रसरत्नाकरRasaratnākara

RRĀ, 3, 7

26 of 39 · 258 verses

Select a line for its word-by-word analysis.

1.1१.१

धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् । (१।१)

dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam |

1.2१.२

खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥ (१।२)

khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate ||

2.1२.१

पिष्टिगोलम्दिव्यौषधद्रवैर् मर्द्यं तप्तखल्वे दिनत्रयम् । (२।१)

piṣṭigolamdivyauṣadhadravair mardyaṃ taptakhalve dinatrayam |

2.2२.२

शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥ (२।२)

śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet ||

3.1३.१

स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् । (३।१)

svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam |

3.2३.२

यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वम् अथापि वा ॥ (३।२)

yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā ||

4.1४.१

पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् । (४।१)

pūrvasūtena saṃtulyaṃ yāmamamlena mardayet |

4.2४.२

महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥ (४।२)

mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet ||

5.1५.१

दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे । (५।१)

divyauṣadhīdravaireva yāmātsvinnātape khare |

5.2५.२

मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥ (५।२)

mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam ||

6.1६.१

गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् । (६।१)

gandhataile dinaṃ pacyāttato vastrātsamuddharet |

6.2६.२

पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥ (६।२)

piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate ||

7.1७.१

पिष्टिगोलपूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् । (७।१)

piṣṭigolapūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet |

7.2७.२

नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥ (७।२)

nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet ||

8.1८.१

वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा । (८।१)

vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā |

8.2८.२

मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥ (८।२)

mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam ||

9.1९.१

कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् । (९।१)

kṛtvātha bandhayedvastre gandhataile dinaṃ pacet |

9.2९.२

वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥ (९।२)

vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet ||

10.1१०.१

पिष्टिगोल:: निगडअथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः । (१०।१)

piṣṭigola:: nigaḍaathāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ |

10.2१०.२

गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥ (१०।२)

gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam ||

11.1११.१

स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः । (११।१)

snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ |

11.2११.२

पिष्टिगोल:: निगडपालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥ (११।२)

piṣṭigola:: nigaḍapālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā ||

12.1१२.१

उन्मत्तनीलिजैर् द्रावैर्मर्द्यः स्यान्निगडोत्तमः । (१२।१)

unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ |

12.2१२.२

पिष्टिगोल:: निगडअभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् । (१२।२)

piṣṭigola:: nigaḍaabhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam |

12.3१२.३

स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥ (१२।३)

snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet ||

13.0१३.०

पिष्टिगोल:: निगडवाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥ (१३।०)

piṣṭigola:: nigaḍavākucībrahmadhattūrabījāni cāmlavetasam ||

14.1१४.१

काकविट्कदलीकन्दतालगन्धमनःशिला । (१४।१)

kākaviṭkadalīkandatālagandhamanaḥśilā |

14.2१४.२

गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥ (१४।२)

gugguluṃ pañcaloṇāni gojihvā kokilākṣakam ||

15.1१५.१

तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी । (१५।१)

tiktakośātakī nīlī viṣamuṣṭīndravāruṇī |

15.2१५.२

जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥ (१५।२)

jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam ||

16.1१६.१

स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् । (१६।१)

snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham |

16.2१६.२

व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः । (१६।२)

vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ |

16.3१६.३

मेर्चुर्य्:: खोटएतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥ (१६।३)

mercury:: khoṭaeteṣvekena tadgolaṃ lepyamaṅgulamātrakam ||

17.0१७.०

मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥ (१७।०)

mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet ||

18.1१८.१

लिप्तं गोलं क्षिपेत् तस्याम् ऊर्ध्वं लोणं च दापयेत् । (१८।१)

liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet |

18.2१८.२

रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥ (१८।२)

ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ ||

19.1१९.१

मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् । (१९।१)

mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet |

19.2१९.२

करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥ (१९।२)

karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā ||

20.1२०.१

मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् । (२०।१)

mṛdunā svedayetpaścātsamuddhṛtyātha lepayet |

20.2२०.२

सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥ (२०।२)

samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet ||

21.1२१.१

ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् । (२१।१)

ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat |

21.2२१.२

छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥ (२१।२)

chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām ||

22.1२२.१

सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद् दृढम् । (२२।१)

sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham |

22.2२२.२

तच्छुद्धं जायते खोटम् अभीक्ष्णं नात्र संशयः ॥ (२२।२)

tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ ||

23.1२३.१

इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् । (२३।१)

ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak |

23.2२३.२

पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥ (२३।२)

pūrvavatkramayogena khoṭo bhavati tadrasaḥ ||

24.1२४.१

मेर्चुर्य्:: खोटभागद्वयं सुवर्णस्य त्रिभागं पारदस्य च । (२४।१)

mercury:: khoṭabhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca |

24.2२४.२

पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥ (२४।२)

pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet ||

25.1२५.१

इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् । (२५।१)

ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet |

25.2२५.२

विडवटीतत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् । (२५।२)

viḍavaṭītatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet |

25.3२५.३

माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ (२५।३)

mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam ||

26.1२६.१

भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् । (२६।१)

bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam |

26.2२६.२

एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ (२६।२)

eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe ||

27.1२७.१

एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः । (२७।१)

ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ |

27.2२७.२

एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥ (२७।२)

evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu ||

28.1२८.१

प्रकाशमूषागर्भे तु ग्रसते वडवानलः । (२८।१)

prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ |

28.2२८.२

मेर्चुर्य्:: रञ्जन, => शतवेधिन्माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् । (२८।२)

mercury:: rañjana, => śatavedhinmākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam |

28.3२८.३

शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ (२८।३)

śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet ||

29.1२९.१

वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । (२९।१)

vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha |

29.2२९.२

भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥ (२९।२)

bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ ||

30.1३०.१

जारितं सूतखोटं तु कल्केनानेन संयुतम् । (३०।१)

jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam |

30.2३०.२

वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥ (३०।२)

vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam ||

31.1३१.१

त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः । (३१।१)

tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ |

31.2३१.२

रञ्जितो जायते सूतः शतवेधी न संशयः ॥ (३१।२)

rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ ||

32.1३२.१

तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् । (३२।१)

tāre tāmre bhujaṅge vā candrārke vātha yojayet |

32.2३२.२

जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ (३२।२)

jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham ||

33.1३३.१

द्रुतसूतपिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् । (३३।१)

drutasūtapiṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet |

33.2३३.२

दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥ (३३।२)

dinatrayaṃ khare gharme śuktau vā nālikeraje ||

34.1३४.१

मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा । (३४।१)

mīnākṣī kadalīkandaṃ śvetā raktā punarnavā |

34.2३४.२

शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥ (३४।२)

śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet ||

35.1३५.१

पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् । (३५।१)

pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet |

35.2३५.२

पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥ (३५।२)

pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet ||

36.1३६.१

मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् । (३६।१)

mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet |

36.2३६.२

भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥ (३६।२)

bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike ||

37.1३७.१

द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् । (३७।१)

drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet |

37.2३७.२

पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥ (३७।२)

pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ ||

38.1३८.१

निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् । (३८।१)

nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam |

38.2३८.२

एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥ (३८।२)

evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam ||

39.1३९.१

आरोटस्य समं यावत्तावद् देयं द्रुतं भवेत् । (३९।१)

āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet |

39.2३९.२

द्रुतसूतआर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥ (३९।२)

drutasūtaārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam ||

40.1४०.१

त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् । (४०।१)

trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam |

40.2४०.२

अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥ (४०।२)

amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet ||

41.1४१.१

तस्मिन् पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् । (४१।१)

tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet |

41.2४१.२

मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥ (४१।२)

mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam ||

42.1४२.१

एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् । (४२।१)

eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam |

42.2४२.२

द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥ (४२।२)

drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet ||

43.1४३.१

चन्द्रार्क => गोल्द् (wइथ् द्रुतसूत)द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् । (४३।१)

candrārka => gold (with drutasūta)drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam |

43.2४३.२

भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ (४३।२)

bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam ||

44.1४४.१

मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् । (४४।१)

marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim |

44.2४४.२

दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥ (४४।२)

dattvātha mardayedyāmaṃ sarvamunmattavāriṇā ||

45.1४५.१

रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् । (४५।१)

ruddhvātha bhūdhare pacyātpuṭaikena samuddharet |

45.2४५.२

पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥ (४५।२)

pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ ||

46.1४६.१

धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे । (४६।१)

dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare |

46.2४६.२

इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥ (४६।२)

ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ ||

47.1४७.१

भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः । (४७।१)

bhūdhare pācayedyantre bhasmībhavati tadrasaḥ |

47.2४७.२

तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥ (४७।२)

tenaiva śatabhāgena kṣaudreṇa saha peṣayet ||

48.1४८.१

चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् । (४८।१)

candrārkajātapatrāṇi andhamūṣāgataṃ dhamet |

48.2४८.२

स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥ (४८।२)

svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham ||

49.1४९.१

लेअद् => गोल्द्तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् । (४९।१)

lead => goldtadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet |

49.2४९.२

वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥ (४९।२)

vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam ||

50.1५०.१

चन्द्रार्क => गोल्द्रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् । (५०।१)

candrārka => goldrasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam |

50.2५०.२

त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ (५०।२)

trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam ||

51.1५१.१

मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् । (५१।१)

mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet |

51.2५१.२

तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥ (५१।२)

tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ ||

52.1५२.१

रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश । (५२।१)

ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa |

52.2५२.२

मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥ (५२।२)

mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt ||

53.1५३.१

चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै । (५३।१)

candrārkaśatabhāgena madhunāktena tena vai |

53.2५३.२

लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥ (५३।२)

liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam ||

54.1५४.१

चोप्पेर् => गोल्द्रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् । (५४।१)

copper => goldrasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam |

54.2५४.२

सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर् दिनम् ॥ (५४।२)

sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam ||

55.1५५.१

छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् । (५५।१)

chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet |

55.2५५.२

तत्खोटं शोधयेत्पश्चात् सितकाचेन टङ्कणैः ॥ (५५।२)

tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ ||

56.1५६.१

स्वर्णेन च समावर्त्य समेन जारयेत्ततः । (५६।१)

svarṇena ca samāvartya samena jārayettataḥ |

56.2५६.२

पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥ (५६।२)

pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet ||

57.1५७.१

धमन्प्रकटमूषायां यावत्सूतावशेषितम् । (५७।१)

dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam |

57.2५७.२

ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥ (५७।२)

tataḥ śuddhasuvarṇena sārayetsāraṇātrayam ||

58.1५८.१

वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् । (५८।१)

vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam |

58.2५८.२

सिल्वेर् => गोल्द्भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥ (५८।२)

silver => goldbhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet ||

59.1५९.१

तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् । (५९।१)

tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak |

59.2५९.२

तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥ (५९।२)

tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet ||

60.1६०.१

तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् । (६०।१)

tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet |

60.2६०.२

दिनं धत्तूरजैर् द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥ (६०।२)

dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ ||

61.1६१.१

यावत्कुङ्कुमवर्णं स्यात् तावच्चुल्ल्यां समुद्धरेत् । (६१।१)

yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet |

61.2६१.२

एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥ (६१।२)

etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam ||

62.1६२.१

रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् । (६२।१)

ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam |

62.2६२.२

आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥ (६२।२)

āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet ||

63.1६३.१

अनेन मधुयुक्तेन तारपत्राणि लेपयेत् । (६३।१)

anena madhuyuktena tārapatrāṇi lepayet |

63.2६३.२

रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥ (६३।२)

ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam ||

64.1६४.१

जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् । (६४।१)

jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam |

64.2६४.२

माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥ (६४।२)

mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet ||

65.1६५.१

मृत लेअद्, सिल्वेर् => गोल्द्द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला । (६५।१)

mṛta lead, silver => golddrutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā |

65.2६५.२

एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥ (६५।२)

ekadvitricatuḥpañcapalāni kramato bhavet ||

66.1६६.१

गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् । (६६।१)

gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam |

66.2६६.२

शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥ (६६।२)

