Ṛgveda · Maṇḍala 3

Sūkta 3

Agni Vaiśvānara · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Agni Vaiśvānara
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles jagatī (2-4, 6, 8, 9); nicṛjjagatī (1, 5); virāḍjagatī (7, 10); bhurikpaṅkti (11)

2nd set of styles jagatī

  1. Ṛk 1

    वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधंत ध॒रुणे॑षु॒ गात॑वे ।
    अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥

    वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे |
    अग्निर् हि देवां अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ||

    vaiśvānarā́ya pṛthupā́jase vípo rátnā vidhanta dharúṇeṣu gā́tave ǀ
    agnírhí devā́m̐ amṛ́to duvasyátyáthā dhármāṇi sanátā ná dūduṣat ǁ

    vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave |
    agnir hi devāṃ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat ||

    वै॒श्वा॒न॒राय॑ । पृ॒थु॒ऽपाज॑से । विपः॑ । रत्ना॑ । वि॒ध॒न्त॒ । ध॒रुणे॑षु । गात॑वे ।
    अ॒ग्निः । हि । दे॒वान् । अ॒मृतः॑ । दु॒व॒स्यति॑ । अथ॑ । धर्मा॑णि । स॒नता॑ । न । दू॒दु॒ष॒त् ॥

    वैश्वानराय । पृथुऽपाजसे । विपः । रत्ना । विधन्त । धरुणेषु । गातवे ।
    अग्निः । हि । देवान् । अमृतः । दुवस्यति । अथ । धर्माणि । सनता । न । दूदुषत् ॥

    vaiśvānarā́ya ǀ pṛthu-pā́jase ǀ vípaḥ ǀ rátnā ǀ vidhanta ǀ dharúṇeṣu ǀ gā́tave ǀ
    agníḥ ǀ hí ǀ devā́n ǀ amṛ́taḥ ǀ duvasyáti ǀ átha ǀ dhármāṇi ǀ sanátā ǀ ná ǀ dūduṣat ǁ

    vaiśvānarāya ǀ pṛthu-pājase ǀ vipaḥ ǀ ratnā ǀ vidhanta ǀ dharuṇeṣu ǀ gātave ǀ
    agniḥ ǀ hi ǀ devān ǀ amṛtaḥ ǀ duvasyati ǀ atha ǀ dharmāṇi ǀ sanatā ǀ na ǀ dūduṣat ǁ

    3.3.1 Aṣṭaka 2.8.20.1Anuvāka 3.1.39

  2. Ṛk 2

    अं॒तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः ।
    क्षयं॑ बृ॒हंतं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥

    अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः |
    क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ||

    antárdūtó ródasī dasmá īyate hótā níṣatto mánuṣaḥ puróhitaḥ ǀ
    kṣáyam bṛhántam pári bhūṣati dyúbhirdevébhiragníriṣitó dhiyā́vasuḥ ǁ

    antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
    kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ ||

    अ॒न्तः । दू॒तः । रोद॑सी॒ इति॑ । द॒स्मः । ई॒य॒ते॒ । होता॑ । निऽस॑त्तः । मनु॑षः । पु॒रःऽहि॑तः ।
    क्षय॑म् । बृ॒हन्त॑म् । परि॑ । भू॒ष॒ति॒ । द्युऽभिः॑ । दे॒वेभिः॑ । अ॒ग्निः । इ॒षि॒तः । धि॒याऽव॑सुः ॥

    अन्तः । दूतः । रोदसी इति । दस्मः । ईयते । होता । निऽसत्तः । मनुषः । पुरःऽहितः ।
    क्षयम् । बृहन्तम् । परि । भूषति । द्युऽभिः । देवेभिः । अग्निः । इषितः । धियाऽवसुः ॥

    antáḥ ǀ dūtáḥ ǀ ródasī íti ǀ dasmáḥ ǀ īyate ǀ hótā ǀ ní-sattaḥ ǀ mánuṣaḥ ǀ puráḥ-hitaḥ ǀ
    kṣáyam ǀ bṛhántam ǀ pári ǀ bhūṣati ǀ dyú-bhiḥ ǀ devébhiḥ ǀ agníḥ ǀ iṣitáḥ ǀ dhiyā́-vasuḥ ǁ

    antaḥ ǀ dūtaḥ ǀ rodasī iti ǀ dasmaḥ ǀ īyate ǀ hotā ǀ ni-sattaḥ ǀ manuṣaḥ ǀ puraḥ-hitaḥ ǀ
    kṣayam ǀ bṛhantam ǀ pari ǀ bhūṣati ǀ dyu-bhiḥ ǀ devebhiḥ ǀ agniḥ ǀ iṣitaḥ ǀ dhiyā-vasuḥ ǁ

