रसरत्नाकरRasaratnākara

RRĀ, 1, 9

9 of 39 · 136 verses

Select a line for its word-by-word analysis.

1.1१.१

इरोन्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धममृतं लौहम् आयुर्हानिरुजाकरम् । (१।१)

iron:: aśuddha:: medic. propertiesaśuddhamamṛtaṃ lauham āyurhānirujākaram |

1.2१.२

हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥ (१।२)

hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet ||

2.1२.१

कान्तलोह:: परीक्षापात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः । (२।१)

kāntaloha:: parīkṣāpātre yasminprasarati na cettailabindurvisṛṣṭaḥ |

2.2२.२

हिङ्गुर् गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च । (२।२)

hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca |

2.3२.३

पाके दग्धं भवति शिखराकारता नैव भूमौ । (२।३)

pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau |

2.4२.४

कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ (२।४)

kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat ||

3.1३.१

कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् । (३।१)

kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam |

3.2३.२

स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥ (३।२)

svāduryato bhavennimbakalko rātriniveśitaḥ ||

4.1४.१

कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् । (४।१)

kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet |

4.2४.२

सर्वरोगहरम् एतत् सर्वकुष्ठहरं परम् ॥ (४।२)

sarvarogaharam etat sarvakuṣṭhaharaṃ param ||

5.1५.१

इरोन्:: सुब्त्य्पेस्:: शोधनशशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् । (५।१)

iron:: subtypes:: śodhanaśaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam |

5.2५.२

कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥ (५।२)

kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param ||

6.1६.१

इरोन्:: शोधन:: अद्रित्रिफलाष्टगुणैस् तोयैस्त्रिफलाषोडशं पलम् । (६।१)

iron:: śodhana:: adritriphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam |

6.2६.२

तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥ (६।२)

tatkvāthe pādaśeṣe tu lauhasya patrapañcakam ||

7.1७.१

कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् । (७।१)

kṛtvā patrāṇi taptāni saptavārāṇi secayet |

7.2७.२

एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥ (७।२)

evaṃ pralīyate doṣo girijo lauhasambhavaḥ ||

8.1८.१

इरोन्:: शोधनत्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् । (८।१)

iron:: śodhanatrividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet |

8.2८.२

प्रक्षालयेदारनाले शोष्यं शुद्धिम् अवाप्नुयात् ॥ (८।२)

prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt ||

9.1९.१

इरोन्:: सुब्त्य्पेस्:: शोधनरक्तमाला हंसपादो गोजिह्वा त्रिफलामृता । (९।१)

iron:: subtypes:: śodhanaraktamālā haṃsapādo gojihvā triphalāmṛtā |

9.2९.२

गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥ (९।२)

gopālī tumbururdantī tulyagomūtrapeṣitam ||

10.1१०.१

अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा । (१०।१)

asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā |

10.2१०.२

सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥ (१०।२)

secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye ||

11.1११.१

सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते । (११।१)

sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate |

11.2११.२

तस्मात् सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥ (११।२)

tasmāt sarvaṃ prayatnena lauhamādau vimārayet ||

12.1१२.१

अयः पञ्चपलाद् ऊर्ध्वं यावत् पलत्रयोदशात् । (१२।१)

ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt |

12.2१२.२

आदौ मन्त्रस्ततः कर्म यथाकर्तव्यम् उच्यते ॥ (१२।२)

ādau mantrastataḥ karma yathākartavyam ucyate ||

13.1१३.१

इरोन्:: मारणहिङ्गुलस्य पलान् पञ्च नारीस्तन्येन पेषयेत् । (१३।१)

iron:: māraṇahiṅgulasya palān pañca nārīstanyena peṣayet |

13.2१३.२

तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥ (१३।२)

tena lauhasya patrāṇi lepayetpalapañcakam ||

14.1१४.१

रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः । (१४।१)

ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ |

14.2१४.२

जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥ (१४।२)

jambīrairāranālairvā viṃśatyaṃśena hiṅgulam ||

15.1१५.१

पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः । (१५।१)

piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ |

15.2१५.२

चत्वारिंशत्पुटैर् एवं कान्तं तीक्ष्णं च मुण्डकम् ॥ (१५।२)

catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam ||

16.1१६.१

हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् । (१६।१)

ho mriyate trālasande dattvā dattvā ca hiṅgulam |

16.2१६.२

इरोन्:: मारणअर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥ (१६।२)

iron:: māraṇaarjunasya tvacā peṣyā kāñjikenātilohitā ||

17.1१७.१

तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् । (१७।१)

tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet |

17.2१७.२

दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥ (१७।२)

dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ ||

18.1१८.१

अर्जुनैः सारनालैर् वा त्रिविधं मारयेदयः । (१८।१)

arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ |

18.2१८.२

इरोन्:: मारणदन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥ (१८।२)

iron:: māraṇadantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet ||

19.1१९.१

दिनैकं भावयेद् घर्मे द्रवं देयं पुनः पुनः । (१९।१)

dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ |

19.2१९.२

रुद्ध्वा रात्रौ पुटैः पच्याद् एभिर्द्रावैश्च भावयेत् ॥ (१९।२)

ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet ||

20.1२०.१

एवमष्टदिनं कुर्यात् त्रिविधं म्रियते ह्ययः । (२०।१)

evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ |

20.2२०.२

इरोन्:: मारणचिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥ (२०।२)

iron:: māraṇaciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam ||

21.1२१.१

मृत्पात्रस्थं क्षिपेद् घर्मे दन्त्या द्रावैः प्रपूरयेत् । (२१।१)

mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet |

21.2२१.२

पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥ (२१।२)

patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ ||

22.1२२.१

म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् । (२२।१)

mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet |

22.2२२.२

इरोन्:: मारणकान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर् द्रवैः ॥ (२२।२)

iron:: māraṇakāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ ||

23.1२३.१

आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः । (२३।१)

ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ |

23.2२३.२

त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥ (२३।२)

trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham ||

24.1२४.१

गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् । (२४।१)

gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham |

24.2२४.२

धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥ (२४।२)

dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam ||

25.1२५.१

रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् । (२५।१)

ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet |

25.2२५.२

इरोन्:: मारणद्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥ (२५।२)

iron:: māraṇadravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet ||

26.1२६.१

दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः । (२६।१)

dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ |

26.2२६.२

वन्ध्याभृङ्गीपुनर्नवयोर् गोमूत्रैश्च दिनं पुनः ॥ (२६।२)

vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ ||

27.1२७.१

गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् । (२७।१)

gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet |

27.2२७.२

त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत् ततः ॥ (२७।२)

trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ ||

28.1२८.१

रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् । (२८।१)

ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet |

28.2२८.२

दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥ (२८।२)

divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai ||

29.1२९.१

एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः । (२९।१)

ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ |

29.2२९.२

इरोन्:: मारण:: निरुत्थमाक्षिकं च शिला ह्यम्लैर् हरिद्रा मरिचानि च ॥ (२९।२)

iron:: māraṇa:: nirutthamākṣikaṃ ca śilā hyamlair haridrā maricāni ca ||

30.1३०.१

पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् । (३०।१)

piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet |

30.2३०.२

सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥ (३०।२)

saptadhā triphalākvāthe jalena kṣālayetpunaḥ ||

31.1३१.१

कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः । (३१।१)

kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ |

31.2३१.२

षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥ (३१।२)

ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā ||

32.1३२.१

अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् । (३२।१)

amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet |

32.2३२.२

निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥ (३२।२)

nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam ||

33.1३३.१

इरोन्:: मारणतिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे । (३३।१)

iron:: māraṇatindūphalasya majjābhirliptvā sthāpyātape khare |

33.2३३.२

धारयेत् कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥ (३३।२)

dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam ||

34.1३४.१

लेप्यं पुनः पुनः कुर्यात् दिनान्तान्तं प्रलेपयेत् । (३४।१)

lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet |

34.2३४.२

त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥ (३४।२)

triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet ||

35.1३५.१

इरोन्:: मारण:: वारितरस्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् । (३५।१)

iron:: māraṇa:: vāritarasthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet |

35.2३५.२

पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥ (३५।२)

pācayettriphalākvāthe dinaikaṃ lohacūrṇakam ||

36.1३६.१

तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् । (३६।१)

tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet |

36.2३६.२

षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥ (३६।२)

ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet ||

37.1३७.१

एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् । (३७।१)

evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram |

37.2३७.२

भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥ (३७।२)

bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam ||

38.1३८.१

शतावरी विदार्याश्च मूलक्वाथे च त्रैफले । (३८।१)

śatāvarī vidāryāśca mūlakvāthe ca traiphale |

38.2३८.२

पिष्ट्वा तत्पूर्ववत् स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥ (३८।२)

piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā ||

39.1३९.१

ततः पुनर्नवातोयैर् दशमूलकषायकैः । (३९।१)

tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ |

39.2३९.२

बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥ (३९।२)

bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ ||

40.1४०.१

ब्रह्मबीजस् तथाशिग्रुक्वाथे गोपयसापि वा । (४०।१)

brahmabījas tathāśigrukvāthe gopayasāpi vā |

40.2४०.२

प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥ (४०।२)

pratyekena prapeṣyādau pūrvagarbhapuṭe pacet ||

41.1४१.१

भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् । (४१।१)

bhāvayettu dravenaiva puṭānte yāmamātrakam |

41.2४१.२

प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥ (४१।२)

pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet ||

42.1४२.१

म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् । (४२।१)

mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam |

42.2४२.२

सर्वम् एतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः । (४२।२)

sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ |

42.3४२.३

यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥ (४२।३)

yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet ||

43.1४३.१

इरोन्:: मारणमध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् । (४३।१)

iron:: māraṇamadhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet |

43.2४३.२

रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥ (४३।२)

ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam ||

44.0४४.०

तदा लौहं मृतं विद्यादमृतं मारयेत् पुनः ॥ (४४।०)

tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ ||

45.1४५.१

इरोन्:: मारण:: निरुत्थगन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् । (४५।१)

iron:: māraṇa:: nirutthagandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet |

45.2४५.२

दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ (४५।२)

dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet ||

46.0४६.०

इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥ (४६।०)

ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ ||

47.1४७.१

इरोन्:: मारण:: वारितरशुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् । (४७।१)

iron:: māraṇa:: vāritaraśuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm |

47.2४७.२

द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ (४७।२)

dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ ||

48.1४८.१

यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके । (४८।१)

yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake |

48.2४८.२

आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥ (४८।२)

ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet ||

49.1४९.१

धान्यराशौ न्यसेत् पश्चात् त्रिदिनान्ते समुद्धरेत् । (४९।१)

dhānyarāśau nyaset paścāt tridinānte samuddharet |

49.2४९.२

सम्पिष्य गालयेद् वस्त्रे सद्यो वारितरं भवेत् ॥ (४९।२)

sampiṣya gālayed vastre sadyo vāritaraṃ bhavet ||

50.1५०.१

कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् । (५०।१)

kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam |

50.2५०.२

स्वर्णादीन् मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥ (५०।२)

svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat ||

51.1५१.१

सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् । (५१।१)

siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam |

51.2५१.२

इरोन्:: मृत:: मेदिच्। उसेअन्नभूतम् आयसाद्यं सर्वरोगज्वरापहम् ॥ (५१।२)

iron:: mṛta:: medic. useannabhūtam āyasādyaṃ sarvarogajvarāpaham ||

52.0५२.०

त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥ (५२।०)

triphalārasasaṃyuktaṃ sarvarogeṣu yojayet ||

53.1५३.१

मृतानि लौहानि वशीभवन्ति । (५३।१)

mṛtāni lauhāni vaśībhavanti |

53.2५३.२

निघ्नन्ति युक्त्या ह्यखिलामयानि । (५३।२)

nighnanti yuktyā hyakhilāmayāni |

53.3५३.३

अभ्यासयोगाद् दृढयोगसिद्धम् । (५३।३)

abhyāsayogād dṛḍhayogasiddham |

53.4५३.४

कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥ (५३।४)

kurvanti ruṅmṛtyujarāvināśam ||

54.1५४.१

इरोन्:: मृत:: अमृतीकरणतोयाष्टभागशेषेन त्रिफलापलपञ्चकम् । (५४।१)

iron:: mṛta:: amṛtīkaraṇatoyāṣṭabhāgaśeṣena triphalāpalapañcakam |

54.2५४.२

घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥ (५४।२)

ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam ||

55.1५५.१

पाचयेत् ताम्रपात्रे च लौहदर्व्या विचालयेत् । (५५।१)

pācayet tāmrapātre ca lauhadarvyā vicālayet |

55.2५५.२

मृद्वग्निना पचेत्तावद् यावज्जीर्यति गन्धकम् ॥ (५५।२)

mṛdvagninā pacettāvad yāvajjīryati gandhakam ||

56.1५६.१

लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् । (५६।१)

lauhatulyā śivā yojyā supakvenaivāvatārayet |

56.2५६.२

योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥ (५६।२)

yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam ||

57.1५७.१

एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः । (५७।१)

evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ |

57.2५७.२

इरोन्:: मृत:: अमृतीकरणगुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥ (५७।२)

iron:: mṛta:: amṛtīkaraṇaguḍasya kuḍave pakvaṃ lauhabhasma palānvitam ||

58.1५८.१

कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् । (५८।१)

kolapramāṇaṃ rogeṣu tacca yogena yojayet |

58.2५८.२

घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥ (५८।२)

ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet ||

59.0५९.०

जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥ (५९।०)

jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet ||

60.1६०.१

ॐ अमृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् । (६०।१)

oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet |

60.2६०.२

इरोन्:: मृत:: मेदिच्। प्रोपेर्तिएसायुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् । (६०।२)

iron:: mṛta:: medic. propertiesāyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut |

60.3६०.३

आमवातहरं लौहं वलीपलितनाशनम् ॥ (६०।३)

āmavātaharaṃ lauhaṃ valīpalitanāśanam ||

61.1६१.१

उपलोह:: शोधनत्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् । (६१।१)

upaloha:: śodhanatrikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet |

61.2६१.२

कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥ (६१।२)

kāṃsyāraghoṣapatrāṇi tilakalkena lepayet ||

62.1६२.१

रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा । (६२।१)

ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā |

62.2६२.२

उपलोह:: मारणताम्रवन्मारयेत् तेषां कृत्वा सर्वत्र योजयेत् ॥ (६२।२)

upaloha:: māraṇatāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet ||

63.1६३.१

ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् । (६३।१)

bronze:: medic. propertieskāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam |

63.2६३.२

कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥ (६३।२)

kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam ||

64.1६४.१

ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्रीतिका च गलं रूक्षम् अतिक्तलवणं सरम् । (६४।१)

brass:: medic. propertiesrītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram |

64.2६४.२

शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥ (६४।२)

śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam ||

65.1६५.१

मण्डूर:: प्रोदुच्तिओनल्पाङ्गारे धमेत् किट्टं लौहजं च गवां जलैः । (६५।१)

maṇḍūra:: productionalpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ |

65.2६५.२

सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥ (६५।२)

secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ ||

66.1६६.१

मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् । (६६।१)

maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet |

66.2६६.२

किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥ (६६।२)

kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam ||

67.1६७.१

तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् । (६७।१)

tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam |

67.2६७.२

तस्मात् कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥ (६७।२)

tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ param ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 1, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit