रसरत्नाकरRasaratnākara

RRĀ, 1, 2

2 of 39 · 98 verses

Select a line for its word-by-word analysis.

1.1१.१

निःसारं वीक्ष्य विश्वं गदविकलवपुर् व्याप्तम् एवातितप्तम् । (१।१)

niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam |

1.2१.२

भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥ (१।२)

bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim ||

2.1२.१

दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनाम् इष्टसिद्ध्यै । (२।१)

dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai |

2.2२.२

शृण्वन्तूच्चैर् मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः । (२।२)

śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ |

2.3२.३

यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धं । (२।३)

yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ |

2.4२.४

नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः । (२।४)

no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ |

2.5२.५

स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् । (२।५)

svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat |

2.6२.६

तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥ (२।६)

tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ ||

3.1३.१

अष्टदोषनिवारणअथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् । (३।१)

aṣṭadoṣanivāraṇaathātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam |

3.2३.२

इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥ (३।२)

iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu ||

4.1४.१

मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् । (४।१)

mardayettaptakhalve taṃ jambīrotthadravairdinam |

4.2४.२

खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥ (४।२)

khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā ||

5.1५.१

काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये । (५।१)

kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye |

5.2५.२

विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ (५।२)

viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet ||

6.1६.१

राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् । (६।१)

rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam |

6.2६.२

चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥ (६।२)

cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam ||

7.1७.१

कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः । (७।१)

kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ |

7.2७.२

(२)प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ (७।२)

(2)pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam ||

8.1८.१

सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् । (८।१)

suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam |

8.2८.२

प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥ (८।२)

pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet ||

9.1९.१

उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः । (९।१)

uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ |

9.2९.२

सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥ (९।२)

sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ ||

10.1१०.१

जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि । (१०।१)

jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi |

10.2१०.२

तप्तखल्व (?)अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् । (१०।२)

taptakhalva (?)ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet |

10.3१०.३

तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥ (१०।३)

tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam ||

11.1११.१

मेर्चुर्य्:: शोधनश्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः । (११।१)

mercury:: śodhanaśrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ |

11.2११.२

कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् । (११।२)

karkoṭīmūṣalīkanyādrave dattvā vimardayet |

11.3११.३

दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥ (११।३)

dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet ||

12.1१२.१

मेर्चुर्य्:: शोधनकुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् । (१२।१)

mercury:: śodhanakumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet |

12.2१२.२

पातयेत् पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ॥ (१२।२)

pātayet pātanāyantre samyak śuddho bhavedrasaḥ ||

13.1१३.१

हिंगुलोत्थपारदशोधनपारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् । (१३।१)

hiṃgulotthapāradaśodhanapāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam |

13.2१३.२

जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥ (१३।२)

jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake ||

14.1१४.१

तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् । (१४।१)

taṃ sūtaṃ yojayedyoge saptakañcukavarjitam |

14.2१४.२

इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥ (१४।२)

ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet ||

15.1१५.१

शुद्धसूतमारणौषधयःअथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे । (१५।१)

śuddhasūtamāraṇauṣadhayaḥathaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe |

15.2१५.२

ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥ (१५।२)

brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā ||

16.1१६.१

वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका । (१६।१)

vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā |

16.2१६.२

विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥ (१६।२)

viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā ||

17.1१७.१

कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका । (१७।१)

kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā |

17.2१७.२

वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥ (१७।२)

vastā raktāgranirguṇḍī lajjālī devadālikā ||

18.1१८.१

जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् । (१८।१)

jātī jayantī vārāhī bhūkadambaṃ kuraṇṭakam |

18.2१८.२

कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥ (१८।२)

koṣātakī nīrakaṇā lāṅgalī sahadevikāḥ ||

19.1१९.१

चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया । (१९।१)

cakramardo'mṛtākandaṃ kākamācī ravipriyā |

19.2१९.२

विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट् पटुः ॥ (१९।२)

viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ ||

20.1२०.१

इत्येताः मूलिका आख्याता योज्या पारदमारिकाः । (२०।१)

ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ |

20.2२०.२

एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥ (२०।२)

etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ ||

21.1२१.१

पारदभस्मनिर्माणअप्रसूतगवां मूत्रे पेषयेद् रक्तमूलिकाम् । (२१।१)

pāradabhasmanirmāṇaaprasūtagavāṃ mūtre peṣayed raktamūlikām |

21.2२१.२

तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥ (२१।२)

taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam ||

22.1२२.१

तप्तखल्वे चतुर्यामम् अविच्छिन्नं विमर्दयेत् । (२२।१)

taptakhalve caturyāmam avicchinnaṃ vimardayet |

22.2२२.२

तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥ (२२।२)

tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe ||

23.1२३.१

एवं दशपुटैर् मार्यं मर्द्यं पात्यं पुनः पुनः । (२३।१)

evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ |

23.2२३.२

तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥ (२३।२)

taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet ||

24.1२४.१

भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् । (२४।१)

bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet |

24.2२४.२

द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥ (२४।२)

dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ ||

25.1२५.१

मूलिकामारितः सूतो जारणक्रमवर्जितः । (२५।१)

mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ |

25.2२५.२

न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥ (२५।२)

na krameddehalohābhyāṃ rogahartā bhaveddhruvam ||

26.1२६.१

मेर्चुर्य्:: मारणरसं गन्धकतैलेन द्विगुणेन विमर्दयेत् । (२६।१)

mercury:: māraṇarasaṃ gandhakatailena dviguṇena vimardayet |

26.2२६.२

दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥ (२६।२)

dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ ||

27.1२७.१

त्र्यहं विमर्दयेद् द्रावैस् त्रिंशद्धट्टमहापुटे । (२७।१)

tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe |

27.2२७.२

इत्येवमष्टधा पाच्यं रसो भस्मीभवेद् ध्रुवम् ॥ (२७।२)

ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam ||

28.1२८.१

रसभस्मनिर्माण (३)श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् । (२८।१)

rasabhasmanirmāṇa (3)śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam |

28.2२८.२

पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥ (२८।२)

puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet ||

29.1२९.१

देवदालीं हरिक्रान्तामारनालेन पेषयेत् । (२९।१)

devadālīṃ harikrāntāmāranālena peṣayet |

29.2२९.२

सप्तधा सूतकं तेन कुर्याद्धमनम् उत्थितम् ॥ (२९।२)

saptadhā sūtakaṃ tena kuryāddhamanam utthitam ||

30.1३०.१

तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् । (३०।१)

taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam |

30.2३०.२

चुल्ल्योपरि पचेद् वह्नौ भस्म स्यादरुणोपमम् ॥ (३०।२)

cullyopari paced vahnau bhasma syādaruṇopamam ||

31.1३१.१

पारदमारण (४)काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् । (३१।१)

pāradamāraṇa (4)kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet |

31.2३१.२

सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥ (३१।२)

saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ ||

32.1३२.१

काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् । (३२।१)

kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam |

32.2३२.२

दत्त्वा तेन पुनर् मर्द्यं हिंगु वङ्गरसेश्वरम् ॥ (३२।२)

dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram ||

33.1३३.१

क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् । (३३।१)

kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet |

33.2३३.२

अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥ (३३।२)

aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe ||

34.1३४.१

पारदमारण (५)अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् । (३४।१)

pāradamāraṇa (5)apāmārgasya bījāni tathairaṇḍasya cūrṇayet |

34.2३४.२

तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥ (३४।२)

taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet ||

35.1३५.१

रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् । (३५।१)

ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet |

35.2३५.२

पारदमारण (६)कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥ (३५।२)

pāradamāraṇa (6)kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai ||

36.1३६.१

सप्तधा म्रियते सूतः स्वेदयेद् गोमयाग्निना । (३६।१)

saptadhā mriyate sūtaḥ svedayed gomayāgninā |

36.2३६.२

पारदमारण (७)अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥ (३६।२)

pāradamāraṇa (7)aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet ||

37.1३७.१

सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् । (३७।१)

sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet |

37.2३७.२

पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥ (३७।२)

puṭayedbhūdhare yantre dinānte taṃ samuddharet ||

38.1३८.१

पारदमारण (८)धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः । (३८।१)

pāradamāraṇa (8)dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ |

38.2३८.२

दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥ (३८।२)

dinaikaṃ tena kalkena vastre liptvā ca vartikām ||

39.1३९.१

विलिप्य तैलैर्वर्तिं ताम् एरण्डोत्थैः पुनः पुनः । (३९।१)

vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ |

39.2३९.२

प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥ (३९।२)

prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ ||

40.1४०.१

कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः । (४०।१)

kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ |

40.2४०.२

दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥ (४०।२)

dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ ||

41.1४१.१

मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् । (४१।१)

mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet |

41.2४१.२

पारदमारण (९)द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥ (४१।२)

pāradamāraṇa (9)dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam ||

42.1४२.१

मर्दयेन्मारकद्रावैर् दिनमेकं निरन्तरम् । (४२।१)

mardayenmārakadrāvair dinamekaṃ nirantaram |

42.2४२.२

बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत् पुटात् ॥ (४२।२)

baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt ||

43.1४३.१

वज्रमूषातुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका । (४३।१)

vajramūṣātuṣadagdhasya bhāgau dvāveko valmīkamṛttikā |

43.2४३.२

लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥ (४३।२)

lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam ||

44.1४४.१

नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् । (४४।१)

narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet |

44.2४४.२

यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥ (४४।२)

yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām ||

45.1४५.१

शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च । (४५।१)

śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca |

45.2४५.२

वज्रमूषा समाख्याता सम्यक् पारदमारिका ॥ (४५।२)

vajramūṣā samākhyātā samyak pāradamārikā ||

46.1४६.१

भस्मसूतवर्णाःश्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् । (४६।१)

bhasmasūtavarṇāḥśvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham |

46.2४६.२

लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥ (४६।२)

lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 1, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit