Ṛgveda · Maṇḍala 3

Sūkta 55

Viśvedevas, Uṣās · Viśvedevas, Agni · Viśvedevas, Ahorātrī · Viśvedevas, Rodasī · Viśvedevas, Rodasī Or Dyuniśa · Viśvedevas, Diśaḥ · Viśvedevas, Indra, Parjanyātmā, Tvaṣṭṛ · Prajāpati Vācya Or Prajāpati Vaiśvāmitra · 22 ṛks

Link
Devatā देवता
1: Viśvedevas, Uṣās; 2-10: Viśvedevas, Agni; 11: Viśvedevas, Ahorātrī; 12-14: Viśvedevas, Rodasī; 15: Viśvedevas, Rodasī Or Dyuniśa; 16: Viśvedevas, Diśaḥ; 17-22: Viśvedevas, Indra, Parjanyātmā, Tvaṣṭṛ
Ṛṣi ऋषि
Prajāpati Vācya Or Prajāpati Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 2, 6, 7, 9, 11, 12, 19, 22); triṣṭup (4, 8, 13, 16, 21); virāṭtrisṭup (14, 15, 18); svarāṭpaṅkti (5, 20); bhuriktriṣṭup (10, 17); bhurikpaṅkti (3)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।
    व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः |
    व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ||

    uṣásaḥ pū́rvā ádha yádvyūṣúrmahádví jajñe akṣáram padé góḥ ǀ
    vratā́ devā́nāmúpa nú prabhū́ṣanmaháddevā́nāmasuratvámékam ǁ

    uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ |
    vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam ||

    उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः ।
    व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    उषसः । पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः ।
    व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    uṣásaḥ ǀ pū́rvāḥ ǀ ádha ǀ yát ǀ vi-ūṣúḥ ǀ mahát ǀ ví ǀ jajñe ǀ akṣáram ǀ padé ǀ góḥ ǀ
    vratā́ ǀ devā́nām ǀ úpa ǀ nú ǀ pra-bhū́ṣan ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    uṣasaḥ ǀ pūrvāḥ ǀ adha ǀ yat ǀ vi-ūṣuḥ ǀ mahat ǀ vi ǀ jajñe ǀ akṣaram ǀ pade ǀ goḥ ǀ
    vratā ǀ devānām ǀ upa ǀ nu ǀ pra-bhūṣan ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.1 Aṣṭaka 3.3.28.1Anuvāka 3.5.23

  2. Ṛk 2

    मो षू णो॒ अत्र॑ जुहुरंत दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।
    पु॒रा॒ण्योः सद्म॑नोः के॒तुरं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः |
    पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ||

    mó ṣū́ ṇo átra juhuranta devā́ mā́ pū́rve agne pitáraḥ padajñā́ḥ ǀ
    purāṇyóḥ sádmanoḥ ketúrantármaháddevā́nāmasuratvámékam ǁ

    mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ |
    purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam ||

    मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः ।
    पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । पूर्वे । अग्ने । पितरः । पदऽज्ञाः ।
    पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    mó íti ǀ sú ǀ naḥ ǀ átra ǀ juhuranta ǀ devā́ḥ ǀ mā́ ǀ pū́rve ǀ agne ǀ pitáraḥ ǀ pada-jñā́ḥ ǀ
    purāṇyóḥ ǀ sádmanoḥ ǀ ketúḥ ǀ antáḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    mo iti ǀ su ǀ naḥ ǀ atra ǀ juhuranta ǀ devāḥ ǀ mā ǀ pūrve ǀ agne ǀ pitaraḥ ǀ pada-jñāḥ ǀ
    purāṇyoḥ ǀ sadmanoḥ ǀ ketuḥ ǀ antaḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.2 Aṣṭaka 3.3.28.2Anuvāka 3.5.24

  3. Ṛk 3

    वि मे॑ पुरु॒त्रा प॑तयंति॒ कामाः॒ शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।
    समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि |
    समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ||

    ví me purutrā́ patayanti kā́māḥ śámyácchā dīdye pūrvyā́ṇi ǀ
    sámiddhe agnā́vṛtámídvadema maháddevā́nāmasuratvámékam ǁ

    vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi |
    samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam ||

