RRĀ, 1, 4
Select a line for its word-by-word analysis.
मूर्छनअथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते । (१।१)
mūrchanaathātaḥ śuddhasūtasya mūrcchanā vidhirucyate |
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद् बहिः । (२।१)
naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ |
ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् । (३।१)
ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet |
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥ (३।२)
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet ||
जीर्णे गन्धे पुनर् देयं षड्भिर् वारैः समं समम् । (४।१)
jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam |
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥ (४।२)
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet ||
मेर्चुर्य्:: मूर्छनगन्धकं मधुसारं च शुद्धसूतं समं समम् । (५।१)
mercury:: mūrchanagandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam |
यामैकं पाचयेत् खल्वे काचकुप्यां निवेशयेत् ॥ (५।२)
yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet ||
रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् । (६।१)
ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet |
स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥ (६।२)
sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet ||
मेर्चुर्य्:: ड़ोर्मुलतिओन्शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥ (७।२)
mercury:: formulationśuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet ||
द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् । (८।१)
dravaiḥ sitajayantyāśca mardayeddivasatrayam |
कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥ (८।२)
kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet ||
शोषयित्वा धमेत् किंचित् सुतप्तां तां जले क्षिपेत् । (९।१)
śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet |
तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥ (९।२)
tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam ||
मेर्चुर्य्:: ड़ोर्मुलतिओन्रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥ (१०।२)
mercury:: formulationrasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam ||
कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् । (११।१)
kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet |
गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥ (११।२)
gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam ||
शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् । (१२।१)
śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham |
शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥ (१२।२)
śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet ||
ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् । (१३।१)
ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam |
पश्चाद् उद्धृत्य तं सूतं योगवाहं रुजापहम् ॥ (१४।०)
paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham ||
मेर्चुर्य्:: ड़ोर्मुलतिओन्सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् । (१५।१)
mercury:: formulationsadyojātasya bālasya viṣṭhāṃ pālāśabījakam |
चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥ (१५।२)
cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam ||
जयन्त्या मर्दयेद् द्रावैर् दिनैकं तत्तु गोलकम् । (१६।१)
jayantyā mardayed drāvair dinaikaṃ tattu golakam |
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु । (१७।१)
tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu |
वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥ (१७।२)
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ ||
चित्रकैः सहदेव्या च गन्धकैर् लेपयेद् बहिः । (१८।१)
citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ |
सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥ (१८।२)
sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet ||
तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् । (१९।१)
taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet |
सूक्ष्मचूर्णं हरेद्रोगान् योगवाहो महारसः ॥ (१९।२)
sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ ||
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥ (२०।०)
sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā ||
मेर्चुर्य्:: ड़ोर्मुलतिओन्धत्तूरकद्रवैर् मर्द्यं दिनं गन्धं ससूतकम् । (२१।१)
mercury:: formulationdhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam |
अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥ (२१।२)
andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet ||
कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् । (२२।१)
kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām |
मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥ (२२।२)
mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ ||
तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः । (२३।१)
tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ |
रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥ (२३।२)
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet ||
सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् । (२४।१)
saptāhānte samuddhṛtya yavamānaṃ jvarāpaham |
मेर्चुर्य्:: मूर्छनकाशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥ (२४।२)
mercury:: mūrchanakāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet ||
स्तोकस्तोकं क्षिपेत् खल्वे त्रियामं चैव मूर्छयेत् ॥ (२५।२)
stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet ||
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् । (२६।१)
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet |
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥ (२६।२)
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet ||
ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत् सूतम् । (२७।१)
ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam |
मेर्चुर्य्:: मूर्छनकुरण्टकरसैर्भाव्यम् आतपे मर्दयेद्रसम् ॥ (२७।२)
mercury:: mūrchanakuraṇṭakarasairbhāvyam ātape mardayedrasam ||
लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् । (२८।१)
latākarañjapatrairvāṅguṣṭhāgrena vimardayet |
दिनैकं मूर्छितं सम्यक् सर्वरोगेषु योजयेत् ॥ (२८।२)
dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet ||
हैरण्यगर्भकअथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः । (२९।१)
hairaṇyagarbhakaatha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ |
सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥ (२९।२)
sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam ||
रविक्षीरैर्दिनं मर्द्यम् अन्धयित्वा च भूधरे । (३०।१)
ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare |
वैक्रान्तबद्धरसकटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके । (३१।१)
vaikrāntabaddharasakaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake |
अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥ (३१।२)
apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ ||
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । (३२।१)
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam |
स्तोकं स्तोकं क्षिपेद् गन्धं पाषाणे तं तु कुट्टयेत् ॥ (३२।२)
stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet ||
याममात्रे भवेत् पिण्डी रसं कन्दे विनिक्षिपेत् । (३३।१)
yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet |
अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥ (३३।२)
adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam ||
ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् । (३४।१)
tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham |
लिप्तम् अङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥ (३४।२)
liptam aṅgulamānena sarvataḥ śoṣya golakam ||
पाचयेद् भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् । (३५।१)
pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet |
ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥ (३५।२)
ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet ||
क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् । (३६।१)
krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet |
ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् । (३६।२)
tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam |
नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥ (३६।३)
nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet ||
गन्धबद्धपारदअथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् । (३७।१)
gandhabaddhapāradaathavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam |
तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥ (३७।२)
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe ||
पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् । (३८।१)
puṭayedbhūdhare tāvadyāvajjīryati gandhakam |
एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥ (३८।२)
evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam ||
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् । (३९।१)
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt |
गन्धबद्धपारद (२)मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला । (३९।२)
gandhabaddhapārada (2)mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā |
त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः । (४०।१)
tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ |
पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥ (४०।२)
palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet ||
शुद्धसूतं समं पश्चात् क्षिपेद्गन्धपलं ततः । (४१।१)
śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ |
भाण्डम् आरोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥ (४१।२)
bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ ||
मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् । (४२।१)
mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet |
गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥ (४२।२)
gandhadhūme gate pūryā kākamācīdravaistu sā ||
द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः । (४३।१)
drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ |
जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥ (४३।२)
jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet ||
यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः । (४४।१)
yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ |
दत्त्वा दत्त्वा पचेत्तद्वद् धुस्तुरादिक्रमाद् रसम् ॥ (४४।२)
dattvā dattvā pacettadvad dhusturādikramād rasam ||
भित्त्वा मूषां समादाय जराव्याधिहरो रसः । (४५।१)
bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ |
योजयेद् गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥ (४५।२)
yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ ||
मेर्चुर्य्:: मूर्छन:: तेस्त्कज्जलाभो यदा सूतो विहाय घनचापलम् । (४६।१)
mercury:: mūrchana:: testkajjalābho yadā sūto vihāya ghanacāpalam |
मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥ (४६।२)
mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit ||
वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥ (४७।२)
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam ||
स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी । (४८।१)
sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī |
वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥ (४८।२)
valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge ||
इत्येता मारिताः सूता मूर्छिता बद्धम् आगताः । (४९।१)
ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ |
प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥ (४९।२)
pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet ||
मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् । (५०।१)
māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam |
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ (५०।२)
rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit ||
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा । (५१।१)
baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā |
मेर्चुर्य्:: स्तोरगेदन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥ (५१।२)
mercury:: storagedante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam ||
मेर्चुर्य्:: मेदिच्। प्रोपेर्तिएस्पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् । (५२।१)
mercury:: medic. propertiespāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam |
सूते गुणानां शतकोटिर् वज्रे चाभ्रे सहस्रं कनके शतैकम् । (५३।१)
sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam |
तारे गुणाशीतिस् तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥ (५३।२)
tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham ||
रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा । (५४।१)
rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā |
सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥ (५४।२)
sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā ||
Data courtesy of The Digital Corpus of Sanskrit.