    3.3.2 Aṣṭaka 2.8.20.2Anuvāka 3.1.40

  3. Ṛk 3

    के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयंत॒ चित्ति॑भिः ।
    अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥

    केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः |
    अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ||

    ketúm yajñā́nām vidáthasya sā́dhanam víprāso agním mahayanta cíttibhiḥ ǀ
    ápāṃsi yásminnádhi saṃdadhúrgírastásmintsumnā́ni yájamāna ā́ cake ǁ

    ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ |
    apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake ||

    के॒तुम् । य॒ज्ञाना॑म् । वि॒दथ॑स्य । साध॑नम् । विप्रा॑सः । अ॒ग्निम् । म॒ह॒य॒न्त॒ । चित्ति॑ऽभिः ।
    अपां॑सि । यस्मि॑न् । अधि॑ । स॒म्ऽद॒धुः । गिरः॑ । तस्मि॑न् । सु॒म्नानि॑ । यज॑मानः । आ । च॒के॒ ॥

    केतुम् । यज्ञानाम् । विदथस्य । साधनम् । विप्रासः । अग्निम् । महयन्त । चित्तिऽभिः ।
    अपांसि । यस्मिन् । अधि । सम्ऽदधुः । गिरः । तस्मिन् । सुम्नानि । यजमानः । आ । चके ॥

    ketúm ǀ yajñā́nām ǀ vidáthasya ǀ sā́dhanam ǀ víprāsaḥ ǀ agním ǀ mahayanta ǀ cítti-bhiḥ ǀ
    ápāṃsi ǀ yásmin ǀ ádhi ǀ sam-dadhúḥ ǀ gíraḥ ǀ tásmin ǀ sumnā́ni ǀ yájamānaḥ ǀ ā́ ǀ cake ǁ

    ketum ǀ yajñānām ǀ vidathasya ǀ sādhanam ǀ viprāsaḥ ǀ agnim ǀ mahayanta ǀ citti-bhiḥ ǀ
    apāṃsi ǀ yasmin ǀ adhi ǀ sam-dadhuḥ ǀ giraḥ ǀ tasmin ǀ sumnāni ǀ yajamānaḥ ǀ ā ǀ cake ǁ

    3.3.3 Aṣṭaka 2.8.20.3Anuvāka 3.1.41

  4. Ṛk 4

    पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घतां॑ ।
    आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भं॑दते॒ धाम॑भिः क॒विः ॥

    पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् |
    आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ||

    pitā́ yajñā́nāmásuro vipaścítām vimā́namagnírvayúnam ca vāghátām ǀ
    ā́ viveśa ródasī bhū́rivarpasā purupriyó bhandate dhā́mabhiḥ kavíḥ ǁ

    pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām |
    ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||

    पि॒ता । य॒ज्ञाना॑म् । असु॑रः । वि॒पः॒ऽचिता॑म् । वि॒ऽमान॑म् । अ॒ग्निः । व॒युन॑म् । च॒ । वा॒घता॑म् ।
    आ । वि॒वे॒श॒ । रोद॑सी॒ इति॑ । भूरि॑ऽवर्पसा । पु॒रु॒ऽप्रि॒यः । भ॒न्द॒ते॒ । धाम॑ऽभिः । क॒विः ॥

    पिता । यज्ञानाम् । असुरः । विपःऽचिताम् । विऽमानम् । अग्निः । वयुनम् । च । वाघताम् ।
    आ । विवेश । रोदसी इति । भूरिऽवर्पसा । पुरुऽप्रियः । भन्दते । धामऽभिः । कविः ॥

    pitā́ ǀ yajñā́nām ǀ ásuraḥ ǀ vipaḥ-cítām ǀ vi-mā́nam ǀ agníḥ ǀ vayúnam ǀ ca ǀ vāghátām ǀ
    ā́ ǀ viveśa ǀ ródasī íti ǀ bhū́ri-varpasā ǀ puru-priyáḥ ǀ bhandate ǀ dhā́ma-bhiḥ ǀ kavíḥ ǁ

    pitā ǀ yajñānām ǀ asuraḥ ǀ vipaḥ-citām ǀ vi-mānam ǀ agniḥ ǀ vayunam ǀ ca ǀ vāghatām ǀ
    ā ǀ viveśa ǀ rodasī iti ǀ bhūri-varpasā ǀ puru-priyaḥ ǀ bhandate ǀ dhāma-bhiḥ ǀ kaviḥ ǁ

    3.3.4 Aṣṭaka 2.8.20.4Anuvāka 3.1.42

  5. Ṛk 5

    चं॒द्रम॒ग्निं चं॒द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विदं॑ ।
    वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥

    चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् |
    विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ||

    candrámagním candráratham hárivratam vaiśvānarámapsuṣádam svarvídam ǀ
    vigāhám tū́rṇim táviṣībhirā́vṛtam bhū́rṇim devā́sa ihá suśríyam dadhuḥ ǁ

    candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam |
    vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ ||

    च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् ।
    वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥

    चन्द्रम् । अग्निम् । चन्द्रऽरथम् । हरिऽव्रतम् । वैश्वानरम् । अप्सुऽसदम् । स्वःऽविदम् ।
    विऽगाहम् । तूर्णिम् । तविषीभिः । आऽवृतम् । भूर्णिम् । देवासः । इह । सुऽश्रियम् । दधुः ॥

    candrám ǀ agním ǀ candrá-ratham ǀ hári-vratam ǀ vaiśvānarám ǀ apsu-sádam ǀ svaḥ-vídam ǀ
    vi-gāhám ǀ tū́rṇim ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ bhū́rṇim ǀ devā́saḥ ǀ ihá ǀ su-śríyam ǀ dadhuḥ ǁ

    candram ǀ agnim ǀ candra-ratham ǀ hari-vratam ǀ vaiśvānaram ǀ apsu-sadam ǀ svaḥ-vidam ǀ
    vi-gāham ǀ tūrṇim ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ bhūrṇim ǀ devāsaḥ ǀ iha ǀ su-śriyam ǀ dadhuḥ ǁ

    3.3.5 Aṣṭaka 2.8.20.5Anuvāka 3.1.43

  6. Ṛk 6

    अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च जं॒तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या ।
    र॒थीरं॒तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥

    अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया |
    रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ||

    agnírdevébhirmánuṣaśca jantúbhistanvānó yajñám purupéśasam dhiyā́ ǀ
    rathī́rantárīyate sā́dhadiṣṭibhirjīró dámūnā abhiśasticā́tanaḥ ǁ

    agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā |
    rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ ||

    अ॒ग्निः । दे॒वेभिः॑ । मनु॑षः । च॒ । ज॒न्तुऽभिः॑ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒ऽपेश॑सम् । धि॒या ।
    र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध॑दिष्टिऽभिः । जी॒रः । दमू॑नाः । अ॒भि॒श॒स्ति॒ऽचात॑नः ॥

    अग्निः । देवेभिः । मनुषः । च । जन्तुऽभिः । तन्वानः । यज्ञम् । पुरुऽपेशसम् । धिया ।
    रथीः । अन्तः । ईयते । साधदिष्टिऽभिः । जीरः । दमूनाः । अभिशस्तिऽचातनः ॥

    agníḥ ǀ devébhiḥ ǀ mánuṣaḥ ǀ ca ǀ jantú-bhiḥ ǀ tanvānáḥ ǀ yajñám ǀ puru-péśasam ǀ dhiyā́ ǀ
    rathī́ḥ ǀ antáḥ ǀ īyate ǀ sā́dhadiṣṭi-bhiḥ ǀ jīráḥ ǀ dámūnāḥ ǀ abhiśasti-cā́tanaḥ ǁ

    agniḥ ǀ devebhiḥ ǀ manuṣaḥ ǀ ca ǀ jantu-bhiḥ ǀ tanvānaḥ ǀ yajñam ǀ puru-peśasam ǀ dhiyā ǀ
    rathīḥ ǀ antaḥ ǀ īyate ǀ sādhadiṣṭi-bhiḥ ǀ jīraḥ ǀ damūnāḥ ǀ abhiśasti-cātanaḥ ǁ

    3.3.6 Aṣṭaka 2.8.21.1Anuvāka 3.1.44

  7. Ṛk 7

    अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः ।
    वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पां ॥

    अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः |
    वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ||

    ágne járasva svapatyá ā́yunyūrjā́ pinvasva sámíṣo didīhi naḥ ǀ
    váyāṃsi jinva bṛhatáśca jāgṛva uśígdevā́nāmási sukráturvipā́m ǁ

    agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ |
    vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām ||

    अग्ने॑ । जर॑स्व । सु॒ऽअ॒प॒त्ये । आयु॑नि । ऊ॒र्जा । पि॒न्व॒स्व॒ । सम् । इषः॑ । दि॒दी॒हि॒ । नः॒ ।
    वयां॑सि । जि॒न्व॒ । बृ॒ह॒तः । च॒ । जा॒गृ॒वे॒ । उ॒शिक् । दे॒वाना॑म् । असि॑ । सु॒ऽक्रतुः॑ । वि॒पाम् ॥

    अग्ने । जरस्व । सुऽअपत्ये । आयुनि । ऊर्जा । पिन्वस्व । सम् । इषः । दिदीहि । नः ।
    वयांसि । जिन्व । बृहतः । च । जागृवे । उशिक् । देवानाम् । असि । सुऽक्रतुः । विपाम् ॥

    ágne ǀ járasva ǀ su-apatyé ǀ ā́yuni ǀ ūrjā́ ǀ pinvasva ǀ sám ǀ íṣaḥ ǀ didīhi ǀ naḥ ǀ
    váyāṃsi ǀ jinva ǀ bṛhatáḥ ǀ ca ǀ jāgṛve ǀ uśík ǀ devā́nām ǀ ási ǀ su-krátuḥ ǀ vipā́m ǁ

    agne ǀ jarasva ǀ su-apatye ǀ āyuni ǀ ūrjā ǀ pinvasva ǀ sam ǀ iṣaḥ ǀ didīhi ǀ naḥ ǀ
    vayāṃsi ǀ jinva ǀ bṛhataḥ ǀ ca ǀ jāgṛve ǀ uśik ǀ devānām ǀ asi ǀ su-kratuḥ ǀ vipām ǁ

    3.3.7 Aṣṭaka 2.8.21.2Anuvāka 3.1.45

  8. Ṛk 8

    वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ यं॒तारं॑ धी॒नामु॒शिजं॑ च वा॒घतां॑ ।
    अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑संति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥

    विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् |
    अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ||

    viśpátim yahvámátithim náraḥ sádā yantā́ram dhīnā́muśíjam ca vāghátām ǀ
    adhvarā́ṇām cétanam jātávedasam prá śaṃsanti námasā jūtíbhirvṛdhé ǁ

    viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām |
    adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe ||

    वि॒श्पति॑म् । य॒ह्वम् । अति॑थिम् । नरः॑ । सदा॑ । य॒न्तार॑म् । धी॒नाम् । उ॒शिज॑म् । च॒ । वा॒घता॑म् ।
    अ॒ध्व॒राणा॑म् । चेत॑नम् । जा॒तऽवे॑दसम् । प्र । शं॒स॒न्ति॒ । नम॑सा । जू॒तिऽभिः॑ । वृ॒धे ॥

    विश्पतिम् । यह्वम् । अतिथिम् । नरः । सदा । यन्तारम् । धीनाम् । उशिजम् । च । वाघताम् ।
    अध्वराणाम् । चेतनम् । जातऽवेदसम् । प्र । शंसन्ति । नमसा । जूतिऽभिः । वृधे ॥

    viśpátim ǀ yahvám ǀ átithim ǀ náraḥ ǀ sádā ǀ yantā́ram ǀ dhīnā́m ǀ uśíjam ǀ ca ǀ vāghátām ǀ
    adhvarā́ṇām ǀ cétanam ǀ jātá-vedasam ǀ prá ǀ śaṃsanti ǀ námasā ǀ jūtí-bhiḥ ǀ vṛdhé ǁ

    viśpatim ǀ yahvam ǀ atithim ǀ naraḥ ǀ sadā ǀ yantāram ǀ dhīnām ǀ uśijam ǀ ca ǀ vāghatām ǀ
    adhvarāṇām ǀ cetanam ǀ jāta-vedasam ǀ pra ǀ śaṃsanti ǀ namasā ǀ jūti-bhiḥ ǀ vṛdhe ǁ

    3.3.8 Aṣṭaka 2.8.21.3Anuvāka 3.1.46

  9. Ṛk 9

    वि॒भावा॑ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः ।
    तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥

    विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः |
    तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ||

    vibhā́vā deváḥ suráṇaḥ pári kṣitī́ragnírbabhūva śávasā sumádrathaḥ ǀ
    tásya vratā́ni bhūripoṣíṇo vayámúpa bhūṣema dáma ā́ suvṛktíbhiḥ ǁ

    vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ |
    tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ ||

    वि॒भाऽवा॑ । दे॒वः । सु॒ऽरणः॑ । परि॑ । क्षि॒तीः । अ॒ग्निः । ब॒भू॒व॒ । शव॑सा । सु॒मत्ऽर॑थः ।
    तस्य॑ । व्र॒तानि॑ । भू॒रि॒ऽपो॒षिणः॑ । व॒यम् । उप॑ । भू॒षे॒म॒ । दमे॑ । आ । सु॒वृ॒क्तिऽभिः॑ ॥

    विभाऽवा । देवः । सुऽरणः । परि । क्षितीः । अग्निः । बभूव । शवसा । सुमत्ऽरथः ।
    तस्य । व्रतानि । भूरिऽपोषिणः । वयम् । उप । भूषेम । दमे । आ । सुवृक्तिऽभिः ॥

    vibhā́-vā ǀ deváḥ ǀ su-ráṇaḥ ǀ pári ǀ kṣitī́ḥ ǀ agníḥ ǀ babhūva ǀ śávasā ǀ sumát-rathaḥ ǀ
    tásya ǀ vratā́ni ǀ bhūri-poṣíṇaḥ ǀ vayám ǀ úpa ǀ bhūṣema ǀ dáme ǀ ā́ ǀ suvṛktí-bhiḥ ǁ

    vibhā-vā ǀ devaḥ ǀ su-raṇaḥ ǀ pari ǀ kṣitīḥ ǀ agniḥ ǀ babhūva ǀ śavasā ǀ sumat-rathaḥ ǀ
    tasya ǀ vratāni ǀ bhūri-poṣiṇaḥ ǀ vayam ǀ upa ǀ bhūṣema ǀ dame ǀ ā ǀ suvṛkti-bhiḥ ǁ

    3.3.9 Aṣṭaka 2.8.21.4Anuvāka 3.1.47

  10. Ṛk 10

    वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण ।
    जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥

    वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण |
    जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ||

    váiśvānara táva dhā́mānyā́ cake yébhiḥ svarvídábhavo vicakṣaṇa ǀ
    jātá ā́pṛṇo bhúvanāni ródasī ágne tā́ víśvā paribhū́rasi tmánā ǁ

    vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa |
    jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā ||

    वैश्वा॑नर । तव॑ । धामा॑नि । आ । च॒क्रे॒ । येभिः॑ । स्वः॒ऽवित् । अभ॑वः । वि॒ऽच॒क्ष॒ण॒ ।
    जा॒तः । आ । अ॒पृ॒णः॒ । भुव॑नानि । रोद॑सी॒ इति॑ । अग्ने॑ । ता । विश्वा॑ । प॒रि॒ऽभूः । अ॒सि॒ । त्मना॑ ॥

    वैश्वानर । तव । धामानि । आ । चक्रे । येभिः । स्वःऽवित् । अभवः । विऽचक्षण ।
    जातः । आ । अपृणः । भुवनानि । रोदसी इति । अग्ने । ता । विश्वा । परिऽभूः । असि । त्मना ॥

    váiśvānara ǀ táva ǀ dhā́māni ǀ ā́ ǀ cakre ǀ yébhiḥ ǀ svaḥ-vít ǀ ábhavaḥ ǀ vi-cakṣaṇa ǀ
    jātáḥ ǀ ā́ ǀ apṛṇaḥ ǀ bhúvanāni ǀ ródasī íti ǀ ágne ǀ tā́ ǀ víśvā ǀ pari-bhū́ḥ ǀ asi ǀ tmánā ǁ

    vaiśvānara ǀ tava ǀ dhāmāni ǀ ā ǀ cakre ǀ yebhiḥ ǀ svaḥ-vit ǀ abhavaḥ ǀ vi-cakṣaṇa ǀ
    jātaḥ ǀ ā ǀ apṛṇaḥ ǀ bhuvanāni ǀ rodasī iti ǀ agne ǀ tā ǀ viśvā ǀ pari-bhūḥ ǀ asi ǀ tmanā ǁ

    3.3.10 Aṣṭaka 2.8.21.5Anuvāka 3.1.48

  11. Ṛk 11

    वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः ।
    उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥

    वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः |
    उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ||

    vaiśvānarásya daṃsánābhyo bṛhádáriṇādékaḥ svapasyáyā kavíḥ ǀ
    ubhā́ pitárā maháyannajāyatāgnírdyā́vāpṛthivī́ bhū́riretasā ǁ

    vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ |
    ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā ||

    वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः ।
    उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥

    वैश्वानरस्य । दंसनाभ्यः । बृहत् । अरिणात् । एकः । सुऽअपस्यया । कविः ।
    उभा । पितरा । महयन् । अजायत । अग्निः । द्यावापृथिवी इति । भूरिऽरेतसा ॥

    vaiśvānarásya ǀ daṃsánābhyaḥ ǀ bṛhát ǀ áriṇāt ǀ ékaḥ ǀ su-apasyáyā ǀ kavíḥ ǀ
    ubhā́ ǀ pitárā ǀ maháyan ǀ ajāyata ǀ agníḥ ǀ dyā́vāpṛthivī́ íti ǀ bhū́ri-retasā ǁ

    vaiśvānarasya ǀ daṃsanābhyaḥ ǀ bṛhat ǀ ariṇāt ǀ ekaḥ ǀ su-apasyayā ǀ kaviḥ ǀ
    ubhā ǀ pitarā ǀ mahayan ǀ ajāyata ǀ agniḥ ǀ dyāvāpṛthivī iti ǀ bhūri-retasā ǁ

    3.3.11 Aṣṭaka 2.8.21.6Anuvāka 3.1.49

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.3 · Agni Vaiśvānara

Interpretations

Sri Aurobindo

Ṛk 1

For the universal godhead, wide in his might, his illuminations11 create the ecstasies to make a path on the foundations of things: because the immortal Fire sets the gods to their work none can corrupt the eternal Laws. (16 HTMF 165)

Ṛk 2

He travels as the Messenger between earth and heaven, the doer of works, man’s priest of the call, seated within him, the vicar set in his front; with his light he envelops the Vast Home, the Fire missioned by the gods, rich with the Thought. (16 HTMF 165)

Ṛk 3

Ray of intuition of their sacrifices, effective means of the finding of knowledge, the illumined seers greatened the Fire by their awakenings to Wisdom; the Fire in whom his words have built into a harmony his works, in him the doer of sacrifice desires the things of his happiness. (16 HTMF 165)

Ṛk 4

The Fire is the father of sacrifice, the Mighty Lord of the wise, he is the measure and the manifestation of knowledge for the priests of the word: he enters into earth and heaven with his manifold shape, many delightful things are in him, he is the seer who has gladness of all the planes. (16 HTMF 166)

Ṛk 5

The gods have set in this world in his beauty and glory the delightful Fire, with his chariot of delight, luminous in the way of his workings, the universal godhead, who is seated in the waters, who is the discoverer of the sun-world, who enters into the depths and is swift to cross beyond, who is wrapped in his mights, who bears in himself all things. (16 HTMF 166)

Ṛk 6

The Fire with the gods and creatures born builds by the thought of man the sacrifice in its many forms, he moves between earth and heaven as their charioteer bearing them to the achievement of their desires; he is the swift in motion and he is a dweller in the house who drives off every assailant. (16 HTMF 166)

Ṛk 7

O Fire, come near to us in a life rich with offspring, nourish us with energy, illumine our impulsions, animate in us the expanding powers of the Vast, O wakeful flame; thou art the aspirant strong in will for the gods and the illumined seers. (16 HTMF 166)

Ṛk 8

Men ever with obeisance, with swift urgings, give expression for their growth, to the knower of all births, the mighty one, the lord of the peoples, the Guest, the driver of our thoughts, the aspirant in those who speak the word, the wakener to consciousness in the pilgrim sacrifice. (16 HTMF 167)

Ṛk 9

Fire, the wide-shining godhead, joyful in his happy chariot, has enveloped in his might our abodes;12 with complete purification may we obey13 in the house the laws of work of this giver of our manifold increase. (16 HTMF 167)

Ṛk 10

O universal godhead, I desire thy lights14 by which thou becomest, O all-seeing,15 the knower of the sun-world: born, thou hast filled the worlds and earth and heaven, thou art there enveloping them all with thyself, O Fire. (16 HTMF 167)

Ṛk 11

Fire the One Seer by his seeking for perfect works 16 released out of the actions17 of the universal godhead, the Vast: the Fire greatening both the parents, earth and heaven, was born from a mighty seed.18 (16 HTMF 167)