावयेद् रजनीमध्ये तद्बंगं जायते शुभम् ॥ (७१।३)
bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham ||
वङ्गकरणम् (२)भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा । (७२।१)
vaṅgakaraṇam (2)bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā |
तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥ (७२।२)
tadvāpaṃ daśamāṃśena drute nāge pradāpayet ||
तत् ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥ (७३।२)
tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet ||
टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके । (७४।१)
ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake |
द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥ (७४।२)
drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet ||
अम्लवेतसकरणम्त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् । (७५।१)
amlavetasakaraṇamtvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam |
पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥ (७५।२)
paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam ||
चाङ्गेरीमातुलिंगाम्लैर् यथाप्राप्तं समाहरेत् । (७६।१)
cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet |
वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥ (७६।२)
vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam ||
सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् । (७७।१)
saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam |
मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥ (७७।२)
mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet ||
पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् । (७८।१)
pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet |
साहीकरणम्त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् । (७९।१)
sāhīkaraṇamtriphalā bhṛṅgakoraṇṭabhallātakaravīrakam |
क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी । (८०।१)
kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī |
तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥ (८०।२)
tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham ||
घृतकरणम्नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् । (८१।१)
ghṛtakaraṇamnārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam |
तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥ (८१।२)
tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet ||
शतांशेन क्षिपेत्तस्मिन् रक्तशाकिनिमूलकम् । (८२।१)
śatāṃśena kṣipettasmin raktaśākinimūlakam |
मृद्वग्निना पचेत्किंचित् तत्सर्वं जायते घृतम् ॥ (८२।२)
mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam ||
घृतकरणम् (२)घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् । (८३।१)
ghṛtakaraṇam (2)ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam |
क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् । (८३।२)
kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet |
घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥ (८३।३)
ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit ||
घृतकरणम् (३)मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् । (८४।१)
ghṛtakaraṇam (3)meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam |
पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥ (८४।२)
pacenmṛdvagninā tāvadyāvatphenaṃ nivartate ||
द्विनिष्कं कांजिकं तस्मिन् क्षिप्त्वा वस्त्रेण चालयेत् । (८५।१)
dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet |
पादांशं च घृतं तस्मिन् दद्यात्सर्वं घृतं भवेत् ॥ (८५।२)
pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet ||
घृतकरणम् (४)तिलतैलं विपच्यादौ यावत्फेनं निवर्तते । (८६।१)
ghṛtakaraṇam (4)tilatailaṃ vipacyādau yāvatphenaṃ nivartate |
गुग्गुलुं निक्षिपेत्तस्मिन् किंचिद्गंधनिवृत्तये ॥ (८६।२)
gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye ||
विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् । (८७।१)
viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet |
जलतुल्यं पूर्वतैलं मिश्रयेत् तत्सुशीतलम् ॥ (८७।२)
jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam ||
मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् । (८८।१)
mardayenmṛṇmaye pātre hastena kṣaṇamātrakam |
घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥ (८८।२)
ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet ||
चन्दनकरणम्संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः । (८९।१)
candanakaraṇamsaṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ |
तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥ (८९।२)
tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum ||
पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् । (९०।१)
pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet |
संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥ (९०।२)
saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet ||
स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥ (९१।०)
svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet ||
कर्पूरकरणम्पलत्रयं पचेद् भक्तं सम्यग्राजान्नतण्डुलम् । (९२।१)
karpūrakaraṇampalatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam |
तद् भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥ (९२।२)
tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ ||
निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् । (९३।१)
niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet |
शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥ (९३।२)
śuṣkasya vaṃśanālasya sthūlasya tena codaram ||
छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥ (९४।२)
chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet ||
वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् । (९५।१)
vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham |
आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥ (९५।२)
ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ ||
त्रिसप्ताहात् समुद्धृत्य शोषयित्वा समाहरेत् । (९६।१)
trisaptāhāt samuddhṛtya śoṣayitvā samāharet |
कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने । (९६।२)
karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane |
कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥ (९६।३)
karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ ||
जवादीयाङ्कस्तूरीकरणम्पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् । (९७।१)
javādīyāṅkastūrīkaraṇampanasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet |
नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥ (९७।२)
navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā ||
चूर्णयित्वा क्षिपेत्तस्मिन् तत्सर्वं द्रवतां व्रजेत् । (९८।१)
cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet |
तेन घृष्ट्वा क्षिपेत्तस्मिन् चतुर्निष्कं च चन्दनम् ॥ (९८।२)
tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam ||
मृद्वग्नौ पाचयेत्तावद्यावद् आरक्ततां गतम् । (९९।१)
mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam |
तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥ (९९।२)
tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet ||
दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥ (१००।२)
dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet ||
ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् । (१०१।१)
tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām |
माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥ (१०१।२)
māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet ||
तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥ (१०२।२)
tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane ||
वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् । (१०३।१)
veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam |
कस्तूरीकरणम्मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् । (१०४।१)
kastūrīkaraṇammadhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam |
मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥ (१०४।२)
muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet ||
अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥ (१०५।२)
anyāni ca sugandhīni puṣpāṇi tatra nikṣipet ||
दिनैकं मुद्रितं रक्षेत् पुष्पं निष्पीड्य संत्यजेत् । (१०६।१)
dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet |
सिक्थकं विंशतिर्निष्कान् क्षिप्त्वा तस्मिन्पचेच्छनैः ॥ (१०६।२)
sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ ||
यावत्तैलावशेषं स्यात् कर्पूरं चार्धनिष्ककम् । (१०७।१)
yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam |
निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥ (१०७।२)
niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet ||
अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् । (१०८।१)
anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet |
क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥ (१०८।२)
kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane ||
सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः । (१०९।१)
sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ |
पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥ (१०९।२)
puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam ||
क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥ (११०।२)
kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ ||
पुटेत् तृणाग्निना तावद्यावद्गंधो न दह्यते । (१११।१)
puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate |
द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥ (१११।२)
dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret ||
कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् । (११२।१)
kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet |
चूर्णस्य दशमांशेन सम्यक् कस्तूरिकां क्षिपेत् ॥ (११२।२)
cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet ||
पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् । (११३।१)
pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam |
कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥ (११३।२)
kastūrīmadanākārā kiṃcitkāryā prayatnataḥ ||
तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् । (११४।१)
tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak |
गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् । (११४।२)
guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet |
कस्तूरीचर्मणा बद्ध्वा सम्यङ् मृगमदो भवेत् ॥ (११४।३)
kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet ||
कुण्कुमकरणम् (१)नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् । (११५।१)
kuṇkumakaraṇam (1)nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam |
यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥ (११५।२)
yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet ||
तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् । (११६।१)
tatpādaṃ rajanī cātha tasminmadhye vinikṣipet |
गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥ (११६।२)
gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet ||
कुङ्कुमकरणम् (२)पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे । (११७।१)
kuṅkumakaraṇam (2)pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare |
विंशत्यंशं क्षिपेत्तस्मिन् पेषितं शुभ्रतण्डुलम् ॥ (११७।२)
viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam ||
तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् । (११८।१)
taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet |
घनीभूतं भवेद्यावत्तावद् घर्मे प्रचालयेत् । (११८।२)
ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet |
ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥ (११८।३)
tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ ||
कुङ्कुमकरणम् (३)पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् । (११९।१)
kuṅkumakaraṇam (3)pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam |
पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥ (११९।२)
piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ ||
दिव्यधूप (१)क्रमात् तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् । (१२०।१)
divyadhūpa (1)kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam |
नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥ (१२०।२)
nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā ||
चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् । (१२१।१)
candanaṃ ca daśaitāni cūrṇitāni vimiśrayet |
चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥ (१२१।२)
cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet ||
स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना । (१२२।१)
stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā |
दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥ (१२२।२)
dinamekaṃ prayatnena vartikāṃ tena kārayet ||
तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् । (१२३।१)
tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt |
देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥ (१२३।२)
devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ ||
दिव्यधूप (२)पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् । (१२४।१)
divyadhūpa (2)pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam |
मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥ (१२४।२)
māṃsī mustā nakhaṃ bolacandanāguruvālakam ||
प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥ (१२५।२)
prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā ||
माषैकैकं क्षिपेत्तस्मिन् सर्वं कुट्याद् उलूखले । (१२६।१)
māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale |
तिलतैलं क्षिपेत् किंचिल् लोहदण्डेन तद् दृढम् ॥ (१२६।२)
tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham ||
यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः । (१२७।१)
yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ |
सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥ (१२७।३)
sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ ||
पुष्पद्रुतिवज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः । (१२८।१)
puṣpadrutivajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ |
आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥ (१२८।२)
ātape śoṣitaṃ kuryādityevaṃ dinasaptakam ||
जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् । (१२९।१)
jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam |
क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥ (१२९।२)
kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet ||
मृत्पात्रे धारयेद् घर्मे रम्ये वा काचभाजने । (१३०।१)
mṛtpātre dhārayed gharme ramye vā kācabhājane |
आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥ (१३०।२)
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt ||
द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् । (१३१।१)
dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam |
अनेनैव प्रकारेण पुष्पाणां च पृथक् पृथक् । (१३१।२)
anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak |
द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥ (१३१।३)
drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet ||
धान्यवृद्धिकरणम् (१)मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् । (१३२।१)
dhānyavṛddhikaraṇam (1)mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam |
ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥ (१३२।२)
ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet ||
प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् । (१३३।१)
pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet |
धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥ (१३३।२)
dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param ||
धान्यवृद्धिकरणम् (२)कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् । (१३४।१)
dhānyavṛddhikaraṇam (2)kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam |
धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥ (१३४।२)
dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param ||
धनधान्यवृद्धिकरणम् (३)तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् । (१३५।१)
dhanadhānyavṛddhikaraṇam (3)tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet |
यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥ (१३५।२)
yasminkasminbhave dravye dhānye vā vṛddhikārakam ||
द्रव्यादिवृद्धिकरणम्कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन् सुवस्तुनि । (१३६।१)
dravyādivṛddhikaraṇamkṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni |
तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥ (१३६।२)
tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate ||
धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् । (१३७।१)
dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam |
यत्किंचिद् द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥ (१३७।२)
yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam ||
धान्यवृद्धिकरणम् (४)मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् । (१३८।१)
dhānyavṛddhikaraṇam (4)mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet |
तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥ (१३८।२)
tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ ||
तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः । (१३९।१)
taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ |
मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् । (१३९।२)
mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam |
तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ (१३९।३)
tathaivātra prakartavyaṃ siddhirbhavati nānyathā ||
आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात् प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् । (१४०।१)
ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat |
तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद् भूपानां विदुषां महामतिमतां विद्वान् भवेत् पालनैः ॥ (१४०।२)
tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.