    वि । मे॒ । पु॒रु॒ऽत्रा । प॒त॒य॒न्ति॒ । कामाः॑ । शमि॑ । अच्छ॑ । दी॒द्ये॒ । पू॒र्व्याणि॑ ।
    सम्ऽइ॑द्धे । अ॒ग्नौ । ऋ॒तम् । इत् । व॒दे॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    वि । मे । पुरुऽत्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि ।
    सम्ऽइद्धे । अग्नौ । ऋतम् । इत् । वदेम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    ví ǀ me ǀ puru-trā́ ǀ patayanti ǀ kā́māḥ ǀ śámi ǀ áccha ǀ dīdye ǀ pūrvyā́ṇi ǀ
    sám-iddhe ǀ agnáu ǀ ṛtám ǀ ít ǀ vadema ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    vi ǀ me ǀ puru-trā ǀ patayanti ǀ kāmāḥ ǀ śami ǀ accha ǀ dīdye ǀ pūrvyāṇi ǀ
    sam-iddhe ǀ agnau ǀ ṛtam ǀ it ǀ vadema ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.3 Aṣṭaka 3.3.28.3Anuvāka 3.5.25

  4. Ṛk 4

    स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।
    अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु |
    अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ||

    samānó rā́jā víbhṛtaḥ purutrā́ śáye śayā́su práyuto vánā́nu ǀ
    anyā́ vatsám bhárati kṣéti mātā́ maháddevā́nāmasuratvámékam ǁ

    samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu |
    anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam ||

    स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ ।
    अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    समानः । राजा । विऽभृतः । पुरुऽत्रा । शये । शयासु । प्रऽयुतः । वना । अनु ।
    अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    samānáḥ ǀ rā́jā ǀ ví-bhṛtaḥ ǀ puru-trā́ ǀ śáye ǀ śayā́su ǀ prá-yutaḥ ǀ vánā ǀ ánu ǀ
    anyā́ ǀ vatsám ǀ bhárati ǀ kṣéti ǀ mātā́ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    samānaḥ ǀ rājā ǀ vi-bhṛtaḥ ǀ puru-trā ǀ śaye ǀ śayāsu ǀ pra-yutaḥ ǀ vanā ǀ anu ǀ
    anyā ǀ vatsam ǀ bharati ǀ kṣeti ǀ mātā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.4 Aṣṭaka 3.3.28.4Anuvāka 3.5.26

  5. Ṛk 5

    आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्वं॒तः ।
    अं॒तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः |
    अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ||

    ākṣítpū́rvāsváparā anūrútsadyó jātā́su táruṇīṣvantáḥ ǀ
    antárvatīḥ suvate ápravītā maháddevā́nāmasuratvámekam ǁ

    ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ |
    antarvatīḥ suvate apravītā mahad devānām asuratvam ekam ||

    आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ ।
    अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑ऽवीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    आऽक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति ।
    अन्तःऽवतीः । सुवते । अप्रऽवीताः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    ā-kṣít ǀ pū́rvāsu ǀ áparāḥ ǀ anūrút ǀ sadyáḥ ǀ jātā́su ǀ táruṇīṣu ǀ antáríti ǀ
    antáḥ-vatīḥ ǀ suvate ǀ ápra-vītāḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    ā-kṣit ǀ pūrvāsu ǀ aparāḥ ǀ anūrut ǀ sadyaḥ ǀ jātāsu ǀ taruṇīṣu ǀ antariti ǀ
    antaḥ-vatīḥ ǀ suvate ǀ apra-vītāḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.5 Aṣṭaka 3.3.28.5Anuvāka 3.5.27

  6. Ṛk 6

    श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताबं॑ध॒नश्च॑रति व॒त्स एकः॑ ।
    मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः |
    मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ||

    śayúḥ parástādádha nú dvimātā́bandhanáścarati vatsá ékaḥ ǀ
    mitrásya tā́ váruṇasya vratā́ni maháddevā́nāmasuratvámékam ǁ

    śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ |
    mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam ||

