रसरत्नाकरRasaratnākara

RRĀ, 3, 12

31 of 39 · 169 verses

Select a line for its word-by-word analysis.

1.1१.१

समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य । (१।१)

samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya |

1.2१.२

तदनु च घनचूर्णैर्भोजनं पाचनं स्यात् निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥ (१।२)

tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya ||

2.1२.१

मेर्चुर्:: जारण ओड़् सुल्ड़ुर्गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः । (२।१)

mercur:: jāraṇa of sulfurgaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ |

2.2२.२

भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥ (२।२)

bhāvayedvātha vṛntākarasenaiva tu saptadhā ||

3.1३.१

पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् । (३।१)

palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet |

3.2३.२

कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥ (३।२)

karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam ||

4.1४.१

क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् । (४।१)

kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet |

4.2४.२

दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥ (४।२)

dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ ||

5.1५.१

जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् । (५।१)

jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet |

5.2५.२

एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥ (५।२)

evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase ||

6.1६.१

मेर्चुर्य्:: जारण ओड़् सुल्ड़ुर्कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् । (६।१)

mercury:: jāraṇa of sulfurkāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam |

6.2६.२

शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥ (६।२)

śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai ||

7.1७.१

सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः । (७।१)

saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ |

7.2७.२

इष्टिकागर्तमध्ये तु सम्यक् शुद्धरसं क्षिपेत् ॥ (७।२)

iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet ||

8.1८.१

मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः । (८।१)

mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ |

8.2८.२

दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥ (८।२)

daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet ||

9.1९.१

पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् । (९।१)

pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet |

9.2९.२

एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥ (९।२)

evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ ||

10.1१०.१

मेर्चुर्य्:: जारण ओड़् पक्वबीजतं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् । (१०।१)

mercury:: jāraṇa of pakvabījataṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam |

10.2१०.२

पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥ (१०।२)

pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam ||

11.1११.१

तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् । (११।१)

taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam |

11.2११.२

तं यंत्रं धारयेद् घर्मे जारितो जायते रसः ॥ (११।२)

taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ ||

12.1१२.१

मेर्चुर्य्:: जारण ओड़् पक्वबीजसविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् । (१२।१)

mercury:: jāraṇa of pakvabījasaviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet |

12.2१२.२

जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् । (१२।२)

jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat |

12.3१२.३

जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥ (१२।३)

jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt ||

13.1१३.१

मेर्चुर्य्:: सारणा wइथ् पक्वबीजजारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् । (१३।१)

mercury:: sāraṇā with pakvabījajāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam |

13.2१३.२

द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥ (१३।२)

drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam ||

14.1१४.१

तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः । (१४।१)

tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ |

14.2१४.२

सारितं तत्पुनर्मर्द्यं पूर्ववद् बिडसंयुतम् ॥ (१४।२)

sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam ||

15.1१५.१

जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् । (१५।१)

jārayetkacchape yaṃtre jīrṇe bīje tu sārayet |

15.2१५.२

पूर्ववत् सारणायन्त्रे बीजेन द्विगुणेन वै ॥ (१५।२)

pūrvavat sāraṇāyantre bījena dviguṇena vai ||

16.1१६.१

पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् । (१६।१)

punastaṃ jārayettadvattathaiva pratisārayet |

16.2१६.२

त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥ (१६।२)

triguṇena tu bījena pūrvavajjārayetpunaḥ ||

17.1१७.१

मेर्चुर्य्:: मुख:: ~बन्धनतद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् । (१७।१)

mercury:: mukha:: ~bandhanatadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam |

17.2१७.२

दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥ (१७।२)

divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi ||

18.1१८.१

वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि । (१८।१)

vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi |

18.2१८.२

पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि । (१८।२)

punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi |

18.3१८.३

इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥ (१८।३)

ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet ||

19.1१९.१

रसबन्धनम्तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी । (१९।१)

rasabandhanamtaṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī |

19.2१९.२

समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥ (१९।२)

samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi ||

20.1२०.१

त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् । (२०।१)

tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam |

20.2२०.२

वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥ (२०।२)

vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet ||

21.1२१.१

खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः । (२१।१)

khadirāṅgārayogena khoṭabaddho bhavedrasaḥ |

21.2२१.२

तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥ (२१।२)

tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman ||

22.0२२.०

तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥ (२२।०)

tejaḥpuñjo raso baddho bālārkasadṛśo bhavet ||

23.1२३.१

सिल्वेर् => गोल्द्तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् । (२३।१)

silver => goldtadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet |

23.2२३.२

शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥ (२३।२)

śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam ||

24.1२४.१

तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् । (२४।१)

tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham |

24.2२४.२

अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥ (२४।२)

aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ ||

25.1२५.१

मेर्चुर्य्:: मुखकरणअथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् । (२५।१)

mercury:: mukhakaraṇaatha vakṣye rasendrasya vāsitasya mukhaṃ kramāt |

25.2२५.२

येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥ (२५।२)

yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam ||

26.1२६.१

अम्लवेतसजंबीरबीजपूरकभूखगैः । (२६।१)

amlavetasajaṃbīrabījapūrakabhūkhagaiḥ |

26.2२६.२

त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् । (२६।२)

tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam |

26.3२६.३

तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥ (२६।३)

taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet ||

27.1२७.१

मेर्चुर्य्:: मुखकरणमध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् । (२७।१)

mercury:: mukhakaraṇamadhyagartasamāyuktaṃ kārayediṣṭikādvayam |

27.2२७.२

धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥ (२७।२)

dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam ||

28.1२८.१

यामं जम्बीरजैर्द्रावैर् मर्द्यं तेनैव लेपयेत् । (२८।१)

yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet |

28.2२८.२

गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥ (२८।२)

gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam ||

29.1२९.१

विंशनिष्कं क्षिपेत्सूतम् ऊर्ध्वं देयापरेष्टिका । (२९।१)

viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā |

29.2२९.२

लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥ (२९।२)

liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ ||

30.1३०.१

अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि । (३०।१)

avicchinnaṃ divārātrau yāvatsaptadināvadhi |

30.2३०.२

स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् । (३०।२)

svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam |

30.3३०.३

इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥ (३०।३)

ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet ||

31.1३१.१

मेर्चुर्य्:: मुखकरणवंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते । (३१।१)

mercury:: mukhakaraṇavaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite |

31.2३१.२

त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥ (३१।२)

trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet ||

32.1३२.१

परल्लेल्स् बेत्wएएन् संस्कारस् अन्द् रितुअल्समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् । (३२।१)

parallels between saṃskāras and ritualsamukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt |

32.2३२.२

खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥ (३२।२)

khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam ||

33.1३३.१

नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् । (३३।१)

nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam |

33.2३३.२

स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥ (३३।२)

svarṇādiratnajātaiśca upahāraṃ prakalpayet ||

34.1३४.१

नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् । (३४।१)

naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam |

34.2३४.२

वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥ (३४।२)

vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam ||

35.1३५.१

यावद्दिनानि वह्नौ तु धारणे जार्यते रसः । (३५।१)

yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ |

35.2३५.२

तावद्युगसहस्राणि शिवलोके महीयते ॥ (३५।२)

tāvadyugasahasrāṇi śivaloke mahīyate ||

36.1३६.१

यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् । (३६।१)

yatkiṃcidrasarājasya sādhanārthe vyayo bhavet |

36.2३६.२

तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥ (३६।२)

tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam ||

37.1३७.१

साधकानां सुधीराणाम् इह लोके परत्र च । (३७।१)

sādhakānāṃ sudhīrāṇām iha loke paratra ca |

37.2३७.२

अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद् भुक्तिमुक्तिदः ॥ (३७।२)

ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ ||

38.1३८.१

अभ्र:: प्रेपरतिओन् ड़ोर् चारणअर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च । (३८।१)

abhra:: preparation for cāraṇaarkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca |

38.2३८.२

कपोताख्ये पुटे पच्यात् क्षीरैर्यामं विमर्दयेत् ॥ (३८।२)

kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet ||

39.1३९.१

रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् । (३९।१)

ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam |

39.2३९.२

त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥ (३९।२)

tridhā ca mūlakadrāvai rambhākandadravaistridhā ||

40.1४०.१

अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः । (४०।१)

apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ |

40.2४०.२

पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥ (४०।२)

punarnavā meghanādo vidāriścitrakaṃ tathā ||

41.1४१.१

क्रमाद् एषां द्रवैरेव मर्दनं पुटपाचनम् । (४१।१)

kramād eṣāṃ dravaireva mardanaṃ puṭapācanam |

41.2४१.२

एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥ (४१।२)

ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ ||

42.1४२.१

शतावरी तालमूली कदली तण्डुलीयकम् । (४२।१)

