RRĀ, 1, 5
Select a line for its word-by-word analysis.
उपरसनामानिगन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला । (१।१)
uparasanāmānigandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā |
खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥ (१।२)
kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam ||
एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥ (३।०)
ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit ||
गन्ध:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति । (४।१)
gandha:: aśuddha:: medic. propertiesapakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti |
रूपं सुखं वीर्यबलं च हन्ति तस्मात् संशुद्धं विधियोजनीयम् ॥ (४।२)
rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam ||
गन्धकशोधनसाज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् । (५।१)
gandhakaśodhanasājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet |
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥ (५।२)
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet ||
भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु । (६।१)
bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu |
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ (६।२)
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet ||
गन्धकशोधन (२)अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा । (७।१)
gandhakaśodhana (2)athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā |
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥ (७।२)
gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet ||
तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा । (८।१)
tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā |
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ (८।२)
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet ||
सुल्ड़ुर्:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युज्वरादिकान् । (९।१)
sulfur:: śuddha:: medic. propertiesśuddho gandho haredrogān kuṣṭhamṛtyujvarādikān |
वज्र:: शोधनव्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् । (१०।१)
vajra:: śodhanavyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam |
सप्ताहात् कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥ (१०।२)
saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet ||
वज्र:: मारणत्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् । (११।१)
vajra:: māraṇatrisaptakṛtvastattaptaṃ kharamūtreṇa secayet |
वज्र:: मारणषड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ (११।२)
vajra:: māraṇaṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet ||
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः । (१२।१)
pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ |
भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥ (१२।२)
bhasmībhavati tadvajraṃ vajravatkurute tanum ||
वज्र:: मारणऊर्णाशृङ्गं परिपिष्य पिण्डम् एतस्य मध्ये तु निधाय वज्रम् । (१३।१)
vajra:: māraṇaūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram |
पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥ (१३।२)
piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt ||
मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥ (१४।०)
mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ ||
वज्र:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धवज्रम् आयुर्घ्नं पीडां कुष्ठं करोति च । (१५।१)
vajra:: aśuddha:: medic. propertiesaśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca |
पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥ (१५।२)
pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet ||
वज्र:: सुब्त्य्पेस्:: चोलोउर्, चस्तेश्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः । (१६।१)
vajra:: subtypes:: colour, casteśvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ |
रसायने भवेद् विप्रः श्वेतः सिद्धिप्रदायकः ॥ (१६।२)
rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ ||
द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥ (१७।२)
dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt ||
कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च । (१८।१)
kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca |
पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥ (१८।२)
puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet ||
वज्र:: पुंवज्र:: परीक्षावृत्ताः फलकसम्पूर्णास् तेजस्वन्तो बृहद्भवाः । (१९।१)
vajra:: puṃvajra:: parīkṣāvṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ |
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ (१९।२)
puruṣāste samākhyātā rekhābinduvivarjitāḥ ||
वज्र:: स्तीवज्र:: परीक्षारेखाबिन्दुसमायुक्ताः षट्कोणास् ताः स्त्रियः स्मृताः । (२०।१)
vajra:: stīvajra:: parīkṣārekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ |
वज्र:: नपुंसक:: परीक्षात्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥ (२०।२)
vajra:: napuṃsaka:: parīkṣātrikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ ||
पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः । (२१।१)
pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ |
नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः । (२२।१)
napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ |
स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥ (२२।२)
strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca ||
सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥ (२३।०)
sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ ||
वज्र:: शोधनगृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । (२४।१)
vajra:: śodhanagṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet |
महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥ (२४।२)
mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet ||
निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके । (२५।१)
niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake |
सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥ (२५।२)
secayettāni pratyekaṃ saptarātreṇa śudhyati ||
वज्र:: शोधनमेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् । (२६।१)
vajra:: śodhanameghanādā śamī śyāmā śṛṅgī madanakodbhavam |
कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥ (२६।२)
kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ ||
एतेषां सजलैः क्वाथैर् वज्रं जम्बीरमध्यगम् । (२७।१)
eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam |
दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥ (२७।२)
dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet ||
वज्र:: शोधनकुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । (२८।१)
vajra:: śodhanakulatthakodravakvāthe dolāyantre vipācayet |
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिम् ऋच्छति ॥ (२८।२)
vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati ||
वज्र:: शोधनव्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् । (२९।१)
vajra:: śodhanavyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet |
वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥ (३०।०)
vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet ||
वज्र:: ब्राह्मण:: मारणविप्रजात्यादिवज्राणां मारणं कथ्यते पुनः । (३१।१)
vajra:: brāhmaṇa:: māraṇaviprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ |
अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥ (३१।२)
aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca ||
तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् । (३२।१)
tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet |
रुद्ध्वा गजपुटे पच्याद्विप्रजातिर् मृतो भवेत् ॥ (३२।२)
ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet ||
वज्र:: क्षत्रिय:: मारणकरवीरं मेषशृङ्गं च बदरं च उदुम्बरम् । (३३।१)
vajra:: kṣatriya:: māraṇakaravīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram |
अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥ (३३।२)
arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam ||
वज्र:: वैश्य:: मारणबलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च । (३४।१)
vajra:: vaiśya:: māraṇabalāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca |
एतैर् वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥ (३४।२)
etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat ||
वज्र:: शूद्र:: मारणसूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् । (३५।१)
vajra:: śūdra:: māraṇasūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām |
वज्र:: स्त्री, नपुंसक:: मारणस्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः । (३६।१)
vajra:: strī, napuṃsaka:: māraṇastriyasteṣāṃ mriyante ca tattadauṣadhayogataḥ |
नपुंसकमृतिस्तेषां चतुर्णाम् औषधैः समम् ॥ (३६।२)
napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam ||
वज्र:: मारणद्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह । (३७।१)
vajra:: māraṇadvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha |
नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥ (३७।२)
nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet ||
वज्र:: मारणमेषशृङ्गभुजंगास्थिकूर्मपृष्ठाम्लवेतसैः । (३८।१)
vajra:: māraṇameṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ |
गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥ (३८।२)
gajadantasamaṃ piṣṭvā vajrīdugdhena golakam ||
कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु । (३९।१)
kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu |
वज्र:: मारणत्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका । (३९।२)
vajra:: māraṇatrivarṣanāgavandhyāstu kārpāsasyātha mūlikā |
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥ (३९।३)
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet ||
पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥ (४०।०)
pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ ||
वज्र:: मारणमत्कुणानां तु रक्तेन सप्तधातपशोषितम् । (४१।१)
vajra:: māraṇamatkuṇānāṃ tu raktena saptadhātapaśoṣitam |
कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥ (४१।२)
kuliśaṃ bhāvitaṃ tadakdhrūrṇitāpi manaḥśilā ||
लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् । (४२।१)
liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet |
पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥ (४२।२)
punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca ||
वज्र:: मारणवज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः । (४३।१)
vajra:: māraṇavajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ |
स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥ (४३।२)
snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam ||
कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद् बहिः । (४४।१)
kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ |
भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥ (४४।२)
bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt ||
वज्र:: मारणरक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः । (४५।१)
vajra:: māraṇaraktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ |
पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ (४५।२)
piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam ||
वज्र:: मृत:: मेदिच्। प्रोपेर्तिएस्वज्रमायुर्बलं रूपं देहसौख्यं करोति च । (४६।१)
vajra:: mṛta:: medic. propertiesvajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca |
सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः । (४६।२)
sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ |
वैक्रान्त:: शोधनवैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा । (४६।३)
vaikrānta:: śodhanavaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā |
वैक्रान्त:: मारणहयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥ (४६।४)
vaikrānta:: māraṇahayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā ||
ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् । (४७।१)
tataścottaravāruṇyāḥ pañcāṅge golake kṣipet |
रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥ (४७।२)
ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ ||
क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् । (४८।१)
kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet |
वैक्रान्त:: सुब्स्तितुते ड़ोर् वज्रभस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ (४८।२)
vaikrānta:: substitute for vajrabhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet ||
Data courtesy of The Digital Corpus of Sanskrit.