    श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्वि॒ऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ ।
    मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    शयुः । परस्तात् । अध । नु । द्विऽमाता । अबन्धनः । चरति । वत्सः । एकः ।
    मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    śayúḥ ǀ parástāt ǀ ádha ǀ nú ǀ dvi-mātā́ ǀ abandhanáḥ ǀ carati ǀ vatsáḥ ǀ ékaḥ ǀ
    mitrásya ǀ tā́ ǀ váruṇasya ǀ vratā́ni ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    śayuḥ ǀ parastāt ǀ adha ǀ nu ǀ dvi-mātā ǀ abandhanaḥ ǀ carati ǀ vatsaḥ ǀ ekaḥ ǀ
    mitrasya ǀ tā ǀ varuṇasya ǀ vratāni ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.6 Aṣṭaka 3.3.29.1Anuvāka 3.5.28

  7. Ṛk 7

    द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।
    प्र रण्या॑नि रण्य॒वाचो॑ भरंते म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    द्विमाता होता विदथेषु सम्राऌ अन्व् अग्रं चरति क्षेति बुध्नः |
    प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ||

    dvimātā́ hótā vidátheṣu samrā́ḷánvágram cárati kṣéti budhnáḥ ǀ
    prá ráṇyāni raṇyavā́co bharante maháddevā́nāmasuratvámékam ǁ

    dvimātā hotā vidatheṣu samrāḷ anv agraṃ carati kṣeti budhnaḥ |
    pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam ||

    द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः ।
    प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः ।
    प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    dvi-mātā́ ǀ hótā ǀ vidátheṣu ǀ sam-rā́ṭ ǀ ánu ǀ ágram ǀ cárati ǀ kṣéti ǀ budhnáḥ ǀ
    prá ǀ ráṇyāni ǀ raṇya-vā́caḥ ǀ bharante ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    dvi-mātā ǀ hotā ǀ vidatheṣu ǀ sam-rāṭ ǀ anu ǀ agram ǀ carati ǀ kṣeti ǀ budhnaḥ ǀ
    pra ǀ raṇyāni ǀ raṇya-vācaḥ ǀ bharante ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.7 Aṣṭaka 3.3.29.2Anuvāka 3.5.29

  8. Ṛk 8

    शूर॑स्येव॒ युध्य॑तो अंत॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।
    अं॒तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् |
    अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ||

    śū́rasyeva yúdhyato antamásya pratīcī́nam dadṛśe víśvamāyát ǀ
    antármatíścarati niṣṣídham górmaháddevā́nāmasuratvámekam ǁ

    śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat |
    antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam ||

    शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् ।
    अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् ।
    अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    śū́rasya-iva ǀ yúdhyataḥ ǀ antamásya ǀ pratīcī́nam ǀ dadṛśe ǀ víśvam ǀ ā-yát ǀ
    antáḥ ǀ matíḥ ǀ carati ǀ niḥ-sídham ǀ góḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    śūrasya-iva ǀ yudhyataḥ ǀ antamasya ǀ pratīcīnam ǀ dadṛśe ǀ viśvam ǀ ā-yat ǀ
    antaḥ ǀ matiḥ ǀ carati ǀ niḥ-sidham ǀ goḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.8 Aṣṭaka 3.3.29.3Anuvāka 3.5.30

  9. Ṛk 9

    नि वे॑वेति पलि॒तो दू॒त आ॑स्वं॒तर्म॒हांश्च॑रति रोच॒नेन॑ ।
    वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन |
    वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ||

    ní veveti palitó dūtá āsvantármahā́ṃścarati rocanéna ǀ
    vápūṃṣi bíbhradabhí no ví caṣṭe maháddevā́nāmasuratvámekam ǁ

    ni veveti palito dūta āsv antar mahāṃś carati rocanena |
    vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam ||

    नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन॑ ।
    वपूं॑षि । बिभ्र॑त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन ।
    वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    ní ǀ veveti ǀ palitáḥ ǀ dūtáḥ ǀ āsu ǀ antáḥ ǀ mahā́n ǀ carati ǀ rocanéna ǀ
    vápūṃṣi ǀ bíbhrat ǀ abhí ǀ naḥ ǀ ví ǀ caṣṭe ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    ni ǀ veveti ǀ palitaḥ ǀ dūtaḥ ǀ āsu ǀ antaḥ ǀ mahān ǀ carati ǀ rocanena ǀ
    vapūṃṣi ǀ bibhrat ǀ abhi ǀ naḥ ǀ vi ǀ caṣṭe ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.9 Aṣṭaka 3.3.29.4Anuvāka 3.5.31

  10. Ṛk 10

    विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।
    अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः |
    अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ||

    víṣṇurgopā́ḥ paramám pāti pā́thaḥ priyā́ dhā́mānyamṛ́tā dádhānaḥ ǀ
    agníṣṭā́ víśvā bhúvanāni veda maháddevā́nāmasuratvámekam ǁ

    viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ |
    agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam ||

    विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः ।
    अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः ।
    अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    víṣṇuḥ ǀ gopā́ḥ ǀ paramám ǀ pāti ǀ pā́thaḥ ǀ priyā́ ǀ dhā́māni ǀ amṛ́tā ǀ dádhānaḥ ǀ
    agníḥ ǀ tā́ ǀ víśvā ǀ bhúvanāni ǀ veda ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    viṣṇuḥ ǀ gopāḥ ǀ paramam ǀ pāti ǀ pāthaḥ ǀ priyā ǀ dhāmāni ǀ amṛtā ǀ dadhānaḥ ǀ
    agniḥ ǀ tā ǀ viśvā ǀ bhuvanāni ǀ veda ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.10 Aṣṭaka 3.3.29.5Anuvāka 3.5.32

  11. Ṛk 11

    नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।
    श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् |
    श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ||

    nā́nā cakrāte yamyā́ vápūṃṣi táyoranyádrócate kṛṣṇámanyát ǀ
    śyā́vī ca yádáruṣī ca svásārau maháddevā́nāmasuratvámékam ǁ

    nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat |
    śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam ||

    नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् ।
    श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् ।
    श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    nā́nā ǀ cakrāte íti ǀ yamyā́ ǀ vápūṃṣi ǀ táyoḥ ǀ anyát ǀ rócate ǀ kṛṣṇám ǀ anyát ǀ
    śyā́vī ǀ ca ǀ yát ǀ áruṣī ǀ ca ǀ svásārau ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    nānā ǀ cakrāte iti ǀ yamyā ǀ vapūṃṣi ǀ tayoḥ ǀ anyat ǀ rocate ǀ kṛṣṇam ǀ anyat ǀ
    śyāvī ǀ ca ǀ yat ǀ aruṣī ǀ ca ǀ svasārau ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.11 Aṣṭaka 3.3.30.1Anuvāka 3.5.33

  12. Ṛk 12

    मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।
    ऋ॒तस्य॒ ते सद॑सीळे अं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची |
    ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ||

    mātā́ ca yátra duhitā́ ca dhenū́ sabardúghe dhāpáyete samīcī́ ǀ
    ṛtásya té sádasīḷe antármaháddevā́nāmasuratvámékam ǁ

    mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī |
    ṛtasya te sadasīḷe antar mahad devānām asuratvam ekam ||

    मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।
    ऋ॒तस्य॑ । ते इति॑ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची ।
    ऋतस्य । ते इति । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    mātā́ ǀ ca ǀ yátra ǀ duhitā́ ǀ ca ǀ dhenū́ íti ǀ sabardúghe íti sabaḥ-dúghe ǀ dhāpáyete íti ǀ samīcī́ íti sam-īcī́ ǀ
    ṛtásya ǀ té íti ǀ sádasi ǀ īḷe ǀ antáḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    mātā ǀ ca ǀ yatra ǀ duhitā ǀ ca ǀ dhenū iti ǀ sabardughe iti sabaḥ-dughe ǀ dhāpayete iti ǀ samīcī iti sam-īcī ǀ
    ṛtasya ǀ te iti ǀ sadasi ǀ īḷe ǀ antaḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.12 Aṣṭaka 3.3.30.2Anuvāka 3.5.34

  13. Ṛk 13

    अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।
    ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः |
    ऋतस्य सा पयसापिन्वतेऌआ महद् देवानाम् असुरत्वम् एकम् ||

    anyásyā vatsám rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ ǀ
    ṛtásya sā́ páyasāpinvatéḷā maháddevā́nāmasuratvámékam ǁ

    anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ |
    ṛtasya sā payasāpinvateḷā mahad devānām asuratvam ekam ||

    अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ।
    ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ।
    ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    anyásyāḥ ǀ vatsám ǀ rihatī́ ǀ mimāya ǀ káyā ǀ bhuvā́ ǀ ní ǀ dadhe ǀ dhenúḥ ǀ ū́dhaḥ ǀ
    ṛtásya ǀ sā́ ǀ páyasā ǀ apinvata ǀ íḷā ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    anyasyāḥ ǀ vatsam ǀ rihatī ǀ mimāya ǀ kayā ǀ bhuvā ǀ ni ǀ dadhe ǀ dhenuḥ ǀ ūdhaḥ ǀ
    ṛtasya ǀ sā ǀ payasā ǀ apinvata ǀ iḷā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.13 Aṣṭaka 3.3.30.3Anuvāka 3.5.35

  14. Ṛk 14

    पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।
    ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा |
    ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ||

    pádyā vaste pururū́pā vápūṃṣyūrdhvā́ tasthau tryávim rérihāṇā ǀ
    ṛtásya sádma ví carāmi vidvā́nmaháddevā́nāmasuratvámékam ǁ

    padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā |
    ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam ||

    पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा ।
    ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    पद्या । वस्ते । पुरुऽरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिऽअविम् । रेरिहाणा ।
    ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    pádyā ǀ vaste ǀ puru-rū́pā ǀ vápūṃṣi ǀ ūrdhvā́ ǀ tasthau ǀ tri-ávim ǀ rérihāṇā ǀ
    ṛtásya ǀ sádma ǀ ví ǀ carāmi ǀ vidvā́n ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    padyā ǀ vaste ǀ puru-rūpā ǀ vapūṃṣi ǀ ūrdhvā ǀ tasthau ǀ tri-avim ǀ rerihāṇā ǀ
    ṛtasya ǀ sadma ǀ vi ǀ carāmi ǀ vidvān ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.14 Aṣṭaka 3.3.30.4Anuvāka 3.5.36

  15. Ṛk 15

    प॒दे इ॑व॒ निहि॑ते द॒स्मे अं॒तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।
    स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् |
    सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम् एकम् ||

    padé iva níhite dasmé antástáyoranyádgúhyamāvíranyát ǀ
    sadhrīcīnā́ pathyā́ sā́ víṣūcī maháddevā́nāmasuratvámékam ǁ

    pade iva nihite dasme antas tayor anyad guhyam āvir anyat |
    sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam ||

    प॒दे इ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् ।
    स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    पदे इवेति पदेऽइव । निहिते इति निऽहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् ।
    सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    padé ivéti padé-iva ǀ níhite íti ní-hite ǀ dasmé ǀ antáríti ǀ táyoḥ ǀ anyát ǀ gúhyam ǀ āvíḥ ǀ anyát ǀ
    sadhrīcīnā́ ǀ pathyā́ ǀ sā́ ǀ víṣūcī ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    pade iveti pade-iva ǀ nihite iti ni-hite ǀ dasme ǀ antariti ǀ tayoḥ ǀ anyat ǀ guhyam ǀ āviḥ ǀ anyat ǀ
    sadhrīcīnā ǀ pathyā ǀ sā ǀ viṣūcī ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.15 Aṣṭaka 3.3.30.5Anuvāka 3.5.37

  16. Ṛk 16

    आ धे॒नवो॑ धुनयंता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः ।
    नव्या॑नव्या युव॒तयो॒ भवं॑तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः |
    नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ||

    ā́ dhenávo dhunayantāmáśiśvīḥ sabardúghāḥ śaśayā́ ápradugdhāḥ ǀ
    návyānavyā yuvatáyo bhávantīrmaháddevā́nāmasuratvámékam ǁ

    ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ |
    navyā-navyā yuvatayo bhavantīr mahad devānām asuratvam ekam ||

    आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः ।
    नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःऽदुघाः । शशयाः । अप्रऽदुग्धाः ।
    नव्याःऽनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    ā́ ǀ dhenávaḥ ǀ dhunayantām ǀ áśiśvīḥ ǀ sabaḥ-dúghāḥ ǀ śaśayā́ḥ ǀ ápra-dugdhāḥ ǀ
    návyāḥ-navyāḥ ǀ yuvatáyaḥ ǀ bhávantīḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    ā ǀ dhenavaḥ ǀ dhunayantām ǀ aśiśvīḥ ǀ sabaḥ-dughāḥ ǀ śaśayāḥ ǀ apra-dugdhāḥ ǀ
    navyāḥ-navyāḥ ǀ yuvatayaḥ ǀ bhavantīḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.16 Aṣṭaka 3.3.31.1Anuvāka 3.5.38

  17. Ṛk 17

    यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।
    स हि क्षपा॑वा॒न्त्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः |
    स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ||

    yádanyā́su vṛṣabhó róravīti só anyásminyūthé ní dadhāti rétaḥ ǀ
    sá hí kṣápāvāntsá bhágaḥ sá rā́jā maháddevā́nāmasuratvámékam ǁ

    yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ |
    sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam ||

    यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ ।
    सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः ।
    सः । हि । क्षपाऽवान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    yát ǀ anyā́su ǀ vṛṣabháḥ ǀ róravīti ǀ sáḥ ǀ anyásmin ǀ yūthé ǀ ní ǀ dadhāti ǀ rétaḥ ǀ
    sáḥ ǀ hí ǀ kṣápā-vān ǀ sáḥ ǀ bhágaḥ ǀ sáḥ ǀ rā́jā ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    yat ǀ anyāsu ǀ vṛṣabhaḥ ǀ roravīti ǀ saḥ ǀ anyasmin ǀ yūthe ǀ ni ǀ dadhāti ǀ retaḥ ǀ
    saḥ ǀ hi ǀ kṣapā-vān ǀ saḥ ǀ bhagaḥ ǀ saḥ ǀ rājā ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.17 Aṣṭaka 3.3.31.2Anuvāka 3.5.39

  18. Ṛk 18

    वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।
    षो॒ळ्हा यु॒क्ताः पंच॑पं॒चा व॑हंति म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः |
    षोऌहा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ||

    vīrásya nú sváśvyam janāsaḥ prá nú vocāma vidúrasya devā́ḥ ǀ
    ṣoḷhā́ yuktā́ḥ páñcapañcā́ vahanti maháddevā́nāmasuratvámékam ǁ

    vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ |
    ṣoḷhā yuktāḥ pañca-pañcā vahanti mahad devānām asuratvam ekam ||

    वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः ।
    षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    वीरस्य । नु । सुऽअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः ।
    षोळ्हा । युक्ताः । पञ्चऽपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    vīrásya ǀ nú ǀ su-áśvyam ǀ janāsaḥ ǀ prá ǀ nú ǀ vocāma ǀ vidúḥ ǀ asya ǀ devā́ḥ ǀ
    ṣoḷhā́ ǀ yuktā́ḥ ǀ páñca-pañca ǀ ā́ ǀ vahanti ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    vīrasya ǀ nu ǀ su-aśvyam ǀ janāsaḥ ǀ pra ǀ nu ǀ vocāma ǀ viduḥ ǀ asya ǀ devāḥ ǀ
    ṣoḷhā ǀ yuktāḥ ǀ pañca-pañca ǀ ā ǀ vahanti ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.18 Aṣṭaka 3.3.31.3Anuvāka 3.5.40

  19. Ṛk 19

    दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।
    इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान |
    इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ||

    devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna ǀ
    imā́ ca víśvā bhúvanānyasya maháddevā́nāmasuratvámékam ǁ

    devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna |
    imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam ||

    दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ ।
    इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    देवः । त्वष्टा । सविता । विश्वऽरूपः । पुपोष । प्रऽजाः । पुरुधा । जजान ।
    इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    deváḥ ǀ tváṣṭā ǀ savitā́ ǀ viśvá-rūpaḥ ǀ pupóṣa ǀ pra-jā́ḥ ǀ purudhā́ ǀ jajāna ǀ
    imā́ ǀ ca ǀ víśvā ǀ bhúvanāni ǀ asya ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    devaḥ ǀ tvaṣṭā ǀ savitā ǀ viśva-rūpaḥ ǀ pupoṣa ǀ pra-jāḥ ǀ purudhā ǀ jajāna ǀ
    imā ǀ ca ǀ viśvā ǀ bhuvanāni ǀ asya ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.19 Aṣṭaka 3.3.31.4Anuvāka 3.5.41

  20. Ṛk 20

    म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।
    शृ॒ण्वे वी॒रो विं॒दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे |
    शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ||

    mahī́ sámairaccamvā́ samīcī́ ubhé té asya vásunā nyṛ́ṣṭe ǀ
    śṛṇvé vīró vindámāno vásūni maháddevā́nāmasuratvámékam ǁ

    mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe |
    śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam ||

    म॒ही इति॑ । सम् । ऐ॒र॒त् । च॒म्वा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । उ॒भे इति॑ । ते इति॑ । अ॒स्य॒ । वसु॑ना । न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे ।
    शृ॒ण्वे । वी॒रः । वि॒न्दमा॑नः । वसू॑नि । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    मही इति । सम् । ऐरत् । चम्वा । समीची इति सम्ऽईची । उभे इति । ते इति । अस्य । वसुना । न्यृष्टे इति निऽऋष्टे ।
    शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    mahī́ íti ǀ sám ǀ airat ǀ camvā́ ǀ samīcī́ íti sam-īcī́ ǀ ubhé íti ǀ té íti ǀ asya ǀ vásunā ǀ nyṛ́ṣṭe íti ní-ṛṣṭe ǀ
    śṛṇvé ǀ vīráḥ ǀ vindámānaḥ ǀ vásūni ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    mahī iti ǀ sam ǀ airat ǀ camvā ǀ samīcī iti sam-īcī ǀ ubhe iti ǀ te iti ǀ asya ǀ vasunā ǀ nyṛṣṭe iti ni-ṛṣṭe ǀ
    śṛṇve ǀ vīraḥ ǀ vindamānaḥ ǀ vasūni ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.20 Aṣṭaka 3.3.31.5Anuvāka 3.5.42

  21. Ṛk 21

    इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।
    पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा |
    पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ||

    imā́m ca naḥ pṛthivī́m viśvádhāyā úpa kṣeti hitámitro ná rā́jā ǀ
    puraḥsádaḥ śarmasádo ná vīrā́ maháddevā́nāmasuratvámékam ǁ

    imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā |
    puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam ||

    इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ ।
    पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    इमाम् । च । नः । पृथिवीम् । विश्वऽधायाः । उप । क्षेति । हितऽमित्रः । न । राजा ।
    पुरःऽसदः । शर्मऽसदः । न । वीराः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    imā́m ǀ ca ǀ naḥ ǀ pṛthivī́m ǀ viśvá-dhāyāḥ ǀ úpa ǀ kṣeti ǀ hitá-mitraḥ ǀ ná ǀ rā́jā ǀ
    puraḥ-sádaḥ ǀ śarma-sádaḥ ǀ ná ǀ vīrā́ḥ ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    imām ǀ ca ǀ naḥ ǀ pṛthivīm ǀ viśva-dhāyāḥ ǀ upa ǀ kṣeti ǀ hita-mitraḥ ǀ na ǀ rājā ǀ
    puraḥ-sadaḥ ǀ śarma-sadaḥ ǀ na ǀ vīrāḥ ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.21 Aṣṭaka 3.3.31.6Anuvāka 3.5.43

  22. Ṛk 22

    नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इंद्र पृथि॒वी बि॑भर्ति ।
    सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

    निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति |
    सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ||

    niṣṣídhvarīsta óṣadhīrutā́po rayím ta indra pṛthivī́ bibharti ǀ
    sákhāyaste vāmabhā́jaḥ syāma maháddevā́nāmasuratvámékam ǁ

    niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti |
    sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam ||

    निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
    सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

    निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।
    सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

    niḥ-sídhvarīḥ ǀ te ǀ óṣadhīḥ ǀ utá ǀ ā́paḥ ǀ rayím ǀ te ǀ indra ǀ pṛthivī́ ǀ bibharti ǀ
    sákhāyaḥ ǀ te ǀ vāma-bhā́jaḥ ǀ syāma ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

    niḥ-sidhvarīḥ ǀ te ǀ oṣadhīḥ ǀ uta ǀ āpaḥ ǀ rayim ǀ te ǀ indra ǀ pṛthivī ǀ bibharti ǀ
    sakhāyaḥ ǀ te ǀ vāma-bhājaḥ ǀ syāma ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

    3.55.22 Aṣṭaka 3.3.31.7Anuvāka 3.5.44

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.55 · Viśvedevas, Uṣās · Viśvedevas, Agni · Viśvedevas, Ahorātrī · Viśvedevas, Rodasī · Viśvedevas, Rodasī Or Dyuniśa · Viśvedevas, Diśaḥ · Viśvedevas, Indra, Parjanyātmā, Tvaṣṭṛ

Interpretations

Ralph T. H. Griffith

Ṛk 1

AT the first shining of the earliest Mornings, in the Cow's home was born the Great Eternal. Now shall the statutes of the Gods be valid. Great is the Gods’ supreme and sole dominion -

Ṛk 2

Let not the Gods here injure us, O Agni, nor Fathers of old time who know the region, Nor the sign set between two ancient dwellings. Great is the Gods’ supreme and sole dominion.

Ṛk 3

My wishes fly abroad to many places: I glance back to the ancient sacrifices. Let us declare the truth when fire is kindled. Great is the Gods’ supreme and sole dominion.

Ṛk 4

King Universal, born to sundry quarters, extended through the wood be lies on couches. One Mother rests: another feeds the Infant. Great is the Gods’ supreme and sole dominion.

Ṛk 5

Lodged in old plants, he grows again in younger, swiftly within the newly-born and tender. Though they are unimpregned, he makes them fruitful. Great is the Gods’ supreme and sole dominion.

Ṛk 6

Now lying far away, Child of two Mothers, he wanders unrestrained, the single youngling. These are the laws of Varuṇa and Mitra. Great is the Gods’ supreme and sole dominion.

Ṛk 7

Child of two Mothers, Priest, sole Lord in synods, he still precedes while resting as foundation. They who speak sweetly bring him sweet addresses. Great is the Gods’ supreme and sole dominion.

Ṛk 8

As to a friendly warrior when he battles, each thing that comes anear is seen to meet him. The hymn commingles with the cow's oblation. Great is the Gods’ supreme and sole dominion.

Ṛk 9

Deep within these the hoary envoy pierceth; mighty, he goeth to the realm of splendour, And looketh on us, clad in wondrous beauty. Great is the Gods’ supreme and sole dominion.

Ṛk 10

Viṣṇu, the guardian, keeps the loftiest station, upholding dear, immortal dwelling-places. Agni knows well all these created beings. Great is the Gods’ supreme and sole dominion.

Ṛk 11

Ye, variant Pair, have made yourselves twin beauties: one of the Twain is dark, bright shines the other; And yet these two, the dark, the red, are Sisters. Great is the Gods’ supreme and sole dominion.

Ṛk 12

Where the two Cows, the Mother and the Daughter, meet and give suck yielding their lordly nectar, I praise them at the seat of law eternal. Great is the Gods’ supreme and sole dominion.

Ṛk 13

Loud hath she lowed, licking the other's youngling. On what world hath the Milch-cow laid her udder? This Iḷā streameth with the milk of Order. Great is the Gods’ supreme and sole dominion.

Ṛk 14

Earth weareth beauties manifold: uplifted, licking her Calf of eighteen months, she standeth. Well-skilled I seek the seat of law eternal. Great is the Gods’ supreme and sole dominion.

Ṛk 15

Within a wondrous place the Twain are treasured: the one is manifest, the other hidden. One common pathway leads in two directions. Great is the Gods’ supreme and sole dominion.

Ṛk 16

Let the milch-kine that have no calves storm downward, yielding rich nectar, streaming, unexhausted, These who are ever new and fresh and youthful. Great is the Gods’ supreme and sole dominion.

Ṛk 17

What time the Bull bellows in other regions, another herd receives the genial moisture; For he is Bhaga, King, the earth's Protector. Great is the Gods’ supreme and sole dominion.

Ṛk 18

Let us declare the Hero's wealth in horses, O all ye folk: of this the Gods have knowledge. Sixfold they bear him, or by fives are harnessed. Great is the Gods’ supreme and sole dominion.

Ṛk 19

Tvaṣṭar the God, the omniform. Creator, begets and feeds mankind in various manner. His, verily, arc all these living creatures. Great is the Gods’ supreme dominion.

Ṛk 20

The two great meeting Bowls hath he united: each of the Pair is laden with histreasure. The Hero is renowned for gathering riches. Great is the Gods’ supreme and sole dominion.

Ṛk 21

Yea, and on this our earth the All-Sustainer dwells like a King with noble friends about him. In his protection heroes rest in safety. Great is the Cods' supreme and sole dominion.