रसरत्नाकरRasaratnākara

RRĀ, 3, 2

21 of 39 · 114 verses

Select a line for its word-by-word analysis.

1.1१.१

भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात् स्वात्मानन्दनिमज्जनात् परहितात् कार्यक्रियागोपनात् । (१।१)

bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt |

1.2१.२

नित्यं सद्गुरुसेवनाद् अनुभवात् सूतस्य सद्भावनाद् दास्यन्ते निजरश्मयो वरबलात् सत्सम्प्रदायात्स्फुटम् ॥ (१।२)

nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam ||

2.1२.१

रसादिलोहपर्यन्तं शोधने मारणे हितम् । (२।१)

rasādilohaparyantaṃ śodhane māraṇe hitam |

2.2२.२

भावनायां क्वचिच् चैव नानावर्गो निगद्यते ॥ (२।२)

bhāvanāyāṃ kvacic caiva nānāvargo nigadyate ||

3.1३.१

देड़ौल्त् वलुएसङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् । (३।१)

default valuesaṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet |

3.2३.२

अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥ (३।२)

amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi ||

4.1४.१

क्षारवर्गतिलापामार्गकदलीचित्रकार्द्रकमूलकम् । (४।१)

kṣāravargatilāpāmārgakadalīcitrakārdrakamūlakam |

4.2४.२

शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥ (४।२)

śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet ||

5.1५.१

समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् । (५।१)

samāloḍya jalairvastrairbaddhvā grāhyamadhojalam |

5.2५.२

शोधयेत् पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥ (५।२)

śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam ||

6.1६.१

ग्राह्यं क्षारावशेषं तद् वृक्षक्षारमिदं स्मृतम् । (६।१)

grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam |

6.2६.२

श्वेतवर्ग, शुक्लवर्गचुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥ (६।२)

śvetavarga, śuklavargacunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ ||

7.1७.१

विड्वर्गकपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् । (७।१)

viḍvargakapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ |

7.2७.२

अम्लवर्गचाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥ (७।२)

amlavargacāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam ||

8.1८.१

चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः । (८।१)

ciñcānāraṅgajambīramamlavarga iti smṛtaḥ |

8.2८.२

लवणपञ्चकसामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥ (८।२)

lavaṇapañcakasāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam ||

9.1९.१

चूलिकानवसारः स्याद् एतल्लवणपञ्चकम् । (९।१)

cūlikānavasāraḥ syād etallavaṇapañcakam |

9.2९.२

त्रिक्षारसज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥ (९।२)

trikṣārasajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam ||

10.1१०.१

मूत्रवर्गक्षारत्रयमिदं ख्यातम् अजाश्वमहिषीगवाम् । (१०।१)

mūtravargakṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām |

10.2१०.२

नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥ (१०।२)

nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca ||

11.1११.१

मित्रपञ्चकमध्वाज्यटङ्कणं गुञ्जा गुडः स्यान् मित्रपञ्चकम् । (११।१)

mitrapañcakamadhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam |

11.2११.२

पित्तवर्गनराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥ (११।२)

pittavarganarāśvaśikhigomatsyapittāni pittavargake ||

12.1१२.१

वसावर्गमत्स्याहिनरमेषीणां शिखिनां च वसा मता । (१२।१)

vasāvargamatsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā |

12.2१२.२

रक्तवर्गमञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥ (१२।२)

raktavargamañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam ||

13.1१३.१

बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् । (१३।१)

bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet |

13.2१३.२

पीतवर्गकुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥ (१३।२)

pītavargakusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā ||

14.1१४.१

पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु । (१४।१)

pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu |

14.2१४.२

दिव्यौषधिगणअजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥ (१४।२)

divyauṣadhigaṇaajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā ||

15.1१५.१

हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः । (१५।१)

haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ |

15.2१५.२

वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥ (१५।२)

vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ ||

16.1१६.१

शाकवृक्षो हेमवल्ली पातालगरुडी शमी । (१६।१)

śākavṛkṣo hemavallī pātālagaruḍī śamī |

16.2१६.२

कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥ (१६।२)

kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam ||

17.1१७.१

मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी । (१७।१)

meṣaśṛṅgī cakramardo jalakumbhī śatāvarī |

17.2१७.२

गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥ (१७।२)

guñjā kośātakī nīlī ākhukarṇī triparṇikā ||

18.1१८.१

कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता । (१८।१)

kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā |

18.2१८.२

गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥ (१८।२)

garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī ||

19.1१९.१

वज्रशोधनम् (१)गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । (१९।१)

vajraśodhanam (1)gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet |

19.2१९.२

महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥ (१९।२)

mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet ||

20.1२०.१

अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् । (२०।१)

ahorātrātsamuddhṛtya hayamūtrairniṣecayet |

20.2२०.२

व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् । (२०।२)

vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet |

20.3२०.३

हयमूत्रैर् निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥ (२०।३)

hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat ||

21.1२१.१

एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः । (२१।१)

evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ |

21.2२१.२

वज्रशोधनम् (२)कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥ (२१।२)

vajraśodhanam (2)kulatthakodravakvāthahayamūtrasnuhīpayaḥ ||

22.1२२.१

क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन् व्याघ्रीकन्दगतं पविम् । (२२।१)

kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim |

22.2२२.२

दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥ (२२।२)

dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet ||

23.1२३.१

व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् । (२३।१)

vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet |

23.2२३.२

तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् । (२३।२)

tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt |

23.3२३.३

वज्रशोधनम् (३)आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका । (२३।३)

vajraśodhanam (3)ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā |

23.4२३.४

अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥ (२३।४)

amlavetasanirguṇḍīkulatthakodravāḥ śamī ||

24.1२४.१

मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् । (२४।१)

muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham |

24.2२४.२

जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥ (२४।२)

jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet ||

25.1२५.१

पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा । (२५।१)

pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā |

25.2२५.२

वज्र:: मारणशुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥ (२५।२)

vajra:: māraṇaśuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat ||

26.1२६.१

अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः । (२६।१)

agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ |

26.2२६.२

लेपितं धामितं तद्वदेवं कुर्यात् त्रिसप्तधा ॥ (२६।२)

lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā ||

27.1२७.१

वज्र:: मारणतालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् । (२७।१)

vajra:: māraṇatālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat |

27.2२७.२

रुद्ध्वा मूषां धमेद् दार्ढ्यात् हयमूत्रे विनिक्षिपेत् ॥ (२७।२)

ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet ||

28.1२८.१

समुद्धृत्य पुनस्तद्वत् सप्तवारान्मृतो भवेत् । (२८।१)

samuddhṛtya punastadvat saptavārānmṛto bhavet |

28.2२८.२

वज्रमारणम् (३)मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥ (२८।२)

vajramāraṇam (3)meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu ||

29.1२९.१

गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् । (२९।१)

gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam |

29.2२९.२

त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥ (२९।२)

trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī ||

30.1३०.१

वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च । (३०।१)

vajravallī mūṣakarṇī badarīkuḍmalāni ca |

30.2३०.२

मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥ (३०।२)

mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ ||

31.1३१.१

पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः । (३१।१)

pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ |

31.2३१.२

पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥ (३१।२)

peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām ||

32.1३२.१

पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च । (३२।१)

puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca |

32.2३२.२

धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥ (३२।२)

dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam ||

33.1३३.१

हंसपादी वज्रकन्दं बृहतीफलसूरणे । (३३।१)

haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe |

33.2३३.२

गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥ (३३।२)

gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet ||

34.1३४.१

एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् । (३४।१)

etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam |

34.2३४.२

तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥ (३४।२)

tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet ||

35.1३५.१

कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् । (३५।१)

kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet |

35.2३५.२

तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥ (३५।२)

tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām ||

36.1३६.१

एवं पुनः पुनः कुर्यादेकविंशतिवारकम् । (३६।१)

evaṃ punaḥ punaḥ kuryādekaviṃśativārakam |

36.2३६.२

वज्र:: मारणआदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥ (३६।२)

vajra:: māraṇaādāya pūrvajaṃ vajratāle matkuṇapeṣite ||

37.1३७.१

गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् । (३७।१)

golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet |

37.2३७.२

इत्येवं सप्तधा धाम्यं हयमूत्रैर् निषेचयेत् ॥ (३७।२)

ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet ||

38.1३८.१

अनेन क्रमयोगेन मृतं भवति निश्चितम् । (३८।१)

anena kramayogena mṛtaṃ bhavati niścitam |

38.2३८.२

तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥ (३८।२)

taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ ||

39.1३९.१

मेर्चुर्य्:: शोधनभ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे । (३९।१)

mercury:: śodhanabhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe |

39.2३९.२

क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥ (३९।२)

kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī ||

40.1४०.१

भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् । (४०।१)

bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet |

40.2४०.२

पूर्ववत्पूर्वजैर्द्रावैस्तद्वद् रुद्ध्वा च पाचयेत् ॥ (४०।२)

pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet ||

41.1४१.१

पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् । (४१।१)

punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat |

41.2४१.२

पातयेत्पातनायंत्रे सम्यक् शुद्धो भवेद्रसः ॥ (४१।२)

pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ ||

42.1४२.१

मेर्चुर्य्:: शोधनरसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् । (४२।१)

mercury:: śodhanarasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet |

42.2४२.२

जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥ (४२।२)

jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake ||

43.1४३.१

पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये । (४३।१)

punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye |

43.2४३.२

मेर्चुर्य्:: शोधनअथवा पारदं मर्द्यं तप्तखल्वे दिनावधि । (४३।२)

mercury:: śodhanaathavā pāradaṃ mardyaṃ taptakhalve dināvadhi |

43.3४३.३

कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥ (४३।३)

kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake ||

44.1४४.१

कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् । (४४।१)

kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet |

44.2४४.२

पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये । (४४।२)

punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye |

44.3४४.३

इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद्रसः ॥ (४४।३)

ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ ||

45.1४५.१

मेर्चुर्य्:: मर्दन:: अप्प्लिचतिओन्युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् । (४५।१)

mercury:: mardana:: applicationyuktaṃ sarvasya sūtasya taptakhalve vimardanam |

45.2४५.२

शोधने चारणे चैव जारणे च विशेषतः । (४५।२)

śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ |

45.3४५.३

मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥ (४५।३)

mūrchane māraṇe caiva bandhane ca praśasyate ||

46.1४६.१

तप्तखल्वअजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् । (४६।१)

taptakhalvaajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet |

46.2४६.२

तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ (४६।२)

tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet ||

47.1४७.१

खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् । (४७।१)

khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam |

47.2४७.२

तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥ (४७।२)

tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam ||

48.1४८.१

मेर्चुर्य्:: हिङ्गुलाकृष्टअथवा हिंगुलात् सूतं ग्राहयेत्तन्निगद्यते । (४८।१)

mercury:: hiṅgulākṛṣṭaathavā hiṃgulāt sūtaṃ grāhayettannigadyate |

48.2४८.२

गोमूत्रैर् माहिषैर् मूत्रैस्तिलतैलसुराम्लकैः ॥ (४८।२)

gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ ||

49.1४९.१

सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना । (४९।१)

saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā |

49.2४९.२

चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥ (४९।२)

cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ ||

50.1५०.१

सद्रवं तं समादाय शिखिपित्तेन भावयेत् । (५०।१)

sadravaṃ taṃ samādāya śikhipittena bhāvayet |

50.2५०.२

दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥ (५०।२)

dinānte pātanāyantre pātayeccaṇḍavahninā ||

51.0५१.०

सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥ (५१।०)

saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ ||

52.1५२.१

कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् । (५२।१)

kanyābhistriphalābhiśca punarmardyaṃ ca pātayet |

52.2५२.२

इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद् रसः ॥ (५२।२)

ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ ||

53.1५३.१

मेर्चुर्य्:: हिङ्गुलाकृष्टदिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् । (५३।१)

mercury:: hiṅgulākṛṣṭadinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit |

53.2५३.२

पातयेत् पातनायंत्रे दिनान्ते तत्समुद्धरेत् । (५३।२)

pātayet pātanāyaṃtre dinānte tatsamuddharet |

53.3५३.३

विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥ (५३।३)

vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt ||

54.1५४.१

सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् । (५४।१)

sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param |

54.2५४.२

अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥ (५४।२)

alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit