रसरत्नाकरRasaratnākara

RRĀ, 3, 5

24 of 39 · 113 verses

Select a line for its word-by-word analysis.

1.1१.१

महारसैश्चोपरसैः ससूतैर् हेम्नो दलं रञ्जनमत्र युक्त्या । (१।१)

mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā |

1.2१.२

नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥ (१।२)

nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam ||

2.1२.१

गोल्द्:: ड़्रोम् सितस्वर्णवैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा । (२।१)

gold:: from sitasvarṇavaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā |

2.2२.२

कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥ (२।२)

kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā ||

3.1३.१

समेन नागचूर्णेन अन्धमूषागतं धमेत् । (३।१)

samena nāgacūrṇena andhamūṣāgataṃ dhamet |

3.2३.२

सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥ (३।२)

siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam ||

4.1४.१

आदाय मधुना पेष्यं याममात्रं प्रयत्नतः । (४।१)

ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ |

4.2४.२

स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥ (४।२)

svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet ||

5.1५.१

सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् । (५।१)

sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet |

5.2५.२

रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ (५।२)

ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte ||

6.1६.१

जायते कनकं दिव्यं सेचयेल्लवणोदकैः । (६।१)

jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ |

6.2६.२

लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥ (६।२)

lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā ||

7.1७.१

एवं विमलनागाभ्यां पृथग्योग उदाहृतः । (७।१)

evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ |

7.2७.२

गोल्द्:: ड़्रोम् सितस्वर्णनागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥ (७।२)

gold:: from sitasvarṇanāgavaikrāntayogena madhūcchiṣṭena lepayet ||

8.1८.१

सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् । (८।१)

sahasrāṃśe site heme divyaṃ bhavati kāñcanam |

8.2८.२

सितस्वर्ण => गोल्द्मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥ (८।२)

sitasvarṇa => goldmeṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam ||

9.1९.१

शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः । (९।१)

śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ |

9.2९.२

अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥ (९।२)

anena sitasvarṇasya patraṃ liptvā puṭe pacet ||

10.1१०.१

एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् । (१०।१)

evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam |

10.2१०.२

सितस्वर्ण => गोल्द्नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥ (१०।२)

sitasvarṇa => goldnāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā ||

11.1११.१

अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् । (११।१)

aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam |

11.2११.२

मर्दनं पुटपाकं च पूर्ववत् कारयेत् क्रमात् ॥ (११।२)

mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt ||

12.1१२.१

तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् । (१२।१)

tenaiva madhunāktena śuddhaṃ hāṭakapatrakam |

12.2१२.२

लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत् कुङ्कुमसंनिभम् ॥ (१२।२)

liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham ||

13.1१३.१

एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् । (१३।१)

etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet |

13.2१३.२

जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥ (१३।२)

jāyate kanakaṃ divyaṃ raktavargeṇa secayet ||

14.1१४.१

सितस्वर्ण => गोल्द्वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् । (१४।१)

sitasvarṇa => goldvaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam |

14.2१४.२

शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥ (१४।२)

śatāṃśe naiva vedhaṃtu sitahemena pūrvavat ||

15.1१५.१

लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् । (१५।१)

lepanātpuṭapākācca divyaṃ bhavati kāṃcanam |

15.2१५.२

सितस्वर्ण => गोल्द्माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥ (१५।२)

sitasvarṇa => goldmākṣikasya samāṃśena rājāvartaṃ dinatrayam ||

16.1१६.१

मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् । (१६।१)

mātuluṅgadravairmardya tena patrāṇi lepayet |

16.2१६.२

पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥ (१६।२)

pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet ||

17.1१७.१

पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् । (१७।१)

punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet |

17.2१७.२

सिल्वेर् => गोल्द्राजावर्तं च सिन्दूरं पारावतमलं समम् ॥ (१७।२)

silver => goldrājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam ||

18.1१८.१

अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् । (१८।१)

aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat |

18.2१८.२

मिxतुरे ओड़् गोल्द् अन्द् सिल्वेर् => गोल्द्रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥ (१८।२)

mixture of gold and silver => goldrasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ ||

19.1१९.१

भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् । (१९।१)

bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam |

19.2१९.२

तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥ (१९।२)

tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam ||

20.1२०.१

वेधयेत्पूर्ववत् सिद्धं दिव्यं भवति काञ्चनम् । (२०।१)

vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam |

20.2२०.२

मिxतुरे ओड़् गोल्द् अन्द् सिल्वेर् => गोल्द्कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥ (२०।२)

mixture of gold and silver => goldkaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā ||

21.1२१.१

राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् । (२१।१)

rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam |

21.2२१.२

सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥ (२१।२)

saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet ||

22.1२२.१

द्रुते समे स्वर्णतारे पूर्ववत् सेचयेत् क्रमात् । (२२।१)

drute same svarṇatāre pūrvavat secayet kramāt |

22.2२२.२

त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥ (२२।२)

trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam ||

23.1२३.१

बीज:: पक्व:: प्रोदुच्तिओन्गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् । (२३।१)

bīja:: pakva:: productiongairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam |

23.2२३.२

यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ (२३।२)

yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet ||

24.1२४.१

इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् । (२४।१)

ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam |

24.2२४.२

तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ (२४।२)

tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet ||

25.1२५.१

काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् । (२५।१)

kāñjikairyāmamātraṃ tu puṭenaikena pācayet |

25.2२५.२

अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥ (२५।२)

asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam ||

26.1२६.१

अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् । (२६।१)

andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet |

26.2२६.२

पूर्ववत् पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥ (२६।२)

pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ ||

27.1२७.१

एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् । (२७।१)

evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet |

27.2२७.२

पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥ (२७।२)

pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet ||

28.1२८.१

सितस्वर्ण => गोल्दनेन षोडशांशेन सितस्वर्णं तु वेधयेत् । (२८।१)

sitasvarṇa => goldanena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet |

28.2२८.२

सेचयेत् कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥ (२८।२)

secayet kuṅkuṇītaile raktavargeṇa vāpitam ||

29.1२९.१

पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् । (२९।१)

punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān |

29.2२९.२

एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥ (२९।२)

evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam ||

30.1३०.१

गोल्द्:: रञ्जन:: दशवर्णपूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् । (३०।१)

gold:: rañjana:: daśavarṇapūrvoktapakvabījena vedhayedaṣṭavargakam |

30.2३०.२

तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥ (३०।२)

tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate ||

31.1३१.१

गोल्द्:: रक्ती (रञ्जन)निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् । (३१।१)

gold:: raktī (rañjana)niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam |

31.2३१.२

टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥ (३१।२)

ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam ||

32.1३२.१

सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् । (३२।१)

sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam |

32.2३२.२

निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥ (३२।२)

niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet ||

33.1३३.१

एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् । (३३।१)

ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet |

33.2३३.२

जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥ (३३।२)

jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet ||

34.1३४.१

गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका । (३४।१)

guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā |

34.2३४.२

गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्णअष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥ (३४।२)

gold:: rañjana:: aṣṭavarṇa => daśavarṇaaṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ ||

35.1३५.१

क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् । (३५।१)

kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam |

35.2३५.२

गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्णताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥ (३५।२)

gold:: rañjana:: aṣṭavarṇa => daśavarṇatāmratulyena nāgena śodhayeddhamanena ca ||

36.1३६.१

ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् । (३६।१)

tāmratulyaṃ śuddhahema samāvartya tu pattrayet |

36.2३६.२

इष्टिका तुवरी चैव खटिका लवणं तथा ॥ (३६।२)

iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā ||

37.1३७.१

गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् । (३७।१)

gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet |

37.2३७.२

तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥ (३७।२)

tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet ||

38.1३८.१

एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् । (३८।१)

evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam |

38.2३८.२

तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥ (३८।२)

tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet ||

39.1३९.१

पूर्ववत् पुटपाकेन पचेत्स्वर्णावशेषितम् । (३९।१)

pūrvavat puṭapākena pacetsvarṇāvaśeṣitam |

39.2३९.२

इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥ (३९।२)

ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu ||

40.1४०.१

तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् । (४०।१)

tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham |

40.2४०.२

षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥ (४०।२)

ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet ||

41.1४१.१

तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः । (४१।१)

tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ |

41.2४१.२

गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्णसमं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥ (४१।२)

gold:: rañjana:: aṣṭavarṇa => daśavarṇasamaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam ||

42.1४२.१

कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् । (४२।१)

kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet |

42.2४२.२

एवं वारांश्चतुःषष्टिस् ततः शुष्कं विचूर्णयेत् ॥ (४२।२)

evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet ||

43.1४३.१

षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् । (४३।१)

ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet |

43.2४३.२

तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥ (४३।२)

tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ ||

44.1४४.१

गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्णरसकं घोषताम्रं च काचं श्वेतं नृकेशकम् । (४४।१)

gold:: rañjana:: aṣṭavarṇa => daśavarṇarasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam |

44.2४४.२

पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत् पृथक् ॥ (४४।२)

palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak ||

45.1४५.१

रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः । (४५।१)

rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ |

45.2४५.२

गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥ (४५।२)

gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam ||

46.1४६.१

विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि । (४६।१)

viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi |

46.2४६.२

मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥ (४६।२)

mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam ||

47.1४७.१

कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् । (४७।१)

koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam |

47.2४७.२

षड्गुणम् तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥ (४७।२)

ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman ||

48.1४८.१

षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् । (४८।१)

ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet |

48.2४८.२

दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥ (४८।२)

daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā ||

49.1४९.१

चोप्पेर्:: रेमोविन्ग् कालिकाअथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् । (४९।१)

copper:: removing kālikāathānyasya ca tāmrasya nāgaśuddhasya kārayet |

49.2४९.२

निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥ (४९।२)

nirguṇḍikārasenaiva pañcāśadvāraḍhālanam ||

50.1५०.१

कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् । (५०।१)

kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam |

50.2५०.२

निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् । (५०।२)

niśāyuktena takreṇa saptavāraṃ tu ḍhālanam |

50.3५०.३

एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥ (५०।३)

evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet ||

51.1५१.१

चोप्पेर्, सिल्वेर्, गोल्द् => गोल्देतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् । (५१।१)

copper, silver, gold => goldetattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam |

51.2५१.२

रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥ (५१।२)

raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ ||

52.1५२.१

जायते कनकं दिव्यं पुरा नागार्जुनोदितम् । (५२।१)

jāyate kanakaṃ divyaṃ purā nāgārjunoditam |

52.2५२.२

गोल्द्:: रञ्जन:: वेर्बेस्सेरुन्ग् उम् ज़्wएइ ड़र्ब्स्तुड़ेनङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥ (५२।२)

gold:: rañjana:: Verbesserung um zwei Farbstufenaṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam ||

53.1५३.१

अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् । (५३।१)

aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet |

53.2५३.२

तदङ्गारान् समादाय शीतलांश्च पुनर्धमेत् ॥ (५३।२)

tadaṅgārān samādāya śītalāṃśca punardhamet ||

54.1५४.१

अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् । (५४।१)

aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet |

54.2५४.२

तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥ (५४।२)

taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet ||

55.1५५.१

द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः । (५५।१)

drāvayitvā kṣipettaile putrajīvotthite punaḥ |

55.2५५.२

एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥ (५५।२)

evaṃ vāradvaye kṣipte vardhate varṇakadvayam ||

56.1५६.१

अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैर् अल्पाल्पकर्मविधिना बहुभिर्विशेषैः । (५६।१)

alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ |

56.2५६.२

लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥ (५६।२)

lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit