Sūkta 25
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles jagatī (1, 2); virāḍjagatī (4, 5); nicṛjjagatī (3)
2nd set of styles jagatī
-
Ṛk 1
इंधा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् |
जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ||índhāno agním vanavadvanuṣyatáḥ kṛtábrahmā śūśuvadrātáhavya ít ǀ
jāténa jātámáti sá prá sarsṛte yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁindhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it |
jātena jātam ati sa pra sarsṛte yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||इन्धा॑नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒तऽब्र॑ह्मा । शू॒शु॒व॒त् । रा॒तऽह॑व्यः । इत् ।
जा॒तेन॑ । जा॒तम् । अति॑ । सः । प्र । स॒र्सृ॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥इन्धानः । अग्निम् । वनवत् । वनुष्यतः । कृतऽब्रह्मा । शूशुवत् । रातऽहव्यः । इत् ।
जातेन । जातम् । अति । सः । प्र । सर्सृते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥índhānaḥ ǀ agním ǀ vanavat ǀ vanuṣyatáḥ ǀ kṛtá-brahmā ǀ śūśuvat ǀ rātá-havyaḥ ǀ ít ǀ
jāténa ǀ jātám ǀ áti ǀ sáḥ ǀ prá ǀ sarsṛte ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁindhānaḥ ǀ agnim ǀ vanavat ǀ vanuṣyataḥ ǀ kṛta-brahmā ǀ śūśuvat ǀ rāta-havyaḥ ǀ it ǀ
jātena ǀ jātam ǀ ati ǀ saḥ ǀ pra ǀ sarsṛte ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ2.25.1 Aṣṭaka 2.7.4.1Anuvāka 2.3.36
-
Ṛk 2
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना |
तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ||vīrébhirvīrā́nvanavadvanuṣyató góbhī rayím paprathadbódhati tmánā ǀ
tokám ca tásya tánayam ca vardhate yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁvīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā |
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||वी॒रेभिः॑ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः॑ । र॒यिम् । प॒प्र॒थ॒त् । बोध॑ति । त्मना॑ ।
तो॒कम् । च॒ । तस्य॑ । तन॑यम् । च॒ । व॒र्ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥वीरेभिः । वीरान् । वनवत् । वनुष्यतः । गोभिः । रयिम् । पप्रथत् । बोधति । त्मना ।
तोकम् । च । तस्य । तनयम् । च । वर्धते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥vīrébhiḥ ǀ vīrā́n ǀ vanavat ǀ vanuṣyatáḥ ǀ góbhiḥ ǀ rayím ǀ paprathat ǀ bódhati ǀ tmánā ǀ
tokám ǀ ca ǀ tásya ǀ tánayam ǀ ca ǀ vardhate ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁvīrebhiḥ ǀ vīrān ǀ vanavat ǀ vanuṣyataḥ ǀ gobhiḥ ǀ rayim ǀ paprathat ǀ bodhati ǀ tmanā ǀ
tokam ǀ ca ǀ tasya ǀ tanayam ǀ ca ǀ vardhate ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ2.25.2 Aṣṭaka 2.7.4.2Anuvāka 2.3.37
-
Ṛk 3
सिंधु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥सिन्धुर् न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींर् अभि वष्ट्य् ओजसा |
अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ||síndhurná kṣódaḥ śímīvām̐ ṛghāyató vṛ́ṣeva vádhrīm̐rabhí vaṣṭyójasā ǀ
agnériva prásitirnā́ha vártave yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁsindhur na kṣodaḥ śimīvāṃ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā |
agner iva prasitir nāha vartave yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||सिन्धुः॑ । न । क्षोदः॑ । शिमी॑ऽवान् । ऋ॒घा॒य॒तः । वृषा॑ऽइव । वध्री॑न् । अ॒भि । व॒ष्टि॒ । ओज॑सा ।
अ॒ग्नेःऽइ॑व । प्रऽसि॑तिः । न । अह॑ । वर्त॑वे । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥सिन्धुः । न । क्षोदः । शिमीऽवान् । ऋघायतः । वृषाऽइव । वध्रीन् । अभि । वष्टि । ओजसा ।
अग्नेःऽइव । प्रऽसितिः । न । अह । वर्तवे । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥síndhuḥ ǀ ná ǀ kṣódaḥ ǀ śímī-vān ǀ ṛghāyatáḥ ǀ vṛ́ṣā-iva ǀ vádhrīn ǀ abhí ǀ vaṣṭi ǀ ójasā ǀ
agnéḥ-iva ǀ prá-sitiḥ ǀ ná ǀ áha ǀ vártave ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁsindhuḥ ǀ na ǀ kṣodaḥ ǀ śimī-vān ǀ ṛghāyataḥ ǀ vṛṣā-iva ǀ vadhrīn ǀ abhi ǀ vaṣṭi ǀ ojasā ǀ
agneḥ-iva ǀ pra-sitiḥ ǀ na ǀ aha ǀ vartave ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ2.25.3 Aṣṭaka 2.7.4.3Anuvāka 2.3.38
-
Ṛk 4
तस्मा॑ अर्षंति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्हं॒त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति |
अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ||tásmā arṣanti divyā́ asaścátaḥ sá sátvabhiḥ prathamó góṣu gacchati ǀ
ánibhṛṣṭataviṣirhantyójasā yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁtasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati |
anibhṛṣṭataviṣir hanty ojasā yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||तस्मै॑ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः॑ । सः । सत्व॑ऽभिः । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ ।
अनि॑भृष्टऽतविषिः । ह॒न्ति॒ । ओज॑सा । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥तस्मै । अर्षन्ति । दिव्याः । असश्चतः । सः । सत्वऽभिः । प्रथमः । गोषु । गच्छति ।
अनिभृष्टऽतविषिः । हन्ति । ओजसा । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥tásmai ǀ arṣanti ǀ divyā́ḥ ǀ asaścátaḥ ǀ sáḥ ǀ sátva-bhiḥ ǀ prathamáḥ ǀ góṣu ǀ gacchati ǀ
ánibhṛṣṭa-taviṣiḥ ǀ hanti ǀ ójasā ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁtasmai ǀ arṣanti ǀ divyāḥ ǀ asaścataḥ ǀ saḥ ǀ satva-bhiḥ ǀ prathamaḥ ǀ goṣu ǀ gacchati ǀ
anibhṛṣṭa-taviṣiḥ ǀ hanti ǀ ojasā ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ2.25.4 Aṣṭaka 2.7.4.4Anuvāka 2.3.39
-
Ṛk 5
तस्मा॒ इद्विश्वे॑ धुनयंत॒ सिंध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि |
देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ||tásmā ídvíśve dhunayanta síndhavó’cchidrā śárma dadhire purū́ṇi ǀ
devā́nām sumné subhágaḥ sá edhate yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁtasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi |
devānāṃ sumne subhagaḥ sa edhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||तस्मै॑ । इत् । विश्वे॑ । धु॒न॒य॒न्त॒ । सिन्ध॑वः । अच्छि॑द्रा । शर्म॑ । द॒धि॒रे॒ । पु॒रूणि॑ ।
दे॒वाना॑म् । सु॒म्ने । सु॒ऽभगः॑ । सः । ए॒ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥तस्मै । इत् । विश्वे । धुनयन्त । सिन्धवः । अच्छिद्रा । शर्म । दधिरे । पुरूणि ।
देवानाम् । सुम्ने । सुऽभगः । सः । एधते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥tásmai ǀ ít ǀ víśve ǀ dhunayanta ǀ síndhavaḥ ǀ ácchidrā ǀ śárma ǀ dadhire ǀ purū́ṇi ǀ
devā́nām ǀ sumné ǀ su-bhágaḥ ǀ sáḥ ǀ edhate ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁtasmai ǀ it ǀ viśve ǀ dhunayanta ǀ sindhavaḥ ǀ acchidrā ǀ śarma ǀ dadhire ǀ purūṇi ǀ
devānām ǀ sumne ǀ su-bhagaḥ ǀ saḥ ǀ edhate ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ2.25.5 Aṣṭaka 2.7.4.5Anuvāka 2.3.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.