रसरत्नाकरRasaratnākara

RRĀ, 1, 8

8 of 39 · 198 verses

Select a line for its word-by-word analysis.

1.1१.१

मेतल्स्स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् । (१।१)

metalssvarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam |

1.2१.२

मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा ॥ (१।२)

muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā ||

2.1२.१

उपलोहाःउपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् । (२।१)

upalohāḥupalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam |

2.2२.२

एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु ॥ (२।२)

ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu ||

3.1३.१

मेतल्स्:: शोधनतैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके । (३।१)

metals:: śodhanataile takre gavāṃ mūtre hyāranāle kulatthake |

3.2३.२

क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा ॥ (३।२)

kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā ||

4.1४.१

स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता । (४।१)

svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā |

4.2४.२

मेतल्स्:: मारणहेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ (४।२)

metals:: māraṇahemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit ||

5.1५.१

पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् । (५।१)

patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam |

5.2५.२

शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी ॥ (५।२)

śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī ||

6.1६.१

गोल्द्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च । (६।१)

gold:: aśuddha:: medic. propertiessaukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca |

6.2६.२

अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत् ॥ (६।२)

aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet ||

7.1७.१

पञ्चमृत्तिकाःवल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे । (७।१)

pañcamṛttikāḥvalmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe |

7.2७.२

गोल्द्:: शोधनैत्याद्याः मृत्तिकाः पञ्च जम्बीरैर् आरनालकैः ॥ (७।२)

gold:: śodhanaityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ ||

8.1८.१

पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति । (८।१)

piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati |

8.2८.२

गोल्द्:: शोधनभावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका ॥ (८।२)

gold:: śodhanabhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā ||

9.0९.०

सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत् ॥ (९।०)

saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat ||

10.1१०.१

सुब्स्तन्चेस् ड़ोर् मारण ओड़् मेतल्स्नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् । (१०।१)

substances for māraṇa of metalsnāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam |

10.2१०.२

तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन ॥ (१०।२)

tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena ||

11.1११.१

गोल्द्:: मारणमाक्षिकं नागचूर्णं च पिष्टमर्करसेन तु । (११।१)

gold:: māraṇamākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu |

11.2११.२

हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः ॥ (११।२)

hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ ||

12.1१२.१

गोल्द्:: मारणस्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् । (१२।१)

gold:: māraṇasvarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām |

12.2१२.२

दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम् ॥ (१२।२)

dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam ||

13.1१३.१

गोल्द्:: मारणनागचूर्णं शिलां वज्रीक्षीरेण परियसितम् । (१३।१)

gold:: māraṇanāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam |

13.2१३.२

तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात् ॥ (१३।२)

tenālipya suvarṇasya kalkaśca mriyate puṭāt ||

14.1१४.१

गोल्द्:: मारणमृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् । (१४।१)

gold:: māraṇamṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit |

14.2१४.२

पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ (१४।२)

piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet ||

15.1१५.१

आदाय पेषयेदम्लैर् मृन्नागं चाष्टमांशकम् । (१५।१)

ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam |

15.2१५.२

बद्ध्वा गजपुटे पच्यात् पूर्वनागयुतं युतम् ॥ (१५।२)

baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam ||

16.1१६.१

एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् । (१६।१)

evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam |

16.2१६.२

गोल्द्:: मारण:: निरुत्थशुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः ॥ (१६।२)

gold:: māraṇa:: nirutthaśuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ ||

17.1१७.१

अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् । (१७।१)

aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām |

17.2१७.२

शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ (१७।२)

śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam ||

18.1१८.१

अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च । (१८।१)

adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca |

18.2१८.२

त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ॥ (१८।२)

triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa ||

19.1१९.१

निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे । (१९।१)

nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe |

19.2१९.२

गोल्द्:: मारण:: निरुत्थस्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ॥ (१९।२)

gold:: māraṇa:: nirutthasvarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet ||

20.1२०.१

अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् । (२०।१)

adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam |

20.2२०.२

तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम् ॥ (२०।२)

tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam ||

21.1२१.१

देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् । (२१।१)

deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam |

21.2२१.२

षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम् ॥ (२१।२)

ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham ||

22.1२२.१

स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् । (२२।१)

svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam |

22.2२२.२

टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत् ॥ (२२।२)

ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet ||

23.1२३.१

त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् । (२३।१)

tritayaṃ madhunājyena militaṃ golakīkṛtam |

23.2२३.२

धान्याभ्रकस्य भागैकम् अधश्चोर्ध्वं च दापयेत् ॥ (२३।२)

dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet ||

24.1२४.१

निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् । (२४।१)

nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam |

24.2२४.२

निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ॥ (२४।२)

nirutthaṃ jāyate bhasma tattadyogeṣu yojayet ||

25.1२५.१

गोल्द्:: मारण:: निरुत्थशुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् । (२५।१)

gold:: māraṇa:: nirutthaśuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ cāvoṭamākṣikam |

25.2२५.२

त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ (२५।२)

tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet ||

26.1२६.१

तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् । (२६।१)

tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet |

26.2२६.२

इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ॥ (२६।२)

ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ ||

27.1२७.१

गोल्द्:: मारणतथैव च राजवृक्षभल्लातैष्टंकणेन च । (२७।१)

gold:: māraṇatathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca |

27.2२७.२

लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ॥ (२७।२)

liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet ||

28.1२८.१

तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे । (२८।१)

taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe |

28.2२८.२

गोल्द्:: मारणहेममारभ्य तोलैकं माषैकं शुद्धनागकम् ॥ (२८।२)

gold:: māraṇahemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam ||

29.1२९.१

लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः । (२९।१)

liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ |

29.2२९.२

अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ (२९।२)

amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet ||

30.1३०.१

गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः । (३०।१)

gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ |

30.2३०.२

गोल्द्:: मृत:: मेदिच्। प्रोपेर्तिएस्सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु ॥ (३०।२)

gold:: mṛta:: medic. propertiessuvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru ||

31.0३१.०

बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥ (३१।०)

buddhividyāsmṛtikaraṃ viṣahāri rasāyanam ||

32.1३२.१

सिल्वेर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसायुः शुक्रं बलं हन्ति रोगवेगं करोति च । (३२।१)

silver:: aśuddha:: medic. propertiesāyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca |

32.2३२.२

अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः ॥ (३२।२)

aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ ||

33.1३३.१

सिल्वेर्:: शोधननागेन टङ्कणेनैव द्रावितं शुद्धिम् ऋच्छति । (३३।१)

silver:: śodhananāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati |

33.2३३.२

सिल्वेर्:: मारणमाक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत् ॥ (३३।२)

silver:: māraṇamākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet ||

34.1३४.१

तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् । (३४।१)

tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam |

34.2३४.२

सिल्वेर्:: मारणतारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत् ॥ (३४।२)

silver:: māraṇatāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet ||

35.1३५.१

स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् । (३५।१)

snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet |

35.2३५.२

रुद्ध्वा गजपुटे पच्यात् पूर्वोक्तैः पेषयेत्पुनः ॥ (३५।२)

ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ ||

36.1३६.१

भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः । (३६।१)

bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ |

36.2३६.२

लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत् ॥ (३६।२)

liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet ||

37.1३७.१

द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः । (३७।१)

dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ |

37.2३७.२

सिल्वेर्:: मारण:: निरुत्थतारपत्रैस्त्रिभिर् भागैर् भागैकं शुद्धमाक्षिकम् ॥ (३७।२)

silver:: māraṇa:: nirutthatārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam ||

38.1३८.१

मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् । (३८।१)

mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet |

38.2३८.२

शोषयेदन्धयेत् तं च त्रिंशद्वन्योपलैः पचेत् ॥ (३८।२)

śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet ||

39.1३९.१

चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् । (३९।१)

caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam |

39.2३९.२

सिल्वेर्:: मारणरूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम् ॥ (३९।२)

silver:: māraṇarūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam ||

40.1४०.१

अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् । (४०।१)

athavā gandhatālena lepyaṃ jambīrapeṣitam |

40.2४०.२

रुद्ध्वा त्रिःपुटैः पच्यात् पञ्चविंशद्वनोपलैः ॥ (४०।२)

ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ ||

41.1४१.१

म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे । (४१।१)

mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe |

41.2४१.२

सिल्वेर्:: मारणरसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम् ॥ (४१।२)

silver:: māraṇarasagandhau samau kṛtvā kākatuṇḍasya mūlakam ||

42.1४२.१

मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः । (४२।१)

mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ |

42.2४२.२

हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ (४२।२)

haridrāgolake kṣiptvā golaṃ hayapurīṣake ||

43.1४३.१

क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत् पुनः । (४३।१)

kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ |

43.2४३.२

तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित् ॥ (४३।२)

tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit ||

44.1४४.१

पुटैर् विंशतिभिर्भस्म जायते नात्र संशयः । (४४।१)

puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ |

44.2४४.२

भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः ॥ (४४।२)

bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ ||

45.0४५.०

जायते तद्विधानेन सर्वरोगापहारकम् ॥ (४५।०)

jāyate tadvidhānena sarvarogāpahārakam ||

46.1४६.१

चोप्पेर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसपक्वताम्रम् आयुर्घ्नं कान्तिघ्नं सर्वधातुहा । (४६।१)

copper:: aśuddha:: medic. propertiesapakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā |

46.2४६.२

भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत् ॥ (४६।२)

bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt ||

47.1४७.१

चोप्पेर्:: शोधनस्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् लिप्त्वा । (४७।१)

copper:: śodhanasnuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā |

47.2४७.२

प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥ (४७।२)

pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ ||

48.1४८.१

वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् । (४८।१)

vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt |

48.2४८.२

खटिका लवणं तक्रैर् आरनालैश्च पेषयेत् ॥ (४८।२)

khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet ||

49.1४९.१

तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् । (४९।१)

tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet |

49.2४९.२

षड्वारम् अम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये ॥ (४९।२)

ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye ||

50.1५०.१

चोप्पेर्:: शोधनगोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना । (५०।१)

copper:: śodhanagomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā |

50.2५०.२

शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना ॥ (५०।२)

śudhyate nātra sandeho māraṇaṃ kathyate'dhunā ||

51.1५१.१

चोप्पेर्:: मारणगन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् । (५१।१)

copper:: māraṇagandhena tāmratulyena hyamlapiṣṭena lepayet |

51.2५१.२

कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत् ॥ (५१।२)

kaṇṭakavedhīkṛtaṃ patraṃ siddhayitvā puṭe pacet ||

52.1५२.१

उद्धृत्य चूर्णयेत् तस्मिन् पादांशं गन्धकं क्षिपेत् । (५२।१)

uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet |

52.2५२.२

जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा ॥ (५२।२)

jambīrairāranālairvā mṛgadūrvādravaistathā ||

53.1५३.१

पिष्ट्वा पिष्ट्वा पचेत्तद्वत् सगन्धं च चतुष्पुटे । (५३।१)

piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe |

53.2५३.२

मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ॥ (५३।२)

mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet ||

54.1५४.१

अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् । (५४।१)

anenaiva vidhānena tāmrabhasma bhaveddhruvam |

54.2५४.२

चोप्पेर्:: मारणताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत् ॥ (५४।२)

copper:: māraṇatāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet ||

55.1५५.१

सितशर्करयाप्येवं पुटत्रये मृतं भवेत् । (५५।१)

sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet |

55.2५५.२

चोप्पेर्:: मारणपाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः ॥ (५५।२)

copper:: māraṇapāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ ||

56.1५६.१

ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् । (५६।१)

tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet |

56.2५६.२

सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत् ॥ (५६।२)

saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet ||

57.1५७.१

एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् । (५७।१)

evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam |

57.2५७.२

चोप्पेर्:: मारणताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत् ॥ (५७।२)

copper:: māraṇatāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet ||

58.1५८.१

आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् । (५८।१)

ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam |

58.2५८.२

तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत् ॥ (५८।२)

tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet ||

59.1५९.१

तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् । (५९।१)

tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam |

59.2५९.२

आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत् ॥ (५९।२)

