रसरत्नाकरRasaratnākara

RRĀ, 3, 10

29 of 39 · 179 verses

Select a line for its word-by-word analysis.

1.1१.१

लोहैर् महारसवरैर् विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् । (१।१)

lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam |

1.2१.२

योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥ (१।२)

yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram ||

2.1२.१

पक्वबीज (१)ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः । (२।१)

pakvabīja (1)tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ |

2.2२.२

साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥ (२।२)

sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam ||

3.1३.१

एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् । (३।१)

evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam |

3.2३.२

पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥ (३।२)

pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet ||

4.1४.१

पक्वबीजनागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् । (४।१)

pakvabījanāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam |

4.2४.२

पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥ (४।२)

pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam ||

5.1५.१

पक्वबीज (३)स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् । (५।१)

pakvabīja (3)svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet |

5.2५.२

ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् । (५।२)

tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet |

5.3५.३

एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥ (५।३)

evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam ||

6.0६.०

पक्वबीज (४)रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥ (६।०)

pakvabīja (4)rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram ||

7.1७.१

चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । (७।१)

cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |

7.2७.२

तत्खोटं माक्षिकं तुत्थम् अम्लैः पिष्ट्वा पुटे पचेत् ॥ (७।२)

tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet ||

8.1८.१

समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् । (८।१)

samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet |

8.2८.२

एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् । (८।२)

evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet |

8.3८.३

धमेद्दशगुणं यावत् तावत् स्यात् पक्वबीजकम् ॥ (८।३)

dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam ||

9.1९.१

बीज:: ड़्रोम् लेअद्लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै । (९।१)

bīja:: from leadlohasya kuṭyamānasya sutaptasya dalāni vai |

9.2९.२

पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥ (९।२)

patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ ||

10.1१०.१

लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् । (१०।१)

lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam |

10.2१०.२

मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥ (१०।२)

mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ ||

11.1११.१

एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् । (११।१)

etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet |

11.2११.२

पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥ (११।२)

punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa ||

12.1१२.१

एवं शतगुणं वाह्यं शुद्धहेम्नि धमन् धमन् । (१२।१)

evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman |

12.2१२.२

तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥ (१२।२)

tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet ||

13.1१३.१

बीज:: ड़्रोम् लेअद्:: पक्व:: रञ्जनखर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि । (१३।१)

bīja:: from lead:: pakva:: rañjanakharparasthe drute nāge brahmabījadalāni hi |

13.2१३.२

क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ (१३।२)

kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet ||

14.1१४.१

चतुर्यामात्तु तद् भस्म जातं पात्रात्समुद्धरेत् । (१४।१)

caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet |

14.2१४.२

रुद्ध्वा गजपुटे पच्यात् पादांशं गंधकं पुनः ॥ (१४।२)

ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ ||

15.1१५.१

दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश । (१५।१)

dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa |

15.2१५.२

रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥ (१५।२)

raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet ||

16.1१६.१

भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् । (१६।१)

bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet |

16.2१६.२

पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥ (१६।२)

pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai ||

17.1१७.१

शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् । (१७।१)

śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet |

17.2१७.२

नागिनी नागकन्या च कुमारी चाहिमारकम् ॥ (१७।२)

nāginī nāgakanyā ca kumārī cāhimārakam ||

18.1१८.१

सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् । (१८।१)

sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet |

18.2१८.२

सर्वं चतुर्गुणैर् मूत्रैश्छागजैः क्वाथमाचरेत् ॥ (१८।२)

sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret ||

19.1१९.१

पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् । (१९।१)

pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet |

19.2१९.२

चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥ (१९।२)

cālayetpācayeccullyāṃ yāvatsaptadināvadhi ||

20.1२०.१

यत्नेन मृतनागेन वापो देयो द्रुतस्य च । (२०।१)

yatnena mṛtanāgena vāpo deyo drutasya ca |

20.2२०.२

पक्वबीजस्य वारांस्त्रीन् रञ्जितं जायते शुभम् ॥ (२०।२)

pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham ||

21.1२१.१

लेअद्:: मृत:: अल्छेम्। उसेदलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः । (२१।१)

lead:: mṛta:: alchem. usedalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ |

21.2२१.२

उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥ (२१।२)

uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam ||

22.0२२.०

बीज:: पक्व:: रञ्जनमञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥ (२२।०)

bīja:: pakva:: rañjanamañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam ||

23.1२३.१

सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् । (२३।१)

sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet |

23.2२३.२

खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥ (२३।२)

khādiraṃ devadāruṃ ca dviniśā raktacandanam ||

24.1२४.१

सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् । (२४।१)

sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam |

24.2२४.२

पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । (२४।२)

pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet |

24.3२४.३

त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥ (२४।३)

trisaptadhā pakvabījaṃ rañjate jāyate śubham ||

25.1२५.१

बीज:: पक्व, रञ्जित:: अल्छेम्। उसेगर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे । (२५।१)

bīja:: pakva, rañjita:: alchem. usegarbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe |

25.2२५.२

समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥ (२५।२)

samena jārayetsūtaṃ dviguṇena tu sārayet ||

26.1२६.१

त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् । (२६।१)

triguṇena hyanenaiva kartavyaṃ pratisāraṇam |

26.2२६.२

सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥ (२६।२)

sāritaṃ krāmaṇenaiva vedhakāle niyojayet ||

27.1२७.१

बीज:: ड़्रोम् सिल्वेर्विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च । (२७।१)

bīja:: from silvervimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca |

27.2२७.२

रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥ (२७।२)

rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet ||

28.1२८.१

चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् । (२८।१)

cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet |

28.2२८.२

मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥ (२८।२)

mardayedamlayogena ruddhvā gajapuṭe pacet ||

29.1२९.१

एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् । (२९।१)

evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet |

29.2२९.२

धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥ (२९।२)

dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam ||

30.1३०.१

बीज:: ड़्रोम् सिल्वेर्ताप्येन मारयेद् बंगं यथा तालेन मारितम् । (३०।१)

bīja:: from silvertāpyena mārayed baṃgaṃ yathā tālena māritam |

30.2३०.२

तद् द्वात्रिंशगुणं तारे वाहयेत्तालवापतः । (३०।२)

tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ |

30.3३०.३

ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥ (३०।३)

tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam ||

31.1३१.१

बीज:: ड़्रोम् सिल्वेर्कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् । (३१।१)

bīja:: from silverkuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet |

31.2३१.२

ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥ (३१।२)

dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam ||

32.1३२.१

पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् । (३२।१)

puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet |

32.2३२.२

यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥ (३२।२)

yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham ||

33.1३३.१

बीज:: ड़्रोम् सिल्वेर्बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् । (३३।१)

bīja:: from silverbaṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam |

33.2३३.२

द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥ (३३।२)

dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam ||

34.1३४.१

वाह्यं दशगुणं तारे तारमाक्षिकवापतः । (३४।१)

vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ |

34.2३४.२

तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥ (३४।२)

tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam ||

35.0३५.०

तारबीजरञ्जनयथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः ॥ (३५।०)

tārabījarañjanayathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ ||

36.1३६.१

रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः । (३६।१)

rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ |

36.2३६.२

पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥ (३६।२)

pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet ||

37.1३७.१

द्रावितं तारबीजं तु एकविंशतिवारकम् । (३७।१)

drāvitaṃ tārabījaṃ tu ekaviṃśativārakam |

37.2३७.२

रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥ (३७।२)

rañjitaṃ jāyate tattu rasarājasya rañjakam ||

38.1३८.१

सारणातैलज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् । (३८।१)

sāraṇātailajyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam |

38.2३८.२

तैलमेकं समादाय मण्डूकवसया समम् ॥ (३८।२)

tailamekaṃ samādāya maṇḍūkavasayā samam ||

39.1३९.१

कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा । (३९।१)

kūrmasūkarameṣāhijalūkāmatsyajāpi vā |

39.2३९.२

एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥ (३९।२)

eteṣvekā vasā grāhyā pūrvatailaṃ samāharet ||

40.1४०.१

रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः । (४०।१)

raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ |

40.2४०.२

पुष्पाणां रक्तपीतानाम् एकैकानां द्रवं हरेत् ॥ (४०।२)

puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret ||

41.1४१.१

एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् । (४१।१)

etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam |

41.2४१.२

पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥ (४१।२)

pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā ||

42.1४२.१

प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् । (४२।१)

pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam |

42.2४२.२

योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥ (४२।२)

yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam ||

43.1४३.१

द्वन्द्वमेलापयोर् एकं तैलात् षोडशकांशकम् । (४३।१)

dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam |

43.2४३.२

प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पाचयेत् ॥ (४३।२)

pratyekaṃ yojayettasmin sarvamekatra pācayet ||

44.1४४.१

ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् । (४४।१)

grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet |

44.2४४.२

विख्यातं सारणातैलं रसराजस्य कर्मणि ॥ (४४।२)

vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi ||

45.1४५.१

क्रामण:: सुब्स्तन्चेस् ड़ोर् ~नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् । (४५।१)

krāmaṇa:: substances for ~nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam |

45.2४५.२

क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥ (४५।२)

krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu ||

46.1४६.१

क्रामण:: सुब्स्तन्चेस् ड़ोर् सौराष्ट्रीं भावयेद् घर्मे गवां पित्तैः त्रिधाततः । (४६।१)

krāmaṇa:: substances for saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ |

46.2४६.२

तत्सत्त्वं सोमवद् ग्राह्यं क्रामकं योजयेद्रसे ॥ (४६।२)

tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase ||

47.1४७.१

क्रामण:: सुब्स्तन्चेस् ड़ोर् ~मनःशिला विषं ताप्यं महिषीकर्णजं मलम् । (४७।१)

krāmaṇa:: substances for ~manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam |

47.2४७.२

काकविट् खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥ (४७।२)

kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam ||

48.1४८.१

क्रामण:: सुब्स्तन्चेस् ड़ोर् ~नररक्तार्कदुग्धं च टंकणं भूलता शिला । (४८।१)

krāmaṇa:: substances for ~nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā |

48.2४८.२

समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥ (४८।२)

samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu ||

49.1४९.१

क्रामणसत्त्व (५)इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः । (४९।१)

krāmaṇasattva (5)indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ |

49.2४९.२

रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् । (४९।२)

rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet |

49.3४९.३

क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥ (४९।३)

krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet ||

50.1५०.१

क्रामण:: सुब्स्तन्चेस् ड़ोर् ~; वेध:: ~रसं धान्याभ्रकं सत्त्वं काकविट् हरितालकम् । (५०।१)

krāmaṇa:: substances for ~; vedha:: ~rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam |

50.2५०.२

नयनं सहदेवानां भूनागश्च समं समम् ॥ (५०।२)

nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam ||

51.0५१.०

पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥ (५१।०)

piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet ||

52.1५२.१

क्रामणसत्त्व (७)कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् । (५२।१)

krāmaṇasattva (7)kadalīkandasauvīraṃ kaṇṭakārīrasaplutam |

52.2५२.२

क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥ (५२।२)

krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam ||

53.1५३.१

क्रामणेन विना सूतो न क्रमेद्देहलोहयोः । (५३।१)

krāmaṇena vinā sūto na krameddehalohayoḥ |

53.2५३.२

उक्तस्थानेषु योगेषु तस्मात् सर्वेषु योजयेत् ॥ (५३।२)

uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet ||

54.1५४.१

महाविडदग्धं शंखं रविक्षीरैर्भावितं शतधातपे । (५४।१)

mahāviḍadagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape |

54.2५४.२

ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥ (५४।२)

tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe ||

55.1५५.१

तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् । (५५।१)

tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet |

55.2५५.२

राजावर्तं प्रवालं च दरदं गंधकं शिला ॥ (५५।२)

rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā ||

56.1५६.१

पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् । (५६।१)

pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet |

56.2५६.२

सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ (५६।२)

sarvaṃ tadamlavargeṇa mardayeddivasatrayam ||

57.1५७.१

अयं महाविडः ख्यातः खोटानां जारणे हितः । (५७।१)

ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ |

57.2५७.२

मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥ (५७।२)

mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā ||

58.0५८.०

तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥ (५८।०)

tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ ||

59.1५९.१

विड (२)त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् । (५९।१)

viḍa (2)trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam |

59.2५९.२

इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥ (५९।२)

indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam ||

60.1६०.१

भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे । (६०।१)

bhāvayedamlavargeṇa tridinaṃ hyātape khare |

60.2६०.२

अनेन मर्दितः सूतो भक्षयेद् अष्टलोहकम् ॥ (६०।२)

anena marditaḥ sūto bhakṣayed aṣṭalohakam ||

61.1६१.१

विड (३)व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् । (६१।१)

viḍa (3)vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam |

61.2६१.२

सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः । (६१।२)

sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ |

61.3६१.३

दशाहं भावयेद् घर्मे विडोऽयं जारणे हितः ॥ (६१।३)

daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ ||

62.1६२.१

विड (४)दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे । (६२।१)

viḍa (4)dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape |

62.2६२.२

ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥ (६२।२)

tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam ||

63.1६३.१

विड (५)त्रिक्षारं पञ्चलवणम् अम्लवेतससंयुतम् । (६३।१)

viḍa (5)trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam |

63.2६३.२

अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥ (६३।२)

anena mardayetsūtamabhrasattvaṃ caratyalam ||

64.1६४.१

विड (६)गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् । (६४।१)

viḍa (6)gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet |

64.2६४.२

शिग्रुमूलद्रवैस् तद्वद् दग्धं शङ्खं विभावयेत् ॥ (६४।२)

śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet ||

65.1६५.१

एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् । (६५।१)

etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam |

65.2६५.२

एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥ (६५।२)

etairvimarditaṃ sūtaṃ grasate sarvalohakam ||

66.1६६.१

वह्निमुखो विड (७)टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः । (६६।१)

vahnimukho viḍa (7)ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ |

66.2६६.२

विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥ (६६।२)

viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe ||

67.1६७.१

विड (८)गंधकं नवसारं वा मुखं कांतस्य चातपे । (६७।१)

viḍa (8)gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape |

67.2६७.२

शतधा मूत्रवर्गेण भावितं स्याद् विडं पृथक् ॥ (६७।२)

śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak ||

68.1६८.१

ज्वालामुखो विडः (९)त्रिक्षारं गंधकं तालं भूखगं नवसारकम् । (६८।१)

jvālāmukho viḍaḥ (9)trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam |

68.2६८.२

सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥ (६८।२)

saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet ||

69.0६९.०

ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥ (६९।०)

jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe ||

70.1७०.१

विड (१०)गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः । (७०।१)

viḍa (10)gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ |

70.2७०.२

जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥ (७०।२)

jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak ||

71.1७१.१

विड:: वडवानलवासकैरंडकदली देवदाली पुनर्नवा । (७१।१)

viḍa:: vaḍavānalavāsakairaṃḍakadalī devadālī punarnavā |

71.2७१.२

वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥ (७१।२)

vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam ||

72.1७२.१

एतान् समूलान् आदाय नातिशुष्कान् विखण्डयेत् । (७२।१)

etān samūlān ādāya nātiśuṣkān vikhaṇḍayet |

72.2७२.२

पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥ (७२।२)

pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam ||

73.1७३.१

एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् । (७३।१)

etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet |

73.2७३.२

वस्त्रपूतं द्रवं पच्यात् मृद्वग्नौ लोहपात्रके ॥ (७३।२)

vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake ||

74.1७४.१

बाष्पाणां बुद्बुदानां च बहूनाम् उद्गमो यदा । (७४।१)

bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā |

74.2७४.२

तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥ (७४।२)

tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam ||

75.1७५.१

गंधकं पंचलवणं नवसारं च हिंगुलम् । (७५।१)

gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam |

75.2७५.२

एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥ (७५।२)

eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet ||

76.1७६.१

गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् । (७६।१)

guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet |

76.2७६.२

सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः । (७६।२)

saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ |

76.3७६.३

सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥ (७६।३)

saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ ||

77.1७७.१

विड:: ड़ोर् सत्त्वजारणभावयेन्निचुलक्षारं देवदालीदलद्रवैः । (७७।१)

viḍa:: for sattvajāraṇabhāvayenniculakṣāraṃ devadālīdaladravaiḥ |

77.2७७.२

एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥ (७७।२)

ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe ||

78.1७८.१

विड:: तीव्रानलदेवदालीशिफाबीजं गुंजासैंधवटंकणम् । (७८।१)

viḍa:: tīvrānaladevadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam |

78.2७८.२

समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥ (७८।२)

samāṃśaṃ niculakṣāramamlavargeṇa saptadhā ||

79.1७९.१

कोशातकीदलरसैर्भावयेद्दिनसप्तकम् । (७९।१)

kośātakīdalarasairbhāvayeddinasaptakam |

79.2७९.२

तीव्रानलो नाम बिडो विहितो हेमजारणे ॥ (७९।२)

tīvrānalo nāma biḍo vihito hemajāraṇe ||

80.1८०.१

विड:: ड़ोर् जारण ओड़् गोल्द्मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् । (८०।१)

viḍa:: for jāraṇa of goldmūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam |

80.2८०.२

वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥ (८०।२)

vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet ||

81.0८१.०

शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ (८१।०)

śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe ||

82.1८२.१

विड:: ड़ोर् जारण ओड़् गोल्द्त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला । (८२।१)

viḍa:: for jāraṇa of goldtrikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā |

82.2८२.२

दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥ (८२।२)

dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe ||

83.1८३.१

विड:: ड़ोर् जारण ओड़् गोल्द्गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् । (८३।१)

viḍa:: for jāraṇa of goldgaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet |

83.2८३.२

शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥ (८३।२)

śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe ||

84.1८४.१

विड:: ड़ोर् जारणकन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् । (८४।१)

viḍa:: for jāraṇakanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam |

84.2८४.२

शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥ (८४।२)

śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe ||

85.0८५.०

अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥ (८५।०)

anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe ||

86.1८६.१

विड:: ड़ोर् इम्प्रोवेमेन्त् ओड़् ग्रासनसैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् । (८६।१)

viḍa:: for improvement of grāsanasaiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam |

86.2८६.२

अनेन बिडयोगेन गगनं ग्रसते रसः ॥ (८६।२)

anena biḍayogena gaganaṃ grasate rasaḥ ||

87.1८७.१

सिद्धविडशिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् । (८७।१)

siddhaviḍaśilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam |

87.2८७.२

पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥ (८७।२)

palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet ||

88.1८८.१

शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् । (८८।१)

śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam |

88.2८८.२

तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥ (८८।२)

tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā ||

89.1८९.१

एवम् अष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् । (८९।१)

evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet |

89.2८९.२

अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥ (८९।२)

ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi ||

90.1९०.१

सम्यक् संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् । (९०।१)

samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam |

90.2९०.२

रागै रञ्जितबीजजालम् अखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥ (९०।२)

rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit