RRĀ, 3, 17
Select a line for its word-by-word analysis.
वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद् द्रुतं द्रवभवं किल बंधयोग्यम् । (१।१)
vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam |
नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥ (१।२)
nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām ||
अभ्र:: द्रावणशुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् । (२।१)
abhra:: drāvaṇaśuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet |
घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥ (२।२)
gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ ||
त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै । (३।१)
tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai |
स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥ (३।२)
snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet ||
क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् । (४।१)
kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam |
वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् । (५।१)
vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam |
आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः । (६।१)
ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ |
एवं दिनत्रयं कुर्याद् द्रुतिर्भवति निर्मला ॥ (६।२)
evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā ||
अभ्र:: द्रावणअम्लवर्गेण पत्राणि क्षिपेद् घर्मे दिनत्रयम् । (७।१)
abhra:: drāvaṇaamlavargeṇa patrāṇi kṣiped gharme dinatrayam |
तथान्यान्यभ्रपत्राणि क्षालयेत् क्षीरकंदकैः ॥ (७।२)
tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ ||
क्षारैर्यावद् भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् । (८।१)
kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam |
लिप्त्वा लिप्त्वा क्षिपेद् घर्मे कांस्यपात्रे विशोषयेत् ॥ (८।२)
liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet ||
सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥ (९।०)
saptāhānnātra saṃdeho rasarūpā drutirbhavet ||
अभ्र:: द्रावणकाकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् । (१०।१)
abhra:: drāvaṇakākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam |
एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि । (१०।२)
etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi |
अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥ (१०।३)
aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā ||
अभ्र:: द्रावणधान्याभ्रकं सगोमांसम् अभ्रपादं च सैंधवम् । (११।१)
abhra:: drāvaṇadhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam |
स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत् त्र्यहम् ॥ (११।२)
snuhyarkapayasā drāvairmunibhirmardayet tryaham ||
तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् । (१२।१)
tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet |
करीषाग्नौ त्र्यहं पच्याद् द्रुतिर्भवति निर्मला ॥ (१२।२)
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā ||
अभ्र:: द्रावणअगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् । (१३।१)
abhra:: drāvaṇaagastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam |
तद्गोलं निक्षिपेत् कंदे सूरणोत्थे निरुध्य च ॥ (१३।२)
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca ||
तत्कंदं निखनेद् गोष्ठभूमौ मासात्समुद्धरेत् । (१४।१)
tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet |
कंदोदराद् द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥ (१४।२)
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā ||
अभ्रकद्रुति (६)धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् । (१५।१)
abhrakadruti (6)dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam |
स्थापयेन्मृण्मये पात्रे त्र्यहाद् घर्मे भवत्यलम् ॥ (१५।२)
sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam ||
अभ्र:: द्रावणसप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला । (१६।१)
abhra:: drāvaṇasaptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā |
मर्दयेद्भावयेद् घर्मे ततो दार्वी सुवर्चलम् ॥ (१६।२)
mardayedbhāvayed gharme tato dārvī suvarcalam ||
मरिचम् अभ्रपादांशं मूर्वापत्ररसैर्दिनम् । (१७।१)
maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam |
मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥ (१७।२)
mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi ||
शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥ (१८।०)
śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet ||
अभ्र:: द्रावणधान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् । (१९।१)
abhra:: drāvaṇadhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam |
स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥ (१९।२)
snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet ||
अभ्र:: द्रावणवज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् । (२०।१)
abhra:: drāvaṇavajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam |
तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥ (२०।२)
tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe ||
रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः । (२१।१)
ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ |
अभ्र:: द्रावणौदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् । (२२।१)
abhra:: drāvaṇauduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet |
स्थाल्यां वा पाचयेदेतान् भवन्ति नवनीतवत् ॥ (२२।२)
sthālyāṃ vā pācayedetān bhavanti navanītavat ||
ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च । (२३।१)
tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca |
यामत्रयं धमेद् गाढम् अधोभाण्डे द्रुतिः पतेत् ॥ (२३।२)
yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet ||
अभ्र:: द्रावणकाकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् । (२४।१)
abhra:: drāvaṇakākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam |
वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥ (२४।२)
vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam ||
मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः । (२५।१)
mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ |
अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥ (२५।२)
ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā ||
अभ्र:: द्रावणकपितिंदुजातफलैः समं धान्याभ्रकं दृढम् । (२६।१)
abhra:: drāvaṇakapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham |
मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ (२६।२)
mardayeddinamekaṃ tu kācakūpyāṃ niveśayet ||
नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा । (२७।१)
narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā |
पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥ (२७।२)
puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt ||
अभ्र:: द्रावणधान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु । (२८।१)
abhra:: drāvaṇadhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu |
स्नुहीक्षीरेण सप्ताहं भावितं धमनाद् भवेत् ॥ (२८।२)
snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet ||
अभ्र:: द्रावणरक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् । (२९।१)
abhra:: drāvaṇaraktotpalasya nīlotthadravairmardyaṃ dinatrayam |
धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥ (२९।२)
dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet ||
वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् । (३०।१)
vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham |
भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥ (३०।२)
bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet ||
अभ्र:: सत्त्व:: द्रावणअथवा छागमूत्रेण भावयेत् कपितिंदुजम् । (३१।१)
abhra:: sattva:: drāvaṇaathavā chāgamūtreṇa bhāvayet kapitiṃdujam |
फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥ (३१।२)
phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet ||
द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥ (३२।०)
dvitrivāraprayogeṇa drutirbhavati nirmalā ||
अभ्र:: सत्त्व:: द्रावणनरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् । (३३।१)
abhra:: sattva:: drāvaṇanarakeśodbhavaistailaiḥ secayedabhrasattvakam |
तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् । (३३।२)
tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet |
हठाद् ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥ (३३।३)
haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat ||
अभ्रकसत्त्वद्रुति (३)भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् । (३४।१)
abhrakasattvadruti (3)bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam |
दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥ (३४।२)
daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ ||
तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् । (३५।१)
tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet |
यावत् तद् द्रवतां याति तावद्देयं पुनः पुनः । (३५।२)
yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ |
लोहं च द्रवते तेन हठाद् ध्माते न संशयः ॥ (३५।३)
lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ ||
अभ्रकसत्त्वद्रुति (४)पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः । (३६।१)
abhrakasattvadruti (4)paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ |
शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥ (३६।२)
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ ||
तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् । (३७।१)
taccūrṇaṃ daśamāṃśena drute satve pratāpayet |
तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥ (३७।२)
tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ ||
अभ्रकसत्त्वद्रुति (५)क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् । (३८।१)
abhrakasattvadruti (5)kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam |
तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥ (३८।२)
tadvāpena dravetsattvaṃ lohāni sakalāni ca ||
अभ्रकसत्त्वद्रुति (६)सर्वं धान्याम्लसंधानैर् भाव्यमभ्रकसत्वकम् । (३९।१)
abhrakasattvadruti (6)sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam |
निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥ (३९।२)
niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat ||
सुवर्णद्रुति (१)इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः । (४०।१)
suvarṇadruti (1)iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ |
भावितं चैकविंशाहाद् द्रुते हेम्नि प्रवापयेत् ॥ (४०।२)
bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet ||
किंचित्किंचित्समं यावत् तावत्तिष्ठति सूतवत् ॥ (४१।०)
kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat ||
सिल्वेर्, गोल्द्:: द्रावणशतधा नरमूत्रेण भावयेद्देवदालिकाम् । (४२।१)
silver, gold:: drāvaṇaśatadhā naramūtreṇa bhāvayeddevadālikām |
तच्चूर्णं वापमात्रेण द्रुतिः स्यात् स्वर्णतारयोः ॥ (४२।२)
taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ ||
तीक्ष्णलोहद्रुति (१)सुरदालीभवं भस्म नरमूत्रेण भावितम् । (४३।१)
tīkṣṇalohadruti (1)suradālībhavaṃ bhasma naramūtreṇa bhāvitam |
त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥ (४३।२)
trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet ||
तीक्ष्णलोहद्रुति (२)मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् । (४४।१)
tīkṣṇalohadruti (2)meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet |
सारं द्रुतिर्भवेत्सत्यम् आवर्त्यादौ प्रदापयेत् ॥ (४४।२)
sāraṃ drutirbhavetsatyam āvartyādau pradāpayet ||
इरोन्:: द्रावणगंधकं कांतपाषाणं चूर्णयित्वा समं समम् । (४५।१)
iron:: drāvaṇagaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam |
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥ (४५।२)
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet ||
इरोन्:: द्रावणदेवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् । (४६।१)
iron:: drāvaṇadevadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam |
सुवर्णद्रुति (३)अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् । (४७।१)
suvarṇadruti (3)atisthūlasya bhekasya nivāryāntrāṇi nikṣipet |
उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥ (४७।२)
udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam ||
अष्टाहाद् ग्राहयेत् तस्मात्तैलं पातालयंत्रके । (४८।१)
aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake |
तत्तैलं द्राविते स्वर्णे क्षिपेद् द्रुतिमवाप्नुयात् ॥ (४८।२)
tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt ||
