रसरत्नाकरRasaratnākara

RRĀ, 3, 14

33 of 39 · 215 verses

Select a line for its word-by-word analysis.

1.1१.१

सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन । (१।१)

sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena |

1.2१.२

विज्ञाय यस्तु मतिमान् स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥ (१।२)

vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti ||

2.1२.१

मेर्चुर्य्:: चारणस्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् । (२।१)

mercury:: cāraṇasvarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet |

2.2२.२

तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥ (२।२)

taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet ||

3.1३.१

सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् । (३।१)

siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam |

3.2३.२

घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ (३।२)

gharme vā taptakhalve vā tato grāsaṃ tu dāpayet ||

4.1४.१

चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् । (४।१)

catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam |

4.2४.२

दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥ (४।२)

dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet ||

5.0५.०

सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥ (५।०)

sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam ||

6.1६.१

मेर्चुर्य्:: जारणजारणम् त्रिक्षारं पंचलवणम् अम्लवर्गे स्नुहीपयः । (६।१)

mercury:: jāraṇajāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ |

6.2६.२

गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥ (६।२)

gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet ||

7.1७.१

तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् । (७।१)

tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet |

7.2७.२

सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥ (७।२)

siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet ||

8.1८.१

उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके । (८।१)

uddhṛtyoṣṇāranālena kṣālayellohapātrake |

8.2८.२

वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥ (८।२)

vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet ||

9.1९.१

हस्तेनैव भवेद्यावत् सुधौतं पारदं पुनः । (९।१)

hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ |

9.2९.२

चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥ (९।२)

caturguṇena vastreṇa kṣālayennirmalo bhavet ||

10.1१०.१

अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि । (१०।१)

ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi |

10.2१०.२

दोलायां स्वेदयेत्तद्वद् भवेज्जीर्णं न संशयः ॥ (१०।२)

dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ ||

11.1११.१

मेर्चुर्य्:: प्रेपरतिओन् ड़ोर् ग्रासनैष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका । (११।१)

mercury:: preparation for grāsanaiṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā |

11.2११.२

सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥ (११।२)

saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu ||

12.1१२.१

दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि । (१२।१)

dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi |

12.2१२.२

इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् । (१२।२)

iṣṭikādamlavargeṇa dolāyaṃtre dinaṃ pacet |

12.3१२.३

तेxत्जीर्णे जीर्णे त्विदं कुर्याद् ग्रासग्राही भवेद्रसः ॥ (१२।३)

Textjīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ ||

13.1१३.१

मेर्चुर्य्:: जारण ओड़् बीजस्द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् । (१३।१)

mercury:: jāraṇa of bījasdvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet |

13.2१३.२

पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥ (१३।२)

pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam ||

14.1१४.१

षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् । (१४।१)

ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam |

14.2१४.२

जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥ (१४।२)

jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam ||

15.1१५.१

ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते । (१५।१)

tataḥ kacchapayantreṇa jārayettannigadyate |

15.2१५.२

ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥ (१५।२)

ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet ||

16.1१६.१

चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः । (१६।१)

caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ |

16.2१६.२

जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥ (१६।२)

jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam ||

17.1१७.१

रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् । (१७।१)

rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat |

17.2१७.२

इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥ (१७।२)

ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ ||

18.1१८.१

स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् । (१८।१)

svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam |

18.2१८.२

कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥ (१८।२)

kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat ||

19.1१९.१

मेर्चुर्य्:: जारण ओड़् द्वन्द्वसभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् । (१९।१)

mercury:: jāraṇa of dvandvasabhāve vyomasattvasya kāntapāṣāṇasattvakam |

19.2१९.२

तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥ (१९।२)

tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat ||

20.1२०.१

जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् । (२०।१)

jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam |

20.2२०.२

इत्येवं षड्गुणं द्वंद्वं यत्किंचिज् जारयेद्रसे ॥ (२०।२)

ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase ||

21.1२१.१

सिद्धबीज:: प्रेपरतिओन्जारितं सिद्धबीजेन सारयेत्तन्निगद्यते । (२१।१)

siddhabīja:: preparationjāritaṃ siddhabījena sārayettannigadyate |

21.2२१.२

ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥ (२१।२)

tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam ||

22.1२२.१

आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः । (२२।१)

āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ |

22.2२२.२

समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥ (२२।२)

samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet ||

23.1२३.१

माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् । (२३।१)

mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet |

23.2२३.२

स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥ (२३।२)

svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ ||

24.1२४.१

पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् । (२४।१)

pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam |

24.2२४.२

ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥ (२४।२)

tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ ||

25.1२५.१

षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् । (२५।१)

ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam |

25.2२५.२

सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद् भवेत् ॥ (२५।२)

siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet ||

26.1२६.१

अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् । (२६।१)

anena siddhabījena pūrvavatsāraṇātrayam |

26.2२६.२

कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥ (२६।२)

kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā ||

27.1२७.१

बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् । (२७।१)

bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat |

27.2२७.२

चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥ (२७।२)

caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam ||

28.1२८.१

मेर्चुर्य्:: जारण ओड़् सुल्ड़ुरथातः शुद्धसूतस्य जारणे पूर्वभावितम् । (२८।१)

mercury:: jāraṇa of sulfurathātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam |

28.2२८.२

अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् । (२८।२)

atha śuddhasya sattvasya jārayetpūrvabhāṣitam |

28.3२८.३

गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥ (२८।३)

gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam ||

29.1२९.१

मुखनालान्विता ऊर्ध्ववक्त्रा स्याद् द्वादशाङ्गुला । (२९।१)

mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā |

29.2२९.२

दृढा लोहमयी कुर्यादनया सदृशी परा ॥ (२९।२)

dṛḍhā lohamayī kuryādanayā sadṛśī parā ||

30.1३०.१

एकस्यां निक्षिपेत्सूतम् अन्यस्यां गंधकं समम् । (३०।१)

ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam |

30.2३०.२

एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥ (३०।२)

ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet ||

31.1३१.१

लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु । (३१।१)

liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu |

31.2३१.२

रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥ (३१।२)

rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam ||

32.1३२.१

जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् । (३२।१)

jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet |

32.2३२.२

इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥ (३२।२)

ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ ||

33.0३३.०

जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥ (३३।०)

jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet ||

34.1३४.१

मेर्चुर्य्:: वासनामुखित:: ?व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् । (३४।१)

mercury:: vāsanāmukhita:: ?vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam |

34.2३४.२

आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥ (३४।२)

āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet ||

35.1३५.१

भावयेदभिषेकेण पूर्ववत्शतवारकम् । (३५।१)

bhāvayedabhiṣekeṇa pūrvavatśatavārakam |

35.2३५.२

पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥ (३५।२)

pūrvavaccārayedetadvāsanāmukhite rase ||

36.1३६.१

तद्वज्जार्यं प्रयत्नेन यावद् भवति षड्गुणम् । (३६।१)

tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam |

36.2३६.२

तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥ (३६।२)

tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat ||

37.1३७.१

मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् । (३७।१)

mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet |

37.2३७.२

क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् । (३७।२)

krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet |

37.3३७.३

सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥ (३७।३)

sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ ||

38.1३८.१

सिल्वेर् => गोल्द्पूर्ववत् शुद्धसूतस्य पूर्वसंस्कृतगंधकम् । (३८।१)

silver => goldpūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam |

38.2३८.२

जारयेत् षड्गुणं सम्यक् तुलायंत्रेण पूर्ववत् ॥ (३८।२)

jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat ||

39.1३९.१

तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् । (३९।१)

tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam |

39.2३९.२

दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥ (३९।२)

dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi ||

40.1४०.१

पादांशं पक्वबीजं च चारयित्वाथ जारयेत् । (४०।१)

pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet |

40.2४०.२

पूर्ववद् बिडयोगेन एवं जार्यं समक्रमात् ॥ (४०।२)

pūrvavad biḍayogena evaṃ jāryaṃ samakramāt ||

41.1४१.१

त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् । (४१।१)

tridhātha pakvabījaṃ tu sārayitvātha jārayet |

41.2४१.२

तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥ (४१।२)

tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet ||

42.1४२.१

शतांशविधि; प्रोदुच्तिओन् ओड़् गोल्द्तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् । (४२।१)

śatāṃśavidhi; production of goldtāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam |

42.2४२.२

भागैकं वेधकं सूतं संख्येयं शतवेधके ॥ (४२।२)

bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake ||

43.1४३.१

गोल्द्:: प्रोदुच्तिओन्रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् । (४३।१)

gold:: productionrasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam |

43.2४३.२

पूर्ववत् क्रमयोगेन रसे चार्यं च जारयेत् ॥ (४३।२)

pūrvavat kramayogena rase cāryaṃ ca jārayet ||

44.1४४.१

यावद् अष्टगुणं पश्चात् समं कृष्णाभ्रसत्त्वकम् । (४४।१)

yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam |

44.2४४.२

चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥ (४४।२)

cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam ||

45.1४५.१

जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते । (४५।१)

jārayecca punaḥ sūte kacchapākhye viḍānvite |

45.2४५.२

रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥ (४५।२)

rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam ||

46.1४६.१

उन्मत्तमुनिपत्राणि रजनी काकमाचिका । (४६।१)

unmattamunipatrāṇi rajanī kākamācikā |

46.2४६.२

धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥ (४६।२)

dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam ||

47.1४७.१

सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् । (४७।१)

saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet |

47.2४७.२

ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥ (४७।२)

tato divyauṣadhaireva mardayeddivasatrayam ||

48.1४८.१

तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना । (४८।१)

taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā |

48.2४८.२

स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद् दृढम् ॥ (४८।२)

sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham ||

49.1४९.१

कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः । (४९।१)

kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ |

49.2४९.२

ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥ (४९।२)

brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ ||

50.1५०.१

पचेद् गजपुटेऽप्येवं देयं पुटचतुष्टयम् । (५०।१)

paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam |

50.2५०.२

वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥ (५०।२)

vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam ||

51.1५१.१

कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् । (५१।१)

kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam |

51.2५१.२

मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥ (५१।२)

mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet ||

52.1५२.१

सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् । (५२।१)

sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet |

52.2५२.२

शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै । (५२।२)

śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai |

52.3५२.३

तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥ (५२।३)

tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam ||

53.1५३.१

बीज:: ओड़् गोल्द्स्वर्णार्कं तीक्ष्णनागं च सम्यक् सस्याभ्रकस्य च । (५३।१)

bīja:: of goldsvarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca |

53.2५३.२

वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥ (५३।२)

vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam ||

54.1५४.१

द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् । (५४।१)

dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet |

54.2५४.२

समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥ (५४।२)

samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet ||

55.1५५.१

वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः । (५५।१)

vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ |

55.2५५.२

यावत्स्वर्णावशेषं स्याद् अर्कायां दापयेत्पुनः ॥ (५५।२)

yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ ||

56.1५६.१

पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् । (५६।१)

pūrvavatkramayogena dhametsvarṇāvaśeṣitam |

56.2५६.२

इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥ (५६।२)

ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam ||

57.1५७.१

बीज:: ड़्रोम् गोल्दभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् । (५७।१)

bīja:: from goldabhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam |

57.2५७.२

शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥ (५७।२)

śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet ||

58.1५८.१

मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् । (५८।१)

mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet |

58.2५८.२

तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥ (५८।२)

tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet ||

59.1५९.१

एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् । (५९।१)

evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet |

59.2५९.२

धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥ (५९।२)

dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ ||

60.1६०.१

ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् । (६०।१)

tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet |

60.2६०.२

स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥ (६०।२)

svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam ||

61.1६१.१

चन्द्रार्क => गोल्द्स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् । (६१।१)

candrārka => goldsvarṇabījaṃ samaṃ sūte jārayedabhrasattvavat |

61.2६१.२

ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥ (६१।२)

tatastena śatāṃśena madhunāktena lepayet ||

62.1६२.१

समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः । (६२।१)

samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ |

62.2६२.२

दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥ (६२।२)

dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ ||

63.0६३.०

उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥ (६३।०)

uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam ||

64.1६४.१

बीज:: ड़्रोम् गोल्द्मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् । (६४।१)

