Sūkta 13
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2, 3, 5-7); bhuriguṣṇik (1); virāḍanuṣṭup (4)
2nd set of styles anuṣṭubh
-
Ṛk 1
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।
गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै |
गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ||prá vo devā́yāgnáye bárhiṣṭhamarcāsmai ǀ
gámaddevébhirā́ sá no yájiṣṭho barhírā́ sadat ǁpra vo devāyāgnaye barhiṣṭham arcāsmai |
gamad devebhir ā sa no yajiṣṭho barhir ā sadat ||प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ ।
गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै ।
गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥prá ǀ vaḥ ǀ devā́ya ǀ agnáye ǀ bárhiṣṭham ǀ arca ǀ asmai ǀ
gámat ǀ devébhiḥ ǀ ā́ ǀ sáḥ ǀ naḥ ǀ yájiṣṭhaḥ ǀ barhíḥ ǀ ā́ ǀ sadat ǁpra ǀ vaḥ ǀ devāya ǀ agnaye ǀ barhiṣṭham ǀ arca ǀ asmai ǀ
gamat ǀ devebhiḥ ǀ ā ǀ saḥ ǀ naḥ ǀ yajiṣṭhaḥ ǀ barhiḥ ǀ ā ǀ sadat ǁ3.13.1 Aṣṭaka 3.1.13.1Anuvāka 3.2.1
-
Ṛk 2
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सचं॑त ऊ॒तयः॑ ।
ह॒विष्मं॑त॒स्तमी॑ळते॒ तं स॑नि॒ष्यंतोऽव॑से ॥ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः |
हविष्मन्तस् तम् ईऌअते तं सनिष्यन्तो ऽवसे ||ṛtā́vā yásya ródasī dákṣam sácanta ūtáyaḥ ǀ
havíṣmantastámīḷate tám saniṣyántó’vase ǁṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ |
haviṣmantas tam īḷate taṃ saniṣyanto 'vase ||ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।
ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥ऋतऽवा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः ।
हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥ṛtá-vā ǀ yásya ǀ ródasī íti ǀ dákṣam ǀ sácante ǀ ūtáyaḥ ǀ
havíṣmantaḥ ǀ tám ǀ īḷate ǀ tám ǀ saniṣyántaḥ ǀ ávase ǁṛta-vā ǀ yasya ǀ rodasī iti ǀ dakṣam ǀ sacante ǀ ūtayaḥ ǀ
haviṣmantaḥ ǀ tam ǀ īḷate ǀ tam ǀ saniṣyantaḥ ǀ avase ǁ3.13.2 Aṣṭaka 3.1.13.2Anuvāka 3.2.2
-
Ṛk 3
स यं॒ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।
अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घं ॥स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः |
अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ||sá yantā́ vípra eṣām sá yajñā́nāmáthā hí ṣáḥ ǀ
agním tám vo duvasyata dā́tā yó vánitā maghám ǁsa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ |
agniṃ taṃ vo duvasyata dātā yo vanitā magham ||सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः ।
अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः ।
अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥sáḥ ǀ yantā́ ǀ vípraḥ ǀ eṣām ǀ sáḥ ǀ yajñā́nām ǀ átha ǀ hí ǀ sáḥ ǀ
agním ǀ tám ǀ vaḥ ǀ duvasyata ǀ dā́tā ǀ yáḥ ǀ vánitā ǀ maghám ǁsaḥ ǀ yantā ǀ vipraḥ ǀ eṣām ǀ saḥ ǀ yajñānām ǀ atha ǀ hi ǀ saḥ ǀ
agnim ǀ tam ǀ vaḥ ǀ duvasyata ǀ dātā ǀ yaḥ ǀ vanitā ǀ magham ǁ3.13.3 Aṣṭaka 3.1.13.3Anuvāka 3.2.3
-
Ṛk 4
स नः॒ शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।
यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥स नः शर्माणि वीतये ऽग्निर् यच्छतु शन्तमा |
यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ||sá naḥ śármāṇi vītáye’gníryacchatu śáṃtamā ǀ
yáto naḥ pruṣṇávadvásu diví kṣitíbhyo apsvā́ ǁsa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā |
yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā ||सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा ।
यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्ऽतमा ।
यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिऽभ्यः । अप्ऽसु । आ ॥sáḥ ǀ naḥ ǀ śármāṇi ǀ vītáye ǀ agníḥ ǀ yacchatu ǀ śám-tamā ǀ
yátaḥ ǀ naḥ ǀ pruṣṇávat ǀ vásu ǀ diví ǀ kṣití-bhyaḥ ǀ ap-sú ǀ ā́ ǁsaḥ ǀ naḥ ǀ śarmāṇi ǀ vītaye ǀ agniḥ ǀ yacchatu ǀ śam-tamā ǀ
yataḥ ǀ naḥ ǀ pruṣṇavat ǀ vasu ǀ divi ǀ kṣiti-bhyaḥ ǀ ap-su ǀ ā ǁ3.13.4 Aṣṭaka 3.1.13.4Anuvāka 3.2.4
-
Ṛk 5
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।
ऋक्वा॑णो अ॒ग्निमिं॑धते॒ होता॑रं वि॒श्पतिं॑ वि॒शां ॥दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः |
ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ||dīdivā́ṃsamápūrvyam vásvībhirasya dhītíbhiḥ ǀ
ṛ́kvāṇo agnímindhate hótāram viśpátim viśā́m ǁdīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ |
ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām ||दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ ।
ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥दीदिऽवांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीतिऽभिः ।
ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥dīdi-vā́ṃsam ǀ ápūrvyam ǀ vásvībhiḥ ǀ asya ǀ dhītí-bhiḥ ǀ
ṛ́kvāṇaḥ ǀ agním ǀ indhate ǀ hótāram ǀ viśpátim ǀ viśā́m ǁdīdi-vāṃsam ǀ apūrvyam ǀ vasvībhiḥ ǀ asya ǀ dhīti-bhiḥ ǀ
ṛkvāṇaḥ ǀ agnim ǀ indhate ǀ hotāram ǀ viśpatim ǀ viśām ǁ3.13.5 Aṣṭaka 3.1.13.5Anuvāka 3.2.5
-
Ṛk 6
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।
शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः |
शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ||utá no bráhmannaviṣa ukthéṣu devahū́tamaḥ ǀ
śám naḥ śocā marúdvṛdhó’gne sahasrasā́tamaḥ ǁuta no brahmann aviṣa uktheṣu devahūtamaḥ |
śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ ||उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः ।
शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देवऽहूतमः ।
शम् । नः । शोच । मरुत्ऽवृधः । अग्ने । सहस्रऽसातमः ॥utá ǀ naḥ ǀ bráhman ǀ aviṣaḥ ǀ ukthéṣu ǀ deva-hū́tamaḥ ǀ
śám ǀ naḥ ǀ śoca ǀ marút-vṛdhaḥ ǀ ágne ǀ sahasra-sā́tamaḥ ǁuta ǀ naḥ ǀ brahman ǀ aviṣaḥ ǀ uktheṣu ǀ deva-hūtamaḥ ǀ
śam ǀ naḥ ǀ śoca ǀ marut-vṛdhaḥ ǀ agne ǀ sahasra-sātamaḥ ǁ3.13.6 Aṣṭaka 3.1.13.6Anuvāka 3.2.6
-
Ṛk 7
नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।
द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितं ॥नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु |
द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ||nū́ no rāsva sahásravattokávatpuṣṭimádvásu ǀ
dyumádagne suvī́ryam várṣiṣṭhamánupakṣitam ǁnū no rāsva sahasravat tokavat puṣṭimad vasu |
dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam ||नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ ।
द्यु॒ऽमत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥नु । नः । रास्व । सहस्रऽवत् । तोकऽवत् । पुष्टिऽमत् । वसु ।
द्युऽमत् । अग्ने । सुऽवीर्यम् । वर्षिष्ठम् । अनुपऽक्षितम् ॥nú ǀ naḥ ǀ rāsva ǀ sahásra-vat ǀ toká-vat ǀ puṣṭi-mát ǀ vásu ǀ
dyu-mát ǀ agne ǀ su-vī́ryam ǀ várṣiṣṭham ǀ ánupa-kṣitam ǁnu ǀ naḥ ǀ rāsva ǀ sahasra-vat ǀ toka-vat ǀ puṣṭi-mat ǀ vasu ǀ
dyu-mat ǀ agne ǀ su-vīryam ǀ varṣiṣṭham ǀ anupa-kṣitam ǁ3.13.7 Aṣṭaka 3.1.13.7Anuvāka 3.2.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.