RRĀ, 3, 15
Select a line for its word-by-word analysis.
गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् । (१।१)
garbhayogyamatha bījasādhanamanekayogato rañjane hitam |
जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥ (१।२)
jāritasya narapāradasya vai tatsamastamadhunā nigadyate ||
बीज:: प्रेपरतिओन्गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् । (२।१)
bīja:: preparationgaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet |
त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन् धमन् ॥ (२।२)
triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman ||
पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥ (३।०)
pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt ||
बीज:: प्रेपरतिओन्नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन् क्षिपन् । (४।१)
bīja:: preparationnāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan |
जीर्णे नागे पुनर्देयम् एवं वारत्रयं शनैः । (४।२)
jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ |
एतद् बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥ (४।३)
etad bījaṃ dravatyeva rasagarbhe tu mardanāt ||
बीजसाधनम् (३)ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् । (५।१)
bījasādhanam (3)tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan |
इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके । (५।२)
ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake |
तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥ (५।३)
tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam ||
बीजसाधन (४)ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः । (६।१)
bījasādhana (4)tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ |
क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् । (७।१)
kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam |
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ (७।२)
etadbījaṃ rasendrasya garbhe dravati mardanāt ||
बीजसाधन (५)सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् । (८।१)
bījasādhana (5)saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet |
पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥ (८।२)
punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam ||
अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । (९।१)
asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet |
अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद् दृढम् ॥ (९।२)
anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham ||
द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः । (१०।१)
drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ |
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ (१०।२)
etadbījaṃ rasendrasya garbhe dravati mardanāt ||
बीजसाधन (६)शिला सौवर्चलं ताप्यगंधकासीसटंकणम् । (११।१)
bījasādhana (6)śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam |
रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् । (१२।१)
rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet |
मुच्यते यत्र यत्रैव तत्तद् द्रवति तत्क्षणात् ॥ (१२।२)
mucyate yatra yatraiva tattad dravati tatkṣaṇāt ||
मेर्चुर्य्:: ग्रास ओड़् अ बीजअपामार्गपलाशोत्थभस्मक्षारं समाहरेत् । (१३।१)
mercury:: grāsa of a bījaapāmārgapalāśotthabhasmakṣāraṃ samāharet |
सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् । (१४।१)
sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam |
कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥ (१४।२)
karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam ||
गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् । (१६।१)
garbhadrāvitabījāttu sūtamatra vinikṣipet |
रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥ (१६।२)
ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam ||
मेर्चुर्य् (?):: रञ्जन (?)ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः । (१७।१)
mercury (?):: rañjana (?)tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ |
मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥ (१७।२)
mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ ||
त्रिगुणे वाहिते तस्मिन् रञ्जितं वाहितं तु तत् ॥ (१८।०)
triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat ||
मेर्चुर्य्:: रञ्जन (ओड़् ~)गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् । (१९।१)
mercury:: rañjana (of ~)gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet |
हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥ (१९।२)
hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam ||
भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः । (२०।१)
bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ |
तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद् द्वंद्वमेलितम् ॥ (२०।२)
tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam ||
तस्मिन् द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् । (२१।१)
tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet |
इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥ (२१।३)
ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam ||
रसरञ्जकम् (३)रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा । (२२।१)
rasarañjakam (3)raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā |
समांशे विमले ताम्रे द्राविते वाहयेद्धमन् । (२२।२)
samāṃśe vimale tāmre drāvite vāhayeddhaman |
सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥ (२२।३)
saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam ||
रसरञ्जकम् (४)स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् । (२३।१)
rasarañjakam (4)svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam |
शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥ (२३।२)
śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam ||
समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै । (२४।१)
samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai |
पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥ (२४।२)
pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ ||
लेअद् => गोल्द्यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला । (२६।१)
lead => goldyavaciñcārasairbhāvyā raktavarṇā manaḥśilā |
नागपत्रं पुटे पच्याद् यावच्चूर्णमुपागतम् । (२७।१)
nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam |
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥ (२७।२)
rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca ||
पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥ (२८।२)
peṣayenmātuluṃgāmlaistena kalkena lepayet ||
मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः । (२९।१)
mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ |
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥ (२९।२)
drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet ||
इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् । (३०।१)
ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet |
तारारिष्ट, लेअद्, चोप्पेर् => गोल्द्पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥ (३०।२)
tārāriṣṭa, lead, copper => goldpītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam ||
द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् । (३१।१)
dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet |
समुखे सूतराजे तु पूर्ववत् षड्गुणं क्रमात् ॥ (३१।२)
samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt ||
पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥ (३२।२)
pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha ||
द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥ (३३।२)
dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet ||
इत्येवं द्रावितं जार्यं यावद् बीजसमं रसे । (३४।१)
ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase |
सारणादित्रयेणान्तं पूर्ववत्कारयेत् क्रमात् ॥ (३४।२)
sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt ||
तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् । (३५।१)
tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet |
सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥ (३५।२)
sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam ||
चन्द्रार्क => गोल्द्स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् । (३६।१)
candrārka => goldsvarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam |
जारयेत्समुखे सूते समांशम् अभ्रसत्त्ववत् ॥ (३६।२)
jārayetsamukhe sūte samāṃśam abhrasattvavat ||
जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा । (३७।१)
jāritaṃ jārayettena svarṇavajreṇa vai tridhā |
मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् । (३७।२)
mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet |
चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥ (३७।३)
caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam ||
गन्धनागद्रुतिःवृषस्य मूत्रमादाय गजस्य महिषस्य वा । (३८।१)
gandhanāgadrutiḥvṛṣasya mūtramādāya gajasya mahiṣasya vā |
तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥ (३८।२)
tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet ||
ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् । (३९।१)
tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet |
गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥ (३९।२)
gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam ||
तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥ (४०।२)
tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet ||
तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च । (४१।१)
tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca |
गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥ (४१।२)
gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ ||
अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् । (४२।१)
anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet |
प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् । (४३।१)
prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet |
भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् । (४३।२)
bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet |
काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥ (४३।३)
kācakūpyāṃ prayatnena gandhanāgadrutistviyam ||
मेर्चुर्य्:: प्रेपरतिओन् ड़ोर् जारणशुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् । (४४।१)
mercury:: preparation for jāraṇaśuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam |
चूर्णं यावद् भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥ (४४।२)
cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ ||
मेर्चुर्य्:: गर्भद्रुतिअम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥ (४५।२)
mercury:: garbhadrutiamlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet ||
गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् । (४६।१)
gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet |
चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥ (४६।२)
catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt ||
रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते । (४७।१)
ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite |
कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् । (४८।१)
kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet |
दद्याद् अजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥ (४८।२)
dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu ||
चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् । (४९।१)
caturbindupramāṇaṃ tu tadvadgarte puṭe pacet |
एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥ (४९।२)
evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt ||
त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः । (५०।१)
triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ |
अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् । (५०।२)
asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam |
मर्दयेच्चणकाम्लेन यामाद् गर्भे द्रवत्यलम् ॥ (५०।३)
mardayeccaṇakāmlena yāmād garbhe dravatyalam ||
गोल्द्:: द्रावणमूषायन्त्रगतं द्राव्यं पूर्ववत् स्वेदनेन वै । (५१।१)
gold:: drāvaṇamūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai |
जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥ (५१।२)
jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet ||
एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् । (५२।१)
evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt |
गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥ (५२।२)
garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet ||
ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन् धमन् । (५३।१)
tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman |
तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥ (५३।२)
tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet ||
सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः । (५४।१)
sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ |
वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥ (५४।२)
veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ ||
दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥ (५५।०)
daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet ||
मेर्चुर्य्:: जारण wइथ् अभ्रसत्त्वसमुखे निर्मुखे वाथ रसराजे तु जारयेत् । (५६।१)
mercury:: jāraṇa with abhrasattvasamukhe nirmukhe vātha rasarāje tu jārayet |
पूर्ववद्व्योमचूर्णं तु चारितं जारयेत् क्रमात् ॥ (५६।२)
pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt ||
चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् । (५७।१)
catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet |
चारयेज्जारयेत्तद्वत् यावत् षष्टिगुणं भवेत् । (५७।२)
cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet |
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ (५७।३)
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet ||
मेर्चुर्य्:: गर्भद्रुतिमहारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् । (५८।१)
mercury:: garbhadrutimahārasaiścoparasairyatkiṃcitsatvamāharet |
तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥ (५८।२)
tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet ||
तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् । (५९।१)
taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam |
तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥ (५९।२)
tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet ||
इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् । (६०।१)
ityevaṃ sarvasatvāni drāvayogācca jārayet |
मेर्चुर्य्:: गर्भद्रुति, जारणरञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥ (६०।२)
mercury:: garbhadruti, jāraṇarañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam ||
गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् । (६१।१)
garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam |
सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥ (६१।२)
sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ ||
क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते । (६२।१)
kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate |
समुद्धृत्य तु तद् बीजं पादांशं पूर्वपारदे ॥ (६२।२)
samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade ||
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् । (६३।१)
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet |
द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् । (६३।२)
dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet |
जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥ (६३।३)
jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate ||
मेर्चुर्य्:: जारणगंधेन यन्मृतं नागं पक्वबीजस्य साधनम् । (६४।१)
mercury:: jāraṇagaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam |
तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे । (६५।१)
taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase |
तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् । (६६।१)
taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet |
चोप्पेर् => गोल्द्मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् । (६७।१)
copper => goldmṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam |
एतद् बीजं ततो जार्यं क्रमाद् यावच्चतुर्गुणम् ॥ (६७।२)
etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam ||
पूर्ववद् द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् । (६८।१)
pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat |
इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् । (६९।१)
ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt |
सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥ (६९।२)
sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan ||
जारितं सारयेत्पश्चात्सारितं चैव जारयेत् । (७०।१)
jāritaṃ sārayetpaścātsāritaṃ caiva jārayet |
ततस्तस्य मुखं बद्ध्वा पूर्ववद् बन्धयेच्च तम् । (७१।१)
tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam |
द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥ (७१।३)
drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ ||
सिल्वेर् => गोल्धिंगुलोत्थितसूतं च भूनागैर्मर्दयेत् त्र्यहम् । (७२।१)
silver => goldhiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham |
तप्तखल्वे ततः पात्यम् ऊर्ध्वलग्नं समाहरेत् ॥ (७२।२)
taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet ||
पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् । (७३।१)
pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam |
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ (७३।२)
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet ||
पूर्ववद् द्वंद्वयोगेन मात्रापाकं च पूर्ववत् । (७४।१)
pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat |
महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ (७४।२)
mahārasaiścoparasairyatsattvaṃ pātitaṃ purā ||
तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् । (७५।१)
tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet |
तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥ (७५।२)
taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam ||
द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् । (७६।१)
dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat |
जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ (७६।२)
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai ||
पूर्ववद् द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥ (७७।२)
pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam ||
सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् । (७८।१)
sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet |
सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥ (७८।२)
sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham ||
मेर्चुर्य्:: जारण ओड़् सुल्ड़ुर्शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् । (७९।१)
mercury:: jāraṇa of sulfurśākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret |
द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥ (७९।२)
dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā ||
द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् । (८०।१)
dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam |
इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥ (८०।२)
iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet ||
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः । (८१।१)
mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ |
दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥ (८१।२)
daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet ||
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् । (८२।१)
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet |
तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥ (८२।२)
tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam ||
एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् । (८३।१)
evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet |
अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥ (८३।२)
athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu ||
चोप्पेर्, लेअद् => गोल्दस्यैव रसराजस्य समांशं व्योमसत्त्वकम् । (८५।१)
copper, lead => goldasyaiva rasarājasya samāṃśaṃ vyomasattvakam |
द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥ (८५।२)
dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat ||
तीक्ष्णशुल्बोरगं चैव क्रमाद् अष्टगुणं रसे ॥ (८६।२)
tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase ||
प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् । (८७।१)
pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat |
पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥ (८७।२)
pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt ||
तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥ (८८।२)
taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam ||
मर्दयेद्दिनमेकं तु गर्भे द्रवति तद् द्रुतम् । (८९।१)
mardayeddinamekaṃ tu garbhe dravati tad drutam |
मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥ (८९।२)
mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai ||
तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् । (९०।१)
tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat |
द्रावयेत् द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥ (९०।२)
drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai ||
यावच्चतुर्गुणं यत्नाद् द्रुतं गर्भेऽथ जारयेत् । (९१।१)
yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet |
ततस्तं पक्वबीजेन सारितं जारयेत् क्रमात् । (९२।१)
tatastaṃ pakvabījena sāritaṃ jārayet kramāt |
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् । (९३।१)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet |
क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥ (९३।२)
krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet ||
नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥ (९४।०)
nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam ||
रसबीजतिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् । (९५।१)
rasabījatintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt |
मर्दयेत् त्रिदिनं चाथ भावयेत् तिंतिणीद्रवैः ॥ (९५।२)
mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ ||
घर्मे दिनत्रयं यावत् शोष्यं पेष्यं पुनः पुनः । (९६।१)
gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ |
मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥ (९६।२)
mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet ||
गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् । (९७।१)
gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam |
दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥ (९७।२)
dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā ||
एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा । (९८।१)
ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā |
तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥ (९८।२)
taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet ||
तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् । (९९।१)
tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet |
भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥ (१००।२)
bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet ||
पूर्ववद् द्वंद्वलिप्तायां मूषायां धमनेन च । (१०१।१)
pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca |
रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥ (१०१।२)
rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet ||
मेर्चुर्य्:: जारण:: wइथ् रसबीजअथातः शुद्धसूतस्य काचकूप्यां गतस्य च । (१०२।१)
mercury:: jāraṇa:: with rasabījaathātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca |
पूर्ववद् भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥ (१०२।२)
pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam ||
जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै । (१०३।१)
jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai |
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् । (१०४।१)
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet |
अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः । (१०४।२)
anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ |
द्विरष्टगुणितं यावद् रसबीजं रसस्य वै ॥ (१०४।३)
dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai ||
सिल्वेर् => गोल्द्भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् । (१०५।१)
silver => goldbhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam |
समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥ (१०५।२)
samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai ||
वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥ (१०६।२)
veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike ||
दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥ (१०७।०)
daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam ||
मेर्चुर्य्:: कोटिवेधिन्सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् । (१०८।१)
mercury:: koṭivedhinsuśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam |
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥ (१०८।२)
samukhe sūtarājendre jārayedabhrasatvavat ||
षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै । (१०९।१)
ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai |
गर्भद्रावणबीजं च पूर्ववद् द्रावितं क्रमात् ॥ (१०९।२)
garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt ||
जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः । (११०।१)
jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ |
समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥ (११०।२)
samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt ||
सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् । (१११।१)
saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet |
क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥ (१११।२)
krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ ||
चोप्पेर् => सिल्वेर्नागवज्जारयेद् बंगं षट्त्रिंशगुणितं क्रमात् । (११२।१)
copper => silvernāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt |
पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥ (११२।२)
pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet ||
त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् । (११३।१)
triguṇaṃ tu bhavedyāvattatastenaiva sārayet |
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥ (११३।२)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet ||
क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् । (११४।१)
krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet |
कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ (११४।२)
koṭibhāgena tattāraṃ bhavetkuṃdendusannibham ||
सिल्वेर्, चोप्पेर्, लेअद् => गोल्द्समुखे निर्मुखे वाथ सूतराजे तु जारयेत् । (११५।१)
silver, copper, lead => goldsamukhe nirmukhe vātha sūtarāje tu jārayet |
द्वंद्वितं व्योमसत्वं तु यावद् अष्टगुणं तथा ॥ (११५।२)
dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā ||
ततो रसकसत्वं च जार्यम् अष्टगुणं तथा । (११६।१)
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā |
पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥ (११६।२)
pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat ||
स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् । (११७।१)
svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet |
पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥ (११७।२)
pūrvavatkacchape yantre biḍayogena vai tathā ||
गर्भद्रावणबीजं च पादांशं तप्तखल्वके । (११८।१)
garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake |
मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥ (११८।२)
mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt ||
गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् । (११९।१)
garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt |
मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥ (११९।२)
mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā ||
जीर्णे बीजं पुनर्द्राव्यं जारयेद् द्रावयेत्पुनः । (१२०।१)
jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ |
एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥ (१२०।२)
evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam ||
ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् । (१२१।१)
tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt |
सारणादिक्रामणान्तं पूर्ववत्कारयेत् क्रमात् ॥ (१२१।२)
sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt ||
तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् । (१२२।१)
tāre tāmre bhujaṃge vā koṭibhāgena yojayet |
मेर्चुर्य्:: धूमवेधिन्; चोप्पेर् => गोल्द्समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् । (१२३।१)
mercury:: dhūmavedhin; copper => goldsamukhe sūtarājendre jārayedabhrasatvavat |
स्वर्णादिमुण्डपर्यन्तम् अष्टलोहं पृथक् क्रमात् ॥ (१२३।२)
svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt ||
प्रत्येकमष्टगुणितम् अभिषेकं च पूर्ववत् । (१२४।१)
pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat |
अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥ (१२४।२)
abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt ||
पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् । (१२५।१)
pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat |
पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् । (१२६।१)
pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet |
ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥ (१२६।२)
tatastu pakvabījena sārayejjārayettridhā ||
इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् । (१२७।१)
ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet |
धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥ (१२७।२)
dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam ||
एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् । (१२८।१)
evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet |
जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥ (१२८।२)
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai ||
Data courtesy of The Digital Corpus of Sanskrit.