RRĀ, 2, 2
Select a line for its word-by-word analysis.
धर्मज्ञैः शिववत्सलैर् निर्जरैर् भूपैर् महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि । (१।१)
dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi |
रक्ष्यं गात्रम् अनन्तपुण्यनिचये मुक्तिश् च यस्माद् भवेत् तद् वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥ (१।२)
rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām ||
यस्माद् अभ्रं रसक्षेत्रं ततः कुर्याद् रसायनम् । (३।१)
yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam |
अक्षेत्रीकरणे सूतो ह्य् अमृतो विषतां व्रजेत् ॥ (३।२)
akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet ||
सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि । (५।१)
sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi |
हंसपाद्या द्रवैर् एव तद्गोलं चान्धितं पुटेत् ॥ (५।२)
haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet ||
अर्कक्षीरैः पुनर् मर्द्यं तद्वद् गजपुटे पचेत् । (६।१)
arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet |
भक्षयेत् सर्षपवृद्धं यावन् माषं विवर्धयेत् ॥ (६।२)
bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet ||
चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥ (७।२)
citrakārdrakasindhūtthamṛtatīkṣṇasuvarcalam ||
समं सर्वं सदा चानु भक्ष्यं स्यात् क्रामणे हितम् । (८।१)
samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam |
मृतसूताद् द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥ (९।२)
mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet ||
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । (१०।१)
dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam |
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दितं भावयेत् त्र्यहम् ॥ (१०।२)
tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham ||
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर् माषं ततो लिहेत् । (११।१)
tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet |
चतुर्मासैर् जरां हन्ति जीवेद् ब्रह्मदिनं किल । (१२।१)
caturmāsair jarāṃ hanti jīved brahmadinaṃ kila |
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत् त्रिफलासमम् ॥ (१२।२)
bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam ||
वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ (१३।२)
vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam ||
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर् दृढम् । (१४।१)
tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham |
रुद्ध्वा तं त्रिदिनं पच्याद् वालुकायन्त्रगं पुनः ॥ (१४।२)
ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ ||
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर् द्रवैः । (१५।१)
uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ |
माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ (१५।२)
māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet ||
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत् पलम् ॥ (१७।२)
sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam ||
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् । (१८।१)
suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet |
शतावर्याः शिफाद्रावैर् भावयेद् दिवसत्रयम् ॥ (१८।२)
śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam ||
त्रिदिनं त्रिफलाक्वाथैर् भृङ्गद्रावैर् दिनत्रयम् । (१९।१)
tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam |
भावितं मधुसर्पिर्भ्यां भक्षयेद् भैरवं रसम् ॥ (१९।२)
bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam ||
माषैकैकं वर्षमात्रं जीवेच् चन्द्रार्कतारकम् । (२०।१)
māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam |
पलैकैकं पिबेच् चानु क्रामकं परमं हितम् । (२१।१)
palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam |
यामैकं मर्दयेत् सर्वं मधुसर्पिर्युतं लिहेत् । (२२।१)
yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet |
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ (२२।२)
niṣkaikaikaṃ varṣamātraṃ śilāvīro mahārasaḥ ||
जराकालं निहन्त्य् आशु जीवेद् वर्षशतत्रयम् । (२३।१)
jarākālaṃ nihanty āśu jīved varṣaśatatrayam |
पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ (२३।२)
palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet ||
धात्रीफलरसैर् वाथ क्रामकं ह्य् अनुपानकम् । (२४।१)
dhātrīphalarasair vātha krāmakaṃ hy anupānakam |
मेघनादद्रवैर् मर्द्यं शुद्धसूतं दिनत्रयम् ॥ (२४।२)
meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam ||
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् । (२५।१)
viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet |
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ (२५।२)
āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet ||
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् । (२६।१)
cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam |
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत् पचेत् ॥ (२६।२)
sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet ||
तत्पिण्डं कर्षम् एकैकं भक्षयेद् अमृतार्णवः । (२७।१)
tatpiṇḍaṃ karṣam ekaikaṃ bhakṣayed amṛtārṇavaḥ |
वर्षमात्राञ् जरां हन्ति जीवेद् वर्षशतत्रयम् ॥ (२७।२)
varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam ||
वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् । (२८।१)
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet |
पारदाद् द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥ (२८।२)
pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet ||
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः । (२९।१)
muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ |
एतत् तुल्यं शुद्धताम्रं सम्पुटे तन् निरोधयेत् ॥ (२९।२)
etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet ||
वेष्टयेद् वस्त्रखण्डेन वज्रमृत्तिकया बहिः । (३०।१)
veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ |
लिप्त्वा विशोषयेत् तं वै सम्यग् गजपुटे पचेत् ॥ (३०।२)
liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet ||
उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस् त्र्यहम् । (३१।१)
uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham |
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ (३१।२)
bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham ||
तत्तुल्यं नागराच् चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् । (३२।१)
tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam |
लिहेन् माषद्वयं नित्यं यावत् संवत्सरावधि ॥ (३२।२)
lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi ||
मध्वाज्याभ्यां लिहेत् कर्षम् अनु स्यात् क्रामणं परम् । (३४।१)
madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param |
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ (३४।२)
pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam ||
भृङ्गधात्रीफलद्रावैश् छायायां भावयेत् त्र्यहम् । (३५।१)
bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham |
सितामध्वाज्यकैस् तुल्यं सर्वं भाण्डे निरोधयेत् ॥ (३५।२)
sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet ||
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । (३६।१)
dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam |
भक्षयेच् च पिबेत् क्षीरं कर्षैकं त्रिफलाम् अनु ॥ (३६।२)
bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu ||
रात्रौ शुण्ठीं कणां खादेद् वर्षैकाद् अमरो भवेत् । (३७।१)
rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet |
जीवेद् ब्रह्मदिनं वीरः स्याद् रसो गगनेश्वरः ॥ (३७।२)
jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ ||
वटक्षीरैस् त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् । (३८।१)
vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam |
वटकाष्ठाग्निना पच्यान् मृत्पात्रे यामपञ्चकम् ॥ (३८।२)
vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam ||
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । (३९।१)
kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet |
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ (३९।२)
samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ ||
उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् । (४०।१)
uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam |
चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ (४०।२)
candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam ||
चूर्णम् उत्तरवारुण्या वाकुच्या देवदालिजम् । (४१।१)
cūrṇam uttaravāruṇyā vākucyā devadālijam |
मध्वाज्याभ्यां लिहेत् कर्षं क्रामकं ह्य् अनुपानकम् ॥ (४१।२)
madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam ||
वर्षमात्राज् जरां हन्ति जीवेद् वर्षशतत्रयम् । (४२।१)
varṣamātrāj jarāṃ hanti jīved varṣaśatatrayam |
मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् । (४३।१)
mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam |
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत् सदा ॥ (४३।२)
sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā ||
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनत्रयम् । (४४।१)
ṣaṇmāsena jarāṃ hanti jīved brahmadinatrayam |
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥ (४४।२)
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam ||
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । (४५।१)
ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi |
सितायुक्तं पिबेच् चानु रसो ऽयम् अचलेश्वरः ॥ (४५।२)
sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ ||
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । (४६।१)
rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam |
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर् द्रवैः ॥ (४६।२)
mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ ||
सप्ताहं मर्दयेत् खल्वे तद्गोलं चान्धितं पुटेत् । (४७।१)
saptāhaṃ mardayet khalve tadgolaṃ cāndhitaṃ puṭet |
भूधरे दिनम् एकं तु ख्यातः सिद्धरसः परः ॥ (४७।२)
bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ ||
माषैकं मधुना लेह्यं वर्षान् मृत्युजरापहम् । (४८।१)
māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham |
दिव्यकायो नरः सिद्धो भवेद् विष्णुपराक्रमः ॥ (४८।२)
divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ ||
श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् । (४९।१)
śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet |
भक्षयेद् वा सिता सार्धं क्रामकं परमे रसे ॥ (४९।२)
bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase ||
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । (५०।१)
mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet |
दिनैकं कन्यकाद्रावैर् मर्दयित्वा निरोधयेत् ॥ (५०।२)
dinaikaṃ kanyakādrāvair mardayitvā nirodhayet ||
दिनैकं मधुना पच्यान् निष्कैकं मधुना लिहेत् । (५१।१)
dinaikaṃ madhunā pacyān niṣkaikaṃ madhunā lihet |
गन्धामृतो रसो नाम वत्सरान् मृत्युजिद् भवेत् ॥ (५१।२)
gandhāmṛto raso nāma vatsarān mṛtyujid bhavet ||
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । (५२।१)
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet |
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ (५२।२)
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet ||
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ (५३।२)
pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam ||
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दयेद् दिनसप्तकम् । (५४।१)
tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam |
षड्वारं चाङ्कुलीतैलैर् भावयित्वाथ भक्षयेत् ॥ (५४।२)
ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet ||
माषमात्रं तु वर्षैकं रसो ऽयं कालकण्टकः । (५५।१)
māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ |
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेद् अनु ॥ (५५।२)
piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu ||
जरामृत्युविनिर्मुक्तो जीवेद् ब्रह्मदिनं नरः । (५६।१)
jarāmṛtyuvinirmukto jīved brahmadinaṃ naraḥ |
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ (५६।२)
mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu ||
तुल्यांशं मधुसर्पिर्भ्यां लिहेद् गुञ्जात्रयं सदा । (५७।१)
tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā |
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनं नरः ॥ (५७।२)
ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ ||
भागाष्टकं गुडं तस्मिन् क्षिपेद् भागं च पिप्पलीम् ॥ (५८।२)
bhāgāṣṭakaṃ guḍaṃ tasmin kṣiped bhāgaṃ ca pippalīm ||
मृद्वग्निना च तत् सर्वं पिण्डितं भक्षयेत् पलम् । (५९।१)
mṛdvagninā ca tat sarvaṃ piṇḍitaṃ bhakṣayet palam |
क्रामकं ह्य् अमृतेशस्य रसराजस्य सिद्धये ॥ (५९।२)
krāmakaṃ hy amṛteśasya rasarājasya siddhaye ||
त्रिगुणं शुद्धसूतस्य योजयेच् छुद्धगन्धकम् । (६०।१)
triguṇaṃ śuddhasūtasya yojayec chuddhagandhakam |
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ (६०।२)
lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet ||
स्नुह्यर्कपयसा मर्द्यं तत् सर्वं दिवसत्रयम् । (६१।१)
snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam |
तच् छुष्कं चान्धितं पच्यात् करीषाग्नौ दिवानिशम् ॥ (६१।२)
tac chuṣkaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam ||
ततश् च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद् दृढम् । (६२।१)
tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham |
अब्दैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् । (६३।१)
abdaikena jarāṃ hanti jīved ācandratārakam |
मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ (६३।२)
musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet ||
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् । (६४।१)
chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param |
मृतसूतसमं गन्धं काकमाच्या द्रवैर् दिनम् ॥ (६४।२)
mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam ||
मर्दितं चान्धितं पच्यात् करीषाग्नौ दिवानिशम् । (६५।१)
marditaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam |
दिव्यौषधदलद्रावैर् दिनं मर्द्यं तम् अन्धयेत् ॥ (६५।२)
divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet ||
ध्मातं तस्मात् समुद्धृत्य तत्तुल्यं हाटकं मृतम् । (६६।१)
dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam |
एकीकृत्य घृतैर् लेह्यं माषैकं वत्सरावधि ॥ (६६।२)
ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi ||
जरां मृत्युं निहन्त्य् आशु सत्यं काञ्चायनो रसः । (६७।१)
jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ |
काकमाचीद्रवैर् भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ (६७।२)
kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam ||
मधुना भक्षयेत् कर्षम् अनु स्यात् क्रामकं परम् । (६८।१)
madhunā bhakṣayet karṣam anu syāt krāmakaṃ param |
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ (६८।२)
mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi ||
शिग्रुमूलद्रवैर् मर्द्यं तद्गोलं भाण्डमध्यगम् । (६९।१)
śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam |
रुद्ध्वा पच्याल् लघुत्वेन शाककाष्ठैर् दिनावधि ॥ (६९।२)
ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi ||
परानन्दो रसो नाम घृतैर् निष्कं सदा लिहेत् । (७०।१)
parānando raso nāma ghṛtair niṣkaṃ sadā lihet |
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग् विपाचयेत् ॥ (७०।२)
dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet ||
तच् छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेद् अनु । (७१।१)
tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu |
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । (७२।१)
mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam |
लोहांशं शोधितं गन्धं भावयेद् दिनसप्तकम् ॥ (७२।२)
lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam ||
तत् सर्वं त्रिफलाक्वाथैर् भृङ्गशिग्रुकचित्रकैः । (७३।१)
tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ |
द्रवैः पृथक् पृथग् भाव्यं सप्तधा सप्तधा क्रमात् ॥ (७३।२)
dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt ||
सप्तधा कटुकीक्वाथैर् भावितं चूर्णयेत् पुनः । (७४।१)
saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ |
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ (७४।२)
cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ ||
सर्वमेकीकृतं खादेन् निष्कैकं वत्सरावधि । (७५।१)
sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi |
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । (७७।१)
triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ |
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ (७७।२)
marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ ||
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । (७८।१)
tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ |
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ (७८।२)
mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ ||
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । (७९।१)
tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet |
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । (८०।१)
aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam |
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ (८०।२)
bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param ||
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । (८१।१)
svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam |
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ (८१।२)
kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam ||
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । (८२।१)
tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam |
समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥ (८२।२)
samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet ||
सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् । (८३।१)
sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet |
दिनैकं तं निरुध्याथ भूधरे पावयेद् दिनम् ॥ (८३।२)
dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam ||
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद् द्रुतम् । (८४।१)
uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam |
तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥ (८४।२)
taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā ||
रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति । (८५।१)
rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati |
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । (८६।१)
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam |
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ (८६।२)
palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet ||
शुद्धताम्रस्य भागैकं द्विषट् शुद्धरसस्य च । (८७।१)
śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca |
त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥ (८७।२)
trayaṃ bhūnāgasattvasya bhāgamekatra vārayet ||
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । (८८।१)
sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam |
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ (८८।२)
tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam ||
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । (८९।१)
kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca |
यावज् जीर्णं पुटे पच्याद् एवं षड्गुणगन्धकम् ॥ (८९।२)
yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam ||
यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥ (९०।२)
yāmaṃ jambīrajairdrāvaistato niścandramabhrakam ||
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ (९१।२)
ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam ||
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि । (९२।१)
kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi |
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ (९२।२)
tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet ||
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । (९३।१)
dolāyantre sāranāle tryahaṃ laghvagninā pacet |
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ (९३।२)
uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi ||
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । (९४।१)
ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam |
शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै । (९५।१)
śikhipittapraliptāni svarṇapattrāṇi tasya vai |
चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ (९५।२)
catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet ||
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । (९६।१)
svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet |
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ (९६।२)
ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai ||
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । (९७।१)
tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat |
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ (९७।२)
tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam ||
ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत् त्र्यहम् । (९८।१)
tato divyauṣadhadrāvaistaṃ sūtaṃ mardayet tryaham |
वज्रमूषान्धितं धाम्यं बद्धं स्याच् चूर्णयेत्पुनः ॥ (९८।२)
vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ ||
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । (९९।१)
madhuśarkarayā sārdhaṃ guñjāmātraṃ ca bhakṣayet |
रसः खेचरबद्धोऽयं षण्मासान् मृत्युजिद् भवेत् ॥ (९९।२)
rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet ||
सप्ताहं भृङ्गजैर्द्रावैर् नीलमुण्डीफलत्रयम् ॥ (१००।२)
saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam ||
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । (१०१।१)
bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu |
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥ (१०१।२)
śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam ||
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । (१०२।१)
tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā |
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ (१०२।२)
sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ ||
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । (१०३।१)
dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet |
आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ (१०३।२)
ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet ||
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् । (१०४।१)
dhānyarāśau nyasettaṃ tu dvidinānte samuddharet |
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥ (१०४।२)
kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam ||
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ (१०५।२)
śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak ||
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । (१०६।१)
saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ |
कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥ (१०६।२)
kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam ||
त्रिकटु त्रिफला चैला चूर्णयेन् नवकं समम् । (१०७।१)
trikaṭu triphalā cailā cūrṇayen navakaṃ samam |
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ (१०७।२)
taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam ||
वर्षैकं लेहयेन् नित्यं जराकालप्रशान्तये । (१०८।१)
varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye |
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ (१०८।२)
svayamagniraso nāma siddhānāṃ sumukhāgataḥ ||
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । (१०९।१)
tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet |
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥ (१०९।२)
nirguṇḍī nīlikā vajrī brahmadaṇḍī tridaṇḍikā ||
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया । (११०।१)
śatapuṣpā mudgaparṇī śvetārko vānarī jayā |
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । (१११।१)
etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam |
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ (१११।२)
śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake ||
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । (११२।१)
vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ |
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ (११२।२)
taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet ||
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । (११३।१)
punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt |
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ (११३।२)
rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet ||
वर्षैकेन न संदेहो रसकायो भवेन् नरः ॥ (११४।२)
varṣaikena na saṃdeho rasakāyo bhaven naraḥ ||
