Sūkta 47
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-3); triṣṭup (4); virāṭtrisṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
म॒रुत्वाँ॑ इंद्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सिं॑चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒तानां॑ ॥मरुत्वां इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय |
आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ||marútvām̐ indra vṛṣabhó ráṇāya píbā sómamanuṣvadhám mádāya ǀ
ā́ siñcasva jaṭháre mádhva ūrmím tvám rā́jāsi pradívaḥ sutā́nām ǁmarutvāṃ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya |
ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām ||म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।
आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥मरुत्वान् । इन्द्र । वृषभः । रणाय । पिब । सोमम् । अनुऽस्वधम् । मदाय ।
आ । सिञ्चस्व । जठरे । मध्वः । ऊर्मिम् । त्वम् । राजा । असि । प्रऽदिवः । सुतानाम् ॥marútvān ǀ indra ǀ vṛṣabháḥ ǀ ráṇāya ǀ píba ǀ sómam ǀ anu-svadhám ǀ mádāya ǀ
ā́ ǀ siñcasva ǀ jaṭháre ǀ mádhvaḥ ǀ ūrmím ǀ tvám ǀ rā́jā ǀ asi ǀ pra-dívaḥ ǀ sutā́nām ǁmarutvān ǀ indra ǀ vṛṣabhaḥ ǀ raṇāya ǀ piba ǀ somam ǀ anu-svadham ǀ madāya ǀ
ā ǀ siñcasva ǀ jaṭhare ǀ madhvaḥ ǀ ūrmim ǀ tvam ǀ rājā ǀ asi ǀ pra-divaḥ ǀ sutānām ǁ3.47.1 Aṣṭaka 3.3.11.1Anuvāka 3.4.60
-
Ṛk 2
स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् |
जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ||sajóṣā indra ságaṇo marúdbhiḥ sómam piba vṛtrahā́ śūra vidvā́n ǀ
jahí śátrūm̐rápa mṛ́dho nudasvā́thā́bhayam kṛṇuhi viśváto naḥ ǁsajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān |
jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ ||स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ।
ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥सऽजोषाः । इन्द्र । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ।
जहि । शत्रून् । अप । मृधः । नुदस्व । अथ । अभयम् । कृणुहि । विश्वतः । नः ॥sa-jóṣāḥ ǀ indra ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ sómam ǀ piba ǀ vṛtra-hā́ ǀ śūra ǀ vidvā́n ǀ
jahí ǀ śátrūn ǀ ápa ǀ mṛ́dhaḥ ǀ nudasva ǀ átha ǀ ábhayam ǀ kṛṇuhi ǀ viśvátaḥ ǀ naḥ ǁsa-joṣāḥ ǀ indra ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ somam ǀ piba ǀ vṛtra-hā ǀ śūra ǀ vidvān ǀ
jahi ǀ śatrūn ǀ apa ǀ mṛdhaḥ ǀ nudasva ǀ atha ǀ abhayam ǀ kṛṇuhi ǀ viśvataḥ ǀ naḥ ǁ3.47.2 Aṣṭaka 3.3.11.2Anuvāka 3.4.61
-
Ṛk 3
उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिंद्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः |
यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ||utá ṛtúbhirṛtupāḥ pāhi sómamíndra devébhiḥ sákhibhiḥ sutám naḥ ǀ
yā́m̐ ā́bhajo marúto yé tvā́nváhanvṛtrámádadhustúbhyamójaḥ ǁuta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ |
yāṃ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ ||उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥उत । ऋतुऽभिः । ऋतुऽपाः । पाहि । सोमम् । इन्द्र । देवेभिः । सखिऽभिः । सुतम् । नः ।
यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥utá ǀ ṛtú-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ sómam ǀ índra ǀ devébhiḥ ǀ sákhi-bhiḥ ǀ sutám ǀ naḥ ǀ
yā́n ǀ ā́ ǀ ábhajaḥ ǀ marútaḥ ǀ yé ǀ tvā ǀ ánu ǀ áhan ǀ vṛtrám ǀ ádadhuḥ ǀ túbhyam ǀ ójaḥ ǁuta ǀ ṛtu-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ somam ǀ indra ǀ devebhiḥ ǀ sakhi-bhiḥ ǀ sutam ǀ naḥ ǀ
yān ǀ ā ǀ abhajaḥ ǀ marutaḥ ǀ ye ǀ tvā ǀ anu ǀ ahan ǀ vṛtram ǀ adadhuḥ ǀ tubhyam ǀ ojaḥ ǁ3.47.3 Aṣṭaka 3.3.11.3Anuvāka 3.4.62
-
Ṛk 4
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शां॑ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मदं॑ति॒ विप्राः॒ पिबें॑द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ |
ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ||yé tvāhihátye maghavannávardhanyé śāmbaré harivo yé gáviṣṭau ǀ
yé tvā nūnámanumádanti víprāḥ píbendra sómam ságaṇo marúdbhiḥ ǁye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau |
ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ ||ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒ऽवः॒ । ये । गोऽइ॑ष्टौ ।
ये । त्वा॒ । नू॒नम् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥ये । त्वा । अहिऽहत्ये । मघऽवन् । अवर्धन् । ये । शाम्बरे । हरिऽवः । ये । गोऽइष्टौ ।
ये । त्वा । नूनम् । अनुऽमदन्ति । विप्राः । पिब । इन्द्र । सोमम् । सऽगणः । मरुत्ऽभिः ॥yé ǀ tvā ǀ ahi-hátye ǀ magha-van ǀ ávardhan ǀ yé ǀ śāmbaré ǀ hari-vaḥ ǀ yé ǀ gó-iṣṭau ǀ
yé ǀ tvā ǀ nūnám ǀ anu-mádanti ǀ víprāḥ ǀ píba ǀ indra ǀ sómam ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǁye ǀ tvā ǀ ahi-hatye ǀ magha-van ǀ avardhan ǀ ye ǀ śāmbare ǀ hari-vaḥ ǀ ye ǀ go-iṣṭau ǀ
ye ǀ tvā ǀ nūnam ǀ anu-madanti ǀ viprāḥ ǀ piba ǀ indra ǀ somam ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǁ3.47.4 Aṣṭaka 3.3.11.4Anuvāka 3.4.63
-
Ṛk 5
म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् |
विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ||marútvantam vṛṣabhám vāvṛdhānámákavārim divyám śāsámíndram ǀ
viśvāsā́hamávase nū́tanāyográm sahodā́mihá tám huvema ǁmarutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।
वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥मरुत्वन्तम् । वृषभम् । ववृधानम् । अकवऽअरिम् । दिव्यम् । शासम् । इन्द्रम् ।
विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥marútvantam ǀ vṛṣabhám ǀ vavṛdhānám ǀ ákava-arim ǀ divyám ǀ śāsám ǀ índram ǀ
viśva-sáham ǀ ávase ǀ nū́tanāya ǀ ugrám ǀ sahaḥ-dā́m ǀ ihá ǀ tám ǀ huvema ǁmarutvantam ǀ vṛṣabham ǀ vavṛdhānam ǀ akava-arim ǀ divyam ǀ śāsam ǀ indram ǀ
viśva-saham ǀ avase ǀ nūtanāya ǀ ugram ǀ sahaḥ-dām ǀ iha ǀ tam ǀ huvema ǁ3.47.5 Aṣṭaka 3.3.11.5Anuvāka 3.4.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.