bīja:: from goldmṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam |

64.2६४.२

एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः । (६४।२)

etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ |

64.3६४.३

स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥ (६४।३)

svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam ||

65.1६५.१

बीज:: ड़्रोम् गोल्द्तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् । (६५।१)

bīja:: from goldtīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam |

65.2६५.२

मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ (६५।२)

mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet ||

66.1६६.१

तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः । (६६।१)

tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ |

66.2६६.२

पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥ (६६।२)

pūrvavattāpyacūrṇena svarṇabījamidaṃ param ||

67.1६७.१

सिल्वेर् => गोल्द्यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे । (६७।१)

silver => goldyatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase |

67.2६७.२

पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥ (६७।२)

pūrvavatkramayogena sattvabījena sārayet ||

68.1६८.१

सारिते जारयेत्तद्वदनुसार्येण जारयेत् । (६८।१)

sārite jārayettadvadanusāryeṇa jārayet |

68.2६८.२

प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥ (६८।२)

pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet ||

69.1६९.१

पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् । (६९।१)

pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet |

69.2६९.२

क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ (६९।२)

krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam ||

70.1७०.१

सिल्वेर् => गोल्द्नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् । (७०।१)

silver => goldnāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram |

70.2७०.२

ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥ (७०।२)

dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ ||

71.1७१.१

स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् । (७१।१)

svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt |

71.2७१.२

यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥ (७१।२)

yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet ||

72.0७२.०

अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥ (७२।०)

anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet ||

73.1७३.१

चन्द्रार्क => स्वर्णताप्येन मारयेच्छुल्बं यथागंधेन मारितम् । (७३।१)

candrārka => svarṇatāpyena mārayecchulbaṃ yathāgaṃdhena māritam |

73.2७३.२

तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन् धमन् ॥ (७३।२)

tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman ||

74.1७४.१

शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् । (७४।१)

śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan |

74.2७४.२

तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥ (७४।२)

tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt ||

75.1७५.१

स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे । (७५।१)

svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase |

75.2७५.२

अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ (७५।२)

anenaiva tu bījena sārayejjārayetpunaḥ ||

76.1७६.१

पूर्ववत् क्रमयोगेन बंधनान्तं च कारयेत् । (७६।१)

pūrvavat kramayogena baṃdhanāntaṃ ca kārayet |

76.2७६.२

क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् । (७६।२)

krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet |

76.3७६.३

चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥ (७६।३)

caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam ||

77.1७७.१

सिल्वेर् => गोल्द्रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् । (७७।१)

silver => goldrasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram |

77.2७७.२

मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥ (७७।२)

mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan ||

78.1७८.१

तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् । (७८।१)

tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet |

78.2७८.२

रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥ (७८।२)

ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet ||

79.1७९.१

तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः । (७९।१)

taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ |

79.2७९.२

सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥ (७९।२)

sahasraguṇitaṃ yāvattadbījaṃ jārayedrase ||

80.1८०.१

यावच्छतगुणं यत्नादनेनैव तु सारयेत् । (८०।१)

yāvacchataguṇaṃ yatnādanenaiva tu sārayet |

80.2८०.२

जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥ (८०।२)

jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat ||

81.0८१.०

कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥ (८१।०)

kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam ||

82.1८२.१

सिल्वेर् => गोल्दभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् । (८२।१)

silver => goldabhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet |

82.2८२.२

मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ (८२।२)

mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet ||

83.1८३.१

तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् । (८३।१)

tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet |

83.2८३.२

रुद्ध्वा पञ्चपुटैः पच्यात् तच्चूर्णं वाहयेद् द्रुतम् ॥ (८३।२)

ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam ||

84.1८४.१

स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् । (८४।१)

svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet |

84.2८४.२

युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥ (८४।२)

yuktyā śataguṇaṃ yāvattridhānenaiva sārayet ||

85.1८५.१

सारिते जारणं कुर्याद् बंधनान्तं च पूर्ववत् । (८५।१)

sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat |

85.2८५.२

अयुतांशेन तेनैव तारं भवति कांचनम् ॥ (८५।२)

ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam ||

86.1८६.१

चन्द्रार्क => गोल्दथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते । (८६।१)

candrārka => goldathavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute |

86.2८६.२

स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥ (८६।२)

svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase ||

87.1८७.१

सहस्रगुणितं यावत् त्रिधा तेनैव सारयेत् । (८७।१)

sahasraguṇitaṃ yāvat tridhā tenaiva sārayet |

87.2८७.२

सारितं जारयेत्पश्चात् पुनः सार्यं च जारयेत् ॥ (८७।२)

sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet ||

88.1८८.१

सप्तशृङ्खलिकायोगात्सारितं जारयेद् बुधः । (८८।१)

saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ |

88.2८८.२

मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः । (८८।२)

mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ |

88.3८८.३

क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ (८८।३)

krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet ||

89.1८९.१

चोप्पेर् => सिल्वेर्विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् । (८९।१)

copper => silvervimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet |

89.2८९.२

मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥ (८९।२)

mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet ||

90.1९०.१

अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् । (९०।१)

amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet |

90.2९०.२

तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥ (९०।२)

tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan ||

91.1९१.१

एतद् बीजं समं सूते जारयेत् पूर्ववत् क्रमात् । (९१।१)

etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt |

91.2९१.२

ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥ (९१।२)

tatastu tārabījena sārayetsāraṇātrayam ||

92.1९२.१

तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् । (९२।१)

tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet |

92.2९२.२

शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥ (९२।२)

śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam ||

93.1९३.१

चोप्पेर् => सिल्वेर्मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् । (९३।१)

copper => silvermṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet |

93.2९३.२

द्विरष्टगुणितं तारे वाहयेत्तं धमन् धमन् ॥ (९३।२)

dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman ||

94.1९४.१

तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् । (९४।१)

tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt |

94.2९४.२

ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥ (९४।२)

tatastaṃ tārabījena sārayetsāraṇātrayam ||

95.1९५.१

सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् । (९५।१)

sahasrāṃśena cānena tāmravedhaṃ pradāpayet |

95.2९५.२

तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥ (९५।२)

tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham ||

96.1९६.१

मेर्चुर्य्:: शतवेधिन्श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् । (९६।१)

mercury:: śatavedhinśvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam |

96.2९६.२

चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥ (९६।२)

caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet ||

97.1९७.१

चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् । (९७।१)

cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet |

97.2९७.२

द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥ (९७।२)

dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet ||

98.1९८.१

अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् । (९८।१)

amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet |

98.2९८.२

तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥ (९८।२)

taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet ||

99.1९९.१

तत्तारं रसराजस्य समं जार्यं क्रमेण वै । (९९।१)

tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai |

99.2९९.२

पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥ (९९।२)

pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ ||

100.1१००.१

चोप्पेर् => सिल्वेरेवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् । (१००।१)

copper => silverevaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat |

100.2१००.२

पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥ (१००।२)

pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca ||

101.1१०१.१

पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् । (१०१।१)

pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam |

101.2१०१.२

एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥ (१०१।२)

etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam ||

102.1१०२.१

बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् । (१०२।१)

baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam |

102.2१०२.२

ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥ (१०२।२)

tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam ||

103.1१०३.१

द्वंद्वमेलापलिप्तायां मूषायां तं धमेद् दृढम् । (१०३।१)

dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham |

103.2१०३.२

अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥ (१०३।२)

amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ ||

104.1१०४.१

तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन् क्षिपन् । (१०४।१)

tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan |

104.2१०४.२

तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥ (१०४।२)

tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt ||

105.1१०५.१

सारयेत्तारबीजेन विधिना सारणात्रयम् । (१०५।१)

sārayettārabījena vidhinā sāraṇātrayam |

105.2१०५.२

अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् । (१०५।२)

anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet |

105.3१०५.३

जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥ (१०५।३)

jāyate rajataṃ divyaṃ śaṃkhakundendusannibham ||

106.1१०६.१

इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक् तमखिलं विधिवच्च जार्यम् । (१०६।१)

itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam |

106.2१०६.२

तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥ (१०६।२)

tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt ||

Data courtesy of The Digital Corpus of Sanskrit.

RRĀ, 3, 14

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit