Sūkta 50
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 4); triṣṭup (3, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः१॒॑ काम॑मृध्याः ॥इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् |
ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ||índraḥ svā́hā pibatu yásya sóma āgátyā túmro vṛṣabhó marútvān ǀ
óruvyácāḥ pṛṇatāmebhíránnairā́sya havístanváḥ kā́mamṛdhyāḥ ǁindraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ ||इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् ।
आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥इन्द्रः । स्वाहा । पिबतु । यस्य । सोमः । आऽगत्य । तुम्रः । वृषभः । मरुत्वान् ।
आ । उरुऽव्यचाः । पृणताम् । एभिः । अन्नैः । आ । अस्य । हविः । तन्वः । कामम् । ऋध्याः ॥índraḥ ǀ svā́hā ǀ pibatu ǀ yásya ǀ sómaḥ ǀ ā-gátya ǀ túmraḥ ǀ vṛṣabháḥ ǀ marútvān ǀ
ā́ ǀ uru-vyácāḥ ǀ pṛṇatām ǀ ebhíḥ ǀ ánnaiḥ ǀ ā́ ǀ asya ǀ havíḥ ǀ tanváḥ ǀ kā́mam ǀ ṛdhyāḥ ǁindraḥ ǀ svāhā ǀ pibatu ǀ yasya ǀ somaḥ ǀ ā-gatya ǀ tumraḥ ǀ vṛṣabhaḥ ǀ marutvān ǀ
ā ǀ uru-vyacāḥ ǀ pṛṇatām ǀ ebhiḥ ǀ annaiḥ ǀ ā ǀ asya ǀ haviḥ ǀ tanvaḥ ǀ kāmam ǀ ṛdhyāḥ ǁ3.50.1 Aṣṭaka 3.3.14.1Anuvāka 3.4.75
-
Ṛk 2
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः |
इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य चारोः ||ā́ te saparyū́ javáse yunajmi yáyoránu pradívaḥ śruṣṭímā́vaḥ ǀ
ihá tvā dheyurhárayaḥ suśipra píbā tvásyá súṣutasya cā́roḥ ǁā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ |
iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ ||आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ ।
इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥आ । ते । सपर्यू इति । जवसे । युनज्मि । ययोः । अनु । प्रऽदिवः । श्रुष्टिम् । आवः ।
इह । त्वा । धेयुः । हरयः । सुऽशिप्र । पिब । तु । अस्य । सुऽसुतस्य । चारोः ॥ā́ ǀ te ǀ saparyū́ íti ǀ javáse ǀ yunajmi ǀ yáyoḥ ǀ ánu ǀ pra-dívaḥ ǀ śruṣṭím ǀ ā́vaḥ ǀ
ihá ǀ tvā ǀ dheyuḥ ǀ hárayaḥ ǀ su-śipra ǀ píba ǀ tú ǀ asyá ǀ sú-sutasya ǀ cā́roḥ ǁā ǀ te ǀ saparyū iti ǀ javase ǀ yunajmi ǀ yayoḥ ǀ anu ǀ pra-divaḥ ǀ śruṣṭim ǀ āvaḥ ǀ
iha ǀ tvā ǀ dheyuḥ ǀ harayaḥ ǀ su-śipra ǀ piba ǀ tu ǀ asya ǀ su-sutasya ǀ cāroḥ ǁ3.50.2 Aṣṭaka 3.3.14.2Anuvāka 3.4.76
-
Ṛk 3
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिंद्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
मं॒दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः |
मन्दानः सोमम् पपिवां ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ||góbhirmimikṣúm dadhire supārámíndram jyáiṣṭhyāya dhā́yase gṛṇānā́ḥ ǀ
mandānáḥ sómam papivā́m̐ ṛjīṣintsámasmábhyam purudhā́ gā́ iṣaṇya ǁgobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ |
mandānaḥ somam papivāṃ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya ||गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः ।
म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥गोभिः । मिमिक्षुम् । दधिरे । सुऽपारम् । इन्द्रम् । ज्यैष्ठ्याय । धायसे । गृणानाः ।
मन्दानः । सोमम् । पपिऽवान् । ऋजीषिन् । सम् । अस्मभ्यम् । पुरुधा । गाः । इषण्य ॥góbhiḥ ǀ mimikṣúm ǀ dadhire ǀ su-pārám ǀ índram ǀ jyáiṣṭhyāya ǀ dhā́yase ǀ gṛṇānā́ḥ ǀ
mandānáḥ ǀ sómam ǀ papi-vā́n ǀ ṛjīṣin ǀ sám ǀ asmábhyam ǀ purudhā́ ǀ gā́ḥ ǀ iṣaṇya ǁgobhiḥ ǀ mimikṣum ǀ dadhire ǀ su-pāram ǀ indram ǀ jyaiṣṭhyāya ǀ dhāyase ǀ gṛṇānāḥ ǀ
mandānaḥ ǀ somam ǀ papi-vān ǀ ṛjīṣin ǀ sam ǀ asmabhyam ǀ purudhā ǀ gāḥ ǀ iṣaṇya ǁ3.50.3 Aṣṭaka 3.3.14.3Anuvāka 3.4.77
-
Ṛk 4
इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च |
स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ||imám kā́mam mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca ǀ
svaryávo matíbhistúbhyam víprā índrāya vā́haḥ kuśikā́so akran ǁimaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।
स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।
स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥imám ǀ kā́mam ǀ mandaya ǀ góbhiḥ ǀ áśvaiḥ ǀ candrá-vatā ǀ rā́dhasā ǀ papráthaḥ ǀ ca ǀ
svaḥ-yávaḥ ǀ matí-bhiḥ ǀ túbhyam ǀ víprāḥ ǀ índrāya ǀ vā́haḥ ǀ kuśikā́saḥ ǀ akran ǁimam ǀ kāmam ǀ mandaya ǀ gobhiḥ ǀ aśvaiḥ ǀ candra-vatā ǀ rādhasā ǀ paprathaḥ ǀ ca ǀ
svaḥ-yavaḥ ǀ mati-bhiḥ ǀ tubhyam ǀ viprāḥ ǀ indrāya ǀ vāhaḥ ǀ kuśikāsaḥ ǀ akran ǁ3.50.4 Aṣṭaka 3.3.14.4Anuvāka 3.4.78
-
Ṛk 5
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.50.5 Aṣṭaka 3.3.14.5Anuvāka 3.4.79
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.