सुवर्णद्रुति (४)इंद्रगोपो ऽश्वलाला च शशमण्डूकयोर्वसा । (४९।१)
suvarṇadruti (4)iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā |
अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥ (४९।२)
asthīni ca samaṃ piṣṭvā drute hemni pravāpayet ||
सुवर्णद्रुति (५)इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् । (५१।१)
suvarṇadruti (5)iṃdragopaṃ kulīrāsthi devadālyāśca bījakam |
चूर्णितं भावयेद् द्रावैर्देवदाल्युद्भवैर्दिनम् ॥ (५१।२)
cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam ||
अनेन द्राविते हेम्नि वापो देयः पुनः पुनः । (५२।१)
anena drāvite hemni vāpo deyaḥ punaḥ punaḥ |
तीक्ष्णलोहद्रुति (३)तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः । (५३।१)
tīkṣṇalohadruti (3)tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ |
लोलितं भावयेद् घर्मे क्षीरकन्दद्रवैः पुनः ॥ (५३।२)
lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ ||
सप्ताहं भावयेत्सम्यक् स्रावसंपुटके तथा । (५४।१)
saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā |
धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥ (५४।२)
dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat ||
कान्तलोहद्रुतिशृगालमेषकूर्माहिशल्यानि च शिलाजतु । (५५।१)
kāntalohadrutiśṛgālameṣakūrmāhiśalyāni ca śilājatu |
एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके । (५५।२)
etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake |
वापयेद् द्रवतां याति यथा सूतं सुनिश्चितम् ॥ (५५।३)
vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam ||
सर्वलोहद्रुति (३)लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः । (५६।१)
sarvalohadruti (3)lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ |
सप्ताहं भावयेद् घर्मे ह्यम्लवर्गेण मर्दयेत् । (५६।२)
saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet |
सर्वलोहद्रुति (४)गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः । (५७।१)
sarvalohadruti (4)gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ |
द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥ (५७।२)
drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param ||
सर्वलोहद्रुति (५)पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् । (५८।१)
sarvalohadruti (5)pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet |
रुद्ध्वा भांडे क्षिपेद् भूमौ त्रिसप्ताहात् समुद्धरेत् ॥ (५८।२)
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet ||
तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् । (५९।१)
tatsamastaṃ vicūrṇyātha drute lohe pravāpayet |
माक्षिकसत्त्वद्रुति (२)एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् । (६०।१)
mākṣikasattvadruti (2)eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam |
मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥ (६०।२)
marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet ||
सर्वरत्नानां सर्वलोहानां द्रुतिःक्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥ (६१।०)
sarvaratnānāṃ sarvalohānāṃ drutiḥkṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam ||
ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च । (६२।१)
jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca |
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥ (६२।२)
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet ||
वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् । (६३।१)
vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt |
दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥ (६३।२)
dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam ||
वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् । (६४।१)
vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam |
पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥ (६४।२)
pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam ||
वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः । (६५।१)
vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ |
वज्रद्रुति (१)वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् । (६६।१)
vajradruti (1)vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam |
जलभांडगतं स्वेद्यं सप्ताहाद् द्रवतां व्रजेत् ॥ (६६।२)
jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet ||
वज्रद्रुति (२)सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् । (६७।१)
vajradruti (2)sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet |
सप्ताहाद् उद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥ (६७।२)
saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet ||
वैक्रान्तद्रुति (१)श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् । (६८।१)
vaikrāntadruti (1)śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam |
सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥ (६८।२)
saptāhānnātra saṃdehaḥ khare gharme dravatyalam ||
वैक्रान्तद्रुति (२)केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका । (६९।१)
vaikrāntadruti (2)ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā |
इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥ (६९।२)
iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet ||
सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् । (७०।१)
saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet |
लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥ (७०।२)
lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ ||
कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥ (७१।०)
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param ||
सर्वद्रुतीनां स्थापनाधारःकुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । (७२।१)
sarvadrutīnāṃ sthāpanādhāraḥkusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak |
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ (७२।२)
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet ||
इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर् मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् । (७३।१)
ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet |
तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥ (७३।२)
tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat ||
Data courtesy of The Digital Corpus of Sanskrit.