Sūkta 1
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3-5, 9, 11, 12, 15, 17, 19, 20); triṣṭup (2, 6, 7, 13, 14); svarāṭpaṅkti (8, 16, 23); virāṭtrisṭup (10, 21); bhurikpaṅkti (18); jyotiṣmatītriṣṭup (22)
2nd set of styles triṣṭubh
-
Ṛk 1
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।
दे॒वाँ अच्छा॒ दीद्य॑द्युं॒जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै |
देवां अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ||sómasya mā tavásam vákṣyagne váhnim cakartha vidáthe yájadhyai ǀ
devā́m̐ ácchā dī́dyadyuñjé ádrim śamāyé agne tanvám juṣasva ǁsomasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai |
devāṃ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva ||सोम॑स्य । मा॒ । त॒वस॑म् । वक्षि॑ । अ॒ग्ने॒ । वह्नि॑म् । च॒क॒र्थ॒ । वि॒दथे॑ । यज॑ध्यै ।
दे॒वान् । अच्छ॑ । दीद्य॑त् । यु॒ञ्जे । अद्रि॑म् । श॒म्ऽआ॒ये । अ॒ग्ने॒ । त॒न्व॑म् । जु॒ष॒स्व॒ ॥सोमस्य । मा । तवसम् । वक्षि । अग्ने । वह्निम् । चकर्थ । विदथे । यजध्यै ।
देवान् । अच्छ । दीद्यत् । युञ्जे । अद्रिम् । शम्ऽआये । अग्ने । तन्वम् । जुषस्व ॥sómasya ǀ mā ǀ tavásam ǀ vákṣi ǀ agne ǀ váhnim ǀ cakartha ǀ vidáthe ǀ yájadhyai ǀ
devā́n ǀ áccha ǀ dī́dyat ǀ yuñjé ǀ ádrim ǀ śam-āyé ǀ agne ǀ tanvám ǀ juṣasva ǁsomasya ǀ mā ǀ tavasam ǀ vakṣi ǀ agne ǀ vahnim ǀ cakartha ǀ vidathe ǀ yajadhyai ǀ
devān ǀ accha ǀ dīdyat ǀ yuñje ǀ adrim ǀ śam-āye ǀ agne ǀ tanvam ǀ juṣasva ǁ3.1.1 Aṣṭaka 2.8.13.1Anuvāka 3.1.1
-
Ṛk 2
प्रांचं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।
दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् |
दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ||prā́ñcam yajñám cakṛma várdhatām gī́ḥ samídbhiragním námasā duvasyan ǀ
diváḥ śaśāsurvidáthā kavīnā́m gṛ́tsāya cittaváse gātúmīṣuḥ ǁprāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan |
divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ ||प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् ।
दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृत्सा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥प्राञ्चम् । यज्ञम् । चकृम । वर्धताम् । गीः । समित्ऽभिः । अग्निम् । नमसा । दुवस्यन् ।
दिवः । शशासुः । विदथा । कवीनाम् । गृत्साय । चित् । तवसे । गातुम् । ईषुः ॥prā́ñcam ǀ yajñám ǀ cakṛma ǀ várdhatām ǀ gī́ḥ ǀ samít-bhiḥ ǀ agním ǀ námasā ǀ duvasyan ǀ
diváḥ ǀ śaśāsuḥ ǀ vidáthā ǀ kavīnā́m ǀ gṛ́tsāya ǀ cit ǀ taváse ǀ gātúm ǀ īṣuḥ ǁprāñcam ǀ yajñam ǀ cakṛma ǀ vardhatām ǀ gīḥ ǀ samit-bhiḥ ǀ agnim ǀ namasā ǀ duvasyan ǀ
divaḥ ǀ śaśāsuḥ ǀ vidathā ǀ kavīnām ǀ gṛtsāya ǀ cit ǀ tavase ǀ gātum ǀ īṣuḥ ǁ3.1.2 Aṣṭaka 2.8.13.2Anuvāka 3.1.2
-
Ṛk 3
मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बंधु॑र्ज॒नुषा॑ पृथि॒व्याः ।
अविं॑दन्नु दर्श॒तम॒प्स्वं१॒॑तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णां ॥मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः |
अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ||máyo dadhe médhiraḥ pūtádakṣo diváḥ subándhurjanúṣā pṛthivyā́ḥ ǀ
ávindannu darśatámapsvántárdevā́so agnímapási svásṝṇām ǁmayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ |
avindann u darśatam apsv antar devāso agnim apasi svasṝṇām ||मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः ।
अवि॑न्दन् । ऊं॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥मयः । दधे । मेधिरः । पूतऽदक्षः । दिवः । सुऽबन्धुः । जनुषा । पृथिव्याः ।
अविन्दन् । ऊं इति । दर्शतम् । अप्ऽसु । अन्तः । देवासः । अग्निम् । अपसि । स्वसॄणाम् ॥máyaḥ ǀ dadhe ǀ médhiraḥ ǀ pūtá-dakṣaḥ ǀ diváḥ ǀ su-bándhuḥ ǀ janúṣā ǀ pṛthivyā́ḥ ǀ
ávindan ǀ ūṃ íti ǀ darśatám ǀ ap-sú ǀ antáḥ ǀ devā́saḥ ǀ agním ǀ apási ǀ svásṝṇām ǁmayaḥ ǀ dadhe ǀ medhiraḥ ǀ pūta-dakṣaḥ ǀ divaḥ ǀ su-bandhuḥ ǀ januṣā ǀ pṛthivyāḥ ǀ
avindan ǀ ūṃ iti ǀ darśatam ǀ ap-su ǀ antaḥ ǀ devāsaḥ ǀ agnim ǀ apasi ǀ svasṝṇām ǁ3.1.3 Aṣṭaka 2.8.13.3Anuvāka 3.1.3
-
Ṛk 4
अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।
शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा |
शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ||ávardhayantsubhágam saptá yahvī́ḥ śvetám jajñānámaruṣám mahitvā́ ǀ
śíśum ná jātámabhyā́ruráśvā devā́so agním jánimanvapuṣyan ǁavardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā |
śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan ||अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा ।
शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥अवर्धयन् । सुऽभगम् । सप्त । यह्वीः । श्वेतम् । जज्ञानम् । अरुषम् । महिऽत्वा ।
शिशुम् । न । जातम् । अभि । आरुः । अश्वाः । देवासः । अग्निम् । जनिमन् । वपुष्यन् ॥ávardhayan ǀ su-bhágam ǀ saptá ǀ yahvī́ḥ ǀ śvetám ǀ jajñānám ǀ aruṣám ǀ mahi-tvā́ ǀ
śíśum ǀ ná ǀ jātám ǀ abhí ǀ āruḥ ǀ áśvāḥ ǀ devā́saḥ ǀ agním ǀ jániman ǀ vapuṣyan ǁavardhayan ǀ su-bhagam ǀ sapta ǀ yahvīḥ ǀ śvetam ǀ jajñānam ǀ aruṣam ǀ mahi-tvā ǀ
śiśum ǀ na ǀ jātam ǀ abhi ǀ āruḥ ǀ aśvāḥ ǀ devāsaḥ ǀ agnim ǀ janiman ǀ vapuṣyan ǁ3.1.4 Aṣṭaka 2.8.13.4Anuvāka 3.1.4
-
Ṛk 5
शु॒क्रेभि॒रंगै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।
शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः |
शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ||śukrébhiráṅgai rája ātatanvā́nkrátum punānáḥ kavíbhiḥ pavítraiḥ ǀ
śocírvásānaḥ páryā́yurapā́m śríyo mimīte bṛhatī́ránūnāḥ ǁśukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ |
śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ ||शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ ।
शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥शुक्रेभिः । अङ्गैः । रजः । आऽततन्वान् । क्रतुम् । पुनानः । कविऽभिः । पवित्रैः ।
शोचिः । वसानः । परि । आयुः । अपाम् । श्रियः । मिमीते । बृहतीः । अनूनाः ॥śukrébhiḥ ǀ áṅgaiḥ ǀ rájaḥ ǀ ā-tatanvā́n ǀ krátum ǀ punānáḥ ǀ kaví-bhiḥ ǀ pavítraiḥ ǀ
śocíḥ ǀ vásānaḥ ǀ pári ǀ ā́yuḥ ǀ apā́m ǀ śríyaḥ ǀ mimīte ǀ bṛhatī́ḥ ǀ ánūnāḥ ǁśukrebhiḥ ǀ aṅgaiḥ ǀ rajaḥ ǀ ā-tatanvān ǀ kratum ǀ punānaḥ ǀ kavi-bhiḥ ǀ pavitraiḥ ǀ
śociḥ ǀ vasānaḥ ǀ pari ǀ āyuḥ ǀ apām ǀ śriyaḥ ǀ mimīte ǀ bṛhatīḥ ǀ anūnāḥ ǁ3.1.5 Aṣṭaka 2.8.13.5Anuvāka 3.1.5
-
Ṛk 6
व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।
सना॒ अत्र॑ युव॒तयः॒ सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः |
सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ||vavrā́jā sīmánadatīrádabdhā divó yahvī́rávasānā ánagnāḥ ǀ
sánā átra yuvatáyaḥ sáyonīrékam gárbham dadhire saptá vā́ṇīḥ ǁvavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ |
sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ ||व॒व्राज॑ । सी॒म् । अन॑दतीः । अद॑ब्धाः । दि॒वः । य॒ह्वीः । अव॑सानाः । अन॑ग्नाः ।
सनाः॑ । अत्र॑ । यु॒व॒तयः॑ । सऽयो॑नीः । एक॑म् । गर्भ॑म् । द॒धि॒रे॒ । स॒प्त । वाणीः॑ ॥वव्राज । सीम् । अनदतीः । अदब्धाः । दिवः । यह्वीः । अवसानाः । अनग्नाः ।
सनाः । अत्र । युवतयः । सऽयोनीः । एकम् । गर्भम् । दधिरे । सप्त । वाणीः ॥vavrā́ja ǀ sīm ǀ ánadatīḥ ǀ ádabdhāḥ ǀ diváḥ ǀ yahvī́ḥ ǀ ávasānāḥ ǀ ánagnāḥ ǀ
sánāḥ ǀ átra ǀ yuvatáyaḥ ǀ sá-yonīḥ ǀ ékam ǀ gárbham ǀ dadhire ǀ saptá ǀ vā́ṇīḥ ǁvavrāja ǀ sīm ǀ anadatīḥ ǀ adabdhāḥ ǀ divaḥ ǀ yahvīḥ ǀ avasānāḥ ǀ anagnāḥ ǀ
sanāḥ ǀ atra ǀ yuvatayaḥ ǀ sa-yonīḥ ǀ ekam ǀ garbham ǀ dadhire ǀ sapta ǀ vāṇīḥ ǁ3.1.6 Aṣṭaka 2.8.14.1Anuvāka 3.1.6
-
Ṛk 7
स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नां ।
अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् |
अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ||stīrṇā́ asya saṃháto viśvárūpā ghṛtásya yónau sraváthe mádhūnām ǀ
ásthurátra dhenávaḥ pínvamānā mahī́ dasmásya mātárā samīcī́ ǁstīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||स्ती॒र्णाः । अ॒स्य॒ । स॒म्ऽहतः॑ । वि॒श्वऽरू॑पाः । घृ॒तस्य॑ । योनौ॑ । स्र॒वथे॑ । मधू॑नाम् ।
अस्थुः॑ । अत्र॑ । धे॒नवः॑ । पिन्व॑मानाः । म॒ही इति॑ । द॒स्मस्य॑ । मा॒तरा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ॥स्तीर्णाः । अस्य । सम्ऽहतः । विश्वऽरूपाः । घृतस्य । योनौ । स्रवथे । मधूनाम् ।
अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा । समीची इति सम्ऽईची ॥stīrṇā́ḥ ǀ asya ǀ sam-hátaḥ ǀ viśvá-rūpāḥ ǀ ghṛtásya ǀ yónau ǀ sraváthe ǀ mádhūnām ǀ
ásthuḥ ǀ átra ǀ dhenávaḥ ǀ pínvamānāḥ ǀ mahī́ íti ǀ dasmásya ǀ mātárā ǀ samīcī́ íti sam-īcī́ ǁstīrṇāḥ ǀ asya ǀ sam-hataḥ ǀ viśva-rūpāḥ ǀ ghṛtasya ǀ yonau ǀ sravathe ǀ madhūnām ǀ
asthuḥ ǀ atra ǀ dhenavaḥ ǀ pinvamānāḥ ǀ mahī iti ǀ dasmasya ǀ mātarā ǀ samīcī iti sam-īcī ǁ3.1.7 Aṣṭaka 2.8.14.2Anuvāka 3.1.7
-
Ṛk 8
ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।
श्चोतं॑ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि |
श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ||babhrāṇáḥ sūno sahaso vyádyauddádhānaḥ śukrā́ rabhasā́ vápūṃṣi ǀ
ścótanti dhā́rā mádhuno ghṛtásya vṛ́ṣā yátra vāvṛdhé kā́vyena ǁbabhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi |
ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||ब॒भ्रा॒णः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा॑नः । शु॒क्रा । र॒भ॒सा । वपूं॑षि ।
श्चोत॑न्ति । धाराः॑ । मधु॑नः । घृ॒तस्य॑ । वृषा॑ । यत्र॑ । व॒वृ॒धे । काव्ये॑न ॥बभ्राणः । सूनो इति । सहसः । वि । अद्यौत् । दधानः । शुक्रा । रभसा । वपूंषि ।
श्चोतन्ति । धाराः । मधुनः । घृतस्य । वृषा । यत्र । ववृधे । काव्येन ॥babhrāṇáḥ ǀ sūno íti ǀ sahasaḥ ǀ ví ǀ adyaut ǀ dádhānaḥ ǀ śukrā́ ǀ rabhasā́ ǀ vápūṃṣi ǀ
ścótanti ǀ dhā́rāḥ ǀ mádhunaḥ ǀ ghṛtásya ǀ vṛ́ṣā ǀ yátra ǀ vavṛdhé ǀ kā́vyena ǁbabhrāṇaḥ ǀ sūno iti ǀ sahasaḥ ǀ vi ǀ adyaut ǀ dadhānaḥ ǀ śukrā ǀ rabhasā ǀ vapūṃṣi ǀ
ścotanti ǀ dhārāḥ ǀ madhunaḥ ǀ ghṛtasya ǀ vṛṣā ǀ yatra ǀ vavṛdhe ǀ kāvyena ǁ3.1.8 Aṣṭaka 2.8.14.3Anuvāka 3.1.8
-
Ṛk 9
पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ ।
गुहा॒ चरं॑तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः |
गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ||pitúścidū́dharjanúṣā viveda vyásya dhā́rā asṛjadví dhénāḥ ǀ
gúhā cárantam sákhibhiḥ śivébhirdivó yahvī́bhirná gúhā babhūva ǁpituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ |
guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva ||पि॒तुः । चि॒त् । ऊधः॑ । ज॒नुषा॑ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः॑ । अ॒सृ॒ज॒त् । वि । धेनाः॑ ।
गुहा॑ । चर॑न्तम् । सखि॑ऽभिः । शि॒वेभिः॑ । दि॒वः । य॒ह्वीभिः॑ । न । गुहा॑ । ब॒भू॒व॒ ॥पितुः । चित् । ऊधः । जनुषा । विवेद । वि । अस्य । धाराः । असृजत् । वि । धेनाः ।
गुहा । चरन्तम् । सखिऽभिः । शिवेभिः । दिवः । यह्वीभिः । न । गुहा । बभूव ॥pitúḥ ǀ cit ǀ ū́dhaḥ ǀ janúṣā ǀ viveda ǀ ví ǀ asya ǀ dhā́rāḥ ǀ asṛjat ǀ ví ǀ dhénāḥ ǀ
gúhā ǀ cárantam ǀ sákhi-bhiḥ ǀ śivébhiḥ ǀ diváḥ ǀ yahvī́bhiḥ ǀ ná ǀ gúhā ǀ babhūva ǁpituḥ ǀ cit ǀ ūdhaḥ ǀ januṣā ǀ viveda ǀ vi ǀ asya ǀ dhārāḥ ǀ asṛjat ǀ vi ǀ dhenāḥ ǀ
guhā ǀ carantam ǀ sakhi-bhiḥ ǀ śivebhiḥ ǀ divaḥ ǀ yahvībhiḥ ǀ na ǀ guhā ǀ babhūva ǁ3.1.9 Aṣṭaka 2.8.14.4Anuvāka 3.1.9
-
Ṛk 10
पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।
वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सबं॑धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑नि पा॑हि ॥पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः |
वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ||pitúśca gárbham janitúśca babhre pūrvī́réko adhayatpī́pyānāḥ ǀ
vṛ́ṣṇe sapátnī śúcaye sábandhū ubhé asmai manuṣyéní pāhi ǁpituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ |
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः ।
वृष्णे॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । शुच॑ये । सब॑न्धू॒ इति॒ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒॑ इति॑ । नि । पा॒हि॒ ॥पितुः । च । गर्भम् । जनितुः । च । बभ्रे । पूर्वीः । एकः । अधयत् । पीप्यानाः ।
वृष्णे । सपत्नी इति सऽपत्नी । शुचये । सबन्धू इति सऽबन्धू । उभे इति । अस्मै । मनुष्ये इति । नि । पाहि ॥pitúḥ ǀ ca ǀ gárbham ǀ janitúḥ ǀ ca ǀ babhre ǀ pūrvī́ḥ ǀ ékaḥ ǀ adhayat ǀ pī́pyānāḥ ǀ
vṛ́ṣṇe ǀ sapátnī íti sa-pátnī ǀ śúcaye ǀ sábandhū íti sá-bandhū ǀ ubhé íti ǀ asmai ǀ manuṣyé íti ǀ ní ǀ pāhi ǁpituḥ ǀ ca ǀ garbham ǀ janituḥ ǀ ca ǀ babhre ǀ pūrvīḥ ǀ ekaḥ ǀ adhayat ǀ pīpyānāḥ ǀ
vṛṣṇe ǀ sapatnī iti sa-patnī ǀ śucaye ǀ sabandhū iti sa-bandhū ǀ ubhe iti ǀ asmai ǀ manuṣye iti ǀ ni ǀ pāhi ǁ3.1.10 Aṣṭaka 2.8.14.5Anuvāka 3.1.10
-
Ṛk 11
उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः ।
ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णां ॥उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः |
ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ||uráu mahā́m̐ anibādhé vavardhā́po agním yaśásaḥ sám hí pūrvī́ḥ ǀ
ṛtásya yónāvaśayaddámūnā jāmīnā́magnírapási svásṝṇām ǁurau mahāṃ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ |
ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām ||उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः ।
ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसॄ॑णाम् ॥उरौ । महान् । अनिऽबाधे । ववर्ध । आपः । अग्निम् । यशसः । सम् । हि । पूर्वीः ।
ऋतस्य । योनौ । अशयत् । दमूनाः । जामीनाम् । अग्निः । अपसि । स्वसॄणाम् ॥uráu ǀ mahā́n ǀ ani-bādhé ǀ vavardha ǀ ā́paḥ ǀ agním ǀ yaśásaḥ ǀ sám ǀ hí ǀ pūrvī́ḥ ǀ
ṛtásya ǀ yónau ǀ aśayat ǀ dámūnāḥ ǀ jāmīnā́m ǀ agníḥ ǀ apási ǀ svásṝṇām ǁurau ǀ mahān ǀ ani-bādhe ǀ vavardha ǀ āpaḥ ǀ agnim ǀ yaśasaḥ ǀ sam ǀ hi ǀ pūrvīḥ ǀ
ṛtasya ǀ yonau ǀ aśayat ǀ damūnāḥ ǀ jāmīnām ǀ agniḥ ǀ apasi ǀ svasṝṇām ǁ3.1.11 Aṣṭaka 2.8.15.1Anuvāka 3.1.11
-
Ṛk 12
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः |
उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ||akró ná babhríḥ samithé mahī́nām didṛkṣéyaḥ sūnáve bhā́ṛjīkaḥ ǀ
údusríyā jánitā yó jajā́nāpā́m gárbho nṛ́tamo yahvó agníḥ ǁakro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ ||अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः ।
उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥अक्रः । न । बभ्रिः । सम्ऽइथे । महीनाम् । दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।
उत् । उस्रियाः । जनिता । यः । जजान । अपाम् । गर्भः । नृऽतमः । यह्वः । अग्निः ॥akráḥ ǀ ná ǀ babhríḥ ǀ sam-ithé ǀ mahī́nām ǀ didṛkṣéyaḥ ǀ sūnáve ǀ bhā́ḥ-ṛjīkaḥ ǀ
út ǀ usríyāḥ ǀ jánitā ǀ yáḥ ǀ jajā́na ǀ apā́m ǀ gárbhaḥ ǀ nṛ́-tamaḥ ǀ yahváḥ ǀ agníḥ ǁakraḥ ǀ na ǀ babhriḥ ǀ sam-ithe ǀ mahīnām ǀ didṛkṣeyaḥ ǀ sūnave ǀ bhāḥ-ṛjīkaḥ ǀ
ut ǀ usriyāḥ ǀ janitā ǀ yaḥ ǀ jajāna ǀ apām ǀ garbhaḥ ǀ nṛ-tamaḥ ǀ yahvaḥ ǀ agniḥ ǁ3.1.12 Aṣṭaka 2.8.15.2Anuvāka 3.1.12
-
Ṛk 13
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पं ।
दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् |
देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ||apā́m gárbham darśatámóṣadhīnām vánā jajāna subhágā vírūpam ǀ
devā́saścinmánasā sám hí jagmúḥ pániṣṭham jātám tavásam duvasyan ǁapāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam |
devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan ||अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् ।
दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । वना । जजान । सुऽभगा । विऽरूपम् ।
देवासः । चित् । मनसा । सम् । हि । जग्मुः । पनिष्ठम् । जातम् । तवसम् । दुवस्यन् ॥apā́m ǀ gárbham ǀ darśatám ǀ óṣadhīnām ǀ vánā ǀ jajāna ǀ su-bhágā ǀ ví-rūpam ǀ
devā́saḥ ǀ cit ǀ mánasā ǀ sám ǀ hí ǀ jagmúḥ ǀ pániṣṭham ǀ jātám ǀ tavásam ǀ duvasyan ǁapām ǀ garbham ǀ darśatam ǀ oṣadhīnām ǀ vanā ǀ jajāna ǀ su-bhagā ǀ vi-rūpam ǀ
devāsaḥ ǀ cit ǀ manasā ǀ sam ǀ hi ǀ jagmuḥ ǀ paniṣṭham ǀ jātam ǀ tavasam ǀ duvasyan ǁ3.1.13 Aṣṭaka 2.8.15.3Anuvāka 3.1.13
-
Ṛk 14
बृ॒हंत॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चंत वि॒द्युतो॒ न शु॒क्राः ।
गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अं॒तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥बृहन्त इद् भानवो भाऋजीकम् अग्निं सचन्त विद्युतो न शुक्राः |
गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ||bṛhánta ídbhānávo bhā́ṛjīkamagním sacanta vidyúto ná śukrā́ḥ ǀ
gúheva vṛddhám sádasi své antárapārá ūrvé amṛ́tam dúhānāḥ ǁbṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ |
guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ ||बृ॒हन्तः॑ । इत् । भा॒नवः॑ । भाःऽऋ॑जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒ऽद्युतः॑ । न । शु॒क्राः ।
गुहा॑ऽइव । वृ॒द्धम् । सद॑सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृत॑म् । दुहा॑नाः ॥बृहन्तः । इत् । भानवः । भाःऽऋजीकम् । अग्निम् । सचन्त । विऽद्युतः । न । शुक्राः ।
गुहाऽइव । वृद्धम् । सदसि । स्वे । अन्तः । अपारे । ऊर्वे । अमृतम् । दुहानाः ॥bṛhántaḥ ǀ ít ǀ bhānávaḥ ǀ bhā́ḥ-ṛjīkam ǀ agním ǀ sacanta ǀ vi-dyútaḥ ǀ ná ǀ śukrā́ḥ ǀ
gúhā-iva ǀ vṛddhám ǀ sádasi ǀ své ǀ antáḥ ǀ apāré ǀ ūrvé ǀ amṛ́tam ǀ dúhānāḥ ǁbṛhantaḥ ǀ it ǀ bhānavaḥ ǀ bhāḥ-ṛjīkam ǀ agnim ǀ sacanta ǀ vi-dyutaḥ ǀ na ǀ śukrāḥ ǀ
guhā-iva ǀ vṛddham ǀ sadasi ǀ sve ǀ antaḥ ǀ apāre ǀ ūrve ǀ amṛtam ǀ duhānāḥ ǁ3.1.14 Aṣṭaka 2.8.15.4Anuvāka 3.1.14
-
Ṛk 15
ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः |
देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ||ī́ḷe ca tvā yájamāno havírbhirī́ḷe sakhitvám sumatím níkāmaḥ ǀ
deváirávo mimīhi sám jaritré rákṣā ca no dámyebhiránīkaiḥ ǁīḷe ca tvā yajamāno havirbhir īḷe sakhitvaṃ sumatiṃ nikāmaḥ |
devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ ||ईळे॑ । च॒ । त्वा॒ । यज॑मानः । ह॒विःऽभिः॑ । ईळे॑ । स॒खि॒ऽत्वम् । सु॒ऽम॒तिम् । निऽका॑मः ।
दे॒वैः । अवः॑ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष॑ । च॒ । नः॒ । दम्ये॑भिः । अनी॑कैः ॥ईळे । च । त्वा । यजमानः । हविःऽभिः । ईळे । सखिऽत्वम् । सुऽमतिम् । निऽकामः ।
देवैः । अवः । मिमीहि । सम् । जरित्रे । रक्ष । च । नः । दम्येभिः । अनीकैः ॥ī́ḷe ǀ ca ǀ tvā ǀ yájamānaḥ ǀ havíḥ-bhiḥ ǀ ī́ḷe ǀ sakhi-tvám ǀ su-matím ǀ ní-kāmaḥ ǀ
deváiḥ ǀ ávaḥ ǀ mimīhi ǀ sám ǀ jaritré ǀ rákṣa ǀ ca ǀ naḥ ǀ dámyebhiḥ ǀ ánīkaiḥ ǁīḷe ǀ ca ǀ tvā ǀ yajamānaḥ ǀ haviḥ-bhiḥ ǀ īḷe ǀ sakhi-tvam ǀ su-matim ǀ ni-kāmaḥ ǀ
devaiḥ ǀ avaḥ ǀ mimīhi ǀ sam ǀ jaritre ǀ rakṣa ǀ ca ǀ naḥ ǀ damyebhiḥ ǀ anīkaiḥ ǁ3.1.15 Aṣṭaka 2.8.15.5Anuvāka 3.1.15
-
Ṛk 16
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।
सु॒रेत॑सा॒ श्रव॑सा॒ तुंज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः |
सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंर् अदेवान् ||upakṣetā́rastáva supraṇīté’gne víśvāni dhányā dádhānāḥ ǀ
surétasā śrávasā túñjamānā abhí ṣyāma pṛtanāyū́m̐rádevān ǁupakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ |
suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān ||उ॒प॒ऽक्षे॒तारः॑ । तव॑ । सु॒ऽप्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा॑नि । धन्या॑ । दधा॑नाः ।
सु॒ऽरेत॑सा । श्रव॑सा । तुञ्ज॑मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒ऽयून् । अदे॑वान् ॥उपऽक्षेतारः । तव । सुऽप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः ।
सुऽरेतसा । श्रवसा । तुञ्जमानाः । अभि । स्याम । पृतनाऽयून् । अदेवान् ॥upa-kṣetā́raḥ ǀ táva ǀ su-pranīte ǀ agne ǀ víśvāni ǀ dhányā ǀ dádhānāḥ ǀ
su-rétasā ǀ śrávasā ǀ túñjamānāḥ ǀ abhí ǀ syāma ǀ pṛtanā-yū́n ǀ ádevān ǁupa-kṣetāraḥ ǀ tava ǀ su-pranīte ǀ agne ǀ viśvāni ǀ dhanyā ǀ dadhānāḥ ǀ
su-retasā ǀ śravasā ǀ tuñjamānāḥ ǀ abhi ǀ syāma ǀ pṛtanā-yūn ǀ adevān ǁ3.1.16 Aṣṭaka 2.8.16.1Anuvāka 3.1.16
-
Ṛk 17
आ दे॒वाना॑मभवः के॒तुर॑ग्ने मं॒द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।
प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् |
प्रति मर्तां अवासयो दमूना अनु देवान् रथिरो यासि साधन् ||ā́ devā́nāmabhavaḥ ketúragne mandró víśvāni kā́vyāni vidvā́n ǀ
práti mártām̐ avāsayo dámūnā ánu devā́nrathiró yāsi sā́dhan ǁā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān |
prati martāṃ avāsayo damūnā anu devān rathiro yāsi sādhan ||आ । दे॒वाना॑म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ।
प्रति॑ । मर्ता॑न् । अ॒वा॒स॒यः॒ । दमू॑नाः । अनु॑ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध॑न् ॥आ । देवानाम् । अभवः । केतुः । अग्ने । मन्द्रः । विश्वानि । काव्यानि । विद्वान् ।
प्रति । मर्तान् । अवासयः । दमूनाः । अनु । देवान् । रथिरः । यासि । साधन् ॥ā́ ǀ devā́nām ǀ abhavaḥ ǀ ketúḥ ǀ agne ǀ mandráḥ ǀ víśvāni ǀ kā́vyāni ǀ vidvā́n ǀ
práti ǀ mártān ǀ avāsayaḥ ǀ dámūnāḥ ǀ ánu ǀ devā́n ǀ rathiráḥ ǀ yāsi ǀ sā́dhan ǁā ǀ devānām ǀ abhavaḥ ǀ ketuḥ ǀ agne ǀ mandraḥ ǀ viśvāni ǀ kāvyāni ǀ vidvān ǀ
prati ǀ martān ǀ avāsayaḥ ǀ damūnāḥ ǀ anu ǀ devān ǀ rathiraḥ ǀ yāsi ǀ sādhan ǁ3.1.17 Aṣṭaka 2.8.16.2Anuvāka 3.1.17
-
Ṛk 18
नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।
घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् |
घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ||ní duroṇé amṛ́to mártyānām rā́jā sasāda vidáthāni sā́dhan ǀ
ghṛtápratīka urviyā́ vyádyaudagnírvíśvāni kā́vyāni vidvā́n ǁni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan |
ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān ||नि । दु॒रो॒णे । अ॒मृतः॑ । मर्त्या॑नाम् । राजा॑ । स॒सा॒द॒ । वि॒दथा॑नि । साध॑न् ।
घृ॒तऽप्र॑तीकः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । अ॒ग्निः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ॥नि । दुरोणे । अमृतः । मर्त्यानाम् । राजा । ससाद । विदथानि । साधन् ।
घृतऽप्रतीकः । उर्विया । वि । अद्यौत् । अग्निः । विश्वानि । काव्यानि । विद्वान् ॥ní ǀ duroṇé ǀ amṛ́taḥ ǀ mártyānām ǀ rā́jā ǀ sasāda ǀ vidáthāni ǀ sā́dhan ǀ
ghṛtá-pratīkaḥ ǀ urviyā́ ǀ ví ǀ adyaut ǀ agníḥ ǀ víśvāni ǀ kā́vyāni ǀ vidvā́n ǁni ǀ duroṇe ǀ amṛtaḥ ǀ martyānām ǀ rājā ǀ sasāda ǀ vidathāni ǀ sādhan ǀ
ghṛta-pratīkaḥ ǀ urviyā ǀ vi ǀ adyaut ǀ agniḥ ǀ viśvāni ǀ kāvyāni ǀ vidvān ǁ3.1.18 Aṣṭaka 2.8.16.3Anuvāka 3.1.18
-
Ṛk 19
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।
अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् |
अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ||ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán ǀ
asmé rayím bahulám sáṃtarutram suvā́cam bhāgám yaśásam kṛdhī naḥ ǁā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan |
asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ ||आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ।
अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् ।
अस्मे इति । रयिम् । बहुलम् । सम्ऽतरुत्रम् । सुऽवाचम् । भागम् । यशसम् । कृधि । नः ॥ā́ ǀ naḥ ǀ gahi ǀ sakhyébhiḥ ǀ śivébhiḥ ǀ mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǀ saraṇyán ǀ
asmé íti ǀ rayím ǀ bahulám ǀ sám-tarutram ǀ su-vā́cam ǀ bhāgám ǀ yaśásam ǀ kṛdhi ǀ naḥ ǁā ǀ naḥ ǀ gahi ǀ sakhyebhiḥ ǀ śivebhiḥ ǀ mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǀ saraṇyan ǀ
asme iti ǀ rayim ǀ bahulam ǀ sam-tarutram ǀ su-vācam ǀ bhāgam ǀ yaśasam ǀ kṛdhi ǀ naḥ ǁ3.1.19 Aṣṭaka 2.8.16.4Anuvāka 3.1.19
-
Ṛk 20
ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचं ।
म॒हांति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्मं॑जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् |
महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ||etā́ te agne jánimā sánāni prá pūrvyā́ya nū́tanāni vocam ǀ
mahā́nti vṛ́ṣṇe sávanā kṛtémā́ jánmañjanmanníhito jātávedāḥ ǁetā te agne janimā sanāni pra pūrvyāya nūtanāni vocam |
mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ ||ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् ।
म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥एता । ते । अग्ने । जनिम । सनानि । प्र । पूर्व्याय । नूतनानि । वोचम् ।
महान्ति । वृष्णे । सवना । कृता । इमा । जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः ॥etā́ ǀ te ǀ agne ǀ jánima ǀ sánāni ǀ prá ǀ pūrvyā́ya ǀ nū́tanāni ǀ vocam ǀ
mahā́nti ǀ vṛ́ṣṇe ǀ sávanā ǀ kṛtā́ ǀ imā́ ǀ jánman-janman ǀ ní-hitaḥ ǀ jātá-vedāḥ ǁetā ǀ te ǀ agne ǀ janima ǀ sanāni ǀ pra ǀ pūrvyāya ǀ nūtanāni ǀ vocam ǀ
mahānti ǀ vṛṣṇe ǀ savanā ǀ kṛtā ǀ imā ǀ janman-janman ǀ ni-hitaḥ ǀ jāta-vedāḥ ǁ3.1.20 Aṣṭaka 2.8.16.5Anuvāka 3.1.20
-
Ṛk 21
जन्मं॑जन्म॒न् निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः |
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ||jánmañjanman níhito jātávedā viśvā́mitrebhiridhyate ájasraḥ ǀ
tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǁjanmañ-janman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ |
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः । वि॒श्वामि॑त्रेभिः । इ॒ध्य॒ते॒ । अज॑स्रः ।
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः । विश्वामित्रेभिः । इध्यते । अजस्रः ।
तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥jánman-janman ǀ ní-hitaḥ ǀ jātá-vedāḥ ǀ viśvā́mitrebhiḥ ǀ idhyate ǀ ájasraḥ ǀ
tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁjanman-janman ǀ ni-hitaḥ ǀ jāta-vedāḥ ǀ viśvāmitrebhiḥ ǀ idhyate ǀ ajasraḥ ǀ
tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ3.1.21 Aṣṭaka 2.8.16.6Anuvāka 3.1.21
-
Ṛk 22
इ॒मं य॒ज्ञं स॑हसाव॒न् त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।
प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः |
प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ||imám yajñám sahasāvan tvám no devatrā́ dhehi sukrato rárāṇaḥ ǀ
prá yaṃsi hotarbṛhatī́ríṣo nó’gne máhi dráviṇamā́ yajasva ǁimaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ |
pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva ||इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः ।
प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥इमम् । यज्ञम् । सहसाऽवन् । त्वम् । नः । देवऽत्रा । धेहि । सुक्रतो इति सुऽक्रतो । रराणः ।
प्र । यंसि । होतः । बृहतीः । इषः । नः । अग्ने । महि । द्रविणम् । आ । यजस्व ॥imám ǀ yajñám ǀ sahasā-van ǀ tvám ǀ naḥ ǀ deva-trā́ ǀ dhehi ǀ sukrato íti su-krato ǀ rárāṇaḥ ǀ
prá ǀ yaṃsi ǀ hotaḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ naḥ ǀ agne ǀ máhi ǀ dráviṇam ǀ ā́ ǀ yajasva ǁimam ǀ yajñam ǀ sahasā-van ǀ tvam ǀ naḥ ǀ deva-trā ǀ dhehi ǀ sukrato iti su-krato ǀ rarāṇaḥ ǀ
pra ǀ yaṃsi ǀ hotaḥ ǀ bṛhatīḥ ǀ iṣaḥ ǀ naḥ ǀ agne ǀ mahi ǀ draviṇam ǀ ā ǀ yajasva ǁ3.1.22 Aṣṭaka 2.8.16.7Anuvāka 3.1.22
-
Ṛk 23
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁiḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁiḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ3.1.23 Aṣṭaka 2.8.16.8Anuvāka 3.1.23
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.