रसरत्नाकरRasaratnākara

RRĀ, 2, 5

16 of 39 · 143 verses

Select a line for its word-by-word analysis.

1.1१.१

उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च । (१।१)

udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca |

1.2१.२

वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ (१।२)

vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam ||

2.1२.१

पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् । (२।१)

pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet |

2.2२.२

विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ (२।२)

viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā ||

3.1३.१

आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् । (३।१)

āsāṃ dravairdinaṃ khalve mardayettatsamuddharet |

3.2३.२

यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥ (३।२)

yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam ||

4.1४.१

क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् । (४।१)

kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet |

4.2४.२

अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ (४।२)

anenodvartanaṃ samyagvalīpalitanāśanam ||

5.1५.१

वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् । (५।१)

vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam |

5.2५.२

वज्रकापालिनीमूलं पारदं च समं समम् ॥ (५।२)

vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam ||

6.1६.१

शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् । (६।१)

śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam |

6.2६.२

उत्पलानि समूलानि पारदं च समं समम् ॥ (६।२)

utpalāni samūlāni pāradaṃ ca samaṃ samam ||

7.1७.१

सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना । (७।१)

saptāhaṃ mardayetkhalve svakīyenāśivāmbunā |

7.2७.२

तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ (७।२)

tenaiva mardayedgātraṃ jāyate pūrvavatphalam ||

8.1८.१

पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् । (८।१)

pāradasya samāṃśena brahmadaṇḍīyamūlakam |

8.2८.२

क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ (८।२)

kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā ||

9.1९.१

अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् । (९।१)

anenodvartayedgātraṃ jāyate pūrvavatphalam |

9.2९.२

गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ (९।२)

gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi ||

10.1१०.१

तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् । (१०।१)

tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām |

10.2१०.२

जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ (१०।२)

jāyate svarṇavaddeho vatsarādvalivarjitaḥ ||

11.1११.१

कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः । (११।१)

kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ |

11.2११.२

वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ (११।२)

vatsarāddivyadehaḥ syādgandhena śatapuṣpavat ||

12.1१२.१

कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् । (१२।१)

kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam |

12.2१२.२

काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ (१२।२)

kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet ||

13.1१३.१

भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशाव् अथोद्धरेत् । (१३।१)

bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet |

13.2१३.२

अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥ (१३।२)

anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai ||

14.1१४.१

त्र्यहाद् भ्रमरसंकाशाः केशाः स्युर् वत्सरार्धकम् । (१४।१)

tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam |

14.2१४.२

नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ (१४।२)

nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam ||

15.1१५.१

पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि । (१५।१)

pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi |

15.2१५.२

अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥ (१५।२)

amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet ||

16.1१६.१

मर्दयेद्घटिकार्धं तु वेष्ट्यम् एरण्डपत्त्रकैः । (१६।१)

mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ |

16.2१६.२

शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ (१६।२)

śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret ||

17.1१७.१

इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् । (१७।१)

ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet |

17.2१७.२

पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ (१७।२)

pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam ||

18.1१८.१

तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् । (१८।१)

tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet |

18.2१८.२

दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ (१८।२)

dinārdhaṃ tena kalkena pūrvavatkeśarañjanam ||

19.1१९.१

गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् । (१९।१)

guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam |

19.2१९.२

तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ (१९।२)

tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ ||

20.1२०.१

सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना । (२०।१)

sarvaṃ caturguṇe taile pācayenmṛduvahninā |

20.2२०.२

तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ (२०।२)

tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam ||

21.1२१.१

हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् । (२१।१)

hastidantasya dagdhasya samaṃ yojyaṃ rasāñjanam |

21.2२१.२

अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ (२१।२)

ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam ||

22.1२२.१

त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् । (२२।१)

triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam |

22.2२२.२

इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ (२२।२)

ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet ||

23.1२३.१

तल्लेपाद् रञ्जयेत् केशान् स्याद् यावन्मासपञ्चकम् । (२३।१)

tallepād rañjayet keśān syād yāvanmāsapañcakam |

23.2२३.२

लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ (२३।२)

lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam ||

24.1२४.१

त्रिदिनं लेपितास्तेन कचाः स्युर् भ्रमरोपमाः । (२४।१)

tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ |

24.2२४.२

भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ (२४।२)

bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam ||

25.1२५.१

तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् । (२५।१)

tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet |

25.2२५.२

तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ (२५।२)

tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet ||

26.1२६.१

सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् । (२६।१)

sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam |

26.2२६.२

तज्जले पेषितं लेप्यं तत्क्षणात् कचरञ्जनम् ॥ (२६।२)

tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam ||

27.1२७.१

शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् । (२७।१)

śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam |

27.2२७.२

दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ (२७।२)

dinaṃ śivāmbunā sarvaṃ mardayellohapātrake ||

28.1२८.१

तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् । (२८।१)

tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet |

28.2२८.२

चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ (२८।२)

cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha ||

29.1२९.१

नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् । (२९।१)

nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet |

29.2२९.२

नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥ (२९।२)

nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi ||

30.1३०.१

लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् । (३०।१)

lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam |

30.2३०.२

चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ (३०।२)

cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam ||

31.1३१.१

लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः । (३१।१)

lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ |

31.2३१.२

दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ (३१।२)

dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet ||

32.1३२.१

कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् । (३२।१)

kuraṇṭakasya pattrāṇi nāgamuṣṭyā vimardayet |

32.2३२.२

तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ (३२।२)

tallepaṃ tridinaṃ kuryājjāyate keśarañjanam ||

33.1३३.१

आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् । (३३।१)

āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam |

33.2३३.२

निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ (३३।२)

niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam ||

34.1३४.१

समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् । (३४।१)

samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet |

34.2३४.२

मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ (३४।२)

māsamātraṃ tatastena lepādbhavati rañjanam ||

35.1३५.१

काकमाचीयबीजानि समाः कृष्णतिलास्तथा । (३५।१)

kākamācīyabījāni samāḥ kṛṣṇatilāstathā |

35.2३५.२

तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ (३५।२)

tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam ||

36.1३६.१

गोघृतं भृङ्गजं द्रावं मयूरशिखया सह । (३६।१)

goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha |

36.2३६.२

मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ (३६।२)

mṛdvagninā pacettena syānnasyaṃ keśarañjanam ||

37.1३७.१

जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् । (३७।१)

japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret |

37.2३७.२

सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ (३७।२)

saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ ||

38.1३८.१

त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् । (३८।१)

triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam |

38.2३८.२

तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ (३८।२)

tattulyena ca tailena bhṛṅgarājarasena ca ||

39.1३९.१

पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् । (३९।१)

pacettailāvaśeṣaṃ tatsnigdhabhāṇḍe nirodhayet |

39.2३९.२

मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ (३९।२)

māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet ||

40.1४०.१

कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् । (४०।१)

kāravallyā dalairveṣṭya tato vastreṇa bandhayet |

40.2४०.२

निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ (४०।२)

nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ ||

41.1४१.१

नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् । (४१।१)

nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam |

41.2४१.२

कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ (४१।२)

kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ ||

42.1४२.१

बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् । (४२।१)

bījāni kākatuṇḍyāśca siryālībījasaṃyutam |

42.2४२.२

तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥ (४२।२)

taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ ||

43.1४३.१

जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके । (४३।१)

japāpuṣpadravaistāvattataḥ pātālayantrake |

43.2४३.२

तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ (४३।२)

tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet ||

44.1४४.१

वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् । (४४।१)

veṣṭyameraṇḍapattraiśca nirvāte kṣīrabhojanam |

44.2४४.२

कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ (४४।२)

kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte ||

45.1४५.१

यावज्जीवं न संदेहः केशाः स्युर् भ्रमरोपमाः । (४५।१)

yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ |

45.2४५.२

भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥ (४५।२)

bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm ||

46.1४६.१

संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् । (४६।१)

saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet |

46.2४६.२

पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ (४६।२)

pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam ||

47.1४७.१

पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् । (४७।१)

pūrvavatkramayogena saptāhāttatphalaṃ bhavet |

47.2४७.२

अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ (४७।२)

ayaskāntamaye pātre rātrau lepyaṃ phalatrayam ||

48.1४८.१

भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् । (४८।१)

bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet |

48.2४८.२

एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ (४८।२)

evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam ||

49.1४९.१

प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् । (४९।१)

prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet |

49.2४९.२

गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात् तत् समुद्धरेत् ॥ (४९।२)

gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet ||

50.1५०.१

तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् । (५०।१)

taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet |

50.2५०.२

वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ (५०।२)

veṣṭayetpūrvayogena kapālarañjanaṃ bhavet ||

51.1५१.१

भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः । (५१।१)

bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ |

51.2५१.२

नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ (५१।२)

nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam ||

52.1५२.१

मदनस्य च बीजानि पुष्पं कोरण्टकस्य च । (५२।१)

madanasya ca bījāni puṣpaṃ koraṇṭakasya ca |

52.2५२.२

अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ (५२।२)

arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam ||

53.1५३.१

सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् । (५३।१)

sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet |

53.2५३.२

पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥ (५३।२)

pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet ||

54.1५४.१

कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् । (५४।१)

kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam |

54.2५४.२

भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ (५४।२)

bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam ||

55.1५५.१

परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् । (५५।१)

parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet |

55.2५५.२

कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ (५५।२)

kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet ||

56.1५६.१

मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् । (५६।१)

māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet |

56.2५६.२

तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ (५६।२)

tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ ||

57.1५७.१

वासापलाशचिञ्चोत्थैर् दण्डैर् वाश्वत्थजैर् दृढम् । (५७।१)

vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham |

57.2५७.२

नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥ (५७।२)

nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam ||

58.1५८.१

पलैकं तत्समादाय लोहचूर्णं पलद्वयम् । (५८।१)

palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam |

58.2५८.२

त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ (५८।२)

tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ ||

59.1५९.१

शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् । (५९।१)

śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam |

59.2५९.२

भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥ (५९।२)

bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane ||

60.1६०.१

भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् । (६०।१)

bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet |

60.2६०.२

त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ (६०।२)

trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ ||

61.1६१.१

ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् । (६१।१)

tatastaṃ rakṣayettena lepātsyātkeśarañjanam |

61.2६१.२

उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥ (६१।२)

uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ ||

62.1६२.१

शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते । (६२।१)

śiro rātrau divā snānaṃ yuktireṣā praśasyate |

62.2६२.२

वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् । (६२।२)

vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam |

62.3६२.३

तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ (६२।३)

taccūrṇayuktatailasya lepācchuklā bhavanti hi ||

63.1६३.१

केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै । (६३।१)

keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai |

63.2६३.२

सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ (६३।२)

saptāhaṃ vajradugdhena suśvetān bhāvayettilān ||

64.1६४.१

तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै । (६४।१)

tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai |

64.2६४.२

गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ (६४।२)

gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā ||

65.1६५.१

भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः । (६५।१)

bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ |

65.2६५.२

सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ (६५।२)

sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet ||

66.1६६.१

तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि । (६६।१)

tallepena tu romāṇi suśuklāni bhavanti hi |

66.2६६.२

मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ (६६।२)

māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet ||

67.1६७.१

नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् । (६७।१)

narāśvagajavājināṃ śuklīkaraṇamuttamam |

67.2६७.२

इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ (६७।२)

indragopaṃ tailinī ca tālakaṃ rajanīdvayam ||

68.1६८.१

मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् । (६८।१)

manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham |

68.2६८.२

भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ (६८।२)

bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare ||

69.1६९.१

ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् । (६९।१)

tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam |

69.2६९.२

कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥ (६९।२)

kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet ||

70.1७०.१

तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् । (७०।१)

tailena sarvaromāṇi keśān saṃlepayettryaham |

70.2७०.२

वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥ (७०।२)

veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca ||

71.1७१.१

स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् । (७१।१)

snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam |

71.2७१.२

दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥ (७१।२)

dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 2, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit