RRĀ, 2, 6
Select a line for its word-by-word analysis.
येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च । (१।१)
yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca |
तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ (१।२)
teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti ||
सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ (२।२)
sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham ||
तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् । (३।१)
tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet |
तत्कल्कं मुसलीक्वाथैर् वज्रार्कक्षीरसंयुतैः ॥ (३।२)
tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ ||
दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् । (४।१)
dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet |
यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥ (४।२)
yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ ||
समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा । (५।१)
samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā |
चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु । (६।१)
cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu |
शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः । (७।१)
śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ |
यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ (७।२)
yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet ||
पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः । (८।१)
pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ |
दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ (८।२)
dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet ||
दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् । (९।१)
dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet |
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा । (१०।१)
chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā |
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् । (११।१)
gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet |
मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥ (१२।२)
mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam ||
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् । (१३।१)
sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet |
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ (१३।२)
tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet ||
यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् । (१४।१)
yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet |
त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥ (१४।२)
tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam ||
निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः । (१५।१)
niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ |
विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ (१५।२)
vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet ||
रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् । (१६।१)
ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet |
मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ (१६।२)
mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam ||
कदलीकन्दजैर् द्रावैस्तद्गोलं चान्धितं पुटेत् ॥ (१७।२)
kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet ||
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् । (१८।१)
bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet |
दिनैकं पूर्वजैर् द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥ (१८।२)
dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet ||
पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् । (१९।१)
punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet |
खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् । (२०।१)
khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam |
सर्वाङ्गोद्वर्तनं कुर्यात् सयवैः शाल्मलीद्रवैः । (२१।१)
sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ |
मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् । (२२।१)
mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam |
कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥ (२२।२)
kadalīkandajairdrāvaiḥ śālmalījadravairdinam ||
गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः । (२३।१)
gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ |
तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ (२३।२)
tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu ||
गोक्षीरं मुसलीं माषान् कोकिलाक्षस्य बीजकम् । (२४।१)
gokṣīraṃ musalīṃ māṣān kokilākṣasya bījakam |
सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ (२४।२)
sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ ||
निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ (२५।२)
niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu ||
मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् । (२६।१)
maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam |
प्रारम्भरजसा स्त्रीणां मर्दयेद् भस्मसूतकम् ॥ (२६।२)
prārambharajasā strīṇāṃ mardayed bhasmasūtakam ||
मृतं ताम्रं च तारं च गन्धकं च समं दिनम् । (२७।१)
mṛtaṃ tāmraṃ ca tāraṃ ca gandhakaṃ ca samaṃ dinam |
सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ (२७।२)
sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ ||
माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः । (२९।१)
māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ |
तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ (२९।२)
tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam ||
शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ (३०।२)
śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ ||
मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके । (३१।१)
marditaṃ cāndhitaṃ pacyādyāmaṃ vālukayantrake |
रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ (३१।२)
raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam ||
निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः । (३२।१)
niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ |
पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥ (३३।२)
paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham ||
कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् । (३४।१)
karṣaikaṃ māritaṃ svarṇaṃ palaikaṃ mṛtatāmrakam |
रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥ (३४।२)
raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam ||
मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । (३५।१)
mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet |
पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥ (३५।२)
piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim ||
पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् । (३७।१)
palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet |
शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥ (३७।२)
śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ ||
शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् । (३८।१)
śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak |
समाव् एतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥ (३८।२)
samāv etau punarmardyau ghṛtairyāmacatuṣṭayam ||
तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् । (३९।१)
tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet |
ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥ (३९।२)
tatastaṃ śālmalīdrāvairmardayeddivasatrayam ||
निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् । (४०।१)
nikṣipetkācakūpyantarvālukāyantragaṃ pacet |
क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥ (४०।२)
kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi ||
सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् । (४१।१)
sārdrameva samuddhṛtya miśryaṃ tatsitayā samam |
निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥ (४१।२)
niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ ||
कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥ (४२।२)
kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare ||
शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् । (४३।१)
śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam |
कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥ (४३।२)
kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ ||
मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना । (४४।१)
mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā |
एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥ (४४।२)
evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam ||
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे । (४५।१)
uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe |
क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥ (४५।२)
kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet ||
दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः । (४६।१)
dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ |
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ (४६।२)
guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ ||
पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ (४७।२)
pācayettatkaṣāyairvā dolāyantre dinatrayam ||
ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि । (४८।१)
tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi |
उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ (४८।२)
uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam ||
रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् । (४९।१)
rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam |
शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ (५०।२)
śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet ||
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् । (५१।१)
sarvatulyā sitā yojyā madhunā loḍitaṃ lihet |
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ (५१।२)
palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ ||
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ (५२।२)
padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām ||
मुसली भृङ्गराट् द्राक्षा पक्वं श्लेष्मातकं फलम् । (५३।१)
musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam |
शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ (५४।२)
śṛṅgāṭaṃ cirbhiṭaṃ phañjībījāni cāśvagandhikā ||
एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् । (५५।१)
etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak |
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ (५५।२)
pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet ||
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् । (५६।१)
pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet |
चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥ (५६।२)
cāturjātakamekaikaṃ karpūrāddviguṇaṃ bhavet ||
सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् । (५७।१)
sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam |
तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ (५७।२)
tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet ||
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् । (५८।१)
dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham |
मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥ (५८।२)
marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā ||
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् । (६०।१)
bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam |
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । (६१।१)
pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ |
तत्सर्वं चालयन् पच्याद् यावत्पिण्डत्वमागतम् ॥ (६१।२)
tatsarvaṃ cālayan pacyād yāvatpiṇḍatvamāgatam ||
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । (६२।१)
prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet |
अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥ (६२।२)
asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet ||
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः । (६३।१)
cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ |
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ (६३।२)
sarvatulyā sitā yojyā rakṣayennūtane ghaṭe ||
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । (६४।१)
karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet |
निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ (६४।२)
niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam ||
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ (६६।२)
vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet ||
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा । (६७।१)
cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā |
एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ (६७।२)
etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ ||
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् । (६८।१)
tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt |
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ (६८।२)
bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam ||
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । (६९।१)
aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca |
मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥ (६९।२)
mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam ||
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ (७०।२)
etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam ||
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् । (७१।१)
palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam |
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः । (७२।१)
dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ |
एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ (७२।२)
ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ ||
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् । (७३।१)
tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam |
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ (७३।२)
palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu ||
गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् । (७५।१)
gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam |
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ (७५।२)
cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ ||
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् । (७७।१)
tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam |
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ (७७।२)
vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam ||
नालिकेरोदकैर् भाव्यं यामान्ते पेषयेत्ततः । (७८।१)
nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ |
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ (७८।२)
viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet ||
घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् । (७९।१)
ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet |
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ (७९।२)
kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam ||
वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः । (८०।१)
vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ |
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ (८०।२)
ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate ||
ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् । (८१।१)
ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet |
मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ (८१।२)
mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu ||
स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा । (८२।१)
svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā |
घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥ (८२।२)
ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ ||
सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्य् अलम् । (८३।१)
sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam |
क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ (८३।२)
kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam ||
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् । (८४।१)
samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām |
रम्भाकन्दशतावरी ह्य् अजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥ (८४।२)
rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam ||
भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः । (८५।१)
bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ |
शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच् चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥ (८५।२)
śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat ||
कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत् पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् । (८६।१)
karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām |
श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ (८६।२)
śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ ||
कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्य् अर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् । (८७।१)
kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut |
नित्यानन्दकवेर् विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥ (८७।२)
nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam ||
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥ (८८।०)
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām ||
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् । (८९।१)
ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam |
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ (८९।२)
bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam ||
Data courtesy of The Digital Corpus of Sanskrit.