Ṛk 3.50.1
Saṃhitā
इंद्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः१॒॑ काम॑मृध्याः ॥
इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् |
ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ||
índraḥ svā́hā pibatu yásya sóma āgátyā túmro vṛṣabhó marútvān ǀ
óruvyácāḥ pṛṇatāmebhíránnairā́sya havístanváḥ kā́mamṛdhyāḥ ǁ
indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ ||
Padapāṭha
इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् ।
आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥
इन्द्रः । स्वाहा । पिबतु । यस्य । सोमः । आऽगत्य । तुम्रः । वृषभः । मरुत्वान् ।
आ । उरुऽव्यचाः । पृणताम् । एभिः । अन्नैः । आ । अस्य । हविः । तन्वः । कामम् । ऋध्याः ॥
índraḥ ǀ svā́hā ǀ pibatu ǀ yásya ǀ sómaḥ ǀ ā-gátya ǀ túmraḥ ǀ vṛṣabháḥ ǀ marútvān ǀ
ā́ ǀ uru-vyácāḥ ǀ pṛṇatām ǀ ebhíḥ ǀ ánnaiḥ ǀ ā́ ǀ asya ǀ havíḥ ǀ tanváḥ ǀ kā́mam ǀ ṛdhyāḥ ǁ
indraḥ ǀ svāhā ǀ pibatu ǀ yasya ǀ somaḥ ǀ ā-gatya ǀ tumraḥ ǀ vṛṣabhaḥ ǀ marutvān ǀ
ā ǀ uru-vyacāḥ ǀ pṛṇatām ǀ ebhiḥ ǀ annaiḥ ǀ ā ǀ asya ǀ haviḥ ǀ tanvaḥ ǀ kāmam ǀ ṛdhyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.050.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.14.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.075
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.