ācchādya dhustūrapatre ruddhvā gajapuṭe pacet ||

60.1६०.१

स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् । (६०।१)

svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam |

60.2६०.२

चोप्पेर्:: मारणकिंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम् ॥ (६०।२)

copper:: māraṇakiṃcidgandhena cāmlena kṣālayettāmrapatrakam ||

61.1६१.१

तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् । (६१।१)

tena gandhena sūtena tāmrapatraṃ pralepayet |

61.2६१.२

गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः ॥ (६१।२)

gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ ||

62.1६२.१

चोप्पेर्:: मारणताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः । (६२।१)

copper:: māraṇatāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ |

62.2६२.२

क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः ॥ (६२।२)

kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ ||

63.1६३.१

तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् । (६३।१)

tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet |

63.2६३.२

यामैकं तीव्रपाकेन भस्मीभवति निश्चितम् ॥ (६३।२)

yāmaikaṃ tīvrapākena bhasmībhavati niścitam ||

64.1६४.१

चोप्पेर्:: मारणसूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् । (६४।१)

copper:: māraṇasūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam |

64.2६४.२

द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत् ॥ (६४।२)

dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet ||

65.1६५.१

सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् । (६५।१)

samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet |

65.2६५.२

चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ (६५।२)

caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam ||

66.1६६.१

जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् । (६६।१)

jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet |

66.2६६.२

म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ (६६।२)

mriyate nātra saṃdehaḥ sarvarogeṣu yojayet ||

67.1६७.१

चोप्पेर्:: मारण (शोधन?)नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् । (६७।१)

copper:: māraṇa (śodhana?)nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam |

67.2६७.२

भागैकं श्वेतकाचं च भागपञ्चैकटंकणम् ॥ (६७।२)

bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam ||

68.1६८.१

मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् । (६८।१)

mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam |

68.2६८.२

ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम् ॥ (६८।२)

ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam ||

69.1६९.१

निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् । (६९।१)

nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet |

69.2६९.२

चोप्पेर्:: मृत:: मेदिच्। अप्प्लिचतिओनथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् ॥ (६९।२)

copper:: mṛta:: medic. applicationathavā māritaṃ tāmramamlenaikena mardayet ||

70.1७०.१

तद्गोलं सूरणस्यान्तर् उर्ध्वारुद्ध्वा तु लेपयेत् । (७०।१)

tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet |

70.2७०.२

शुष्कं गजपुटे पच्यात् सर्वदोषहरो भवेत् ॥ (७०।२)

śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet ||

71.1७१.१

वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन । (७१।१)

vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana |

71.2७१.२

चोप्पेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम् ॥ (७१।२)

copper:: mṛta:: medic. propertiestāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram ||

72.1७२.१

कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् । (७२।१)

kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam |

72.2७२.२

परिणामशूलम् अर्शांसि मन्दाग्निं च विनाशयेत् ॥ (७२।२)

pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet ||

73.1७३.१

तिन्, लेअद्:: अमृत:: मेदिच्। प्रोपेर्तिएस्पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ । (७३।१)

tin, lead:: amṛta:: medic. propertiespākahīnau nāgavaṃgau kuṣṭhagulmarujākarau |

73.2७३.२

मेहपाण्डूदरवातकफमृत्युकरौ किल ॥ (७३।२)

mehapāṇḍūdaravātakaphamṛtyukarau kila ||

74.1७४.१

लेअद्:: शोधननिर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् । (७४।१)

lead:: śodhananirguṇḍīmūlacūrṇena mārkadugdhena lepayet |

74.2७४.२

नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत् ॥ (७४।२)

nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet ||

75.1७५.१

निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् । (७५।१)

nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet |

75.2७५.२

लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये ॥ (७५।२)

liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye ||

76.1७६.१

लेअद्:: शोधननिशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् । (७६।१)

lead:: śodhananiśā tumbarubījāni kokilākṣaṃ kuṭhārikām |

76.2७६.२

गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम् ॥ (७६।२)

gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam ||

77.1७७.१

यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् । (७७।१)

yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet |

77.2७७.२

तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा ॥ (७७।२)

tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā ||

78.1७८.१

लेअद्:: मारण:: निरुत्थअश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः । (७८।१)

lead:: māraṇa:: nirutthaaśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ |

78.2७८.२

क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके ॥ (७८।२)

kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake ||

79.1७९.१

यावद्भस्म भवेद् एतच्च भस्म तुल्यं मनःशिलाम् । (७९।१)

yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām |

79.2७९.२

जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ (७९।२)

jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet ||

80.1८०.१

स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः । (८०।१)

svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ |

80.2८०.२

एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः ॥ (८०।२)

evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ ||

81.1८१.१

लेअद्:: मारणअथवा नागपत्राणि चूर्णलिप्तानि खर्परे । (८१।१)

lead:: māraṇaathavā nāgapatrāṇi cūrṇaliptāni kharpare |

81.2८१.२

अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः ॥ (८१।२)

atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ ||

82.1८२.१

भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः । (८२।१)

bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ |

82.2८२.२

यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ॥ (८२।२)

yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ ||

83.1८३.१

दण्डेन मर्दयेत्क्वाथ्यम् उद्धृत्य चित्रकद्रवैः । (८३।१)

daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ |

83.2८३.२

गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु ॥ (८३।२)

golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu ||

84.1८४.१

लेअद्:: मारणचिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः । (८४।१)

lead:: māraṇaciñcākṣamikṣubhallātabalāvajralatābhavaiḥ |

84.2८४.२

अपामार्गार्जुनाश्वत्थभस्मभिर् भर्जयेद् दृढम् ॥ (८४।२)

apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham ||

85.1८५.१

लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च । (८५।१)

lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca |

85.2८५.२

दण्डपलाशकेनैव म्रियते नात्र संशयः ॥ (८५।२)

daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ ||

86.1८६.१

लेअद्:: मारणपिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् । (८६।१)

lead:: māraṇapiṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet |

86.2८६.२

तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत् ॥ (८६।२)

tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet ||

87.1८७.१

वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् । (८७।१)

vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet |

87.2८७.२

यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ॥ (८७।२)

yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet ||

88.1८८.१

तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः । (८८।१)

taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ |

88.2८८.२

तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत् ॥ (८८।२)

tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet ||

89.1८९.१

द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह । (८९।१)

dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha |

89.2८९.२

नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ॥ (८९।२)

nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt ||

90.1९०.१

लेअद्:: मारणकुनटी माक्षिकं चैव समभागं तु कारयेत् । (९०।१)

lead:: māraṇakunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet |

90.2९०.२

अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत् ॥ (९०।२)

arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet ||

91.1९१.१

लेअद्:: मृत:: मेदिच्। प्रोपेर्तिएस्सतिक्तमधुरो नागो मृतो भवति भस्मसात् । (९१।१)

lead:: mṛta:: medic. propertiessatiktamadhuro nāgo mṛto bhavati bhasmasāt |

91.2९१.२

आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा ॥ (९१।२)

āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā ||

92.1९२.१

तिन्:: मारणमाक्षिकं हरितालं च पलाशस्वरसेन च । (९२।१)

tin:: māraṇamākṣikaṃ haritālaṃ ca palāśasvarasena ca |

92.2९२.२

कृतकल्केन संलिप्य वंगपत्राणि मारयेत् ॥ (९२।२)

kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet ||

93.1९३.१

नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिंचयोः । (९३।१)

nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ |

93.2९३.२

तद्भस्म हरितालं च तुल्यमम्लेन केनचित् ॥ (९३।२)

tadbhasma haritālaṃ ca tulyamamlena kenacit ||

94.1९४.१

पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे । (९४।१)

palāśotthadravairvātha golayitvāndhayetpuṭe |

94.2९४.२

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ॥ (९४।२)

uddhṛtya daśamāṃśena tālena saha mardayet ||

95.1९५.१

पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् । (९५।१)

pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet |

95.2९५.२

एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात् ॥ (९५।२)

evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt ||

96.1९६.१

तिन्:: मारणवङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् । (९६।१)

tin:: māraṇavaṅgapādena sūtena vaṅgapatrāṇi lepayet |

96.2९६.२

चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः ॥ (९६।२)

ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ ||

97.1९७.१

पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् । (९७।१)

piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet |

97.2९७.२

शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम् ॥ (९७।२)

śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam ||

98.1९८.१

सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् । (९८।१)

sūtaliptaṃ vaṅgapatraṃ golake samalepitam |

98.2९८.२

रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत् ॥ (९८।२)

ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet ||

99.1९९.१

तिन्:: मारणअक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् । (९९।१)

tin:: māraṇaakṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet |

99.2९९.२

ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत् ॥ (९९।२)

tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet ||

100.1१००.१

गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् । (१००।१)

gajākhye jāyate bhasma catvāriṃśativaṅgakam |

100.2१००.२

तिन्:: मृत:: मेदिच्। प्रोपेर्तिएस्सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित् ॥ (१००।२)

tin:: mṛta:: medic. propertiessatiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit ||

101.0१०१.०

लेखिनं पित्तलं किंचित् सर्वदेहामयापहम् ॥ (१०१।०)

lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 1, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit