Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 6); triṣṭup (3); nicṛttriṣṭup (4); paṅktiḥ (5)
2nd set of styles triṣṭubh
-
Ṛk 1
जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।
श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्यः१॒॑ स वा॒जी ॥जोहूत्रो अग्निः प्रथमः पितेवेऌअस् पदे मनुषा यत् समिद्धः |
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ||johū́tro agníḥ prathamáḥ pitéveḷáspadé mánuṣā yátsámiddhaḥ ǀ
śríyam vásāno amṛ́to vícetā marmṛjényaḥ śravasyáḥ sá vājī́ ǁjohūtro agniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ |
śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ||जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः ।
श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥जोहूत्रः । अग्निः । प्रथमः । पिताऽइव । इळः । पदे । मनुषा । यत् । सम्ऽइद्धः ।
श्रियम् । वसानः । अमृतः । विऽचेताः । मर्मृजेन्यः । श्रवस्यः । सः । वाजी ॥johū́traḥ ǀ agníḥ ǀ prathamáḥ ǀ pitā́-iva ǀ iḷáḥ ǀ padé ǀ mánuṣā ǀ yát ǀ sám-iddhaḥ ǀ
śríyam ǀ vásānaḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ marmṛjényaḥ ǀ śravasyáḥ ǀ sáḥ ǀ vājī́ ǁjohūtraḥ ǀ agniḥ ǀ prathamaḥ ǀ pitā-iva ǀ iḷaḥ ǀ pade ǀ manuṣā ǀ yat ǀ sam-iddhaḥ ǀ
śriyam ǀ vasānaḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ marmṛjenyaḥ ǀ śravasyaḥ ǀ saḥ ǀ vājī ǁ2.10.1 Aṣṭaka 2.6.2.1Anuvāka 2.1.84
-
Ṛk 2
श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।
श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः |
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ||śrūyā́ agníścitrábhānurhávam me víśvābhirgīrbhíramṛ́to vícetāḥ ǀ
śyāvā́ rátham vahato róhitā votā́ruṣā́ha cakre víbhṛtraḥ ǁśrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ |
śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः ।
श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥श्रुयाः । अग्निः । चित्रऽभानुः । हवम् । मे । विश्वाभिः । गीःऽभिः । अमृतः । विऽचेताः ।
श्यावा । रथम् । वहतः । रोहिता । वा । उत । अरुषा । अह । चक्रे । विऽभृत्रः ॥śruyā́ḥ ǀ agníḥ ǀ citrá-bhānuḥ ǀ hávam ǀ me ǀ víśvābhiḥ ǀ gīḥ-bhíḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ
śyāvā́ ǀ rátham ǀ vahataḥ ǀ róhitā ǀ vā ǀ utá ǀ aruṣā́ ǀ áha ǀ cakre ǀ ví-bhṛtraḥ ǁśruyāḥ ǀ agniḥ ǀ citra-bhānuḥ ǀ havam ǀ me ǀ viśvābhiḥ ǀ gīḥ-bhiḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ
śyāvā ǀ ratham ǀ vahataḥ ǀ rohitā ǀ vā ǀ uta ǀ aruṣā ǀ aha ǀ cakre ǀ vi-bhṛtraḥ ǁ2.10.2 Aṣṭaka 2.6.2.2Anuvāka 2.1.85
-
Ṛk 3
उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ ।
शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः |
शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ||uttānā́yāmajanayantsúṣūtam bhúvadagníḥ purupéśāsu gárbhaḥ ǀ
śíriṇāyām cidaktúnā máhobhiráparīvṛto vasati prácetāḥ ǁuttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ |
śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ ||उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ ।
शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥उत्तानायाम् । अजनयन् । सुऽसूतम् । भुवत् । अग्निः । पुरुऽपेशासु । गर्भः ।
शिरिणायाम् । चित् । अक्तुना । महःऽभिः । अपरिऽवृतः । वसति । प्रऽचेताः ॥uttānā́yām ǀ ajanayan ǀ sú-sūtam ǀ bhúvat ǀ agníḥ ǀ puru-péśāsu ǀ gárbhaḥ ǀ
śíriṇāyām ǀ cit ǀ aktúnā ǀ máhaḥ-bhiḥ ǀ ápari-vṛtaḥ ǀ vasati ǀ prá-cetāḥ ǁuttānāyām ǀ ajanayan ǀ su-sūtam ǀ bhuvat ǀ agniḥ ǀ puru-peśāsu ǀ garbhaḥ ǀ
śiriṇāyām ǀ cit ǀ aktunā ǀ mahaḥ-bhiḥ ǀ apari-vṛtaḥ ǀ vasati ǀ pra-cetāḥ ǁ2.10.3 Aṣṭaka 2.6.2.3Anuvāka 2.1.86
-
Ṛk 4
जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यंतं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हंतं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नं ॥जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा |
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ||jígharmyagním havíṣā ghṛténa pratikṣiyántam bhúvanāni víśvā ǀ
pṛthúm tiraścā́ váyasā bṛhántam vyáciṣṭhamánnai rabhasám dṛ́śānam ǁjigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā |
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam ||जिघ॑र्मि । अ॒ग्निम् । ह॒विषा॑ । घृ॒तेन॑ । प्र॒ति॒ऽक्षि॒यन्त॑म् । भुव॑नानि । विश्वा॑ ।
पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त॑म् । व्यचि॑ष्ठम् । अन्नैः॑ । र॒भ॒सम् । दृशा॑नम् ॥जिघर्मि । अग्निम् । हविषा । घृतेन । प्रतिऽक्षियन्तम् । भुवनानि । विश्वा ।
पृथुम् । तिरश्चा । वयसा । बृहन्तम् । व्यचिष्ठम् । अन्नैः । रभसम् । दृशानम् ॥jígharmi ǀ agním ǀ havíṣā ǀ ghṛténa ǀ prati-kṣiyántam ǀ bhúvanāni ǀ víśvā ǀ
pṛthúm ǀ tiraścā́ ǀ váyasā ǀ bṛhántam ǀ vyáciṣṭham ǀ ánnaiḥ ǀ rabhasám ǀ dṛ́śānam ǁjigharmi ǀ agnim ǀ haviṣā ǀ ghṛtena ǀ prati-kṣiyantam ǀ bhuvanāni ǀ viśvā ǀ
pṛthum ǀ tiraścā ǀ vayasā ǀ bṛhantam ǀ vyaciṣṭham ǀ annaiḥ ǀ rabhasam ǀ dṛśānam ǁ2.10.4 Aṣṭaka 2.6.2.4Anuvāka 2.1.87
-
Ṛk 5
आ वि॒श्वतः॑ प्र॒त्यंचं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत |
मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा जर्भुराणः ||ā́ viśvátaḥ pratyáñcam jigharmyarakṣásā mánasā tájjuṣeta ǀ
máryaśrīḥ spṛhayádvarṇo agnírnā́bhimṛ́śe tanvā́ járbhurāṇaḥ ǁā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta |
maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ ||आ । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् । जि॒घ॒र्मि॒ । अ॒र॒क्षसा॑ । मन॑सा । तत् । जु॒षे॒त॒ ।
मर्य॑ऽश्रीः । स्पृ॒ह॒यत्ऽव॑र्णः । अ॒ग्निः । न । अ॒भि॒ऽमृशे॑ । त॒न्वा॑ । जर्भु॑राणः ॥आ । विश्वतः । प्रत्यञ्चम् । जिघर्मि । अरक्षसा । मनसा । तत् । जुषेत ।
मर्यऽश्रीः । स्पृहयत्ऽवर्णः । अग्निः । न । अभिऽमृशे । तन्वा । जर्भुराणः ॥ā́ ǀ viśvátaḥ ǀ pratyáñcam ǀ jigharmi ǀ arakṣásā ǀ mánasā ǀ tát ǀ juṣeta ǀ
márya-śrīḥ ǀ spṛhayát-varṇaḥ ǀ agníḥ ǀ ná ǀ abhi-mṛ́śe ǀ tanvā́ ǀ járbhurāṇaḥ ǁā ǀ viśvataḥ ǀ pratyañcam ǀ jigharmi ǀ arakṣasā ǀ manasā ǀ tat ǀ juṣeta ǀ
marya-śrīḥ ǀ spṛhayat-varṇaḥ ǀ agniḥ ǀ na ǀ abhi-mṛśe ǀ tanvā ǀ jarbhurāṇaḥ ǁ2.10.5 Aṣṭaka 2.6.2.5Anuvāka 2.1.88
-
Ṛk 6
ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।
अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम |
अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ||jñeyā́ bhāgám sahasānó váreṇa tvā́dūtāso manuvádvadema ǀ
ánūnamagním juhvā́ vacasyā́ madhupṛ́cam dhanasā́ johavīmi ǁjñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema |
anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi ||ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे॑ण । त्वाऽदू॑तासः । म॒नु॒ऽवत् । व॒दे॒म॒ ।
अनू॑नम् । अ॒ग्निम् । जु॒ह्वा॑ । व॒च॒स्या । म॒धु॒ऽपृच॑म् । ध॒न॒ऽसाः । जो॒ह॒वी॒मि॒ ॥ज्ञेयाः । भागम् । सहसानः । वरेण । त्वाऽदूतासः । मनुऽवत् । वदेम ।
अनूनम् । अग्निम् । जुह्वा । वचस्या । मधुऽपृचम् । धनऽसाः । जोहवीमि ॥jñeyā́ḥ ǀ bhāgám ǀ sahasānáḥ ǀ váreṇa ǀ tvā́-dūtāsaḥ ǀ manu-vát ǀ vadema ǀ
ánūnam ǀ agním ǀ juhvā́ ǀ vacasyā́ ǀ madhu-pṛ́cam ǀ dhana-sā́ḥ ǀ johavīmi ǁjñeyāḥ ǀ bhāgam ǀ sahasānaḥ ǀ vareṇa ǀ tvā-dūtāsaḥ ǀ manu-vat ǀ vadema ǀ
anūnam ǀ agnim ǀ juhvā ǀ vacasyā ǀ madhu-pṛcam ǀ dhana-sāḥ ǀ johavīmi ǁ2.10.6 Aṣṭaka 2.6.2.6Anuvāka 2.1.89
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.