Sūkta 17
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kata Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2); nicṛtpaṅkti (3); virāṭtrisṭup (4); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः |
शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ||samidhyámānaḥ prathamā́nu dhármā sámaktúbhirajyate viśvávāraḥ ǀ
śocíṣkeśo ghṛtánirṇikpāvakáḥ suyajñó agníryajáthāya devā́n ǁsamidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ |
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān ||स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः ।
शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥सम्ऽइध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तुऽभिः । अज्यते । विश्वऽवारः ।
शोचिःऽकेशः । घृतऽनिर्निक् । पावकः । सुऽयज्ञः । अग्निः । यजथाय । देवान् ॥sam-idhyámānaḥ ǀ prathamā́ ǀ ánu ǀ dhárma ǀ sám ǀ aktú-bhiḥ ǀ ajyate ǀ viśvá-vāraḥ ǀ
śocíḥ-keśaḥ ǀ ghṛtá-nirnik ǀ pāvakáḥ ǀ su-yajñáḥ ǀ agníḥ ǀ yajáthāya ǀ devā́n ǁsam-idhyamānaḥ ǀ prathamā ǀ anu ǀ dharma ǀ sam ǀ aktu-bhiḥ ǀ ajyate ǀ viśva-vāraḥ ǀ
śociḥ-keśaḥ ǀ ghṛta-nirnik ǀ pāvakaḥ ǀ su-yajñaḥ ǀ agniḥ ǀ yajathāya ǀ devān ǁ3.17.1 Aṣṭaka 3.1.17.1Anuvāka 3.2.28
-
Ṛk 2
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् |
एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ||yáthā́yajo hotrámagne pṛthivyā́ yáthā divó jātavedaścikitvā́n ǀ
evā́néna havíṣā yakṣi devā́nmanuṣvádyajñám prá tiremámadyá ǁyathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān |
evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya ||यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जातऽवेदः । चिकित्वान् ।
एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य ॥yáthā ǀ áyajaḥ ǀ hotrám ǀ agne ǀ pṛthivyā́ḥ ǀ yáthā ǀ diváḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǀ
evá ǀ anéna ǀ havíṣā ǀ yakṣi ǀ devā́n ǀ manuṣvát ǀ yajñám ǀ prá ǀ tira ǀ imám ǀ adyá ǁyathā ǀ ayajaḥ ǀ hotram ǀ agne ǀ pṛthivyāḥ ǀ yathā ǀ divaḥ ǀ jāta-vedaḥ ǀ cikitvān ǀ
eva ǀ anena ǀ haviṣā ǀ yakṣi ǀ devān ǀ manuṣvat ǀ yajñam ǀ pra ǀ tira ǀ imam ǀ adya ǁ3.17.2 Aṣṭaka 3.1.17.2Anuvāka 3.2.29
-
Ṛk 3
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने |
ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ||trī́ṇyā́yūṃṣi táva jātavedastisrá ājā́nīruṣásaste agne ǀ
tā́bhirdevā́nāmávo yakṣi vidvā́náthā bhava yájamānāya śám yóḥ ǁtrīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne |
tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ ||त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ ।
ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥त्रीणि । आयूंषि । तव । जातऽवेदः । तिस्रः । आऽजानीः । उषसः । ते । अग्ने ।
ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः ॥trī́ṇi ǀ ā́yūṃṣi ǀ táva ǀ jāta-vedaḥ ǀ tisráḥ ǀ ā-jā́nīḥ ǀ uṣásaḥ ǀ te ǀ agne ǀ
tā́bhiḥ ǀ devā́nām ǀ ávaḥ ǀ yakṣi ǀ vidvā́n ǀ átha ǀ bhava ǀ yájamānāya ǀ śám ǀ yóḥ ǁtrīṇi ǀ āyūṃṣi ǀ tava ǀ jāta-vedaḥ ǀ tisraḥ ǀ ā-jānīḥ ǀ uṣasaḥ ǀ te ǀ agne ǀ
tābhiḥ ǀ devānām ǀ avaḥ ǀ yakṣi ǀ vidvān ǀ atha ǀ bhava ǀ yajamānāya ǀ śam ǀ yoḥ ǁ3.17.3 Aṣṭaka 3.1.17.3Anuvāka 3.2.30
-
Ṛk 4
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णंतो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः |
त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ||agním sudītím sudṛ́śam gṛṇánto namasyā́mastvéḍyam jātavedaḥ ǀ
tvā́m dūtámaratím havyavā́ham devā́ akṛṇvannamṛ́tasya nā́bhim ǁagniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ |
tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim ||अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ ।
त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥अग्निम् । सुऽदीतिम् । सुऽदृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जातऽवेदः ।
त्वाम् । दूतम् । अरतिम् । हव्यऽवाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥agním ǀ su-dītím ǀ su-dṛ́śam ǀ gṛṇántaḥ ǀ namasyā́maḥ ǀ tvā ǀ ī́ḍyam ǀ jāta-vedaḥ ǀ
tvā́m ǀ dūtám ǀ aratím ǀ havya-vā́ham ǀ devā́ḥ ǀ akṛṇvan ǀ amṛ́tasya ǀ nā́bhim ǁagnim ǀ su-dītim ǀ su-dṛśam ǀ gṛṇantaḥ ǀ namasyāmaḥ ǀ tvā ǀ īḍyam ǀ jāta-vedaḥ ǀ
tvām ǀ dūtam ǀ aratim ǀ havya-vāham ǀ devāḥ ǀ akṛṇvan ǀ amṛtasya ǀ nābhim ǁ3.17.4 Aṣṭaka 3.1.17.4Anuvāka 3.2.31
-
Ṛk 5
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यांद्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च शं॒भुः ।
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः |
तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ ||yástváddhótā pū́rvo agne yájīyāndvitā́ ca sáttā svadháyā ca śambhúḥ ǀ
tásyā́nu dhárma prá yajā cikitvó’tha no dhā adhvarám devávītau ǁyas tvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ |
tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau ||यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः ।
तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्ऽभुः ।
तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देवऽवीतौ ॥yáḥ ǀ tvát ǀ hótā ǀ pū́rvaḥ ǀ agne ǀ yájīyān ǀ dvitā́ ǀ ca ǀ sáttā ǀ svadháyā ǀ ca ǀ śam-bhúḥ ǀ
tásya ǀ ánu ǀ dhárma ǀ prá ǀ yaja ǀ cikitvaḥ ǀ átha ǀ naḥ ǀ dhāḥ ǀ adhvarám ǀ devá-vītau ǁyaḥ ǀ tvat ǀ hotā ǀ pūrvaḥ ǀ agne ǀ yajīyān ǀ dvitā ǀ ca ǀ sattā ǀ svadhayā ǀ ca ǀ śam-bhuḥ ǀ
tasya ǀ anu ǀ dharma ǀ pra ǀ yaja ǀ cikitvaḥ ǀ atha ǀ naḥ ǀ dhāḥ ǀ adhvaram ǀ deva-vītau ǁ3.17.5 Aṣṭaka 3.1.17.5Anuvāka 3.2.32
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.