पलैकं भक्षयेच् चानु क्रामकं परमं हितम् ॥ (११५।२)
palaikaṃ bhakṣayec cānu krāmakaṃ paramaṃ hitam ||
मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् । (११६।१)
mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam |
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥ (११६।२)
tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam ||
सर्वं पालाशतैलेन मर्दयेद् दिनसप्तकम् । (११७।१)
sarvaṃ pālāśatailena mardayed dinasaptakam |
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ (११७।२)
mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā ||
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । (११८।१)
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam |
वत्सरात् सप्तकल्पानि जीवत्येव न संशयः ॥ (११८।२)
vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ ||
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । (११९।१)
icchāvegī mahāsiddhaḥ parāśaktisamo bhavet |
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ (११९।२)
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam ||
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् । (१२०।१)
pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam |
क्रामकं ह्य् अनुपानं स्यात् सम्यक्छक्त्या प्रकाशितम् ॥ (१२०।२)
krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam ||
लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् । (१२१।१)
lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam |
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ (१२१।२)
svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam ||
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद् दिनम् । (१२२।१)
bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam |
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ (१२२।२)
śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā ||
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् । (१२३।१)
indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam |
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद् दिनत्रयम् ॥ (१२३।२)
tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam ||
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । (१२४।१)
tuṣāgninā laghutvena samuddhṛtya vicūrṇayet |
सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥ (१२४।२)
saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ ||
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् । (१२५।१)
triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet |
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ (१२५।२)
māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ ||
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । (१२७।१)
mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām |
पिबेन् निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ (१२७।२)
piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham ||
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । (१२८।१)
suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape |
अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥ (१२८।२)
amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt ||
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् । (१२९।१)
etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam |
मर्दितं लेहयेन्माषं मासाद्बालो भवेन् नरः ॥ (१२९।२)
marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ ||
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः । (१३०।१)
vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ |
वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ (१३०।२)
vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu ||
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ (१३१।२)
palāśakuḍmaladrāvaistattailaiśca dinatrayam ||
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । (१३२।१)
mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam |
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद् दिनम् ॥ (१३२।२)
śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam ||
माषमात्रां वटीं खादेद्वत्सरान् मृत्युजिद्भवेत् । (१३३।१)
māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet |
जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ (१३३।२)
jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ ||
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् । (१३४।१)
vānarīkākatuṇḍyutthabījacūrṇaṃ samaṃ samam |
शाल्मलीत्वग्दलद्रावैर् भावयेद् दिवसत्रयम् ॥ (१३४।२)
śālmalītvagdaladrāvair bhāvayed divasatrayam ||
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः । (१३५।१)
tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ |
पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥ (१३५।२)
purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet ||
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । (१३६।१)
raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet |
छेदे निर्याति रक्तं चेत् तान् स्वीकुर्यात् प्रयत्नतः ॥ (१३६।२)
chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ ||
कृष्णवर्णागवाज्येन समेन सह तान् पचेत् । (१३७।१)
kṛṣṇavarṇāgavājyena samena saha tān pacet |
लोहजे चालयन् पात्रे यावत् सिन्दूरवर्णकम् ॥ (१३७।२)
lohaje cālayan pātre yāvat sindūravarṇakam ||
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् । (१३८।१)
tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam |
मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥ (१३८।२)
madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan ||
पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । (१३९।१)
paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi |
आयुर् ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥ (१३९।३)
āyur brahmadinaṃ datte śivāmbu pāyayedanu ||
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद् येषां तु दृष्टं मया । (१४०।१)
evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā |
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ (१४०।२)
tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai ||
Data courtesy of The Digital Corpus of Sanskrit.