śatāvarī tālamūlī kadalī taṇḍulīyakam |

42.2४२.२

अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥ (४२।२)

arkaḥ punarnavā śigruryavaciñcā hyanukramāt ||

43.0४३.०

प्रतिद्रवैर् दिनैकं तु भावितं चारणे हितम् ॥ (४३।०)

pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam ||

44.1४४.१

अभ्र:: वोर्बेरेइतुन्ग् औड़् चारणअर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च । (४४।१)

abhra:: Vorbereitung auf cāraṇaarkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca |

44.2४४.२

कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥ (४४।२)

kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa ||

45.1४५.१

कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् । (४५।१)

kadalī musalī śigrurvandhyāṅkollārkapīlukam |

45.2४५.२

नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥ (४५।२)

nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ ||

46.1४६.१

एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् । (४६।१)

eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam |

46.2४६.२

सर्वमेतत्क्षिपेद् भाण्डे तन्मध्ये पाचयेत् त्र्यहम् ॥ (४६।२)

sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham ||

47.1४७.१

पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् । (४७।१)

pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet |

47.2४७.२

कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥ (४७।२)

kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam ||

48.1४८.१

सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् । (४८।१)

sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet |

48.2४८.२

दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ (४८।२)

dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet ||

49.0४९.०

दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥ (४९।०)

dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam ||

50.1५०.१

अभ्र:: प्रेपरतिओन् ड़ोर् चारणशतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् । (५०।१)

abhra:: preparation for cāraṇaśatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet |

50.2५०.२

तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् । (५०।२)

tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet |

50.3५०.३

मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥ (५०।३)

mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet ||

51.0५१.०

तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥ (५१।०)

tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ ||

52.1५२.१

सस्तन्यैर् बीजपूरोत्थैर् द्रावैर्भाव्यं दिनावधि । (५२।१)

sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi |

52.2५२.२

एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥ (५२।२)

etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam ||

53.1५३.१

सिद्धमूलीव्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः । (५३।१)

siddhamūlīvyāghrapādī haṃsapādī kadalyagnikumārikāḥ |

53.2५३.२

बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥ (५३।२)

bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī ||

54.1५४.१

वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका । (५४।१)

vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā |

54.2५४.२

मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥ (५४।२)

maṇḍūkī agnimathano vikhyātā siddhamūlikā ||

55.0५५.०

एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥ (५५।०)

etāḥ samastā vyastā vā coktasthāne niyojayet ||

56.1५६.१

मेर्चुर्य्:: समुख:: चारण ओड़् अभ्रअथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् । (५६।१)

mercury:: samukha:: cāraṇa of abhraathātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam |

56.2५६.२

दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥ (५६।२)

dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam ||

57.1५७.१

ततस्तं चारणायंत्रे जंबीररससंयुतम् । (५७।१)

tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam |

57.2५७.२

घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥ (५७।२)

gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ ||

58.1५८.१

मेर्चुर्य्:: लक्ष-।कोटिवेधिन्चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि । (५८।१)

mercury:: lakṣa-|koṭivedhincāritaṃ bandhayedvastre dolāyaṃtre dināvadhi |

58.2५८.२

सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥ (५८।२)

siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam ||

59.1५९.१

अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि । (५९।१)

ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi |

59.2५९.२

अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥ (५९।२)

aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ ||

60.1६०.१

अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः । (६०।१)

anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ |

60.2६०.२

जीर्णे शतगुणे सम्यक् सहस्रांशेन विध्यति ॥ (६०।२)

jīrṇe śataguṇe samyak sahasrāṃśena vidhyati ||

61.1६१.१

सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः । (६१।१)

sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ |

61.2६१.२

तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ (६१।२)

tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ ||

62.1६२.१

कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् । (६२।१)

kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet |

62.2६२.२

पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥ (६२।२)

pūrvavatkramayogena phalaṃ syādubhayoḥ samam ||

63.1६३.१

मेर्चुर्य्:: ड़ोर् प्रोदुच्तिओन् ओड़् सिल्वेरनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् । (६३।१)

mercury:: for production of silveranenaiva krameṇaiva tāraṃ vā śvetamabhrakam |

63.2६३.२

जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥ (६३।२)

jārayettu yathāśaktyā tārakarmaṇi śasyate ||

64.1६४.१

मेर्चुर्य्:: मुखबन्धन, कोटिवेधिन्पूर्ववत् पक्वबीजेन सारणादि यथाक्रमम् । (६४।१)

mercury:: mukhabandhana, koṭivedhinpūrvavat pakvabījena sāraṇādi yathākramam |

64.2६४.२

कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥ (६४।२)

kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā ||

65.1६५.१

चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि । (६५।१)

caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi |

65.2६५.२

एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥ (६५।२)

evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet ||

66.1६६.१

सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् । (६६।१)

sahasraguṇite jīrṇe pūrvavatsāraṇātrayam |

66.2६६.२

कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥ (६६।२)

kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ ||

67.1६७.१

इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् । (६७।१)

ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet |

67.2६७.२

मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥ (६७।२)

mukhabandhādivedhāntaṃ kārayetpūrvavadrase ||

68.1६८.१

तेनैव लक्षभागेन दिव्यं भवति कांचनम् । (६८।१)

tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam |

68.2६८.२

यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥ (६८।२)

yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet ||

69.1६९.१

इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् । (६९।१)

ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham |

69.2६९.२

पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥ (६९।२)

pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ ||

70.0७०.०

कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥ (७०।०)

koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam ||

71.1७१.१

मेर्चुर्य्:: निर्मुख:: चारणअथ निर्मुखसूतस्य वक्ष्ये चारणजारणे । (७१।१)

mercury:: nirmukha:: cāraṇaatha nirmukhasūtasya vakṣye cāraṇajāraṇe |

71.2७१.२

शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥ (७१।२)

śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam ||

72.1७२.१

क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् । (७२।१)

kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham |

72.2७२.२

संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥ (७२।२)

saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam ||

73.1७३.१

मेर्चुर्य्:: चारण:: निर्मुखअथवा तप्तखल्वे तु भूलतासंयुतं रसम् । (७३।१)

mercury:: cāraṇa:: nirmukhaathavā taptakhalve tu bhūlatāsaṃyutaṃ rasam |

73.2७३.२

मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥ (७३।२)

mardayettridinaṃ paścātpātyaṃ pātanayantrake ||

74.0७४.०

संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥ (७४।०)

saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt ||

75.1७५.१

मेर्चुर्य्:: जारण:: निर्मुखअस्यैव जारणायोग्यो व्योमसंस्कार उच्यते । (७५।१)

mercury:: jāraṇa:: nirmukhaasyaiva jāraṇāyogyo vyomasaṃskāra ucyate |

75.2७५.२

धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् । (७५।२)

dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet |

75.3७५.३

स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥ (७५।३)

snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet ||

76.1७६.१

कपोताख्यपुटैकेन तमादायाथ मर्दयेत् । (७६।१)

kapotākhyapuṭaikena tamādāyātha mardayet |

76.2७६.२

मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥ (७६।२)

mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā ||

77.1७७.१

मुनिर् आर्द्रकवर्षाभूमेघनादापामार्गकम् । (७७।१)

munir ārdrakavarṣābhūmeghanādāpāmārgakam |

77.2७७.२

एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥ (७७।२)

eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu ||

78.1७८.१

दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि । (७८।१)

dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi |

78.2७८.२

वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥ (७८।२)

vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam ||

79.1७९.१

अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः । (७९।१)

abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ |

79.2७९.२

मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥ (७९।२)

mardayettāmrakhalve tu caṇakāmlairdināvadhi ||

80.1८०.१

नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् । (८०।१)

navasārairayaḥpātraṃ lepayettatra nikṣipet |

80.2८०.२

पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥ (८०।२)

pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam ||

81.1८१.१

मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् । (८१।१)

mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt |

81.2८१.२

जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥ (८१।२)

jārayetpūrvayogena tataścāryaṃ ca jārayet ||

82.1८२.१

मात्रा युक्तिर् यथापूर्वं सेयं निर्मुखजारणा । (८२।१)

mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā |

82.2८२.२

कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥ (८२।२)

kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi ||

83.1८३.१

तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि । (८३।१)

tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi |

83.2८३.२

सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥ (८३।२)

sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet ||

84.1८४.१

कर्तव्यं सूतराजे तु तद्वद् भवति कांचनम् । (८४।१)

kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam |

84.2८४.२

श्वेतेन जारयेत् श्वेतं यथाबीजं तथाङ्कुरम् ॥ (८४।२)

śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram ||

85.1८५.१

प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च । (८५।१)

proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca |

85.2८५.२

संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥ (८५।२)

saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit