Ṛgveda · Maṇḍala 3

Sūkta 54

Viśvedevās · Prajāpati Vācya Or Prajāpati Vaiśvāmitra · 22 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Prajāpati Vācya Or Prajāpati Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (2, 3, 6, 8, 10, 11, 13, 14); nicṛttriṣṭup (4, 7, 15, 16, 18, 20, 21); virāṭtrisṭup (19, 22); nicṛtpaṅkti (1); svarāṭtriṣṭup (5); bhurikpaṅkti (9); svarāṭpaṅkti (12); bhuriktriṣṭup (17)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः ।
    शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥

    इमम् महे विदथ्याय शूषं शश्वत् कृत्व ईड्याय प्र जभ्रुः |
    शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ||

    imám mahé vidathyā́ya śūṣám śáśvatkṛ́tva ī́ḍyāya prá jabhruḥ ǀ
    śṛṇótu no dámyebhiránīkaiḥ śṛṇótvagnírdivyáirájasraḥ ǁ

    imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ |
    śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ ||

    इ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ ।
    शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥

    इमम् । महे । विदथ्याय । शूषम् । शश्वत् । कृत्वः । ईड्याय । प्र । जभ्रुः ।
    शृणोतु । नः । दम्येभिः । अनीकैः । शृणोतु । अग्निः । दिव्यैः । अजस्रः ॥

    imám ǀ mahé ǀ vidathyā́ya ǀ śūṣám ǀ śáśvat ǀ kṛ́tvaḥ ǀ ī́ḍyāya ǀ prá ǀ jabhruḥ ǀ
    śṛṇótu ǀ naḥ ǀ dámyebhiḥ ǀ ánīkaiḥ ǀ śṛṇótu ǀ agníḥ ǀ divyáiḥ ǀ ájasraḥ ǁ

    imam ǀ mahe ǀ vidathyāya ǀ śūṣam ǀ śaśvat ǀ kṛtvaḥ ǀ īḍyāya ǀ pra ǀ jabhruḥ ǀ
    śṛṇotu ǀ naḥ ǀ damyebhiḥ ǀ anīkaiḥ ǀ śṛṇotu ǀ agniḥ ǀ divyaiḥ ǀ ajasraḥ ǁ

    3.54.1 Aṣṭaka 3.3.24.1Anuvāka 3.5.1

  2. Ṛk 2

    महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छंच॑रति प्रजा॒नन् ।
    ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दयं॑ते॒ सचा॒योः ॥

    महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् |
    ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ||

    máhi mahé divé arcā pṛthivyái kā́mo ma iccháñcarati prajānán ǀ
    yáyorha stóme vidátheṣu devā́ḥ saparyávo mādáyante sácāyóḥ ǁ

    mahi mahe dive arcā pṛthivyai kāmo ma icchañ carati prajānan |
    yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ ||

    महि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ।
    ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥

    महि । महे । दिवे । अर्च । पृथिव्यै । कामः । मे । इच्छन् । चरति । प्रऽजानन् ।
    ययोः । ह । स्तोमे । विदथेषु । देवाः । सपर्यवः । मादयन्ते । सचा । आयोः ॥

    máhi ǀ mahé ǀ divé ǀ arca ǀ pṛthivyái ǀ kā́maḥ ǀ me ǀ icchán ǀ carati ǀ pra-jānán ǀ
    yáyoḥ ǀ ha ǀ stóme ǀ vidátheṣu ǀ devā́ḥ ǀ saparyávaḥ ǀ mādáyante ǀ sácā ǀ āyóḥ ǁ

    mahi ǀ mahe ǀ dive ǀ arca ǀ pṛthivyai ǀ kāmaḥ ǀ me ǀ icchan ǀ carati ǀ pra-jānan ǀ
    yayoḥ ǀ ha ǀ stome ǀ vidatheṣu ǀ devāḥ ǀ saparyavaḥ ǀ mādayante ǀ sacā ǀ āyoḥ ǁ

    3.54.2 Aṣṭaka 3.3.24.2Anuvāka 3.5.2

  3. Ṛk 3

    यु॒वोर्ऋ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तं ।
    इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्नं॑ ॥

    युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् |
    इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ||

    yuvórṛtám rodasī satyámastu mahé ṣú ṇaḥ suvitā́ya prá bhūtam ǀ
    idám divé námo agne pṛthivyái saparyā́mi práyasā yā́mi rátnam ǁ

    yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam |
    idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam ||

    यु॒वोः । ऋ॒तम् । रो॒द॒सी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । म॒हे । सु । नः॒ । सु॒वि॒ताय॑ । प्र । भू॒त॒म् ।
    इ॒दम् । दि॒वे । नमः॑ । अ॒ग्ने॒ । पृ॒थि॒व्यै । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥

    युवोः । ऋतम् । रोदसी इति । सत्यम् । अस्तु । महे । सु । नः । सुविताय । प्र । भूतम् ।
    इदम् । दिवे । नमः । अग्ने । पृथिव्यै । सपर्यामि । प्रयसा । यामि । रत्नम् ॥

    yuvóḥ ǀ ṛtám ǀ rodasī íti ǀ satyám ǀ astu ǀ mahé ǀ sú ǀ naḥ ǀ suvitā́ya ǀ prá ǀ bhūtam ǀ
    idám ǀ divé ǀ námaḥ ǀ agne ǀ pṛthivyái ǀ saparyā́mi ǀ práyasā ǀ yā́mi ǀ rátnam ǁ

    yuvoḥ ǀ ṛtam ǀ rodasī iti ǀ satyam ǀ astu ǀ mahe ǀ su ǀ naḥ ǀ suvitāya ǀ pra ǀ bhūtam ǀ
    idam ǀ dive ǀ namaḥ ǀ agne ǀ pṛthivyai ǀ saparyāmi ǀ prayasā ǀ yāmi ǀ ratnam ǁ

    3.54.3 Aṣṭaka 3.3.24.3Anuvāka 3.5.3

  4. Ṛk 4

    उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाचः॑ ।
    नर॑श्चिद्वां समि॒थे शूर॑सातौ ववंदि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥

    उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः |
    नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ||

    utó hí vām pūrvyā́ āvividrá ṛ́tāvarī rodasī satyavā́caḥ ǀ
    náraścidvām samithé śū́rasātau vavandiré pṛthivi vévidānāḥ ǁ

    uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ |
    naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ ||

    उ॒तो इति॑ । हि । वा॒म् । पू॒र्व्याः । आ॒ऽवि॒वि॒द्रे । ऋत॑वरी॒ इत्यृत॑ऽवरी । रो॒द॒सी॒ इति॑ । स॒त्य॒ऽवाचः॑ ।
    नरः॑ । चि॒त् । वा॒म् । स॒म्ऽइ॒थे । शूर॑ऽसातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि॑दानाः ॥

    उतो इति । हि । वाम् । पूर्व्याः । आऽविविद्रे । ऋतवरी इत्यृतऽवरी । रोदसी इति । सत्यऽवाचः ।
    नरः । चित् । वाम् । सम्ऽइथे । शूरऽसातौ । ववन्दिरे । पृथिवि । वेविदानाः ॥

    utó íti ǀ hí ǀ vām ǀ pūrvyā́ḥ ǀ ā-vividré ǀ ṛ́tavarī ítyṛta-varī ǀ rodasī íti ǀ satya-vā́caḥ ǀ
    náraḥ ǀ cit ǀ vām ǀ sam-ithé ǀ śū́ra-sātau ǀ vavandiré ǀ pṛthivi ǀ vévidānāḥ ǁ

    uto iti ǀ hi ǀ vām ǀ pūrvyāḥ ǀ ā-vividre ǀ ṛtavarī ityṛta-varī ǀ rodasī iti ǀ satya-vācaḥ ǀ
    naraḥ ǀ cit ǀ vām ǀ sam-ithe ǀ śūra-sātau ǀ vavandire ǀ pṛthivi ǀ vevidānāḥ ǁ

    3.54.4 Aṣṭaka 3.3.24.4Anuvāka 3.5.4

  5. Ṛk 5

    को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति ।
    ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥

    को अद्धा वेद क इह प्र वोचद् देवां अच्छा पथ्या का सम् एति |
    ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ||

    kó addhā́ veda ká ihá prá vocaddevā́m̐ ácchā pathyā́ kā́ sámeti ǀ
    dádṛśra eṣāmavamā́ sádāṃsi páreṣu yā́ gúhyeṣu vratéṣu ǁ

    ko addhā veda ka iha pra vocad devāṃ acchā pathyā kā sam eti |
    dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu ||

    कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ॑ । प॒थ्या॑ । का । सम् । ए॒ति॒ ।
    ददृ॑श्रे । ए॒षा॒म् । अ॒व॒मा । सदां॑सि । परे॑षु । या । गुह्ये॑षु । व्र॒तेषु॑ ॥

    कः । अद्धा । वेद । कः । इह । प्र । वोचत् । देवान् । अच्छ । पथ्या । का । सम् । एति ।
    ददृश्रे । एषाम् । अवमा । सदांसि । परेषु । या । गुह्येषु । व्रतेषु ॥

    káḥ ǀ addhā́ ǀ veda ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ devā́n ǀ áccha ǀ pathyā́ ǀ kā́ ǀ sám ǀ eti ǀ
    dádṛśre ǀ eṣām ǀ avamā́ ǀ sádāṃsi ǀ páreṣu ǀ yā́ ǀ gúhyeṣu ǀ vratéṣu ǁ

    kaḥ ǀ addhā ǀ veda ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ devān ǀ accha ǀ pathyā ǀ kā ǀ sam ǀ eti ǀ
    dadṛśre ǀ eṣām ǀ avamā ǀ sadāṃsi ǀ pareṣu ǀ yā ǀ guhyeṣu ǀ vrateṣu ǁ

    3.54.5 Aṣṭaka 3.3.24.5Anuvāka 3.5.5

  6. Ṛk 6

    क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मदं॑ती ।
    नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥

    कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती |
    नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ||

    kavírnṛcákṣā abhí ṣīmacaṣṭa ṛtásya yónā víghṛte mádantī ǀ
    nā́nā cakrāte sádanam yáthā véḥ samānéna krátunā saṃvidāné ǁ

    kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī |
    nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne ||

    क॒विः । नृ॒ऽचक्षाः॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ ।
    नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥

    कविः । नृऽचक्षाः । अभि । सीम् । अचष्ट । ऋतस्य । योना । विघृते इति विऽघृते । मदन्ती इति ।
    नाना । चक्राते इति । सदनम् । यथा । वेः । समानेन । क्रतुना । संविदाने इति सम्ऽविदाने ॥

    kavíḥ ǀ nṛ-cákṣāḥ ǀ abhí ǀ sīm ǀ acaṣṭa ǀ ṛtásya ǀ yónā ǀ víghṛte íti ví-ghṛte ǀ mádantī íti ǀ
    nā́nā ǀ cakrāte íti ǀ sádanam ǀ yáthā ǀ véḥ ǀ samānéna ǀ krátunā ǀ saṃvidāné íti sam-vidāné ǁ

    kaviḥ ǀ nṛ-cakṣāḥ ǀ abhi ǀ sīm ǀ acaṣṭa ǀ ṛtasya ǀ yonā ǀ vighṛte iti vi-ghṛte ǀ madantī iti ǀ
    nānā ǀ cakrāte iti ǀ sadanam ǀ yathā ǀ veḥ ǀ samānena ǀ kratunā ǀ saṃvidāne iti sam-vidāne ǁ

    3.54.6 Aṣṭaka 3.3.25.1Anuvāka 3.5.6

  7. Ṛk 7

    स॒मा॒न्या वियु॑ते दू॒रेअं॑ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।
    उ॒त स्वसा॑रा युव॒ती भवं॑ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥

    समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके |
    उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ||

    samānyā́ víyute dūréante dhruvé padé tasthaturjāgarū́ke ǀ
    utá svásārā yuvatī́ bhávantī ā́du bruvāte mithunā́ni nā́ma ǁ

    samānyā viyute dūreante dhruve pade tasthatur jāgarūke |
    uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma ||

    स॒मा॒न्या । वियु॑ते॒ इति॒ विऽयु॑ते । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ । जा॒ग॒रूके॒ इति॑ ।
    उ॒त । स्वसा॑रा । यु॒व॒ती इति॑ । भव॑न्ती॒ इति॑ । आत् । ऊं॒ इति॑ । ब्रु॒वा॒ते॒ इति॑ । मि॒थु॒नानि॑ । नाम॑ ॥

    समान्या । वियुते इति विऽयुते । दूरेअन्ते इति दूरेऽअन्ते । ध्रुवे । पदे । तस्थतुः । जागरूके इति ।
    उत । स्वसारा । युवती इति । भवन्ती इति । आत् । ऊं इति । ब्रुवाते इति । मिथुनानि । नाम ॥

    samānyā́ ǀ víyute íti ví-yute ǀ dūréante íti dūré-ante ǀ dhruvé ǀ padé ǀ tasthatuḥ ǀ jāgarū́ke íti ǀ
    utá ǀ svásārā ǀ yuvatī́ íti ǀ bhávantī íti ǀ ā́t ǀ ūṃ íti ǀ bruvāte íti ǀ mithunā́ni ǀ nā́ma ǁ

    samānyā ǀ viyute iti vi-yute ǀ dūreante iti dūre-ante ǀ dhruve ǀ pade ǀ tasthatuḥ ǀ jāgarūke iti ǀ
    uta ǀ svasārā ǀ yuvatī iti ǀ bhavantī iti ǀ āt ǀ ūṃ iti ǀ bruvāte iti ǀ mithunāni ǀ nāma ǁ

    3.54.7 Aṣṭaka 3.3.25.2Anuvāka 3.5.7

  8. Ṛk 8

    विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।
    एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तं ॥

    विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते |
    एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ||

    víśvédeté jánimā sám vivikto mahó devā́nbíbhratī ná vyathete ǀ
    éjaddhruvám patyate víśvamékam cáratpatatrí víṣuṇam ví jātám ǁ

    viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete |
    ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam ||

    विश्वा॑ । इत् । ए॒ते इति॑ । जनि॑म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र॑ती॒ इति॑ । न । व्य॒थे॒ते॒ इति॑ ।
    एज॑त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व॑म् । एक॑म् । चर॑त् । प॒त॒त्रि । विषु॑णम् । वि । जा॒तम् ॥

    विश्वा । इत् । एते इति । जनिम । सम् । विविक्तः । महः । देवान् । बिभ्रती इति । न । व्यथेते इति ।
    एजत् । ध्रुवम् । पत्यते । विश्वम् । एकम् । चरत् । पतत्रि । विषुणम् । वि । जातम् ॥

    víśvā ǀ ít ǀ eté íti ǀ jánima ǀ sám ǀ viviktaḥ ǀ maháḥ ǀ devā́n ǀ bíbhratī íti ǀ ná ǀ vyathete íti ǀ
    éjat ǀ dhruvám ǀ patyate ǀ víśvam ǀ ékam ǀ cárat ǀ patatrí ǀ víṣuṇam ǀ ví ǀ jātám ǁ

    viśvā ǀ it ǀ ete iti ǀ janima ǀ sam ǀ viviktaḥ ǀ mahaḥ ǀ devān ǀ bibhratī iti ǀ na ǀ vyathete iti ǀ
    ejat ǀ dhruvam ǀ patyate ǀ viśvam ǀ ekam ǀ carat ǀ patatri ǀ viṣuṇam ǀ vi ǀ jātam ǁ

    3.54.8 Aṣṭaka 3.3.25.3Anuvāka 3.5.8

  9. Ṛk 9

    सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ ।
    दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुरं॒तः ॥

    सना पुराणम् अध्य् एम्य् आरान् महः पितुर् जनितुर् जामि तन् नः |
    देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ||

    sánā purāṇámádhyemyārā́nmaháḥ pitúrjanitúrjāmí tánnaḥ ǀ
    devā́so yátra panitā́ra évairuráu pathí vyúte tasthúrantáḥ ǁ

    sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ |
    devāso yatra panitāra evair urau pathi vyute tasthur antaḥ ||

    सना॑ । पु॒रा॒णम् । अधि॑ । ए॒मि॒ । आ॒रात् । म॒हः । पि॒तुः । ज॒नि॒तुः । जा॒मि । तत् । नः॒ ।
    दे॒वासः॑ । यत्र॑ । प॒नि॒तारः॑ । एवैः॑ । उ॒रौ । प॒थि । विऽउ॑ते । त॒स्थुः । अ॒न्तरिति॑ ॥

    सना । पुराणम् । अधि । एमि । आरात् । महः । पितुः । जनितुः । जामि । तत् । नः ।
    देवासः । यत्र । पनितारः । एवैः । उरौ । पथि । विऽउते । तस्थुः । अन्तरिति ॥

    sánā ǀ purāṇám ǀ ádhi ǀ emi ǀ ārā́t ǀ maháḥ ǀ pitúḥ ǀ janitúḥ ǀ jāmí ǀ tát ǀ naḥ ǀ
    devā́saḥ ǀ yátra ǀ panitā́raḥ ǀ évaiḥ ǀ uráu ǀ pathí ǀ ví-ute ǀ tasthúḥ ǀ antáríti ǁ

    sanā ǀ purāṇam ǀ adhi ǀ emi ǀ ārāt ǀ mahaḥ ǀ pituḥ ǀ janituḥ ǀ jāmi ǀ tat ǀ naḥ ǀ
    devāsaḥ ǀ yatra ǀ panitāraḥ ǀ evaiḥ ǀ urau ǀ pathi ǀ vi-ute ǀ tasthuḥ ǀ antariti ǁ

    3.54.9 Aṣṭaka 3.3.25.4Anuvāka 3.5.9

  10. Ṛk 10

    इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः॑ शृणवन्नग्निजि॒ह्वाः ।
    मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ॥

    इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः |
    मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ||

    imám stómam rodasī prá bravīmyṛdūdárāḥ śṛṇavannagnijihvā́ḥ ǀ
    mitráḥ samrā́jo váruṇo yúvāna ādityā́saḥ kaváyaḥ paprathānā́ḥ ǁ

    imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ |
    mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ ||

    इ॒मम् । स्तोम॑म् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः॑ । शृ॒ण॒व॒न् । अ॒ग्नि॒ऽजि॒ह्वाः ।
    मि॒त्रः । स॒म्ऽराजः॑ । वरु॑णः । युवा॑नः । आ॒दि॒त्यासः॑ । क॒वयः॑ । प॒प्र॒था॒नाः ॥

    इमम् । स्तोमम् । रोदसी इति । प्र । ब्रवीमि । ऋदूदराः । शृणवन् । अग्निऽजिह्वाः ।
    मित्रः । सम्ऽराजः । वरुणः । युवानः । आदित्यासः । कवयः । पप्रथानाः ॥

    imám ǀ stómam ǀ rodasī íti ǀ prá ǀ bravīmi ǀ ṛdūdárāḥ ǀ śṛṇavan ǀ agni-jihvā́ḥ ǀ
    mitráḥ ǀ sam-rā́jaḥ ǀ váruṇaḥ ǀ yúvānaḥ ǀ ādityā́saḥ ǀ kaváyaḥ ǀ paprathānā́ḥ ǁ

    imam ǀ stomam ǀ rodasī iti ǀ pra ǀ bravīmi ǀ ṛdūdarāḥ ǀ śṛṇavan ǀ agni-jihvāḥ ǀ
    mitraḥ ǀ sam-rājaḥ ǀ varuṇaḥ ǀ yuvānaḥ ǀ ādityāsaḥ ǀ kavayaḥ ǀ paprathānāḥ ǁ

    3.54.10 Aṣṭaka 3.3.25.5Anuvāka 3.5.10

  11. Ṛk 11

    हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।
    दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिं ॥

    हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः |
    देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ||

    híraṇyapāṇiḥ savitā́ sujihvástrírā́ divó vidáthe pátyamānaḥ ǀ
    devéṣu ca savitaḥ ślókamáśrerā́dasmábhyamā́ suva sarvátātim ǁ

    hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ |
    deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim ||

    हिर॑ण्यऽपाणिः । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः ।
    दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥

    हिरण्यऽपाणिः । सविता । सुऽजिह्वः । त्रिः । आ । दिवः । विदथे । पत्यमानः ।
    देवेषु । च । सवितरिति । श्लोकम् । अश्रेः । आत् । अस्मभ्यम् । आ । सुव । सर्वऽतातिम् ॥

    híraṇya-pāṇiḥ ǀ savitā́ ǀ su-jihváḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ vidáthe ǀ pátyamānaḥ ǀ
    devéṣu ǀ ca ǀ savitaríti ǀ ślókam ǀ áśreḥ ǀ ā́t ǀ asmábhyam ǀ ā́ ǀ suva ǀ sarvá-tātim ǁ

    hiraṇya-pāṇiḥ ǀ savitā ǀ su-jihvaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ vidathe ǀ patyamānaḥ ǀ
    deveṣu ǀ ca ǀ savitariti ǀ ślokam ǀ aśreḥ ǀ āt ǀ asmabhyam ǀ ā ǀ suva ǀ sarva-tātim ǁ

    3.54.11 Aṣṭaka 3.3.26.1Anuvāka 3.5.11

  12. Ṛk 12

    सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।
    पू॒ष॒ण्वंत॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥

    सुकृत् सुपाणिः स्ववां ऋतावा देवस् त्वष्टावसे तानि नो धात् |
    पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ||

    sukṛ́tsupāṇíḥ svávām̐ ṛtā́vā devástváṣṭā́vase tā́ni no dhāt ǀ
    pūṣaṇvánta ṛbhavo mādayadhvamūrdhvágrāvāṇo adhvarámataṣṭa ǁ

    sukṛt supāṇiḥ svavāṃ ṛtāvā devas tvaṣṭāvase tāni no dhāt |
    pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa ||

    सु॒ऽकृत् । सु॒ऽपा॒णिः । स्वऽवा॑न् । ऋ॒तऽवा॑ । दे॒वः । त्वष्टा॑ । अव॑से । तानि॑ । नः॒ । धा॒त् ।
    पू॒ष॒ण्ऽवन्तः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्वऽग्रा॑वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥

    सुऽकृत् । सुऽपाणिः । स्वऽवान् । ऋतऽवा । देवः । त्वष्टा । अवसे । तानि । नः । धात् ।
    पूषण्ऽवन्तः । ऋभवः । मादयध्वम् । ऊर्ध्वऽग्रावाणः । अध्वरम् । अतष्ट ॥

    su-kṛ́t ǀ su-pāṇíḥ ǀ svá-vān ǀ ṛtá-vā ǀ deváḥ ǀ tváṣṭā ǀ ávase ǀ tā́ni ǀ naḥ ǀ dhāt ǀ
    pūṣaṇ-vántaḥ ǀ ṛbhavaḥ ǀ mādayadhvam ǀ ūrdhvá-grāvāṇaḥ ǀ adhvarám ǀ ataṣṭa ǁ

    su-kṛt ǀ su-pāṇiḥ ǀ sva-vān ǀ ṛta-vā ǀ devaḥ ǀ tvaṣṭā ǀ avase ǀ tāni ǀ naḥ ǀ dhāt ǀ
    pūṣaṇ-vantaḥ ǀ ṛbhavaḥ ǀ mādayadhvam ǀ ūrdhva-grāvāṇaḥ ǀ adhvaram ǀ ataṣṭa ǁ

    3.54.12 Aṣṭaka 3.3.26.2Anuvāka 3.5.12

  13. Ṛk 13

    वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मंतो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ ।
    सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥

    विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः |
    सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ||

    vidyúdrathā marúta ṛṣṭimánto divó máryā ṛtájātā ayā́saḥ ǀ
    sárasvatī śṛṇavanyajñíyāso dhā́tā rayím sahávīram turāsaḥ ǁ

    vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ |
    sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ ||

    वि॒द्युत्ऽर॑थाः । म॒रुतः॑ । ऋ॒ष्टि॒ऽमन्तः॑ । दि॒वः । मर्याः॑ । ऋ॒तऽजा॑ताः । अ॒यासः॑ ।
    सर॑स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया॑सः । धात॑ । र॒यिम् । स॒हऽवी॑रम् । तु॒रा॒सः॒ ॥

    विद्युत्ऽरथाः । मरुतः । ऋष्टिऽमन्तः । दिवः । मर्याः । ऋतऽजाताः । अयासः ।
    सरस्वती । शृणवन् । यज्ञियासः । धात । रयिम् । सहऽवीरम् । तुरासः ॥

    vidyút-rathāḥ ǀ marútaḥ ǀ ṛṣṭi-mántaḥ ǀ diváḥ ǀ máryāḥ ǀ ṛtá-jātāḥ ǀ ayā́saḥ ǀ
    sárasvatī ǀ śṛṇavan ǀ yajñíyāsaḥ ǀ dhā́ta ǀ rayím ǀ sahá-vīram ǀ turāsaḥ ǁ

    vidyut-rathāḥ ǀ marutaḥ ǀ ṛṣṭi-mantaḥ ǀ divaḥ ǀ maryāḥ ǀ ṛta-jātāḥ ǀ ayāsaḥ ǀ
    sarasvatī ǀ śṛṇavan ǀ yajñiyāsaḥ ǀ dhāta ǀ rayim ǀ saha-vīram ǀ turāsaḥ ǁ

    3.54.13 Aṣṭaka 3.3.26.3Anuvāka 3.5.13

  14. Ṛk 14

    विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।
    उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धंति युव॒तयो॒ जनि॑त्रीः ॥

    विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् |
    उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ||

    víṣṇum stómāsaḥ purudasmámarkā́ bhágasyeva kāríṇo yā́mani gman ǀ
    urukramáḥ kakuhó yásya pūrvī́rná mardhanti yuvatáyo jánitrīḥ ǁ

    viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman |
    urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ ||

    विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् ।
    उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥

    विष्णुम् । स्तोमासः । पुरुऽदस्मम् । अर्काः । भगस्यऽइव । कारिणः । यामनि । ग्मन् ।
    उरुऽक्रमः । ककुहः । यस्य । पूर्वीः । न । मर्धन्ति । युवतयः । जनित्रीः ॥

    víṣṇum ǀ stómāsaḥ ǀ puru-dasmám ǀ arkā́ḥ ǀ bhágasya-iva ǀ kāríṇaḥ ǀ yā́mani ǀ gman ǀ
    uru-kramáḥ ǀ kakuháḥ ǀ yásya ǀ pūrvī́ḥ ǀ ná ǀ mardhanti ǀ yuvatáyaḥ ǀ jánitrīḥ ǁ

    viṣṇum ǀ stomāsaḥ ǀ puru-dasmam ǀ arkāḥ ǀ bhagasya-iva ǀ kāriṇaḥ ǀ yāmani ǀ gman ǀ
    uru-kramaḥ ǀ kakuhaḥ ǀ yasya ǀ pūrvīḥ ǀ na ǀ mardhanti ǀ yuvatayaḥ ǀ janitrīḥ ǁ

    3.54.14 Aṣṭaka 3.3.26.4Anuvāka 3.5.14

  15. Ṛk 15

    इंद्रो॒ विश्वै॑र्वी॒र्यैः॒३॒॑ पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
    पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥

    इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा |
    पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ||

    índro víśvairvīryáiḥ pátyamāna ubhé ā́ paprau ródasī mahitvā́ ǀ
    puraṃdaró vṛtrahā́ dhṛṣṇúṣeṇaḥ saṃgṛ́bhyā na ā́ bharā bhū́ri paśváḥ ǁ

    indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā |
    purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ ||

    इन्द्रः॑ । विश्वैः॑ । वी॒र्यैः॑ । पत्य॑मानः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
    पु॒र॒म्ऽद॒रः । वृ॒त्र॒ऽहा । धृ॒ष्णुऽसे॑णः । स॒म्ऽगृभ्य॑ । नः॒ । आ । भ॒र॒ । भूरि॑ । प॒श्वः ॥

    इन्द्रः । विश्वैः । वीर्यैः । पत्यमानः । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ।
    पुरम्ऽदरः । वृत्रऽहा । धृष्णुऽसेणः । सम्ऽगृभ्य । नः । आ । भर । भूरि । पश्वः ॥

    índraḥ ǀ víśvaiḥ ǀ vīryáiḥ ǀ pátyamānaḥ ǀ ubhé íti ǀ ā́ ǀ paprau ǀ ródasī íti ǀ mahi-tvā́ ǀ
    puram-daráḥ ǀ vṛtra-hā́ ǀ dhṛṣṇú-seṇaḥ ǀ sam-gṛ́bhya ǀ naḥ ǀ ā́ ǀ bhara ǀ bhū́ri ǀ paśváḥ ǁ

    indraḥ ǀ viśvaiḥ ǀ vīryaiḥ ǀ patyamānaḥ ǀ ubhe iti ǀ ā ǀ paprau ǀ rodasī iti ǀ mahi-tvā ǀ
    puram-daraḥ ǀ vṛtra-hā ǀ dhṛṣṇu-seṇaḥ ǀ sam-gṛbhya ǀ naḥ ǀ ā ǀ bhara ǀ bhūri ǀ paśvaḥ ǁ

    3.54.15 Aṣṭaka 3.3.26.5Anuvāka 3.5.15

  16. Ṛk 16

    नास॑त्या मे पि॒तरा॑ बंधु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।
    यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥

    नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम |
    युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ||

    nā́satyā me pitárā bandhupṛ́cchā sajātyámaśvínoścā́ru nā́ma ǀ
    yuvám hí sthó rayidáu no rayīṇā́m dātrám rakṣethe ákavairádabdhā ǁ

    nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma |
    yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā ||

    नास॑त्या । मे॒ । पि॒तरा॑ । ब॒न्धु॒ऽपृच्छा॑ । स॒ऽजा॒त्य॑म् । अ॒श्विनोः॑ । चारु॑ । नाम॑ ।
    यु॒वम् । हि । स्थः । र॒यि॒ऽदौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति॑ । अक॑वैः । अद॑ब्धा ॥

    नासत्या । मे । पितरा । बन्धुऽपृच्छा । सऽजात्यम् । अश्विनोः । चारु । नाम ।
    युवम् । हि । स्थः । रयिऽदौ । नः । रयीणाम् । दात्रम् । रक्षेथे इति । अकवैः । अदब्धा ॥

    nā́satyā ǀ me ǀ pitárā ǀ bandhu-pṛ́cchā ǀ sa-jātyám ǀ aśvínoḥ ǀ cā́ru ǀ nā́ma ǀ
    yuvám ǀ hí ǀ stháḥ ǀ rayi-dáu ǀ naḥ ǀ rayīṇā́m ǀ dātrám ǀ rakṣethe íti ǀ ákavaiḥ ǀ ádabdhā ǁ

    nāsatyā ǀ me ǀ pitarā ǀ bandhu-pṛcchā ǀ sa-jātyam ǀ aśvinoḥ ǀ cāru ǀ nāma ǀ
    yuvam ǀ hi ǀ sthaḥ ǀ rayi-dau ǀ naḥ ǀ rayīṇām ǀ dātram ǀ rakṣethe iti ǀ akavaiḥ ǀ adabdhā ǁ

    3.54.16 Aṣṭaka 3.3.27.1Anuvāka 3.5.16

  17. Ṛk 17

    म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इंद्रे॑ ।
    सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥

    महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे |
    सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ||

    maháttádvaḥ kavayaścā́ru nā́ma yáddha devā bhávatha víśva índre ǀ
    sákha ṛbhúbhiḥ puruhūta priyébhirimā́m dhíyam sātáye takṣatā naḥ ǁ

    mahat tad vaḥ kavayaś cāru nāma yad dha devā bhavatha viśva indre |
    sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ ||

    म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु॑ । नाम॑ । यत् । ह॒ । दे॒वाः॒ । भव॑थ । विश्वे॑ । इन्द्रे॑ ।
    सखा॑ । ऋ॒भुऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्रि॒येभिः॑ । इ॒माम् । धिय॑म् । सा॒तये॑ । त॒क्ष॒त॒ । नः॒ ॥

    महत् । तत् । वः । कवयः । चारु । नाम । यत् । ह । देवाः । भवथ । विश्वे । इन्द्रे ।
    सखा । ऋभुऽभिः । पुरुऽहूत । प्रियेभिः । इमाम् । धियम् । सातये । तक्षत । नः ॥

    mahát ǀ tát ǀ vaḥ ǀ kavayaḥ ǀ cā́ru ǀ nā́ma ǀ yát ǀ ha ǀ devāḥ ǀ bhávatha ǀ víśve ǀ índre ǀ
    sákhā ǀ ṛbhú-bhiḥ ǀ puru-hūta ǀ priyébhiḥ ǀ imā́m ǀ dhíyam ǀ sātáye ǀ takṣata ǀ naḥ ǁ

    mahat ǀ tat ǀ vaḥ ǀ kavayaḥ ǀ cāru ǀ nāma ǀ yat ǀ ha ǀ devāḥ ǀ bhavatha ǀ viśve ǀ indre ǀ
    sakhā ǀ ṛbhu-bhiḥ ǀ puru-hūta ǀ priyebhiḥ ǀ imām ǀ dhiyam ǀ sātaye ǀ takṣata ǀ naḥ ǁ

    3.54.17 Aṣṭaka 3.3.27.2Anuvāka 3.5.17

  18. Ṛk 18

    अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
    यु॒योत॑ नो अनप॒त्यानि॒ गंतोः॑ प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥

    अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि |
    युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमां अस्तु गातुः ||

    aryamā́ ṇo áditiryajñíyāsó’dabdhāni váruṇasya vratā́ni ǀ
    yuyóta no anapatyā́ni gántoḥ prajā́vānnaḥ paśumā́m̐ astu gātúḥ ǁ

    aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni |
    yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṃ astu gātuḥ ||

    अ॒र्य॒मा । नः॒ । अदि॑तिः । य॒ज्ञिया॑सः । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ ।
    यु॒योत॑ । नः॒ । अ॒न॒प॒त्यानि॑ । गन्तोः॑ । प्र॒जाऽवा॑न् । नः॒ । प॒शु॒ऽमान् । अ॒स्तु॒ । गा॒तुः ॥

    अर्यमा । नः । अदितिः । यज्ञियासः । अदब्धानि । वरुणस्य । व्रतानि ।
    युयोत । नः । अनपत्यानि । गन्तोः । प्रजाऽवान् । नः । पशुऽमान् । अस्तु । गातुः ॥

    aryamā́ ǀ naḥ ǀ áditiḥ ǀ yajñíyāsaḥ ǀ ádabdhāni ǀ váruṇasya ǀ vratā́ni ǀ
    yuyóta ǀ naḥ ǀ anapatyā́ni ǀ gántoḥ ǀ prajā́-vān ǀ naḥ ǀ paśu-mā́n ǀ astu ǀ gātúḥ ǁ

    aryamā ǀ naḥ ǀ aditiḥ ǀ yajñiyāsaḥ ǀ adabdhāni ǀ varuṇasya ǀ vratāni ǀ
    yuyota ǀ naḥ ǀ anapatyāni ǀ gantoḥ ǀ prajā-vān ǀ naḥ ǀ paśu-mān ǀ astu ǀ gātuḥ ǁ

    3.54.18 Aṣṭaka 3.3.27.3Anuvāka 3.5.18

  19. Ṛk 19

    दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता ।
    शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्वं१॒॑तरि॑क्षं ॥

    देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता |
    शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अन्तरिक्षम् ||

    devā́nām dūtáḥ purudhá prásūtó’nāgānno vocatu sarvátātā ǀ
    śṛṇótu naḥ pṛthivī́ dyáurutā́paḥ sū́ryo nákṣatrairurvántárikṣam ǁ

    devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā |
    śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam ||

    दे॒वाना॑म् । दू॒तः । पु॒रु॒ध । प्रऽसू॑तः । अना॑गान् । नः॒ । वो॒च॒तु॒ । स॒र्वऽता॑ता ।
    शृ॒णोतु॑ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । सूर्यः॑ । नक्ष॑त्रैः । उ॒रु । अ॒न्तरि॑क्षम् ॥

    देवानाम् । दूतः । पुरुध । प्रऽसूतः । अनागान् । नः । वोचतु । सर्वऽताता ।
    शृणोतु । नः । पृथिवी । द्यौः । उत । आपः । सूर्यः । नक्षत्रैः । उरु । अन्तरिक्षम् ॥

    devā́nām ǀ dūtáḥ ǀ purudhá ǀ prá-sūtaḥ ǀ ánāgān ǀ naḥ ǀ vocatu ǀ sarvá-tātā ǀ
    śṛṇótu ǀ naḥ ǀ pṛthivī́ ǀ dyáuḥ ǀ utá ǀ ā́paḥ ǀ sū́ryaḥ ǀ nákṣatraiḥ ǀ urú ǀ antárikṣam ǁ

    devānām ǀ dūtaḥ ǀ purudha ǀ pra-sūtaḥ ǀ anāgān ǀ naḥ ǀ vocatu ǀ sarva-tātā ǀ
    śṛṇotu ǀ naḥ ǀ pṛthivī ǀ dyauḥ ǀ uta ǀ āpaḥ ǀ sūryaḥ ǀ nakṣatraiḥ ǀ uru ǀ antarikṣam ǁ

    3.54.19 Aṣṭaka 3.3.27.4Anuvāka 3.5.19

  20. Ṛk 20

    शृ॒ण्वंतु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मदं॑तः ।
    आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छं॑तु नो म॒रुतः॒ शर्म॑ भ॒द्रं ॥

    शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इऌअया मदन्तः |
    आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ||

    śṛṇvántu no vṛ́ṣaṇaḥ párvatāso dhruvákṣemāsa íḷayā mádantaḥ ǀ
    ādityáirno áditiḥ śṛṇotu yácchantu no marútaḥ śárma bhadrám ǁ

    śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ |
    ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram ||

    शृ॒ण्वन्तु॑ । नः॒ । वृष॑णः । पर्व॑तासः । ध्रु॒वऽक्षे॑मासः । इळ॑या । मद॑न्तः ।
    आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शृ॒णो॒तु॒ । यच्छ॑न्तु । नः॒ । म॒रुतः॑ । शर्म॑ । भ॒द्रम् ॥

    शृण्वन्तु । नः । वृषणः । पर्वतासः । ध्रुवऽक्षेमासः । इळया । मदन्तः ।
    आदित्यैः । नः । अदितिः । शृणोतु । यच्छन्तु । नः । मरुतः । शर्म । भद्रम् ॥

    śṛṇvántu ǀ naḥ ǀ vṛ́ṣaṇaḥ ǀ párvatāsaḥ ǀ dhruvá-kṣemāsaḥ ǀ íḷayā ǀ mádantaḥ ǀ
    ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śṛṇotu ǀ yácchantu ǀ naḥ ǀ marútaḥ ǀ śárma ǀ bhadrám ǁ

    śṛṇvantu ǀ naḥ ǀ vṛṣaṇaḥ ǀ parvatāsaḥ ǀ dhruva-kṣemāsaḥ ǀ iḷayā ǀ madantaḥ ǀ
    ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śṛṇotu ǀ yacchantu ǀ naḥ ǀ marutaḥ ǀ śarma ǀ bhadram ǁ

    3.54.20 Aṣṭaka 3.3.27.5Anuvāka 3.5.20

  21. Ṛk 21

    सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पंथा॒ मध्वा॑ देवा॒ ओष॑धीः॒ सं पि॑पृक्त ।
    भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥

    सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त |
    भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ||

    sádā sugáḥ pitumā́m̐ astu pánthā mádhvā devā óṣadhīḥ sám pipṛkta ǀ
    bhágo me agne sakhyé ná mṛdhyā údrāyó aśyām sádanam purukṣóḥ ǁ

    sadā sugaḥ pitumāṃ astu panthā madhvā devā oṣadhīḥ sam pipṛkta |
    bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ ||

    सदा॑ । सु॒ऽगः । पि॒तु॒ऽमान् । अ॒स्तु॒ । पन्थाः॑ । मध्वा॑ । दे॒वाः॒ । ओष॑धीः । सम् । पि॒पृ॒क्त॒ ।
    भगः॑ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॒ । उत् । रा॒यः । अ॒श्या॒म् । सद॑नम् । पु॒रु॒ऽक्षोः ॥

    सदा । सुऽगः । पितुऽमान् । अस्तु । पन्थाः । मध्वा । देवाः । ओषधीः । सम् । पिपृक्त ।
    भगः । मे । अग्ने । सख्ये । न । मृध्याः । उत् । रायः । अश्याम् । सदनम् । पुरुऽक्षोः ॥

    sádā ǀ su-gáḥ ǀ pitu-mā́n ǀ astu ǀ pánthāḥ ǀ mádhvā ǀ devāḥ ǀ óṣadhīḥ ǀ sám ǀ pipṛkta ǀ
    bhágaḥ ǀ me ǀ agne ǀ sakhyé ǀ ná ǀ mṛdhyāḥ ǀ út ǀ rāyáḥ ǀ aśyām ǀ sádanam ǀ puru-kṣóḥ ǁ

    sadā ǀ su-gaḥ ǀ pitu-mān ǀ astu ǀ panthāḥ ǀ madhvā ǀ devāḥ ǀ oṣadhīḥ ǀ sam ǀ pipṛkta ǀ
    bhagaḥ ǀ me ǀ agne ǀ sakhye ǀ na ǀ mṛdhyāḥ ǀ ut ǀ rāyaḥ ǀ aśyām ǀ sadanam ǀ puru-kṣoḥ ǁ

    3.54.21 Aṣṭaka 3.3.27.6Anuvāka 3.5.21

  22. Ṛk 22

    स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
    विश्वाँ॑ अग्ने पृ॒त्सु तांजे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥

    स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि |
    विश्वां अग्ने पृत्सु ताञ् जेषि शत्रून् अहा विश्वा सुमना दीदिही नः ||

    svádasva havyā́ sámíṣo didīhyasmadryáksám mimīhi śrávāṃsi ǀ
    víśvām̐ agne pṛtsú tā́ñjeṣi śátrūnáhā víśvā sumánā dīdihī naḥ ǁ

    svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi |
    viśvāṃ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ ||

    स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
    विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥

    स्वदस्व । हव्या । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।
    विश्वान् । अग्ने । पृत्ऽसु । तान् । जेषि । शत्रून् । अहा । विश्वा । सुऽमनाः । दीदिहि । नः ॥

    svádasva ǀ havyā́ ǀ sám ǀ íṣaḥ ǀ didīhi ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǀ
    víśvān ǀ agne ǀ pṛt-sú ǀ tā́n ǀ jeṣi ǀ śátrūn ǀ áhā ǀ víśvā ǀ su-mánāḥ ǀ dīdihi ǀ naḥ ǁ

    svadasva ǀ havyā ǀ sam ǀ iṣaḥ ǀ didīhi ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǀ
    viśvān ǀ agne ǀ pṛt-su ǀ tān ǀ jeṣi ǀ śatrūn ǀ ahā ǀ viśvā ǀ su-manāḥ ǀ dīdihi ǀ naḥ ǁ

    3.54.22 Aṣṭaka 3.3.27.7Anuvāka 3.5.22

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.54 · Viśvedevās

Interpretations

Sri Aurobindo

Ṛk 1

There is this conquering force in us and men when they have [it], make it perpetual, they bring it forward for the godhead which is vast, desirable, born of the Knowledge; may the Flame inviolable respond to us with his powers that are of his supreme home, may he respond with his powers that are of his heavens.

Ṛk 2

Let the hymn light up for our vast heaven of Mind and our wide earth that vastness of Matter; for in them my desire of it ranges with wish of it in the heart and perception of it in the mind; and by their firm affirmation and in the comings of the knowledge to men the gods serve the Will and are drunken together with its rapture.

Ṛk 3

In you may there be the Law and the Truth;may you become to us a means for the great and happy attaining. O Will, this obeisance to Earth and Heaven; I serve them with the love and pleasure in me for their food and I march to the ecstasy.

Ṛk 4

Yea, O ye our firmaments that keep the law of the Truth, the ancients found in you that knowledge of it, for their words gave expression to the Truth; and in your meeting and union that is the Hero’s conquest of the Light, men, O Earth, discovered the knowledge and adored you.

Ṛk 5

Who knoweth it aright, who here shall declare what path leads utterly to the gods, so that here are seen their lower sessions and there those that are founded in their supreme and secret laws?

Ṛk 6

Because the Seer who is the eye of the Soul, set vision everywhere upon them, in the source of the Truth they had clarity, they had ecstasy, therefore they fashioned variously the seat of this Session by a common will in their action and a common thought in their knowledge.

Ṛk 7

With mutual heart they stood awake, in the wide-flung firm eat of things that lost its ends in the distance; Heaven and Earth have become as young maidens, they have become two sisters and they declare twin names of all things.

Ṛk 8

They distinguish all, all the Births, they bear the vastnesses of the gods and faint not with that burden; for one that is all moves in them, is the stable and the mobile, and that which walks and that which is winged; one is born everywhere but his form is divergent.

Ṛk 9

Ever I move in thought to that ancient Truth of the mighty Father who begot us, for that is twin with our being and there the gods who labour penetrate by their movements to the wide path within the far-flung infinity.

Ṛk 10

O ye our firmaments, I declare this hymn of your affirmation; let them hear it who contain truth in their inward parts and with the tongue of the divine Will taste their enjoyments, the Lord of Love and the Kings of the world and the Lord of Purity, the ever young children of the Infinite, Seers, who widen their being before us.

Ṛk 11

The Creator with his hands of golden Light and his tongue of enjoyment moves in Heaven’s triple Knowledge and in the gods mayst thou attain to the creative rhythm and loose forth in us, O Projector of things, the all-formation.

Ṛk 12

May the Framer of things, with his perfect hands that work perfectly, for he has perfect light and possesses the Truth, confirm these things in us for our increasing. O Artisans of Knowledge, ye who have the fostering Sun with you, lift high the pressing stones and grow full of ecstasy, for ye have shaped the march of the sacrifice.