śuddhāni nāgapatrāṇi samamānena lepayet ||

67.1६७.१

रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् । (६७।१)

ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet |

67.2६७.२

समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥ (६७।२)

samena pūrvakalkena ruddhvā tadvatpuṭe pacet ||

68.1६८.१

एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् । (६८।१)

evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam |

68.2६८.२

अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥ (६८।२)

anena śatabhāgena tāravedhāttu kāñcanam ||

69.1६९.१

सिल्वेर् (+ मृतनाग अन्द् गोल्द्) => गोल्द्तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् । (६९।१)

silver (+ mṛtanāga and gold) => goldtena vā mṛtanāgena hyamlapiṣṭena lepayet |

69.2६९.२

समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥ (६९।२)

samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet ||

70.1७०.१

नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् । (७०।१)

nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam |

70.2७०.२

अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥ (७०।२)

anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet ||

71.0७१.०

सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥ (७१।०)

sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam ||

72.1७२.१

मेर्चुर्य्:: खोटबन्धद्रवैस् तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे । (७२।१)

mercury:: khoṭabandhadravais tumbaruvallyāstu dhānyābhraṃ saptadhātape |

72.2७२.२

भावयेत् खोटयेत् पश्चात् कर्षैके द्रुतसूतके ॥ (७२।२)

bhāvayet khoṭayet paścāt karṣaike drutasūtake ||

73.1७३.१

माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् । (७३।१)

māṣamātraṃ kṣipedetattaptakhalve vimardayet |

73.2७३.२

गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् । (७३।२)

gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet |

73.3७३.३

वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् । (७३।३)

vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet |

73.4७३.४

इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥ (७३।४)

ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ ||

74.1७४.१

चोप्पेर् => गोल्दस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् । (७४।१)

copper => goldasya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam |

74.2७४.२

शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥ (७४।२)

śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet ||

75.1७५.१

त्रिदिनं मातुलुङ्गाम्लैर् एतत्कल्केन लेपयेत् । (७५।१)

tridinaṃ mātuluṅgāmlair etatkalkena lepayet |

75.2७५.२

कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥ (७५।२)

karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ ||

76.1७६.१

लिप्त्वा तत् पातनायन्त्रे पाचयेद्दिवसत्रयम् । (७६।१)

liptvā tat pātanāyantre pācayeddivasatrayam |

76.2७६.२

पिष्ट्वा दिनावधि ॥ (७६।२)

piṣṭvā dināvadhi ||

77.1७७.१

अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् । (७७।१)

anena tārapatrāṇi karṣamekaṃ pralepayet |

77.2७७.२

पूर्ववत् पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥ (७७।२)

pūrvavat pātanāyantre pācayeddivasatrayam ||

78.1७८.१

अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् । (७८।१)

anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet |

78.2७८.२

जायते कनकं दिव्यं देवाभरणभूषणम् ॥ (७८।२)

jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam ||

79.1७९.१

मेर्चुर्य्:: मारण:: wहिते चोलोउर्क्षीरेणोत्तरवारुण्यास् त्रिदिनं शुद्धपारदम् । (७९।१)

mercury:: māraṇa:: white colourkṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam |

79.2७९.२

मर्दयेत्तप्तखल्वे व तं [॥। औ५ ज़ेइछेन्झ्] ॥ (७९।२)

mardayettaptakhalve va taṃ ||

80.1८०.१

करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना । (८०।१)

karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā |

80.2८०.२

समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥ (८०।२)

samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet ||

81.1८१.१

तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः । (८१।१)

tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ |

81.2८१.२

चन्द्रार्क => गोल्दार्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥ (८१।२)

candrārka => goldārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu ||

82.1८२.१

अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् । (८२।१)

amlavetasametaistu tadrasaṃ mardayeddinam |

82.2८२.२

गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥ (८२।२)

golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet ||

83.1८३.१

कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः । (८३।१)

kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ |

83.2८३.२

तद्रसं हाटकं नागं समं रुद्ध्वा धमेद् दृढम् ॥ (८३।२)

tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham ||

84.1८४.१

तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् । (८४।१)

tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam |

84.2८४.२

अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥ (८४।२)

amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam ||

85.1८५.१

गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् । (८५।१)

gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam |

85.2८५.२

कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥ (८५।२)

kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet ||

86.1८६.१

अनेन लेपितं गोलम् अंधमूषागतं धमेत् । (८६।१)

anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet |

86.2८६.२

यावत् सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥ (८६।२)

yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ ||

87.1८७.१

पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु । (८७।१)

pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu |

87.2८७.२

इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥ (८७।२)

ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet ||

88.1८८.१

स्वर्णेन च समावर्त्य सारणात्रयसारितम् । (८८।१)

svarṇena ca samāvartya sāraṇātrayasāritam |

88.2८८.२

चन्द्रार्कं वेधयेत्तेन शतांशात् कांचनं भवेत् ॥ (८८।२)

candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet ||

89.1८९.१

चोप्पेर् => गोल्द्पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् । (८९।१)

copper => goldpiṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam |

89.2८९.२

कान्तलोहं व्योमसत्त्वम् एकैकं पन्नगार्धकम् ॥ (८९।२)

kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam ||

90.1९०.१

एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् । (९०।१)

ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam |

90.2९०.२

दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥ (९०।२)

dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam ||

91.1९१.१

शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् । (९१।१)

śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam |

91.2९१.२

मेर्चुर्य्:: बन्ध:: खोटसुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् । (९१।२)

mercury:: bandha:: khoṭasuvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam |

91.3९१.३

कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद् दृढम् ॥ (९१।३)

kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham ||

92.1९२.१

तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् । (९२।१)

tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam |

92.2९२.२

दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥ (९२।२)

dattvātha mardayedamlairyāvadbhavati golakam ||

93.1९३.१

गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । (९३।१)

golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam |

93.2९३.२

मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ (९३।२)

mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ ||

94.1९४.१

रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् । (९४।१)

ruddhvātha bhūdhare pacyāddinānte tu samuddharet |

94.2९४.२

तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥ (९४।२)

tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet ||

95.1९५.१

पूर्ववद् भूधरे पच्यादेवं देयं तु सप्तधा । (९५।१)

pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā |

95.2९५.२

द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥ (९५।२)

drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā ||

96.1९६.१

तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् । (९६।१)

tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet |

96.2९६.२

जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥ (९६।२)

jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate ||

97.1९७.१

तारारिष्ट, चन्द्रार्क, माक्षिक => गोल्द्कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद् द्रुतम् । (९७।१)

tārāriṣṭa, candrārka, mākṣika => goldkṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam |

97.2९७.२

तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥ (९७।२)

tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat ||

98.1९८.१

तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् । (९८।१)

tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam |

98.2९८.२

मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ (९८।२)

mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet ||

99.1९९.१

पुनर्मर्द्यं पुनः पाच्यम् एवं वारांश्चतुर्दश । (९९।१)

punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa |

99.2९९.२

अनेन पूर्वखोटे तु द्रावितं रञ्जयेत् क्रमात् ॥ (९९।२)

anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt ||

100.1१००.१

रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् । (१००।१)

rañjayecchatavārāṇi bhavetkuṃkumasannibham |

100.2१००.२

सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥ (१००।२)

suvarṇena samāvartya sārayetsāraṇātrayam ||

101.1१०१.१

सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् । (१०१।१)

sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet |

101.2१०१.२

चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥ (१०१।२)

candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam ||

102.1१०२.१

लेअद्, सिल्बेर् => गोल्द्तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् । (१०२।१)

lead, silber => goldtīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet |

102.2१०२.२

तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ (१०२।२)

tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam ||

103.1१०३.१

मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् । (१०३।१)

mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet |

103.2१०३.२

पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ (१०३।२)

punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa ||

104.1१०४.१

तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः । (१०४।१)

taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ |

104.2१०४.२

पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥ (१०४।२)

pakvabījaṃ bhavettattu drutasūte samaṃ dinam ||

105.1१०५.१

मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् । (१०५।१)

mardayedamlayogena tasya bhāgacatuṣṭayam |

105.2१०५.२

एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥ (१०५।२)

evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi ||

106.1१०६.१

मर्दयेत् कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् । (१०६।१)

mardayet kanyakādrāvaistadruddhvā bhūdhare pacet |

106.2१०६.२

द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥ (१०६।२)

drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ ||

107.1१०७.१

इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् । (१०७।१)

ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam |

107.2१०७.२

ततस्तं मर्दयेद् अम्लै रुद्ध्वा मूषां पुटेत्तथा ॥ (१०७।२)

tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā ||

108.1१०८.१

पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् । (१०८।१)

punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam |

108.2१०८.२

पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥ (१०८।२)

puṭaṃ deyaṃ prayatnena jāyate sindūraprabham ||

109.1१०९.१

सहस्रांशेन नागस्य द्रुतस्य रजतस्य च । (१०९।१)

sahasrāṃśena nāgasya drutasya rajatasya ca |

109.2१०९.२

देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥ (१०९।२)

deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam ||

110.1११०.१

सिल्वेर् => गोल्द्गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् । (११०।१)

silver => goldgaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet |

110.2११०.२

शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥ (११०।२)

śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā ||

111.1१११.१

द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् । (१११।१)

drutapāradamadhye tu kiṃcitkarpūrasaṃyutam |

111.2१११.२

गंधकं दापयेद् घर्मे वापयेत्ताम्रखल्वके ॥ (१११।२)

gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake ||

112.1११२.१

कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः । (११२।१)

karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ |

112.2११२.२

त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥ (११२।२)

trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā ||

113.1११३.१

कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् । (११३।१)

kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam |

113.2११३.२

स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥ (११३।२)

stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet ||

114.1११४.१

बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् । (११४।१)

bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam |

114.2११४.२

शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ (११४।२)

śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet ||

115.1११५.१

जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः । (११५।१)

jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ |

115.2११५.२

तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥ (११५।२)

tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet ||

116.1११६.१

अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् । (११६।१)

anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet |

116.2११६.२

तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥ (११६।२)

tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham ||

117.1११७.१

चन्द्रार्क => गोल्दथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् । (११७।१)

candrārka => goldathavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam |

117.2११७.२

तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥ (११७।२)

tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam ||

118.1११८.१

मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः । (११८।१)

mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ |

118.2११८.२

अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥ (११८।२)

andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam ||

119.1११९.१

समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् । (११९।१)

samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam |

119.2११९.२

दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात् त्रिसप्तधा ॥ (११९।२)

dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā ||

120.1१२०.१

तस्मिन् भस्मपलमेकं पारदं गंधकस्य तु । (१२०।१)

tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu |

120.2१२०.२

अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥ (१२०।२)

aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam ||

121.1१२१.१

पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् । (१२१।१)

pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet |

121.2१२१.२

द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥ (१२१।२)

drutaṃ ca tatsarvamamlavargeṇa mardayet ||

122.1१२२.१

दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः । (१२२।१)

dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ |

122.2१२२.२

जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥ (१२२।२)

jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt ||

123.1१२३.१

सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः । (१२३।१)

sārayecca tridhā hema candrārkaṃ vedhayettataḥ |

123.2१२३.२

सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ (१२३।२)

sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam ||

124.1१२४.१

सितस्वर्ण => गोल्धेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद् दृढम् । (१२४।१)

sitasvarṇa => goldhemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham |

124.2१२४.२

तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥ (१२४।२)

tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam ||

125.1१२५.१

मर्दयेद् गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् । (१२५।१)

mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet |

125.2१२५.२

पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ (१२५।२)

punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa ||

126.1१२६.१

अनेन शतमांशेन सितहेम च वेधयेत् । (१२६।१)

anena śatamāṃśena sitahema ca vedhayet |

126.2१२६.२

जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥ (१२६।२)

jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt ||

127.1१२७.१

बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः । (१२७।१)

baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ |

127.2१२७.२

वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥ (१२७।२)

vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit